००१ तन्त्रावतारपटलः

पूर्वकारणागमे प्रतिष्ठातन्त्रे तन्त्रावतारपटल-प्रारम्भः

कल्याणं कुरतां कश्चित् करुणावरुणालयः
मयूरनगराथीशोममनृत्तविनायकः ॥ १ ॥

भूधरस्योर्ध्वशृङ्गेषु रत्नशृङ्गनिकेतने
तत्रासीन महादेवं श्रीकण्ठं सुरवन्दितम् ॥ २ ॥

योगपीठस्थितं तस्य वामे गौरीसमायुतम्
सर्वदेवावृतं सिद्धं मुनिगन्धर्वसेवितम् ॥ ३ ॥

आद्यन्त कारणं पूज्यमपृच्छच्छर्वरुद्रकम्
प्रणम्म्य चरणौ तस्य प्रजापतिरथाब्रवीत् ॥ ४ ॥

ब्रह्म उवाच
देवदेवमहेशानस्थित्युत्पत्तिलयेशक
जगतामपि प्रीत्यर्थं योगिनां मुक्तिहेतुकम् ॥ ५ ॥

शिवज्ञानं परं गुह्यं वद मे शर्वरुद्रक ॥ ६ ॥

शर्वरुद्रोवाच
त्वया पृष्टमिदं सर्वं वक्ष्येहं सुखसाधनम्
कारणाख्यं महातन्त्रं प्रतिष्ठातन्त्रमुत्तमम् ॥ ७ ॥

कोट्येकग्रन्धसंयुक्तं कर्षणाद्यर्चनान्तकम्
सङ्क्षेपेणाधुना विप्र श्रुणु वक्ष्ये समासतः ॥ ८ ॥

तस्यादौ तन्त्रसद्भावं मूलभेदोपभेदयुक्
कामिकं योगजं चिन्त्यं कारणं त्वजितन्तथा ॥ ९ ॥

दीप्तं सूक्ष्मं सहस्रञ्च अंशुमान्सुप्रभेदकम्
विजयञ्चैव निश्वासं स्वयम्भुवन्तथानिलम् ॥ १० ॥

वीरञ्च रौरवञ्चैव मकुटं विमलन्तथा
चन्द्रज्ञानञ्च बिम्बञ्च प्रोद्गीतं ललितं तथा ॥ ११ ॥

सिद्धं सन्तानसर्वोक्तं पारमेश्वरमेव च

किरणं वातुलञ्चैव अष्टाविंशति सङ्ख्यया ॥ १२ ॥

विपुलार्त्थन्तमोघ्नीति तत्वमन्त्रार्त्थदर्शनम्
तन्त्रदेहसमाख्यातं तन्त्रसञ्ज्ञा च संहिता ॥ १३ ॥

तेषु पूर्वे दशप्रोक्ताश्शिवभेदेति सञ्ज्ञिकम्
तथापराष्टदशकं रुद्रभेदमिति स्मृतम् ॥ १४ ॥

महेशात् शिवभेदानां श्रोतारस्तु त्रयस्त्रयः
रुद्रभेदो महेशाच्च श्रोतारौ द्विद्विकौ मतौ ॥ १५ ॥

महेशात् प्रणवः प्राप्तः प्रणवात्त्रिकलस्थितः
त्रिकलाच्च हरः प्राप्तः श्रोतारः कामिकस्य तु ॥ १६ ॥

सादाख्यात् भस्मसम्प्राप्तं ततः प्राप्तो विभुस्तथा
योगतन्त्रस्य विख्यातात्सुदीप्ताद्गोपतिः स्मृतः ॥ १७ ॥

गोपतेरम्बिकाख्याता चिन्त्याख्यस्य प्रकीर्तिता
कारणात्सर्वरुद्रस्तु सर्वरुद्रात्प्रजापतिः ॥ १८ ॥

कारणस्य तु विख्यातस्सूक्ष्माद्वैश्रवणस्तथा
प्रभञ्जनोधनेशाच्च सूक्ष्मतन्त्रस्य कीर्तितः ॥ १९ ॥

कालात् भीमस्ततः प्राप्तो विमलं वीरभद्रकः
चन्द्रज्ञानमनन्तञ्च सम्प्राप्तस्तु बृहस्पतिः ॥ २० ॥

मुखबिम्बं प्रशान्ताच्च सम्प्राप्तो दधिचिस्मृतः
प्रोद्गीतं शूलिनाप्राप्तः त्वचाख्यो मुनिसत्तमः ॥ २१ ॥

शूलया ललितं प्रोक्तं रुद्रभैरव एव च
बिन्दोश्चण्डेश्वरः प्राप्तस्सादाख्यं तन्त्रकस्य तु ॥ २२ ॥

सन्तानं शिवनिष्टाच्च सम्प्राप्तश्शिवसाधने
सर्वोक्तं सोमदेवाच्च नृसिह्मं प्राप्तवांस्तथा ॥ २३ ॥

श्री देव्याश्चोशनप्राप्तः पारमेश्वरमेव च ।
देवपित्रात्तु सिद्धाच्च संवर्तः प्राप्तवांस्ततः ॥ २४ ॥

शिवात् प्राप्तो महाकालो वातुलन्तन्त्रमुत्तमम्

रुद्रभेदास्सुधी प्रोक्ता ग्रन्धसङ्ख्याश्श्रुणुष्वथ ॥ २५ ॥

परार्द्धसङ्ख्ययाग्रन्धं प्रथमं परिकीर्तितम्
द्वितीयं लक्षसङ्ख्यञ्च तृतीय्यन्तु सहस्रकम् ॥ २६ ॥

चतुर्त्थं कोटिसङ्ख्यञ्च पञ्चमं त्वयुतं स्मृतम्
षष्ठस्य नियुतं प्रोक्तं सप्तमं पद्मसङ्ख्यया ॥ २७ ॥

अष्टमं शङ्खसङ्ख्यञ्च नवमं पञ्चलक्षकम्
दशमन्तु त्रिकोटी च एकादशन्तथैव च ॥ २८ ॥

द्वादशं कोटिसङ्ख्यञ्च सार्द्धकोटि त्रयोदश
अयुतं चतुर्दशं प्रोक्तं नियुतं पञ्चदशं स्मृतम् ॥ २९ ॥

षोडशञ्चार्बुदञ्चाष्ट शतसाहस्रमाकुटम्
त्रिलक्षं विमलं प्रोक्तं चन्द्रज्ञानं त्रिकोटिकम् ॥ ३० ॥

मुखबिम्बं सहस्रञ्च प्रोद्गीतन्तु त्रिलक्षकम्
ललितञ्चाष्टसाहस्रं सिद्धञ्च सार्द्धकोटिकम् ॥ ३१ ॥

सन्तानं षट्सहस्रञ्च शिवोक्तन्तु द्विलक्षकम्
पारमेश्वरतन्त्रस्य लक्षद्वादशमुच्यते ॥ ३२ ॥

किरणं पञ्चकोटिस्स्यात् शतसहस्रन्तु वातुलम्
तन्त्राणां कामिकादीनां ग्रन्धसङ्ख्याः प्रकीर्तिताः ॥ ३३ ॥

नारसिह्मञ्च वक्त्रारं भैरवोत्तरमेव च
कामिकस्य त्रयोभेदा सुदासन्तादिकारकौ ॥ ३४ ॥

वीणाशिखोत्तरञ्चैव आत्मयोगं तथैव च।
योगजस्य तु भेदानि पञ्चधा कीर्तितानि वै ॥ ३५ ॥

पापनाशं परोद्भूतं सुचिन्त्यममृतान्वितम्
सुभगं वामसञ्ज्ञञ्च चिन्त्यभेदस्तु षड्विधः ॥ ३६ ॥

माहेन्द्रं कारणं दौर्गं पावनं भीमसंहिता
विद्वेषं मारणं चैव सप्तधा कारणस्य तु ॥ ३७ ॥

पार्वती च परोभूतं प्रभूतं पद्मसंहिता

अजितस्य चतुर्भेदा अमेयाख्यमतः परम् ॥ ३८ ॥

असङ्ख्यमब्दमाच्छाद्य मानन्दममितौजसम्
अद्भुतं माधवोद्भूतमक्षयं दीप्तिकेऽपि वै ॥ ३९ ॥

सूक्ष्मस्य सूक्ष्ममेकन्तु अतीतम्मण्डलं तथा
जातिभागो प्रमेयञ्च प्रभूद्धविबुधन्तथा ॥ ४० ॥

हस्तं शुद्धमलङ्कारं सुबोधं सहस्रके दश
काश्यपं वासवं नीललोहितं भूततन्त्रकम् ॥ ४१ ॥

विद्यापुराणमैन्द्रञ्च आत्मालङ्कारमेव च
वासिष्ठं गौतमं ब्राह्मम् ईशानोत्तरमेव च ॥ ४२ ॥

प्रकारणं तथांशुमान् प्रोक्तं द्वादशभेदकम्
अभेदं सुप्रभेदस्तु भवं सौम्यमथोद्भवम् ॥ ४३ ॥

मृत्युनाशमघोरञ्च महाघोरन्ततः परम् ।
परमेश्वरञ्च विजयं विजयस्याष्टभेदकाः ॥ ४४ ॥

निश्वासोत्तरतन्त्रञ्च यमं निश्वासकैव च
निश्वासाख्यं महातन्त्रं निश्वासोर्ध्वमुखोदयम् ॥ ४५ ॥

निश्वासनयनञ्चैव मन्त्रं निश्वासमेव च
निश्वासकारीका चैव निश्वासाघोरमेव च ॥ ४६ ॥

निश्वासञ्चाष्टधा प्रोक्तं प्रजापतिमतं तथा ।
पद्मञ्च द्विविधंविद्यात् स्वायम्भुवविशेषतः ॥ ४७ ॥

आग्नेयं व्योमतन्त्रन्तु आग्नेयस्य द्विधामतम्
प्रस्तारं फुल्लनयनं प्रबोधं बोधबोधकौ ॥ ४८ ॥

हकटं मोहसमयं प्रमोहं शकटादिकम्
विलेखनं हलं भद्रं वीरं वीरत्रयोदश ॥ ४९ ॥

कालाख्यं कालदहनं रौरवं रौरवोत्तरम्
महाकाल मतञ्चैन्द्रं रौरवे षड्विधं स्मृतम् ॥ ५० ॥

मकुटोत्तरञ्च मकुटं मकुटस्य द्विधास्मृतम्

वृषगुह्यमथाक्रान्तं वृषभं वृषभोत्तमम् ॥ ५१ ॥

सुदन्तमथभूतञ्च रौद्रं भोगं तथैव च
आरेवतं सुभद्रञ्च अतिक्रान्तमलङ्कृतम् ॥ ५२ ॥

अर्चितञ्चाट्टहासञ्च अनन्तं तारणं तथा
भेदो विमलतन्त्रस्य षोडशैव प्रकीर्तिताः ॥ ५३ ॥

एकपादपुराणञ्च स्थाण्वाख्यं नन्दिकेश्वरम्
स्थिराख्यं शङ्करं प्रोक्तं श्रीमुखं शिवभद्रकम् ॥ ५४ ॥

कल्पभेदमिति प्रोक्तं शिवशासनमेव च
देवीमताख्य तन्त्रञ्च शिवशेखरमेव च
वारुणञ्चैव वायव्यं चन्द्रज्ञानञ्चतुर्दश
चतुर्वक्त्रञ्च संस्तोभं प्रतिबिम्बमयोगजम् ॥ ५६ ॥

आत्मालङ्कारवायव्यं तु डिनीरन्तुतौटिकम्
कुट्टिमाख्यं तुलायोगं कुलाप्रत्ययमेव च ॥ ५७ ॥

पट्टशेखरमेवञ्च महाविद्या महासुरम्
निश्चित्य तिथिविख्यातं मुखबिम्बस्य भेदकाः ॥ ५८ ॥

दण्डाधारं पाशबन्धं पिङ्गलं मतमेव च
वराहाङ्कुश कवचं शिवज्ञानं धनुर्द्धरम् ॥ ५७ ॥

कालज्ञानञ्च विज्ञानमायुर्वेदञ्च गीतकम्
भरतञ्च धनुर्वेदमातोद्यं सर्वदंष्ट्रकम् ॥ ५८ ॥

प्रोद्गीताख्यस्य तन्त्रस्य भेदाष्षोडश एव च
ललितोत्तरञ्च कौमारं ललिताख्यमतः परम् ॥ ५९ ॥

ललितस्य त्रयोभेदाश्शालाख्यं शशिखण्डकम्
सारोत्तरञ्च त्वीशानं सिद्धतन्त्रं चतुर्विधम् ॥ ६० ॥

अमरेशं सुराद्ध्यक्षं लिङ्गाद्ध्यक्षमसङ्ख्यकम्
अनिलं शङ्करद्वन्द्वे सन्ताने सप्तभेदकाः ॥ ६१ ॥

ईशानं शिवधर्मञ्च शिवधर्मोत्तरं तथा

दिव्यं प्रोक्तं कुबेराख्यं सर्वोक्तस्येहपञ्चधा ॥ ६२ ॥

हंसं पद्म ञ्च मातङ्गं सामान्यं यक्षणी तथा
पुष्करं सुप्रयोगं च सप्तधापरमेश्वरे ॥ ६३ ॥

गारुडं नैर्ऋतं नीलं रूक्षं भानुकमेव च
प्रबुद्धन्धेनुकं बुद्धं कालाख्यं किरणेन च ॥ ६४ ॥

वातुलोत्तरतन्त्रञ्च कालज्ञानं पुरोहितम्
श्रेष्ठं धर्मात्मकं सर्वं शुद्धं नित्यं महाननम् ॥ ६५ ॥

विश्वं विश्वात्मकं तन्त्रं वातुलं द्वादशस्मृताः
मूलभेदोपभेदाश्च समासात्परिकीर्तिताः ॥ ६६ ॥

सदाशिवमुखाब्जेषु महेशेन पुराश्रितः
कामिकाद्यजितान्तञ्च सद्योजातमुखोद्भवम् ॥ ६७ ॥

दीप्तादिसुप्रभेदान्तं वामदेवमुखोद्भवम् ।
विजयारभ्यवीरान्तं पञ्चैते घोरवक्त्रजाः ॥ ६८ ॥

रौरवामुखबिम्बान्तं पुरुषाख्यनरोद्भवम्
प्रोद्गीताद्यष्टतन्त्रञ्च ईशाननसमुद्भवम् ॥ ६९ ॥

येन वक्त्रोक्ततन्त्रेण दीक्षायां कुरुते तथा
तन्त्रेणैव शिवस्येव कर्षणाद्यर्च्चनान्तकम् ॥ ७० ॥

कुर्यात्सर्वसमुद्दिष्टमनुक्तञ्चेत्तथान्यके
तन्त्रे सङ्ग्राह्य तन्त्रांश्च क्रियां कुर्याश्छिवस्य च ॥ ७१ ॥

प्रागुक्तानिव तन्त्राणि सिद्धान्तानि विदुर्बुधाः
शैवतन्त्रा इमे प्रोक्ताश्शैवं पाशुपतन्तथा ॥ ७२ ॥

सोमसिद्धान्तकञ्चैव वातुलन्तु चतुर्विधम्
एतेषां साङ्करन्दोषं सङ्करे कर्तृनाशनम् ॥ ७३ ॥

तस्मिन् प्रोक्तेन कर्तव्यं सङ्करञ्चतुदोषकम्
येनसिद्धाख्य तन्त्रेण दीक्षितश्चादिशैवकः ॥ ७४ ॥

आदिशैवस्त्रिशैवेषु तथापाशुपतादिषु

स्थापनं यजनं कुर्यात्सिद्धान्तोक्तविधानतः ॥ ७५ ॥

तत्सौम्य छलतन्त्राच्च सङ्करन्नेति कीर्तितम्
स्थापितं शुद्धशैवेन नहि पाशुपदादिषु ॥ ७६ ॥

ते रौद्रफलकन्दत्वा न कुर्यादर्च्चनादिकम्
इमे रौद्रन्तथान्तश्च शैवसौम्यमिति स्मृतम् ॥ ७७ ॥

रौद्रसौम्येन धर्माणि सौम्ये रौद्रेण वर्जयेत्

इतिकारणे प्रतिष्ठातन्त्रे तन्त्रावतारपटल प्रथमः