अथ द्वितीयो मन्त्रावतारपटलः
अस्मिन् तन्त्रे समासेन मन्त्रोच्चारं श्रुणुष्व तत्
मन्त्रं विना क्रिया नास्ति कर्षणाद्यर्चनान्तका ॥ १ ॥
शिवस्सदाशिवश्चैव महेशो वा तथा क्रयः
वाच्यवाचकराहित्यो वाङ्मनातीतगोचरः ॥ २ ॥
सर्वज्ञानगुणोपेतस्सर्वतत्वामलप्रभुः
इत्थं भूतश्शिवः प्रोक्तो निष्कलश्चेति कीर्तितः ॥ ३ ॥
सकलन्निष्कलोपेतस्त्वष्टत्रिंशत्कलात्मकः
सकलोत्कोऽङ्गसम्पूर्णो भुवनाध्वोत्तरो महान् ॥ ४ ॥
वर्णावेवध्वजोपेतो मन्त्रत्वा शुद्र आत्मकः
पदाध्वाद्धस्तिरोमांस शुक्लमज्जास्थितत्वधृत् ॥ ५ ॥
सदाशिवषडध्वात्मा तस्य प्राणी शिवस्मृतः
हृदयाद्यगसम्पूर्णो ध्याने सकलरूपधृक् ॥ ६ ॥
निष्कलस्तदभावे तु तस्मात् सकलनिष्कलः
सदाशिवगुणोपेतो तस्य वामे मनोन्मनी ॥ ७ ॥
महेशस्सकलः प्रोक्तो नानारूपधरो हरः
वह्नावाहनचिह्नाद्यैर्लयभोगाधिकारवान् ॥ ८ ॥
भवानी सहितो देवस्सर्वाकारेषु वामके
तस्मात्क्रियाणां मूर्तीनां मन्त्राणां श्रुणुवर्त्मते ॥ ९ ॥
नादं नादादिकं कूटं कलाण्डं पार्त्थिवान्वितम्
वारुणं वह्निसंयुक्तं मरुत्षष्ठस्वरान्वितम् ॥ १० ॥
स्वरान्तबिन्दुनादाढ्यं नवर्णात्मा शिवं विदुः
नादो हुङ्कारमित्युक्तं नादाद्यन्तु सकारकम् ॥ ११ ॥
कूटाक्षरो क्षकारं स्यात्कालार्णन्तु मकारकम्
पृथ्वी बीजं लकारं स्यात् वरौ वरुणवह्नयोः ॥ १२ ॥
यकारं मारुतं बीजं षष्ठं स्वरसमन्वितम्
मन्त्रः प्रोक्तश्शिवस्येह जगत्सृष्टिलयात्मकः ॥ १३ ॥
नादार्णन्तु समुद्धृत्य अर्चतुर्दशसंयुतम्
बिन्दुनादसमायुक्तं नादाद्यं प्रथमान्वितम् ॥ १४ ॥
अष्टवर्गादिमञ्चैव तृतीयस्वरसंयुतम्
सप्तवर्गान्तमुद्धृत्य प्रथमस्वरमण्डनम् ॥ १५ ॥
पञ्चाक्षरमिदं ह्येवं मन्त्रं सदाशिवस्य तु
नादं कालसमोपेतं वह्निमारुतसंयुतम् ॥ १६ ॥
षष्ठस्वरसमायुक्तं बिन्दुनादसमन्वितम् ।
एते महेशमन्त्रन्तु सर्वसिद्धिकरं परम् ॥ १७ ॥
पुनस्सान्तं समुद्धृत्य वह्निमाया समन्वितम्
बिन्दुनादसमायुक्तं मनोन्मन्यास्तु मञ्चकम् ॥ १८ ॥
द्वितीयस्य तृतीयन्तु मायानलसमन्वितम्
बिन्दुनादसमायुक्तं गौरी बीजमिदं परम् ॥ १९ ॥
षोडशस्वरसङ्घे तु नपुंसकविवर्जितम्
द्वादशस्वरसङ्घेषु नादाख्याणुसमन्वितम् ॥ २० ॥
शान्तमीशानमित्युक्तं मन्ये रौद्रा इति स्मृताः
शुक्लपीतारुणञ्चैव रक्तं वामञ्च कृष्णकम् ॥ २१ ॥
वर्णानीव षडङ्गानि त्रिणेत्राश्च चतुर्भुजाः
शूलं कपालहस्ताश्च अभयं वरदान्वितः ॥ २२ ॥
हस्तनेत्रौ तु रौद्रौ तु शेषाः सौम्या इति स्मृताः
सदाशिवस्य रूपन्तु वक्ष्येऽहं द्विजसत्तमाः ॥ २३ ॥
कुन्देन्दुस्फटिकाभासा जटामकुटमण्डिताः
पञ्चवक्त्रयुतास्तेषु प्रतिवक्त्रं त्रिलोचनम् ॥ २४ ॥
सर्वाभरणसंयुक्तं दशदोर्भिस्समन्वितम्
शूलं परशुखड्गञ्च वक्त्राभयौ च दक्षिणे ॥ २५ ॥
पाशन्नागाङ्कुशञ्चैव घण्टां वह्निञ्च वामके
दिव्याम्बरधरन्देवं दिव्यपुष्पैरलङ्कृतम् ॥ २६ ॥
दिव्यगन्धानुलिप्ताङ्गं शान्तरूपं स्मिताननम्
मन्त्रोच्चारे स्मरेन्मन्त्री चतुर्दोर्भिस्समन्वितम् ॥ २७ ॥
रक्तवर्णो ज्वलां शुक्लवक्त्रेणैव विभूषिताम्
सर्वाभरणसम्पूर्णपीनोरुजघनस्तनाम् ॥ २८ ॥
त्रिणेत्रां गन्धपुष्पाढ्यां केशालकविभूषिताम्
पद्मोत्पलधरां देवीं वरदाभयपाणिनीम् ॥ २९ ॥
देवस्य वामभागे तु दिव्यरूपां मनोन्मनीम्
चतुर्भुजो महेशस्तु जटामकुटमण्डितः ॥ ३० ॥
करण्डमकुटोपेतां नेत्रत्रयसमन्विताम्
इत्थं भूतां वरां गौरीं भावयेत्तु विचक्षणः ॥ ३१ ॥
पृथिव्यादीनि बीजानि लवरयहकारकः
प्रणवः प्रथमं प्रोक्तम् आ ई ऊ तदनन्तरम् ॥ ३२ ॥
व्योमव्यापिन् चतुर्त्थञ्च तदूर्ध्वं प्रणवं भवेत्
अस्मिन् तन्त्रे विशेषेण दशाक्षरमिति स्मृतम् ॥ ३३ ॥
हुं फट्कारविसर्गान्तं मन्त्रं पाशुपदं स्मृतम्
चिच्छचीच्छ्यक्षरं गृह्य —- कृद्वर्णसंयुता ॥ ३४ ॥
क्षुरिकाद्यष्टवर्णन्तु सर्वकार्येषु पूजितम्
हृृं सृृं क्षृृं बीजमुख्यास्तु विद्याङ्गानि ततश्श्रुणु ॥ ३५ ॥
प्रशान्तायेति हृदयं प्रणवात्मने नमश्शिवः
शिवाय हृृं शिखाज्ञेयं हुङ्कारस्तु पुरुष्टुतः ॥ ३६ ॥
फट् कारममृतश्चास्त्रमोजुंसो नेत्रमुच्यते
विद्याङ्गस्त्विति विद्याता वषट्कारसमन्वितः ॥ ३७ ॥
अनन्तेशस्तथा सूक्ष्मश्शिवोत्तमश्चैकनेत्रकः
एकरुद्रस्त्रिमूर्तिश्च श्रीखण्डश्च शिखण्डिकः ॥ ३८ ॥
अष्टविद्येश्वरा ह्येते त्रिणेत्राश्च चतुर्भुजाः
सव्ये अभयवज्रौ तु वामे तु वरदाङ्कुशौ ॥ ३९ ॥
अङ्गसव्य सदोभेरी टङ्कशूलसमन्वितः
रक्तं श्वेतं तथा नीलं पीतं कृष्णञ्च कुङ्कुमम् ॥ ४० ॥
अरुणञ्चाञ्जनं पूर्णं क्रमाद्विद्येशवर्णकम्
गौरी चण्डेशनन्दीशो महाकालो वृषस्तथा ॥ ४१ ॥
गणेशश्चैव भृङ्गीशो महासेनो गणेश्वरः
द्विनेत्राद्विभुजाश्यामा गौरी दक्षकरोत्पला ॥ ४२ ॥
द्विनेत्रा द्विभुजाश्चण्डाश्शम्भोर्वै टङ्कहस्तकाः
चतुर्भुजं त्रिणेत्रस्तु कृष्णवर्णञ्चतुर्भुजः ॥ ४३ ॥
अभयं वरदोपेतो शूरस्तोमरशूलधृक्
वृषभः श्वेतवर्णस्तु तीक्ष्णग्राहो महाबलः ॥ ४४ ॥
गजाननः त्रिणेत्रस्तु कुङ्कुमाभश्चतुर्भुजः
पाशदन्तौ तु सव्ये तु वामे त्वङ्कुशलड्डुकौ ॥ ४५ ॥
नागयज्ञापवीतश्च लम्बोष्ठस्तु गणाधिपः
चतुर्भुजस्त्रिणेत्रस्तु ,भृङ्गीशः पिङ्गलः प्रभुः ॥ ४६ ॥
दक्षिणे भयटङ्कौ तु वामे वरदशूलधृक्
रक्तवर्णो महासेनो द्विनेत्रश्च चतुर्भुजः ॥ ४७ ॥
पुरन्दरोऽथ वह्निश्च यमो वै राक्षसेश्वरः
वरुणो नीलवर्णश्च ईशानो नन्तपद्मजः ॥ ४८ ॥
श्यामं रक्तन्तथा कृष्णं नीलञ्चानन्तनीलकम्
शङ्खधूम्रञ्च शुक्लञ्च स्फटिकाभञ्च वर्णकम् ॥ ४९ ॥
अतसीपुष्पसङ्काशं दिक्पालानां निभानि वै
वज्रादिपद्मपर्यन्तं लोकपालायुधस्मृतः ॥ ५० ॥
कुलिशश्शक्तिदण्डौ च खड्गपाशाङ्कुशस्तथा
गदात्रिशूलञ्चक्रञ्च पद्मञ्चेति दशायुधाः ॥ ५१ ॥
नानावर्णमहाविद्युन्नीलजीमूतनीलगे
पावकं पद्मरागञ्च तुषारञ्चेन्द्रनीलकम् ॥ ५२ ॥
शारदाभ्रञ्च मुक्तञ्च वज्रादीनान्तु वर्णकम्
यक्षराक्षसपैशाचगन्धर्वाणां तथैव च ॥ ५३ ॥
सिद्धानां किन्नराणाञ्च ऋषीणां भैरवैरपि
अन्येषां देवतानाञ्च स्वनामाद्यक्षरेण तु ॥ ५४ ॥
बिन्दुनादसमायुक्तं तेषां मन्त्रं प्रयोजयेत्
इति कारणाख्ये प्रतिष्ठातन्त्रे मन्त्रावतारपटलो द्वितीयः