००३ वास्तुविन्यासपटलस्तृतीयः

अथ वास्तुविन्यासपटलस्तृतीयः

अतः परं प्रवक्ष्यामि वास्तुविन्यासमुत्तमम्
वास्तुविन्न्यासमूलं हि प्रजानामास्पदास्पदम् ॥ १ ॥

कीर्तिदं जयति द्रव्यमिह पुत्रफलप्रदम्
वास्तूक्तदेवतानान्तु यजनार्त्थं विशेषतः ॥ २ ॥

अग्रहारस्तथा ग्रामो नगरं राजधानिकम्
पत्तनं कुट्टिमञ्चैवा विकं सेनामुखं त्विति ॥ ३ ॥

नृपवासप्रधानानां महर्षीबालभूभुजाम्
आरामोपवनानाञ्च नारीणां वणिजामपि ॥ ४ ॥

नृत्तगेयनियुक्तानां सद्भटानां निवासभूः

चण्डालानामथान्येषां राजधानीति कीर्तिता ॥ ५ ॥

द्वीपान्तरगतद्रव्यक्रयविक्रयहेतुकम्
अभूमिरेवं वणिजा मापादपत्तनं स्मृतः ॥ ६ ॥

केवलं भद्रजातीनां तेषां कृत्याधिकारिणाम्
निवेशः कुटिकः प्रोक्तो राजवेश्मसमायुतम् ॥ ७ ॥

राजसेनासमायुक्तं वित्तद्वितिय सञ्ज्ञकम्
सर्वजिद्भिस्समायुक्तं मन्त्रिभिस्सचिवैर्युतम् ॥ ८ ॥

सेनामुखमिति ज्ञातं प्रोच्यन्तेऽष्टविधास्तुते
ज्येष्ठमद्ध्यकनिष्ठो यमग्रहारस्त्रिधा स्मृतः॥ ९ ॥

तदैकैकन्तु नवधा विंशत् सप्ताधिका स्मृता
वेदवेदाङ्गतत्वज्ञान् श्रोतियान् सात्विकान्वितान् ॥ १० ॥

पत्नीसन्तानसहितान् वेदाद्ध्ययनतत्परान्
देवाग्निगुरुभक्तांश्च दारिद्र्ये दोषवर्जितान् ॥ ११ ॥

उक्तषट्कर्मनिरता ननुष्ठानपरायणान्।
विप्रानाहूयसम्पूज्य निश्चित्य वसुधाक्रियाः ॥ १२ ॥

दद्यात्पूर्वन्तु सम्भारान् ग्रहोपकरणानि च
स्त्रीणामाभरणं धान्यं वस्त्रङ्गाञ्च पयस्विनीम् ॥ १३ ॥

दासीदासांश्च विप्रेभ्यो दद्यात् ज्ञानान्वितो नृपः
नास्तिकान् पिशुनान् क्रूरान् वेदाग्निगुरुनिन्दकान् ॥ १४ ॥

ब्रह्मघ्नांश्च खलानज्ञान् तद्ववेत्तुःस्वहारकान्
स्वधर्माचाररहितान् दानकर्मविवर्जितान् ॥ १५ ॥

लोभान्वितानप्यशुचीन् प्राङ् नृपद्रोहसंयुतान्
वर्जयेदनिशं विप्रान् नृपस्तान् दानकर्मणि ॥ १६ ॥

चतुर्दशसहस्राणां विप्राणामग्रहारकम्
उत्तमे नवमे ज्येष्ठं सहस्रार्द्धक्षयं ततः ॥ १७ ॥

अर्द्धाधिकसहस्रान्तं मद्ध्यमं नवकं स्मृतम्

सहस्रभूसुराणान्तु निवासस्त्वग्रहारकः ॥ १८ ॥

कन्यसेनवके ज्येष्ठं सहस्रं तद्विजान्तकम्
शतसङ्ख्याक्षयेणैव कन्न्यसं नवकं स्मृतम् ॥ १९ ॥

दशोन द्विदशाप्राग्वत् शतं द्विशतमुत्तमम्
दशहीनक्रमेणैव क्षुद्रेषु विष्ट उच्यते ॥ २० ॥

शतमारभ्य विष्टान्तं पञ्चपञ्चक्षयेण तु
षष्ठकं मद्ध्यमं प्रोक्तं नवकन्तु समासतः ॥ २१ ॥

पञ्चपञ्चदशारभ्य यावत्पञ्चदशं पुनः
दशार्द्धेन क्रमेणैव क्षुद्रेषु च कनीयसम् ॥ २२ ॥

प्रागुक्तगुणसम्पन्नान् ज्ञानाकृष्टान् तपोधिकान्
दशारभ्य द्विपर्यन्तमेषामेकैकहीनकम् ॥ २३ ॥

वेदार्त्थं भूमिदां यद्वा तद्वदारम्भमुच्यते
प्रागुक्तगुणयुक्ताय वेदार्त्थनिपुणाय च ॥ २४ ॥

कुर्यात्तत् ज्ञाननिधये दानं स्यादुत्तमोत्तमम्
एकभोगमिति ख्यातं प्रशस्तमतिदुर्लभम् ॥ २५ ॥

अथापि विधमारभ्य तत्राढ्यावर्द्धयेत्क्रमात्
अयुतैकसहस्रन्तु षट् शतञ्च ततः परम् ॥ २६ ॥

चतुष्षष्टि ततोयावदग्रहारस्समासतः
अष्टोत्तरशतं प्रोक्तं श्राद्धपूर्वविधानतः ॥ २७ ॥

कुर्यादेकमतं तेषु न्यूने न्यूनफलं स्मृतम्
अधिके तत्फलाधिक्यं तस्माद्धीनं नकारयेत् ॥ २८ ॥

कालं भूमिं परीक्ष्यादौ कर्षणात्तदनन्तरम्
द्वितीयं यत्र विन्यासं तदन्ते वास्तुपूजनम् ॥ २९ ॥

पञ्चमं ग्रहनिर्माणं देवानां स्थापनं ततः
सप्तमं गतविन्यासमष्टमञ्च तथैव च ॥ ३० ॥

प्रायशः परिघारामे जलमार्गे विधानकम्

नवमं भूमिभागन्तु दशमन्तु प्रकीर्तितम् ॥ ३१ ॥

क्रमेण तानि सर्वाणि अष्टा वा वर्ज्यतत्वतः
अयनञ्चोत्तरं श्रेष्ठं देवचत्वावरान्विते ॥ ३२ ॥

मार्गशीर्षकमाघौ द्वौ वर्जयेत्तु प्रयत्नतः
शेषेष्वपि च कर्तव्यं त्वरिते तु प्रजायते ॥ ३३ ॥

कर्षणोक्तविधानेन क्षेत्राधिक्य फलं क्षयेत्
श्वेताभापितृभूमिस्स्यात् भवस्यारुणसन्निभा ॥ ३४ ॥

पीताभा वैश्यजातेस्तु कृष्णाशूद्रस्य कीर्तिता
मधूद्रक्तामृत्तिका तु वर्णानामपि च क्रमात् ॥ ३५ ॥

प्रदक्षणैकपत्ती च शस्ताकन्दाहवर्जिताः
ऊषरीतुमभिज्युष्टा वल्मीकाद्याश्च वर्जिताः ॥ ३६ ॥

हस्तप्रमाणतश्चैवं खात्वा सम्पूरयेन्मृदा
अधिका तु विफलदा समासमफलप्रदा ॥ ३७ ॥

न्यूनं मेदिनिविज्ञेया ह्येवं भूमिपरीक्षणम्
ततस्तु कर्षणार्द्धन्तु तत्तज्जात्यार्हको वृषौ ॥ ३८ ॥

शुभौ नासालवृत्तौ च तरुणौ प्रियदर्शनौ
नागहीनौ बलोपेतौ भरिस्वर्णान्वितौ वृषौ ॥ ३९ ॥

गुणवन्तौ सहस्रेभ्य हेमशृङ्गखुरान्वितौ
वस्त्रैर्नानाविधैश्शृङ्गमलङ्कृत्य विधानतः ॥ ४० ॥

आर्द्रादूर्वातृणं दत्वा क्षीरवृक्षमथ दृढम्
युगं कृत्वा तथा चैव सफलं फलमेव वा ॥ ४१ ॥

भञ्जेत फल्लवो भूतपाशेनैवाथ पत्रयेत्
पुण्याहं तत्र कुर्वीत दद्यात्पुण्याहदक्षिणाम् ॥ ४२ ॥

वस्त्रहेमाङ्गुलीयाद्यैस्तदा सन्तोषयेत् गुरुम्
प्राङ्मुखः प्रथमं कृत्वा ततस्तत्र उदङ्मुखः ॥ ४३ ॥

वास्तुविन्यासभूमेस्तु कथयेदखिलं तथा

सूक्ष्मपूर्णघृतायान्तु मुद्गमाषतिलास्तथा ॥ ४४ ॥

सिद्धार्त्थयवधान्यानि वापयेत् क्रमशो मृदि
देशिकस्य वृषौ दद्यात् हलञ्चापि युगन्तथा ॥ ४५ ॥

वरभूम्यादिसस्यानि ब्राह्मणानान्तु दापयेत्
बधानव्या शुभेनैव सौहारैरघमर्षणैः ॥ ४६ ॥

उर्वीचार्द्रकृतायावत् तावत् गास्सन्निवासयेत्
गोभिर्निवासिताभूमिस्सर्वदोषाणि नाशयेत् ॥ ४७ ॥

कर्षणं त्वेवमाख्यातं भूमानमधुना श्रुणु
परमाण्वादिरज्वन्तं मानसं धनमुच्यते ॥ ४८ ॥

रेणुर्वालाग्रविख्याति
लयवकरवजारेणुभिश्चाष्टवृद्ध्याभ्याङ्गुल्यन्तदस्मिदिनकारकर
वेदाष्टवृत्तिक्रमेण
तालोभस्तश्च दण्डभवति सहिरणमेवमल्पं ग्रामो द्यादिनि
मेयान्यतधनुशमृतः प्रोच्यते भूमिभागः ॥ ४९ ॥

दण्डं पञ्चशतेनैव कोशं तत् द्विगुणं भवेत्
गोरुतार्थमिति ख्यातं तद्वयं गोरुतं मतम् ॥ ५० ॥

योजिनौ कृष्णं स्यादेव विनक्रमं भवेत्
चतुरश्रन्तनुवृत्तं त्रिकोणं चतुराकृतिः ॥ ५१ ॥

औजो युग्मपदे वर्त्म विवरं योगमेव तु ॥ ५२ ॥

द्विगुणेतां सवर्गार्वेति षट्प्रमाणतः ।
शेषं नक्षत्रमाख्यातमष्टभिर्गुणिते ततः ॥ ५३ ॥

त्रिंशत् भाजिमशेषस्तु स्थितिरित्यभिधीयते
नक्षत्रशेषमाख्यातं स्थिताय करणे पुनः ॥ ५४ ॥

रन्ध्रे हन्ते शान्नमेव निर्गुणितन्तु यत्
मुनिभिर्भाजिते शेषो वर्रीत्युपरिदृश्यते ॥ ५५ ॥

आयाधिक्यं व्ययाकीर्णमत्रेदं सर्वभूमिदम्

अशुभं विपरीतञ्चेत् ध्वजो धूमश्च केसरी ॥ ५६ ॥

श्वावृषो गर्दभश्चैव गजः काकोष्टयोनिषु
गजसिह्मौ च नागश्च शुभाश्शेषा विपत्कराः ॥ ५७ ॥

कर्तृनामाक्षरामाला द्विचतुर्त्थं द्विषड्वथ
स्युः सुनामानि शुभदाश्शेषास्त्वशुभदा स्मृताः ॥ ५८ ॥

सवायुबर्हलीशस्तमप्रशस्तमथेरितम्
द्वितीया च तृतीया च पञ्चमीशततःपरम् ॥ ५९ ॥

षष्ठी चैव विशेषेण सप्तमी तु तथैव च
दशम्येकादशी चैव शुक्लपक्षे त्रयोदशी ॥ ६० ॥

अपरे प्रतिपच्चैव वास्तुकर्मणि संस्मृताः
कृष्णे प्रागुक्ततिथयस्तथा मद्ध्यफलप्रदाः ॥ ६१ ॥

तस्करो भुक्तिशक्तिश्च धन्यो पूपो नपूंसकः
निर्भयोथ दरिद्रस्तु प्रेष्योंशनवमस्मृताः ॥ ६२ ॥

शुभनाम्नि शुभं तेषु दुर्नामाप्यशुभं भवेत् ।
त्याज्यास्सौरारसूर्याश्च शेषाश्शुभफलप्रदाः ॥ ६३ ॥

मुखं सर्वानुकूलञ्चेद्दत्ताधिक्यन्तु मद्ध्यमम्
समयञ्चेदथ स्यात्तु दोषाख्यन्तु विवर्जयेत् ॥ ६४ ॥

दण्डं दण्डेन वर्द्धन्ते हस्तं हस्तेन रोपयेत्
अङ्गुलञ्चाङ्गुलेनैव सूत्रपातस्त्वनन्तरम् ॥ ६५ ॥

दिक्भ्रान्तिनाशनार्त्थाय शङ्कुच्छायावशेन तु
प्राचीमुदीचीं विज्ञाय सूत्रपादं समारभेत् ॥ ६६ ॥

पलाशं ब्राह्मणस्योक्तमश्वत्थः स्यान्नृपस्य तु
खादिरं वैश्यजातेस्तु कृष्णस्य तु मधूकजः ॥ ६७ ॥

षडङ्गुलपरीणाहं तच्च द्विगुणमायतम्
सुवृत्तमरुणं शङ्कु कलितस्तम्भमेव वा ॥ ६८ ॥

मूलादष्टांशहीनाग्रं शिरस्यापस्कलकम्

शङ्क्वग्रदारसदृशं वेशं तद्वेदभागतः ॥ ६९ ॥

कर्णौ भुजौ च कोटी च समकण्ठफलाकृति
कण्ठवर्गाभवेत् कोटिभुजवर्गसमासतः ॥ ७० ॥

शस्तस्य दशमूलं स्याद्देवमूलक्रमो भवेत्
संवर्गे तु भुजाकोटि तदर्द्धन्तु भुजाफलम् ॥ ७१ ॥

त्रिवर्गं घनमाख्यातं द्वादशं च षडश्रकः
परिधिर्वित्तविष्कम्भस्त्रिगुणञ्च स्वरांशयुक् ॥ ७२ ॥

नाहं विष्कम्भपादघ्नं फलमूलं हतं घनम्
धनुषो बाणसंवर्गन्न्यावर्गान्तमुदीरितम् ॥ ७३ ॥

मणपेन तु सादृश्यं षड्भागन्तु षडश्रभाक्
भुजापिण्डदभूतञ्च चतुर्त्थावप्यतन्त्रतु ॥ ७४ ॥

बाह्यस्योक्त्वा क्रमेणैव फलवर्गसवर्गजः
पातरेखामनेनैव क्रमेण च समानयेत् ॥ ७५ ॥

इच्छयाफलमाहत्य प्रथमाप्तफलन्तु यत् ।
तत्फलं सर्वमानीय प्रत्युपन्नेनमेव च ॥ ७६ ॥

श्रेयसङ्किलनादीनि चानेयानि दशानधा
एवं सङ्क्षेपतः प्रोक्तं भूमानं दण्डमुच्यते ॥ ७७ ॥

निधिर्दण्डविवृत्यर्थमूहात्संवर्द्धयेत् बुधः
एकोनत्रिसहस्रान्तं तदूर्ध्वं नेष्यतेत्र तु ॥ ७८ ॥

सङ्ख्यायैकोनपञ्चाशत् द्विशतं हीनमुच्यते
तदूर्ध्वं मद्ध्यमं प्रोक्तं तत्समञ्चोत्तमं भवेत् ॥ ७९ ॥

मानं सप्तदशं ज्ञेयं चत्वारिंशत् स्वरोत्तरम्
एवं विस्तारमाख्यातं ग्रामादीनां विशेषतः ॥ ८० ॥

कुर्यादेकमतं तेषु आनुकूल्यं सहैव तु
भूमानमिति विज्ञेय मायादीन् लक्षयेत्क्रमात् ॥ ८१ ॥

धनोर्णौ योनिनक्षत्रौ वस्वायुश्चांशुकन्तथा

वारोष्टैतानि संशोद्ध्य गृहवास्तुसमारभेत् ॥ ८२ ॥

विस्तरेणाभ्यदेदैर्घ्यन्ताद्रजियुधवा पुनः
विस्तारायामसंयुक्त राशी वाथ निरीक्षयेत् ॥ ८३ ॥

वसुभिर्गुणिते भानुभूतेशेषो यवः स्मृतः
सगुण्यवह्निभिस्सूत्रैर्भक्तशेषो व्ययस्तथा ॥ ८४ ॥

रामघ्नेष्टभृते योनिरष्टभिर्विधिते पुनः
सप्तविंशतिभक्तैव स्वायुस्तच्च फलं स्मृतम् ॥ ८५ ॥

कृत्वैवं वास्तुभूमेस्तु मद्ध्येे निलदिगाश्रितम्
मण्डलन्दण्डमानेन षडङ्गुलसमन्वितम् ॥ ८६ ॥

जलेन समतां नीत्वा दर्पणोदरवत्समम्
कृत्वा तु तस्य मद्ध्यन्तु द्विमयेच्छङ्कुमानतः ॥ ८७ ॥

शङ्कुद्विगुणमानेन वृत्तस्सम्भ्रामयेत् बहिः
तद्बहिर्ग्रामशङ्कुश्च त्रिगुणेनैव मद्ध्यतः ॥ ८८ ॥

शङ्कुस्थापनकात्पूर्वरात्र्यामेवाधिवासयेत्
प्रोक्षयेत्पञ्चगव्यैस्तु शुभैश्च शुद्धमृज्जलैः ॥ ८९ ॥

नवाम्बरैरसैर्वेददर्भैस्सृग्भर्मनोरमैः
शालिभिस्थण्डिलं कृत्वा मण्डले तिलतण्डुलैः ॥ ९० ॥

वस्त्रेणास्तीर्य दर्भैस्तु सम्प्रोक्ष्य प्रणवेन तु
स्थण्डिले शाययेच्छङ्कुं प्राक्छिरस्कं सदर्भकम् ॥ ९१ ॥

अपरे दिवसे भानोरुभयेत्तु शुभे तथा
पुण्याहं वाच्य तत्रैव शङ्खकूजननिस्वनैः ॥ ९२ ॥

शयनाच्छङ्कुमादाय शङ्कुमण्डलमद्ध्यमे
स्थापयेत्प्राङ्मुखोधीमानाचार्यश्शिल्पिभिस्सह ॥ ९३ ॥

गुरुं सम्पूजयेत्पश्चात् शिल्पिनं पूजयेत्तदा
वस्त्रहेमाङ्गुलीयाद्यैर्गन्धपुष्पादिभिस्तथा ॥ ९४ ॥

पूर्वाह्णायोश्वायाप्रवेशे निर्गमेऽपि वा

सूत्रत्रयेण तत्प्राची निश्चित्यदृढमानसः ॥ ९५ ॥

इष्टमासे तु तद्व्यक्तत्रयोलाञ्चनबीजकान्
सङ्ख्यादिकामनायैव न्यूने रोप्यधिके ह्रसेत् ॥ ९६ ॥

शद्धप्राचीति विज्ञेय सर्वशास्त्रानुसाश्रितम् ॥ ८६ ॥

मध्याह्ने यनसवेश्चाभाचैवं विधेत्सुधीः
प्राचीसूत्रप्रमाणेन कृत्वामस्य द्वयं ततः ॥ ८७ ॥

शफलं तस्थसूत्रेण याम्ये सौम्यविनिर्दिशेत्
द्रोणषूत्पलकुर्यान्तु विन्यसेश्चावरं क्रमात् ॥ ८८ ॥

तद्वत्सूत्रत्रयं कृत्वा प्राचीसूत्रस्य पार्श्वयोः
तथोदीचीनसूत्रस्य सूत्रं याम्योत्तरद्वयम् ॥ ८९ ॥

लेखयेत्तु चतुष्कोष्ठं चतुरश्रं भवेदिह
सूत्राणि विसृजेत्तस्मात् तदभीष्टप्रमाणतः ॥ ९० ॥

विप्राणं समकूर्याश्रं प्रशस्तमथवा पुनः
चतुरश्रार्धभागं वा चतुर्भागमथार्धकम् ॥ ८१ ॥

त्रिपादं वा त्रिभागं वा त्रियंशे द्व्यंशकं भवेत्
आरोप्य समतुर्यश्रे यथा पूर्वापराधिकम् ॥ ९२ ॥

कल्पयेदाद्यसौम्यं तु दीर्घं तुर्याश्रमावहेत्
अशुभं युग्मदण्डं च दशयुग्मशुभं भवेत् ॥ ९३ ॥

दण्डच्छेदनकार्यं स्यात् गृहत् ग्रामे तु यत्नतः
ग्रामं तु पञ्चधा कृत्वा भागमेकं बहिन्यसेत् ॥ ९४ ॥

तत्पैशाचमिति ज्ञेयं तत्र देवालयं भवेत्
ककितस्मिन् विशेषोऽस्ति तं विशेष शुणु द्विजाः ॥ ९५ ॥

वास्तुपैशाचिके स्थित्वा ईशो विष्णुश्च मात्रभिः
अन्येषां वास्तुदेवानां पदे पैशाचिके तथा ॥ ९६ ॥

चतुष्षष्ट्येकशीति वास्तुभूम्यखिलं ततः ।
चतुष्षष्टिविभागे तु प्राचीनानि निवैव हि ॥ ९७ ॥

सूत्राणि कल्पयेत्तद्वदुदीचीनानि वास्तुवित्
ब्राह्म्यं विद्याच्चतुष्षष्टिपदेष्वन्तश्चतुष्पदम् ॥ ९८ ॥

तद्बहिर्द्वादशपदं परितो देविकं विदुः
दैविकादि हितो विंशत् पदं मानुषमुच्यते ॥ ९९ ॥

पैशाचान्तं बहिः प्रोक्तमष्टविंशत्पदं तथा
एकाशीते तु षष्ट्यानि स्थानानि निच वर्जयेत् १००
युग्मकोष्ठे सूक्ष्मसूत्रयुग्मकेषु पदस्थिताम्
देवानभ्यर्चयेत्तत्र पूर्वाद्यै स्वस्वनामभिः १०१
ब्रह्माणं संयजेत्तेषां मध्ये कोष्ठे चतुष्कके
मरीचिश्च विवस्वांश्च मित्रे क्षोधर एव च १०२
ब्रह्माणस्तु चतुर्दिक्षु द्विपदार्थद्वयानुगाः
महेन्द्रादित्यसत्याश्च भ्रशेग्रहक्षतोय सः १०३
गन्धर्वभृङ्गराजस्तु पुष्पदन्तो जलेश्वरः
असुरश्शोषभल्लाटौ सोमौ ऋगोदितस्तथा १०४
षोडशैते द्विकोष्ठेस्था प्रागम्य वरुणेन्दुषु
आपस्तथापवत्सश्च साविन्द्रश्च सविन्द्रकः १०५
इन्द्रश्चेन्द्रजयस्सर्व रुद्रो रुद्रजयस्तथा ।
द्वितीयावरणे वाह्ये चार्धार्धपदभोगिनः १०६
जयन्तस्वन्तरिक्षश्च पीतस्थस्तु भ्रगस्त्वभिः
सुग्रीवः पापयक्ष्मा च मुख्यकं च दितिस्तथा १०७
पार्श्वयोस्त महादिक्षु तदैकैकपदानुगाः
ईशानस्त्वथ पर्जन्यो बहिः पूषा तथैव च १०८
नीलो द्वारितकश्चैव रोगनागोष्टवे तथा
बाह्यावृतेशकोष्ठादि विदिक्षुर्धार्धकोष्ठगाः १०९
बाह्ये शूलचतुष्केषु चरक्याद्यास्तु संस्थिताः
वास्तुदेवां चतुष्षष्ठपदेष्वेवं प्रकल्पयेत् ११०

अपामार्गत्सकोष्ठेषु तस्य वामा भुजा स्मृताः
सविता सवित्रिपदे भुजेन दक्षिणस्तथा १११
मरीच्यान्तस्य वक्त्रं तु पदे भानोगिरिस्तथा
वामपार्श्वे धरित्रीन्द्रे सव्यपार्श्वो विवस्वति ११२
इन्द्रे चन्द्रे जये तस्य दक्षिणं पादमुच्यते
रुद्रे रुद्रजये तस्य वामपादः प्रकीर्तिताः ११३
मित्रे गुह्यप्रदेशस्तु हृन्नाभिश्चाम्बुजासने
एवं चाथोमुखं वास्तु पुरुषं प्रबलं विदुः ११४
एकाशीति पदान्यत्र लभन्तेषास्तु मध्यमे
देवता यजताद्वास्तु नर आप्तो भवेत्ततः ११५
दश प्राङ्मुखसूत्राणि दशैवोदङ्मुखानि तु
एकाशीति पदान्यत्र लभन्तेषांस्तु मध्यमे ११६
ब्राह्मे नवपदं विद्यात् तद्बाह्येकावृते तथा
षोडशानि पदानीह विद्यते देशिकं त्विति ११७
बाह्येश्चकावृते चैव चतुर्विंशतिमानुषम्
बहिरावरणे चैव द्वात्रिंशेत् पदकं तथा ११८
पैशाचं त्विति विख्यातं तदेवाश्चान्तरे स्थिताः
नवपञ्च तथा बाह्ये चतुरश्रं शूलगं तथा ११९
चत्वारिंशन्नवैतानि संयजेदात्मभूतये
वस्वन्धरां धरां देवीसर्वभूताश्रयां वराम् १२०
वराहात्महरेर्वक्त्रदंष्ट्रोद्धृतममेदिनीम्
सरित्समुद्रवसनां ध्यात्वा तन्नाम मन्त्रतः १२१
समर्च्य गन्धपुष्पैश्च वास्तुभूमेस्तु मध्यमे
शालिभिस्थण्डिलं कृत्वा तण्डुलैश्च तिलैस्सह १२२
तस्मिन्नेकोनपञ्चाशत्पदान्यलिखितेषु वै
शालितण्डुलसंसिद्धां चत्वारिंशन्नवाधिकान् १२३

चरुं विन्यस्य तेष्वेव घृतेनैवाभिघार्य च
सम्प्रोक्ष्य प्रणवेनैव वस्त्रैशाच्छाद्य सत्कुशैः १२४
द्वादशं बहिसम्पूर्णं विप्रजातिसमुद्भवम्
सर्वलक्षणसम्पूर्णं स्नातामाभरणो द्यताम् १२५
शुक्लाम्बरधरां शुक्लां गन्धपुष्पैरलङ्कृताम्
शुक्लाम्बरोत्तरीयां तां सम्भोज्यात्र यथेच्छितम् १२६
ततस्यैव तु दत्तां तां ताम्बूलं च चरू —
वास्तुदेवपदेष्वेव पीठे हस्तप्रमाणतः १२७
त्रिमेखलसमायुक्तो गोमये लेपिते पदे
देशिकस्तु बलिं दद्याददीयां तु समाहितः १२८
तदन्ते बलिदातारं पूजयेत्तु विशेषतः
वस्त्रहेमाङ्गुलीयाद्यैर्धान्यगोभूमिकाञ्चनैः १२९
उच्चार्य प्रणवत्तादौ मध्यमे तत्स्वनाम च
समुच्चारं नमोन्ते तु दत्वा पुष्पोदकेषु च १३०
तन्मन्त्रेणबलिं दद्यात् दध्याज्यगुलसंयुतम् ।
ब्रह्मणे ब्रह्मकोष्ठेषु बलिं दत्वा विशेषतः १३१
मरीचिश्च विवस्वांश्च मित्रश्च पृथिवी धरः ।
अब्जोद्भवश्चतुर्दिक्षु दिक्षु प्रागादि दिक्स्थिताः १३२
षट् षट् पदेषु तासुष्ट्वा पायसं कृसरं तथा
हरिद्रान्नं गुलान्नं च तेभ्यो दद्यात् क्रमेण तु १३३
आपश्चैवापवत्सश्च पत्मजेशानमध्यतः
सविता चैव सावित्रौ ब्रह्माग्निमध्यमे स्थितौ १३४
इन्द्रइन्द्रजयादिश्चैवीरं चनिलमध्यमे
तावद्विद्विपदे यष्ट्वा कर्णमार्गप्रदानुगात् १३५
प्रियङ्गन्नवमुद्गान्नं माषान्नं वैणवान्नकम्
गोधूमान्नं यवान्नं च कुलस्थान्नतृणान्तकम् १३६

आपादिनामथाष्टान्नं बलिं दद्यात् क्रमेण तु
ईशानस्त्वथ पर्जन्यो जयन्तश्च महेन्द्रकः १३७
भास्करस्सत्यकभ्राज अन्तरिक्षं च पूर्वगाः ।
तान्यष्टगन्धपुष्पाद्यैः स्वस्वमन्त्रैर्यथाकृतम् १३८
पत्मकन्दसमायुक्तं लाजापूपसमायुतम्
क्रमेणैव चरुं दद्यादेकैकस्य पृथक्पृथक् १३९
वह्निपुष्पा च वितथो गृहक्षतयमौ तथा
गन्धर्वो भृङ्गराजश्च मृगौ दक्षिणतस्थिताः १४०
पूजयित्वा तु तान् गन्धपुष्पाभितसमक्रमात्
कदलीफलसंयुक्तसिदसिद्धार्थसंयुतम् १४१
शाल्यान्यं तु यथान्यान्ते ष्वन्तर्दद्यात् बलिं पृथक्
नीलौ दौवारिकं चैव सुग्रीवं दन्तपुष्पकः १४२
पाशभृच्चासुरश्चैव पापयक्ष्मा तथैव च
पश्चिमे संस्थिता देवा ताद्यष्ट्वा विधिपूर्वकम् १४३
सतिलं पृथुकोपेतं पनसस्य फलान्वितम्
शुद्धान्नं च बलिं तेषां क्रमेणैव तु दापयेत् १४४
पावनौ नागमुख्यौश्च भल्लाटेन्दुर्भगस्तथा
अदीतिश्चातिश्चैव सौदिक्सव्यं व्यवस्थिताः १४५
तान्यष्ट्वा गन्धपुष्पद्यैर्नालिकेरफलान्वितम्
तथा चोत्पलकन्दश्च चारुमात्रफलान्वितम् १४६
बलिक्रमेण चरुणा दद्यान्नाम्नामयाबुधः
सर्वेषामथ शुद्धान्नं बलिं वा दापयेत्पृथक् १४७
वास्तुपूजाविहीनं चेत् स्वच्छं ग्रामो विनश्यति
बलिदानं ततः कृत्वा गृहनिर्माणमारभेत् १४८
अथवा गृहनिर्माणं कृत्वा दद्यां बलिं ततः
कृत्वा तु गृहनिर्माणं कृत्वा ग्रामप्रवेशनम् १४९

तदन्ते तु बलिं दद्यादुत्तमो मध्यमोऽधमः
दण्डकं प्रथमं प्रोक्तं द्वितीयं भद्रमुच्यते १५०
श्रीवत्सं तु तृतीयं स्यात् नाभियुक्तं चतुर्थकम्
पञ्चमं पार्श्वयुक्तं तु षष्ठं चैव प्रकीर्णकम् १५१
सप्तमं स्वस्तिकं प्रोक्तमष्टमं पार्श्वसंयुतम्
दण्डकारक्रमेणैव तेषां लक्षणमुच्यते १५२
यथेष्टामतकथ्यैकद्वारद्वयसमन्वितम्
स दण्डकमिति प्रोक्तं गृहारम्भादि नामतः १५३
पूर्वाग्रमुत्तराग्रं च कृत्वा वीथिद्वयं पुनः
शस्तरभ्या तु परितो भद्रमेतत्प्रकीर्तितम् १५४
सर्वेषां परितः कुर्यात् महामङ्गलवीथिका
पञ्चवीथिसमारभ्य नवत्रिंशतिका विधिः १५५
उदङ्मुखास्त्वायुग्माश्च वीथयस्समुदाहृतः
प्राङ्मुखो वीथयस्तिस्रस्त्वविच्छिन्नोस्तथैव च १५६
अष्टादशविधं ह्येवं श्रीवत्समिह भाषितम्
श्रीवत्सं पूर्ववत्कृत्वा देविकांशसमाप्युतम् १५७
नाभिवीथिं नतः कुर्याच्चतुरश्रं समन्ततः
श्रीवत्सं नाभियुक्तं तु द्वितीयं समुदाहृतम् १५८
श्रीवत्सं पार्श्वयुक्तं चेदात्मसौम्ये त्रियांशके
मध्यवीभ्यास्तु पार्श्वाभ्यां वीथिद्वे मध्यवीथिवत् १५९
पूर्वापरे समाख्याते शेषं श्रीवत्स उच्चरेत्
विस्तारस्यां महावीथ्यां सप्तषट्पञ्च दण्डके १६०
क्षुद्रवीथ्यास्तु विस्तारं चतुस्त्रिद्वेकदण्डकैः
षट्वीभ्याश्चैव पूर्वाग्राचोत्तराग्राष्षसेव हि १६१
पञ्चविंशपदाकारपदेष्वन्तः पृथक्पृथक्
प्राङ्मुखोदङ्मुखाक्षुद्रवीथयस्तित्र एव च १६२

प्राङ्मुखोदङ्मुखास्तस्माद्वीथयस्त्वेकविंशतिः
एवं प्रकीर्णकं प्रोक्तं स्वस्तिकं त्वधुनोच्यते १६३
प्राङ्मुखा वीथयस्तिस्रस्तथैवोदङ्मुखास्स्मृताः
वास्तुमध्ये त्रियंशे तु वीथयः परिकीर्तितः १६४
दक्षिणाभिमुखाश्चैव पूर्ववीथिं तयेत्तदा
पश्चिमाभिमुखाश्चैव याम्यवीथिनयेदथ १६५
आनयेत्पञ्चवीथिं तु उत्तराभिमुखं ततः
तथैवोत्तरवीथिं च प्रागग्रं तु विनिर्णयेत् १६६
चतुष्काणामन्तराले क्षुद्रवीथीचतुष्टयम्
सङ्कृल्प्य परितः कुर्यात् महामङ्गलवीथिकाम् १६७
तन्मध्ये कल्पयेत्कर्तुः प्रधानाञ्जनपञ्जरम्
आग्नेयादिषु कोणेषु जनानां निर्गमं कुरु १६८
त्रिदण्डं गृहविस्तारं तद्दैर्घ्यं सप्तदण्डकम्
गृहः कन्यसमुद्दिष्टं विस्तारं पञ्चदण्डकम् १६९
नवदण्डं तथायामं मध्यमं समुदाहृतम्
दैर्घ्यमेकादशो दण्डो विस्तारं सप्तदण्डकम् १७०
गृहं तदुत्तमं विद्यादेविभीष्टं तु कारयेत्
तत्रैव हस्तमानेन गेहः कुर्याद्विशेषतः १७१
दण्डाभावगमे मावा त्रिचतुर्थालयायुतम्
एकद्वित्रिकविन्यासो वास्वगञ्च न दोषभाक् १७२
गृहश्रेणी विनिश्चित्य समं शङ्कुं निदापयेत्
ग्राममध्यस्थ शङ्कुश्च वास्तुसीमाष्टदिक्षु च १७३
शैवान् संस्थापयेच्छक्र नध्यार्धादण्डमानकान्
ब्रह्माङ्गं तु चतुर्भागं कृत्वा वायव्यभागतः १७४
पञ्चमूर्तिक्रमेणैव विष्णुं संस्थाप्य पूजयेत्
हरिदृष्टस्तु सर्वेषां हरपृष्ठश्शुभस्मृतः १७५

शाङ्करे तु सभास्थानं कुर्यात् कूपं जलाशयम्
आग्नेयां चैव गोवासं चतुर्वर्तिसमायुतम् १७६
क्रयविक्रयकर्मार्थं नैर्ऋत्यां वारुणं तथा
देवानामालयं चैव कारादुत्तममागतः १७७
भास्करे तु यमेन्द्रे तु महामोट्यास्तु पावके
षण्मुखस्यैव याम्ये तु शास्तुनाह्लादिगोचरे १७८
विष्णुस्तु वारुणे भागे दुर्गायां वायुदेशतः
मातृृणां तु तथा सौम्ये शाङ्करे शङ्करस्य तु १७९
ऐन्द्रेशानान्तरे मुख्यं सौम्येशानान्तरेथवा
तटाकतीरे ज्येष्ठाया कारयेदालयं तु वा १८०
वास्तूक्तदेवतानां तु बालस्थानपुरस्सरम्
विमानं विधिनादाय स्थापयेद्विधिना ततः १८१
प्रतिष्ठास्तु च या देवा पूर्वमन्त्रव्यवस्थिताः
उक्तदेशन्यदेशे वा नदेवास्त्वङ्गभाजितः १८२
शिवाराधननैऋत्यां भुक्तिमुक्तिप्रदं भवेत्
अन्येषां पूजयेन्नित्यं ग्रामऋद्धिकरं परम् १८३
देवस्थानं विना यत्र एककालं निवासयेत्
नित्यपूजाविहीने तु श्रद्धां कुर्वन्तदुत्थितम् १८४
तस्मात्सर्वप्रयत्नेन नित्यपूजां समाचरेत्
बालालयश्च देवानां कृत्वा संस्थाप्य पूर्ववत् १८५
बालस्थानं विना यत्र मूलस्थानं न कारयेत्
पदे पैशाचिके द्वाथ महापैशाचिकान् बहिः १८६
कारयेत् परिकान् तत्र प्राकारं सुहृढं यथा
चतुर्द्वारसमायुक्त स्वयान्मे जलमार्गयुक् १८७
तटाकान् कल्पयेद्धीमान् चतुर्दिक्ष्वंष्टदिक्षु च
भूसुराणां प्रवेशार्थं स्थिरराश्योदये शुभे १८८

जीवशुक्लादये लग्ने शुभदग्रनिरीक्षणे
ततः प्राक् पञ्चसप्ताहे नवाहे चाङ्कुरार्पणम् १८९
दैविके मानुषां गेय यश द्वादश षोडश
गृहाणि कृत्वा विप्राणां गृहोपकरणानि च १९०
भूषणाच्छादनादीनि यवत्साङ्गां तथैव च
ग्राममानुष्य पञ्चाशत् षोदशं सप्तमांशकम् १९१
कृत्वा तेष्वेव मानं वै परितः पैशाचिकस्य वै
पैशाचेन समारोप्य तस्मिन्कर्मोपजीवनाम् १९२
आवासं च यथास्थानं परितः कल्पयेत्ततः
वाद्यकानां कुलालानाम् आवासं त्वीशदेशतः १९३
तद्भवो दक्षिणे भागे स्थपतिर्नाग्रि वासभृत्
वैश्यानान्तु वाया नामा आवासो दक्षिणे तथा १९४
तैलविक्रयवृत्तानां शूद्राणां वारुणे पुनः
पुष्पोपजीविनाञ्चैव मत्स्यमांसोपजीविनाम् १९५
सच्छूद्रादन्यशूद्राणां रसमृत्युदिदित्सया
तद्बाह्ये कर्मकाराणां कारूणां मध्यमोत्तरम् १९६
तद्बाह्ये कर्मकारामावसच्छाद्यदृच्छया
रजकानां तु तद्बाह्ये चण्डालानान्ततो बहिः १९७
ग्रामस्य चोत्तरे दूरे नद्यास्तीरेऽथवा पुनः
श्मशानं कल्पयेत्तत्र विस्तारायामसंयुतम् १९८
तद्बाह्ये त्रिंशतिर्दण्डे वसेच्चण्डालकर्मकः १९९
एवं प्रोक्तं वास्तुविन्यासमार्गं भूमेर्मानं शालयं देवतानाम्
ग्रामादीनाञ्चोक्तजात्यन्तराणां बाह्ये सालं कारणाख्ये च तन्त्रे २००

इति कारणे प्रतिष्ठातन्त्रे वास्तुविन्यासनामतृतीयपटलः