३० प्रायश्चित्त-विधिः

प्रायश्चित्त विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः ।
विधिर्निषेध इत्येवं चोदना द्विविधा मता ॥ १ ॥
अनुष्ठितायां तस्यांस्याद्यथावद्धर्म सङ्ग्रहः ।
वैपरीत्ये त्वधर्मस्यात्तेन पापं महद्भवेत् ॥ २ ॥
तेनाधो गमने प्राप्ते कर्तुरूर्ध्वं परं पदम् ।
यत्कर्मनयतीत्युक्तं प्रायश्चित्तमिहागमे ॥ ३ ॥
प्रकृष्टायास्समानत्वाद्दोषः प्रायः प्रकीर्तितः ।
चिदात्मा कथितश्शास्त्रे तरणं तु तकारतः ॥ ४ ॥
सदोषस्यात्मनो यस्मात्तरणं पततो ह्यधः ।
तस्मात्प्रकीर्तितं विप्राः प्रायश्चित्तं शिवाश्रिताः ॥ ५ ॥
विधिर्निषेधो वा नास्ति यस्मिन् कर्मण्यनुष्ठिते ।
तस्मिन् पुण्यं च पापं वा नेति शास्त्रार्थ निश्चयः ॥ ६ ॥
आवश्यके कृते पूर्वमुखेनैव प्रति क्रिया ।
कर्तव्या पश्चिमास्येन कोणास्येन न वेति च ॥ ७ ॥
प्रायश्चित्तं विभेदेन न शक्यं वक्तुमग्रजाः ।
कर्मणामप्यनन्तत्वाद् ग्रन्थविस्तार दोषतः ॥ ८ ॥
ततो निगद्यते लेशात् प्रायश्चित्तं सनातनम् ।
स्नानं जपश्शिवध्यानं प्राणायामः प्रदक्षिणम् ॥ ९ ॥
लिङ्ग बेरागमादीनां स्वगुरोर्देशिकस्य च ।
शिवज्ञानरतानां च दर्शनं तन्निरीक्षणम् ॥ १० ॥
नमस्काराद्यमेतेषां शिवधामनिषेवणम् ।
शिवाग्नि गुरु पूजा च भोजनं दीक्षितात्मनाम् ॥ ११ ॥
पुण्यतीर्थावहाह्यश्च पञ्चगव्याशनं ततः ।
शिवास्त्राम्भस्ततो दीक्षा पुण्यक्षेत्राधिवासनम् ॥ १२ ॥
उपवासश्चरोर्भुक्तिः पात्रशेषाशनं च यत् ।
शान्तिश्च शान्तिहोमश्च दिशाख्यः संहिताहुतिः ॥ १३ ॥
मूर्तिहोमो घृतक्षौद्रक्षीरस्नानाद्यनेकधा ।
एकाहाद्युत्सवश्शीतकुम्भो वैशेषिकार्चनम् ॥ १४ ॥
एवमादि समुद्दिष्टं प्रायश्चित्तं सनातनम् ।
विभज्य लक्षणं तेषां केषाञ्चिदिह कथ्यते ॥ १५ ॥
पञ्चगोचर सम्भूतश्शिवद्विज कुलोद्भवः ।
सोष्णीषस्सोत्तरीयश्च नवाम्बर समन्वितः ॥ १६ ॥
पञ्चाङ्ग भूषणोपेतो देशिको निष्कृतिं चरेत् ।
प्रायश्चित्तेऽद्भुते वापि शान्तिं सद्यस्ममाचरेत् ॥ १७ ॥
दिन पक्षर्क्ष लग्नादि प्रेक्षणं नात्र सम्मतम् ।
प्रायश्चित्तं कृतं सद्यो यदि श्रेष्ठं प्रकीर्तितम् ॥ १८ ॥
मध्यं सप्तदिनादर्वाक् पक्षाहादधमं भवेत् ।
तस्मान्मासावसानं तु हीनमित्यभिधीयते ॥ १९ ॥
मासोर्ध्वं नैव कर्तव्यं यदिशान्त्या समाचरेत् ।
लिङ्गपीठविमानादि प्रायश्चित्तादिकं नयेत् ॥ २० ॥
आदौ मध्ये तदन्ते वा सन्धानार्थं द्विजोत्तमाः ।
प्रायश्चित्ते समुत्पन्ने कर्ता वा देशिकोऽथवा ॥ २१ ॥
स्थानिको वा यदा कुर्युरौदासीन्यं क्रियां प्रति ।
वित्ताभावान्मनः क्षोभाद्रागद्वेषादिहेतुभिः ॥ २२ ॥
पापकर्माभिधाताद्वा एते मद्द्वेषिणोनराः ।
नृप भङ्गाय जातास्ते राष्ट्रविक्षोभकारिणः ॥ २३ ॥
अनुशास्याश्च मद्भक्तैर्वीतरागैस्तपस्विभिः ।
देवस्वहारिणो मर्त्या येऽप्येवं शासनार्हकाः ॥ २४ ॥
सश्रद्धं निष्कृतिं कुर्युर्मदीयास्ते नरोत्तमाः ।
राज्ञो हितकराः पुण्यकर्माणो राष्ट्रपोषकाः ॥ २५ ॥
तद्ग्रामर्द्धिकराः स्थानमत्पूजावृद्धि हेतवः ।
इति ज्ञात्वा तु यत्नेन प्रायश्चित्तं समाचरेत् ॥ २६ ॥
अथ मन्त्रजपं कुर्यात् स्नानं चोदितभस्मना ।
मन्त्रकाय उदग्वक्त्रः पूर्वास्यः साक्षमालिकः ॥ २७ ॥
शिवाणुमथवाघोरं यद्वा पाशुपतं वरम् ।
अघोरास्त्रं शिवास्त्रं वा ब्रह्माण्यङ्गानि वा पुनः ॥ २८ ॥
मेलामन्त्रं तु यद्वान्यं परार्धान्तं शतादितः ।
जपेत्तदनुरूपेण मितग्रासो हविष्यभुक् ॥ २९ ॥
अनाहारोऽथ भिक्षाशी चरुभुक् क्षीरपोऽपिवा ।
शाकयावकपिण्याककन्दमूलफलाशनः ॥ ३० ॥
स्मरंस्तद् देवतारूपं जपंस्तस्मै निवेदयेत् ।
जपम् एव समाख्यातः प्रदक्षिण मथोच्यते ॥ ३१ ॥
नानाविधं तदाख्यातमन्तर्बाह्यविभेदतः ।
लिङ्ग प्रासादयोर्मध्ये श्रेष्ठाश्रेष्ठं प्रकीर्तितम् ॥ ३२ ॥
अन्तर्मण्डल शालादावन्तः श्रेष्ठं प्रकीर्तितम् ।
गर्भे प्रदक्षिणं कर्तुं न शक्यं बहुदोषकृत् ॥ ३३ ॥
गर्भगेहे भवेल्लिङ्गच्छाया निर्माल्य सङ्करः ।
सोमसूत्रस्य मूलं च देवसमीप्यमेव वा ॥ ३४ ॥
परिहृत्य कृतं सर्वं यदि सर्वफलावहम् ।
अन्तर्मण्डलदेशेऽपि सोमसूत्रं च विद्यते ॥ ३५ ॥
प्रासादार्ध प्रमाणं प्रासादसममेव वा ।
निर्माल्यसङ्करोऽपि स्याद्धामछाया च विद्यते ॥ ३६ ॥
परिहृत्य तु तत्सर्वं प्रदक्षिण मथाचरेत् ।
सव्यापसव्य मार्गेण कर्तव्यं वा प्रदक्षिणम् ॥ ३७ ॥
सव्यं चण्ड प्रदेशः स्यादपरं सोमसूत्रतः ।
सव्यापसव्यमार्गेण मृदुगत्या समाचरेत् ॥ ३८ ॥
सव्यापसव्यमेवं स्यादन्तर्नित्योत्सवेऽपि वा ।
छायाया लङ्घनं धाम्नो देवदेवोत्सवेऽपि वा ॥ ३९ ॥
तत्कालकृतसेवस्य नैव दोषप्रदं भवेत् ।
तद्बाह्ये नैव दोषस्य प्रवेशोऽस्ति मनागपि ॥ ४० ॥
प्रयत्नोऽपि महान् बाह्ये बहूनि स्युः पदानि च ।
पदे पदेऽश्वमेधस्य फलं दशगुणं भवेत् ॥ ४१ ॥
अङ्गप्रदक्षिणं चान्यदुदयास्तमनान्तकम् ।
अनयोः पुण्यमाहात्म्यं न शक्यं वक्तुमग्रजाः ॥ ४२ ॥
क्षेत्रमाहात्म्यतस्त्वेत देवानन्त फलं भवेत् ।
एवं प्रदक्षिणं ख्यातं शिवाम्भस्तत्र कथ्यते ॥ ४३ ॥
कुम्भे वा कलशे वाथ स्थण्डिलोपरिसंस्थिते ।
सूत्रवस्त्र सुवर्णाम्बु कूर्चचन्दन संयुते ॥ ४४ ॥
शिवेनाङ्गैस्समभ्यर्च्य ब्रह्मभिस्तत्स्थितोदकम् ।
शिवाम्भ इति निर्दिष्टमस्त्रोदं चास्त्र जापतः ॥ ४५ ॥
ततः मृच्छ्रादयः प्रोक्ताः कृच्छ्रोऽन्यस्तप्तसञ्ज्ञकः ।
अतिकृच्छ्रपराकौ द्वौ चान्द्रायणविधिस्ततः ॥ ४६ ॥
त्रिरात्रमेकभुक्तिस्स्यात् त्रिदिनं लङ्घनं भवेत् ।
एवं कृच्छ्रः समाख्यातः प्राजापत्य इति स्मृतः ॥ ४७ ॥
पिबेत्सोष्णं त्र्यहं वारि त्रिदिनं क्षीर भोजनम् ।
सोष्णामाज्यं त्र्यहं चाद्यात् त्रिदिनं केवलोयदा ॥ ४८ ॥
तप्त कृच्छ्रमितिख्यातं त्वतिकृच्छ्रश्च कथ्यते ।
एक विंशति नक्षत्रं त्रिपलं क्षीरभोजनम् ॥ ४९ ॥
अतिकृच्छ्रः समाख्यातः पराक इह कथ्यते ।
द्वादशाहनिर्राहारः पराक इति संस्मृतः ॥ ५० ॥
मासार्धं ग्रासवृद्धिस्स्याच्छुक्ले कृष्णे च हासयेत् ।
चान्द्रायण विधिः प्रोक्तो जलेनैव जलात्मकः ॥ ५१ ॥
सायमाद्यन्तयोरह्नो सायं प्रातश्च मध्यमे ।
चरिष्णुरुपवासं च त्यजेत् भुक्ति चतुष्टयम् ॥ ५२ ॥
मध्यम द्वितयं वाथ तदर्थं दानमेव वा ।
उपवासः समाख्यातश्शान्तिस्त्वत्र निगद्यते ॥ ५३ ॥
मण्डपं तु शुभाशायामग्नौ वा पूर्व वर्त्मना ।
तन्मध्ये कुण्डमापाद्य कृतं हस्तमितन्तथा ॥ ५४ ॥
शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणं नयेत् ।
देवं संशोध्य विधिना स्नपनं प्रत्यहं नयेत् ॥ ५५ ॥
गन्धाद्यैः पुष्कलैरिष्ट्वा शान्तिकर्म समारभेत् ।
संस्कृत्य कुण्डं वह्निं च शिवं साङ्गं च तर्पयेत् ॥ ५६ ॥
अघोरामथवा शैवमस्त्रं पाशुपतं तु वा ।
अघोरास्त्रमथान्यं वा सुसिद्धं देशिकात्मना ॥ ५७ ॥
कर्णिकायां समभ्यर्च्य साङ्गं सन्तर्पयेदथ ।
समिदाज्यं च गव्यं च मधुरत्रय संयुतम् ॥ ५८ ॥
तिलदूर्वाक्षतैर्युक्तं शुद्धान्नं वाथ पायसम् ।
सहस्रं वा तदर्थं वा शतमष्टाधिकं तु वा ॥ ५९ ॥
प्रत्यहं होमयेदेतैर्मन्त्रमादौ समुच्चरन् ।
स्वाहान्ते भगवन् सर्वक्षोपनाशम्पदं ततः ॥ ६० ॥
कुरुकुर्वीति संयुक्तं प्रतिमन्त्रं दशान्तरम् ।
पञ्चाशदन्तरं वापि शतमन्त्रान्तरं तु वा ॥ ६१ ॥
पठन् होमं समाप्यैवं पूर्णामन्ते समाचरेत् ।
मुखवाससमायुक्तं ताम्बूलं च निवेद्य च ॥ ६२ ॥
कामिकादि शिवज्ञानं पञ्चदिक्षु व्यवस्थितम् ।
तत्तद्दिङ्मुख सञ्जातं पठेयुश्शास्त्रपारगाः ॥ ६३ ॥
प्राचि तत्पुरुषं घोरं दक्षिणे वाममुत्तरे ।
पश्चिमे जातमीशानं जपेयुस्तत्र दीक्षिताः ॥ ६४ ॥
ऋगाद्यध्ययनं कुर्युश्चत्वारो वेदपारगाः ।
स्तोतारो बहवो वैकः पठेयुः स्तोत्र संहतिम् ॥ ६५ ॥
तदर्थ भावनोपेतास्संस्कृताश्शिवदीक्षया ।
एतत् सर्वं प्रकर्तव्यं स्नातैर्होम प्रवर्तकैः ॥ ६६ ॥
होमरक्षां च सङ्गृह्य दत्वार्घ्यं च पराङ्मुखम् ।
निरोध्य तत्र देवेशं दद्यादन्तर्बहिर्बलिम् ॥ ६७ ॥
समाचम्य कृतन्यासः प्रविशेद्देवसन्निधिम् ।
होमकर्म निवेद्यास्मै प्रार्थयेत् दुरित क्षयम् ॥ ६८ ॥
एवं शान्तिस्समादिष्टा नवधा सा समीरिता ।
एक त्रिपञ्चसप्ताहनवाहैश्च द्विसप्तकैः ॥ ६९ ॥
पक्षत्रिसप्त नक्षत्रैरविच्छिन्नायतस्ततः ।
कुण्डे विसर्जनं नोक्तं देवस्याग्नेः पुराविधेः ॥ ७० ॥
विसर्जनं तु वा देवे पावकस्य न सर्वथा ।
शान्तिरेवं समारव्याता शान्तिहोमो विधीयते ॥ ७१ ॥
स च द्विविध उद्दिष्टश्श्रेष्ठः पूर्वं निगद्यते ।
शुभाशास्वग्निदेशे वा मण्डपे समलङ्कृते ॥ ७२ ॥
स्थण्डिलं तत्र सङ्कल्प्य तन्मध्ये विन्यसेत्घटम् ।
ससूत्रं सोदकं कूर्चवस्त्रहेमाम्बुजान्वितम् ॥ ७३ ॥
सितचन्दन दिग्धाङ्गं फलपल्लव संयुतम् ।
परितः कलशानष्टौ वस्त्रकूर्चादि संयुतान् ॥ ७४ ॥
विन्यस्य मध्यमे कुम्भे यजेत्पाशुपताह्वयम् ।
प्रणवासनमारुढं दुराधर्षं महाबलम् ॥ ७५ ॥
पञ्चास्यं दशकर्णं च प्रतिवक्त्रं त्रिलोचनम् ।
दंष्ट्राकराकमत्युग्रं मुक्तनादं सुदुर्जयम् ॥ ७६ ॥
कपालमालाभरणं चन्द्रार्धकृतशेखरम् ।
केकराक्षं महामालानागाभरणलेलिहम् ॥ ७७ ॥
सूर्यकोट्ययुताभं च विघ्नसङ्घात मर्दकम् ।
भुजैर्दशभिरत्युग्रैर्भैरवास्त्रैस्समन्वितम् ॥ ७८ ॥
खड्गचापमहाशूलाभयपाशांश्च दक्षिणे ।
खेटबाणा कपालांश्च वरप्रासौ च वामतः ॥ ७९ ॥
पिङ्गाभस्मश्रु संयुक्तं तथाविधशिरोरुहम् ।
ध्यात्वैवं समुच्चरन् मन्त्रमावाह्यार्चनमारभेत् ॥ ८० ॥
ॐ श्लीङ्कार संयुक्तं पं शुं हुफण्णस्त्विति ।
प्रणवं वह्नि दिग्भागे श्लीङ्कारं शाङ्करे यजेत् ॥ ८१ ॥
पङ्कारं नैक्रते भागे शङ्कारं वायु गोचरे ।
ओङ्कारादि फडान्ताश्च वर्णाः स्थाने हृदादयः ॥ ८२ ॥
सर्वे पाशुपतोपेतहृदयादि समन्विताः ।
फडन्तान् प्रणवोपेतान् वज्रादीन् कलशेषु तान् ॥ ८३ ॥
इष्ट्वा गन्धादिभिर्देवं नैवेद्यान्तं समर्चयेत् ।
तदग्रे हास्तिके वृत्त कुण्डे वा स्थण्डिलेऽपि वा ॥ ८४ ॥
संस्कृते पूर्ववत्पञ्चसंस्काररैस्संस्कृतेऽनले ।
देवं पाशुपतं साङ्गमावाह्याभ्यर्च्य तर्पयेत् ॥ ८५ ॥
समिदाज्यतिलक्षीरसितदूर्वाचरूंस्ततः ।
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥ ८६ ॥
प्रत्येकं जुहुयान्मन्त्रमुच्छरन् कर्मनिर्दिशेत् ।
भगवन् दोषशान्तिं तु कुरुकुर्विति देशिकः ॥ ८७ ॥
अङ्गानि दश चास्त्राणि दशहुत्वा प्रतोषयेत् ।
पूर्णाहुतिं ततो दद्यादस्त्रं पाशुपतं स्मरन् ॥ ८८ ॥
प्रायश्चित्ताहुतिं हुत्वा मन्त्रं पाशुपतं स्मरन् ।
पुनः पूर्णां च ताम्बूलं दत्वार्घ्यं च पराङ्मुखम् ॥ ८९ ॥
कृत्वा लयाङ्गमाकर्मपर्यन्तं परिरक्षयेत् ।
प्रत्यहं वा तदुत्पाद्य तर्पयेदस्त्र रूपिणम् ॥ ९० ॥
अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः ।
समर्पितक्रिये देवे त्वभीष्टं प्रार्थयेद्गुरुः ॥ ९१ ॥
कुम्भाद्देवं विसृज्याथ द्वादशान्ते नियोजयेत् ।
ततस्तत्कुम्भ पानीयैः प्रोक्षयेदभितस्ततः ॥ ९२ ॥
होमो वा समिदाज्यान्नैः कुम्भसंस्थापनं विना ।
कर्तव्यश्शान्तिहोमोऽयं शान्त्युक्तदिनसङ्ख्यया ॥ ९३ ॥
दिशा होमं ततो वक्ष्ये द्विविधस्स उदाहृतः ।
प्रायश्चित्तार्थमन्योऽयं स्नपनाद्यङ्ग भाग्भवेत् ॥ ९४ ॥
लिङ्गेवा प्रतिमायां वा पीठे प्रासाद एव वा ।
मण्डपे मालिकादौ वा वृक्षादेर्मूल एव वा ॥ ९५ ॥
यदर्थं वर्तते प्रायश्चित्तं तस्यचतसृषु ।
दिक्षु कूटान् प्रपां वापि कृत्वा कुण्ड चतुष्टयम् ॥ ९६ ॥
वेदाश्रं वा सुवृत्तं वा हस्तमात्रमितं यथा ।
स्थण्डिलं वा समापाद्य प्रोक्षयेदस्त्र वारिणा ॥ ९७ ॥
सर्वार्थं वा चतुर्दिक्षु प्रासादस्य तदाचरेत् ।
एकं वा कूटमापाद्य तत्र सर्वं समाचरेत् ॥ ९८ ॥
मध्यमे वेदिकायुक्तं कुम्भसंस्थापनाय च ।
अथैतद्यागशालायां कर्म सर्वं समापयेत् ॥ ९९ ॥
अथान्यत् कुण्डमैशान्यां ब्रह्माङ्ग सहितस्य च ।
तर्पणार्थं महेशस्य कल्प्यं वा मुनिपुङ्गवाः ॥ १०० ॥
शिवं सम्पूज्य विधिवल्लिङ्गे वा स्थण्डिलादिके ।
तदग्रे संयजेदस्त्रंशिवाख्यन्देशिकोत्तमः ॥ १०१ ॥
चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् ।
चन्द्रखण्डसुमूर्धानं सचतुष्कर पल्लवम् ॥ १०२ ॥
अशनिध्वनिसंयुक्तमसह्यं भीमविक्रमम् ।
द्वादशाक्षियुतं शक्तिशूलाभयवरान्वितम् ॥ १०३ ॥
ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुनार्चयेत् ।
दक्षेऽघोरमभ्यर्च्य पश्चात् पाशुपतं यजेत् ॥ १०४ ॥
सौम्ये प्रत्यङ्गिरा पूज्या तद्ध्यानमन्त्रमुच्यते ।
ॐ ह्रीङ्ङ्कारं ततः कृष्णवाससे चेति यत्पदम् ॥ १०५ ॥
ततश्च सिह्मवदने महावदन इत्यपि ।
महाभैरविवर्णे च सर्वशत्रुपदं ततः ॥ १०६ ॥
कर्मविध्वंसिनीत्येवं परमन्त्रपदं ततः ।
च्छेदनीत्युद्धरे पश्चात् सर्वभूतदमन्यपि ॥ १०७ ॥
सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् ।
सर्वविघ्नानिति पदं छिन्धिछिन्धीति यत्पदम् ॥ १०८ ॥
सर्वव्याधि निकृन्तेति निकृन्तेति पदं च यत् ।
सर्वदुष्यांस्ततो भक्ष भक्षेति पदमुद्धरेत् ॥ १०९ ॥
ज्वाला जिह्वे करालेति पदं दंष्ट्रेपदं पुन ।
प्रत्यङ्गिरे पदं पश्चात् ह्रीं नमोस्त्विति यत् पदम् ॥ ११० ॥
ते स्वाहेत्युद्धरेदेष मन्त्रः प्रत्यङ्गिरात्मकः ।
प्रणवात् सप्तवर्णं हृच्छिरः पञ्चदशाक्षरम् ॥ १११ ॥
दशाक्षरा शिखा तस्मात् कवचं सप्तवर्णकम् ।
तथैव तस्मान्नेत्राणुश्चतुस्त्रिं।शद्भिरस्त्रकम् ॥ ११२ ॥
त्रयोदशार्णा गायत्री सावित्री सप्तवर्णतः ।
नमः स्वाहावषड्वौषड् ह्रुम्फड् युक्ता हृदादयः ॥ ११३ ॥
सिह्मवक्त्रोग्रदंष्ट्राग्निसप्रभोर्ध्वशिखान्विताम् ।
कृष्णाञ्जननिभां वृत्तरक्तनेत्रत्रयान्विताम् ॥ ११४ ॥
वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं परम् ।
वहन्तीं वामहस्ताभ्यां मुण्डं शेषे तु पल्लवम् ॥ ११५ ॥
कृष्णाम्बरधरां सास्रमांसास्यां नर्तने रताम् ।
मौक्तिकाभरणैर्युक्तां सर्वावयवभूषणाम् ॥ ११६ ॥
अट्टहासरवोपेतां कृष्णाजिन समन्विताम् ।
ध्यात्वैवं गन्धपुष्पाद्यैरर्चयेत्परमेश्वरीम् ॥ ११७ ॥
अथवा पञ्चकुम्भांस्तु ससूत्रान् वस्त्रवेष्टितान् ।
गन्धोदकोदरान् कूर्चहेम पङ्कजसंयुतान् ॥ ११८ ॥
पृथक् स्थण्डिलकाधारान् सपिधानान् सपल्लवान् ।
चन्दनालिप्तदेहांस्तु विन्यस्य करकेण च ॥ ११९ ॥
तथाविधेन संयुक्तं तत्र मध्ये शिवाम्बिकाम् ।
प्रागुक्तया परितोऽस्त्राणि ततः प्रत्यङ्गिरामपि ॥ १२० ॥
इष्ट्वा विज्ञाप्य होमार्थं विशेयुः पावकालयम् ।
कुण्डं स्वकीयं संस्कृत्य पावकं च यथा पुरा ॥ १२१ ॥
स्वस्वदेवान् समावाह्य साङ्गान् गन्धादिना सह ।
तर्पयेयुर्यथान्यायं मूर्तिपा गुरुणा सह ॥ १२२ ॥
कुर्युश्चाध्ययनं मन्त्रजपं स्तोत्र जपादिकम् ।
प्राग्वत् समाहिताः स्वस्वदिक्षु सम्यग् व्यवस्थिताः ॥ १२३ ॥
प्लक्षोदुम्बरकाश्वत्थ वटास्समिध ईरिताः ।
प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ॥ १२४ ॥
तिलाज्यदूर्वास्समिधः क्षीराक्तार्काङ्गुलायतः ।
चरूश्च होमद्रव्याणि शतं पञ्चाशदेव वा ॥ १२५ ॥
प्रत्येकमेतैर्जुहुयुः स्वदेवध्यान तत्पराः ।
प्रायश्चित्ताहुतिं पूर्णां ताम्बूलाहुतिसंयुताम् ॥ १२६ ॥
रक्षादानं निरोधार्घ्यं लयाङ्गे सन्निरोधनम् ।
अन्तर्बहिर्बलिं पश्चादाचान्तो मन्त्रविग्रहः ॥ १२७ ॥
कर्म विज्ञापनं देवे प्रार्थयंस्तत्प्रसादतः ।
कर्तुर्भस्मप्रदानं च कुर्यात्सर्वमनुक्रमात् ॥ १२८ ॥
देवं कुम्भस्थपानीयैः संस्नाप्याभ्यर्चयेद्गुरुः ।
देव धाम्निकृतं चैतद्यदि कुम्भोदकैस्तदा ॥ १२९ ॥
प्रायश्चित्तं समुद्दिश्य वर्तते प्रोक्षयेत्तुतम् ।
दिशाहोमस्समाख्यातस्सर्वारिष्ट निवारणः ॥ १३० ॥
दिशाहोमो द्वितीयोऽसौ विशेषतस्तत्र कथ्यते ।
प्रत्यङ्गिरायाश्चास्त्राणां पूजा नात्र समीरिता ॥ १३१ ॥
समिदाज्योदनैर्होमस्सुतिलैस्सिततण्डुलैः ।
होमश्च पुरुषाघोरवामाजैर्दिक्षु सम्मतः ॥ १३२ ॥
स्नपनादिषु होमेऽयं चतुर्दिक्षु च सम्मतः ।
वक्ष्येहं संहिताहोमं सर्वदोषनिकृन्तनम् ॥ १३३ ॥
शुभाशायामथान्यस्मिन् नित्याग्नौ यागमण्डपे ।
उत्सवाद्यग्निमध्ये वा स्थण्डिले वा समाचरेत् ॥ १३४ ॥
सब्रह्माङ्गश्शिवश्शास्त्रे संहितेत्यभिधीयते ।
तैर्मन्त्रैस्संस्कृते वह्नौ गन्धाद्यैरर्चितो गुरुः ॥ १३५ ॥
पलाशसमिदाज्यान्नैश्शत सङ्ख्या शिवाणुना ।
शिवाद्दशांशतोऽङ्गानामाहुतिर्ब्रह्मणामपि ॥ १३६ ॥
ततोऽघोराणुना होमं पञ्चविंशतिसङ्ख्यया ।
प्रायश्चित्तार्थमापाद्य पूर्णां कुर्याद्विधानतः ॥ १३७ ॥
संहिताहोम एष स्यान्मूर्तिहोमो विधीयते ।
हर्म्याग्रेऽन्यत्र वा कृता स्थण्डिलं कृतमण्डले ॥ १३८ ॥
शिवकुम्भं न्यसेन्मध्ये वर्धनीं तस्य दक्षिणे ।
अष्टदिक्ष्वष्ट कुम्भांस्तु वज्राद्यायुध संयुतान् ॥ १३९ ॥
ससूत्रान् सापिधानाश्च सवस्त्रान् सहिरण्यकान् ।
गन्धोदकोदरान् गन्धपुष्पधूपदीप प्रदीपकैः ॥ १४० ॥
मध्यकुम्भे शिवं चेष्टवाघोरास्त्रं करके यजेत् ।
यद्वाघोरास्त्रराजानं मध्यकुम्भे शिवं विना ॥ १४१ ॥
वर्धनीमपि हित्वैव साङ्गमभ्यर्चयेद्गुरुः ।
दत्वासनमथास्त्रासनाय हुं फण्णमस्त्विति ॥ १४२ ॥
दत्वास्त्रमूर्तये हुं फण्णमो मूर्तिं च तामपि ।
ध्यायेत्सूर्यसहस्राभं प्रलयाम्बुदनिस्वनम् ॥ १४३ ॥
प्रदीप्तदशन प्रान्तप्रकाशमुखकन्दरम् ।
त्र्यक्षं तटिल्लताजिह्वादीप्तभ्रूश्ममश्रुमूर्धजम् ॥ १४४ ॥
सर्वोपवीतं शूलासिशक्तिमुद्गरधारिणम् ।
चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्ध शेखरम् ॥ १४५ ॥
नृत्यन्तं तं महाकायं नागाभरण भूषितम् ।
देवदानवदैत्यानां दर्पितानां विमर्दकम् ॥ १४६ ॥
वज्रादि शूल पर्यन्तान्यभितोऽस्त्राणि संयजेत् ।
पद्मं चक्रं तथैशाने नैऋते च क्रमाद्यजेत् ॥ १४७ ॥
तदग्र कल्पिते कुण्डे हास्तिके वृत्तसन्निभे ।
स्थण्डिले संस्कृते वापि वह्निं विन्यस्य देशिकः ॥ १४८ ॥
संस्कृत्य पञ्चसंस्कारैर्वह्निकार्योक्तवर्त्मना ।
तत्रावाह्य यजेत्साङ्गम् अघोरास्त्रं शिवानले ॥ १४९ ॥
समिदाज्य तिलक्षीरसितदूर्वामधुत्रयम् ।
हविष्यान्नं सहस्रं वा तदर्धं शतमेव वा ॥ १५० ॥
प्रत्येकं जुहुयादेतैरघोरास्त्रं शिवानले ।
कर्मनिर्देश संयुक्तमङ्गैरस्त्रैश्च तर्पयेत् ॥ १५१ ॥
पूर्णाहुतिं ततो दत्वा प्रायश्चित्तं समाप्य च ।
पुनः पूर्णां च ताम्बूलं दत्वा स्तुत्वाभिवन्द्य च ॥ १५२ ॥
अध्येष्याभीष्टमाचार्यो होमरक्षां समाचरेत् ।
स्वार्थं च यजमानार्थं च दद्यादर्घ्यं पराङ्मुखम् ॥ १५३ ॥
लयाङ्गं पूजयित्वान्ते शिवं व्याहृतिमाचरेत् ।
तत्रैव रक्षयेन्नित्यं यावत्कर्म समाप्तये ॥ १५४ ॥
प्रत्यहं जनयेद्वाथ स्थण्डिले होमकर्मणि ।
अन्तर्बहिर्बलिं दत्वा समाचम्याणुविग्रहः ॥ १५५ ॥
गत्वा कुम्भान्तिकं कर्म विज्ञाप्येशेऽस्त्ररूपिणि ।
ततस्तत्कुम्भ पानीयैः स्नापयेत् परमेश्वरम् ॥ १५६ ॥
गन्धपुष्पसृगाद्यैश्च नैवेद्यान्तैः प्रपूजयेत् ।
सम्प्रार्थ्य वाञ्चितं देवाल्लब्धानुज्ञः प्रसादजम् ॥ १५७ ॥
भस्मापि यजमानाय दातव्यं होमकर्मणि ।
अत्राप्यध्ययनं मन्त्रजपं शान्तिवदाचरेत् ॥ १५८ ॥
मूर्तिहोमः समाख्यातः प्रायश्चित्तार्थमीरितः ।
अन्योऽपि मूर्तिहोमस्य विशेषस्त्वत्र कथ्यते ॥ १५९ ॥
यजेत् कुम्भास्त्रवर्धन्योर्मध्यमे शिवमम्बिकाम् ।
संयजेन्मूर्तिमूर्तीशानष्ट कुम्भेषु बाह्यतः ॥ १६० ॥
अष्टदिक्षु च शर्वादिमन्त्रैर्होमं समाचरेत् ।
स्थण्डिलेष्वष्टकुण्डेषु वेदिकासहितेषु वा ॥ १६१ ॥
समिदाज्यतिलक्षीरयवैरष्टोत्तरंशतम् ।
पञ्चाशत्सङ्ख्यकं वापि तदर्थं वा पृथक् पृथक् ॥ १६२ ॥
पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्ष्वथ ।
शम्यपार्मश्रीवृक्षप्लक्षास्समिध ईरिताः ॥ १६३ ॥
क्षीरसस्येन्द्र हीनैर्वा पञ्चकुण्ड घटैस्तु वा ।
पञ्चपक्षेऽष्तपक्षे वा स्थण्डिलं पूर्वदिग्गतम् ॥ १६४ ॥
विधाय सर्वं मन्त्रैस्तु होमं तत्र समाचरेत् ।
पूर्वस्मिन्नीश कुण्डे वा गुरुस्संहितायाहुतिम् ॥ १६५ ॥
पूर्णाहुतिं ततो दत्वा घटोदैः स्नापयेच्छिवम् ।
सम्पूज्य गन्धपुष्पाद्यैः प्रार्थयेदिष्टसिद्धये ॥ १६६ ॥
एवं श्रेष्ठादि भेदेन मूर्तिहोमस्त्रिधामतः ।
कर्तव्यो मूर्तिहोमोयं मूर्तीशार्चनहोमयुक् ॥ १६७ ॥
सम्प्रोक्षण प्रतिष्ठादौ निष्कृत्यै नायमीरितः ।
शान्त्युक्तदिन सङ्ख्याया वशेनैतत्समाचरेत् ॥ १६८ ॥
मूर्तिहोम इति प्रोक्तो घृतस्नानादिकः पुरा ।
यतो मया समदिष्ट स्ततो नाद्यापि कथ्यते ॥ १६९ ॥
एकसन्ध्यादि भेदेन नित्यपूजा विलोपने ।
द्वारेशार्चनलोपे च पञ्चशुद्धिविलोपने ॥ १७० ॥
लोपे चासनसंस्कारोपचाराणामथावृतेः ।
पाद्यादीनां चतुष्के चाभ्यङ्गकोद्वर्तनेऽपि वा ॥ १७१ ॥
निमज्जन विहीने वा तैलाद्यैस्संयुते शिवे ।
अर्चिते पञ्चगव्ये वा लुप्ते पञ्चामृतेऽपि वा ॥ १७२ ॥
गन्धेऽदत्तेऽथवा स्वल्पे पुष्पे दत्ते विपर्ययात् ।
दीपे चारात्रिके लुप्ते धूपारात्रिकयोरथ ॥ १७३ ॥
नीराजनस्य वा दीपमालास्थेनाहृतेन वा ।
मूषिकाद्यैस्तु दीपेन वह्निना वा द्विजोत्तमाः ॥ १७४ ॥
लिङ्गबेरागमादौ तु स्पृष्टे दुष्टेऽन्यवर्णकैः ।
लिङ्गादिस्थेऽम्बरे दग्धे दग्धे सद्मनिवातथा ॥ १७५ ॥
दीपे च रक्षादीपे वा हविष्यामन्त्रणात्मके ।
हीने काण्डपटे गन्धे पुष्पे नैवेद्यकादिषु ॥ १७६ ॥
कृमिकीटनराद्यस्थिनखरोमादिदर्शने ।
देवाय दत्तद्रव्येषु नखरोमादिदर्शने ॥ १७७ ॥
श्लेष्माश्रुरुधिराद्युक्तद्रव्यैरम्भ्यर्चितेशिवे ।
सामान्यप्राणिसम्भूत मलयुक्तैरथापिवा ॥ १७८ ॥
नैवेद्याहरणे काले तोयसेके विलोपिते ।
तदाक्रमे वा शङ्खस्य निस्वने वा तदुज्झिते ॥ १७९ ॥
प्रागेव निश्चित द्रव्यहीने तस्य वर्धने ।
लिङ्गे बेरादिके शून्यमस्तके पूर्वकल्पिते ॥ १८० ॥
मालाद्येऽवस्थिते म्लाने लिङ्गाद्ये पूजिते सति ।
बलावदत्ते नित्ये वा वह्निकर्मणि नित्यके ॥ १८१ ॥
काम्ये वा त्वकृते कुण्डवह्नि संस्कार लोपने ।
अशैवाग्नौ कृते होमे वैदिकादि क्रियाकृतौ ॥ १८२ ॥
केवले सशिवे वाग्नौ निर्वाणेतु द्विजोत्तमाः ।
होमद्रव्येऽथवा हीने नित्योत्सवविलोपने ॥ १८३ ॥
बेरं विहाय वा तस्मिन् पुष्पलिङ्गादिभिः कृते ।
वृष्टिपातादिभिर्वापि राष्ट्रक्षोभादि हेतुभिः ॥ १८४ ॥
गर्भगेहे कृते तस्मिन् तत्काले दीपलोपने ।
अतोद्य नृत्तकरणे वितानस्य विलोपने ॥ १८५ ॥
बलिप्रदान कालेतु वाद्यदीपविलोपने ।
पादुकाराधन हीने तद्याने वा विलोपिते ॥ १८६ ॥
अयोजितास्त्रनाथे वा लिङ्गे पाशुपताह्वये ।
उक्तप्रदक्षिणे हीने वैपरीत्यप्रदक्षिणे ॥ १८७ ॥
बैरादौ पतिते वान्नलिङ्गे पात्रेऽथ पादुके ।
सौख्ये कृते तदङ्गे वा पञ्चाचार्याधिपोज्झिते ॥ १८८ ॥
सौख्यश्लोकविहीनेतु गणिकापतनेऽथवा ।
तदा दीपेऽथवा गाने विहीने तु द्विजोत्तमाः ॥ १८९ ॥
अतोद्यनृत्तवैकल्ये नीराजनविलोपने ।
तदङ्गे वाप्यदत्तायां रक्षायां भस्मनस्तथा ॥ १९० ॥
अदत्ते दर्पणे छत्रचामरादौ सति प्रभोः ।
कृते पर्युषित पुष्पाद्यैरर्चने गर्भगेहके ॥ १९१ ॥
सनिर्माल्येऽथवा विप्राः द्रव्यैरीशे प्रपूजिते ।
निर्माल्यसङ्करोपेतैः क्षयकुष्ठादिरोगिभिः ॥ १९२ ॥
बधिरैः पापरोगात्तैरपस्मारादिसंयुतैः ।
दुष्टलक्षणयुक्तैश्च हीनाङ्गैर्वाधिकाङ्गिभिः ॥ १९३ ॥
विशिखैर्वाचिते देवे सन्ध्यातिक्रमणे तथा ।
आदिशैव कुलोद्भूतव्यतिरिक्तैश्शिवेऽर्चिते ॥ १९४ ॥
अधिकारविहीनैर्वा देवलैर्वार्चितेशिवे ।
एवं नित्यविधो प्रोक्तः प्रायश्चित्ते ह्यनुक्रमः ॥ १९५ ॥
अनुक्रमानुरूपेण नित्यनिष्कृतिरुच्यते ।
एकसन्ध्यार्चनाहीने पूजयोत्तमया युते ॥ १९६ ॥
स्थानराज्ञोनिरोधः स्याद्दिशाहोमं तदा नयेत् ।
मध्यया मूर्तिहोमस्स्याद्धीनया शान्तिहोमकम् ॥ १९७ ॥
विधाय पूजां त्रिगुणां द्विगुणां वा समामथ ।
उपसन्ध्यार्चने हीने हीनोक्तां निष्कृतिं गुरुः ॥ १९८ ॥
नयेद्दोषापहारार्थं द्विसन्ध्यालोपने ततः ।
कलशैर्नवभिर्दैवं संस्नाप्य तदनन्तरम् ॥ १९९ ॥
प्रायश्चित्तं ततः कुर्यात् प्रागुक्तं देशिकोत्तमः ।
त्रिसन्ध्यार्चन लोपे तु स्नपनं पञ्चविंशतिः ॥ २०० ॥
चतुस्सन्ध्यार्चने हीने पञ्चाशत् स्नपनादिकम् ।
प्रायश्चित्तं प्रकर्तव्यमेकाहे तु विहीनके ॥ २०१ ॥
अष्टोत्तरशतं स्नानादिकं कार्यं पुरोदितम् ।
दिनद्वये विहीने तु द्विदिनं चैतदाचरेत् ॥ २०२ ॥
तत्रापि सन्ध्यालोपश्चेत्तदुक्ता निष्कृतिर्मता ।
दिनानि यानि हीनानि पूजया नित्यसञ्ज्ञया ॥ २०३ ॥
तदहस्सङ्ख्यया कुर्यात् प्रायश्चित्तं पुरोदितम् ।
एक मासावधिं यावत्ततस्सम्प्रोक्षणं नयेत् ॥ २०४ ॥
नान्यथा देवदेवस्य सन्निधिर्द्विजसत्तमाः ।
द्वारपालार्चने हीने विघ्नबाधा द्विजोत्तमाः ॥ २०५ ॥
तदर्थं संहिताहोमं समाप्यद्वारपान्यजेत् ।
पञ्चशुद्धि विहीना या सा पूजा त्वकृता भवेत् ॥ २०६ ॥
आसनस्कन्धहीने तु दुस्थितिर्भुवि जायते ।
शिवसंस्कारहीने तु नराः स्युर्दुष्टचारिणः ॥ २०७ ॥
अथोपचार वैकल्ये क्षुत्पिपासादिभिर्नराः ।
पीड्यन्ते क्रमभङ्गेतु साङ्कर्यं भुविजायते ॥ २०८ ॥
विद्यादावृति भङ्गेतु प्रेष्याणां दुस्थितिं गुरुम् ।
शान्ति होमं तदाकृत्वा यथावत्सर्वमाचरेत् ॥ २०९ ॥
नित्ये नैमित्तिके काम्ये पाद्यादि द्रव्य हीनके ।
तदङ्गे वा भवेल्लोके तत्तद्द्रव्यविनाशनम् ॥ २१० ॥
पाद्यद्रव्ये तदङ्गे वा विहीने पादरोगता ।
तद्वदाचमनाङ्गे वा मुखरोगो भविष्यति ॥ २११ ॥
शिरस्यर्घ्ये तदङ्गे वा हीने रोगो भवेद्ध्रुवम् ।
दूर्वापुष्पाक्षतैर्हीने तदङ्गे तत्फलं ध्रुवम् ॥ २१२ ॥
अभ्यङ्गादि विहीने तु भवेयुस्सरुजा नराः ।
पञ्चगव्य विहीने तु हीने पञ्चामृतेङ्गके ॥ २१३ ॥
तत्तद्द्रव्यविनाशस्तु भवेल्लोके न संशयः ।
गन्धादानेऽङ्गवैकल्ये पुष्पादाने तदङ्गके ॥ २१४ ॥
तत्तद्द्रव्य विनाशो हि भवेल्लोके मुनीश्वराः ।
धूपेऽदत्ते तदङ्गे वा हीने स्याद्घोर रोगता ॥ २१५ ॥
घण्टायास्ताडने हीने पिशाचै राक्षसादिभिः ।
पीडयन्ते सोपसर्गाश्च जायन्ते तन्निवासिनः ॥ २१६ ॥
दीपप्रदाने हीनेऽङ्ग लोपेवा दृष्टरोगता ।
आमन्त्रण हविर्लोपे तदङ्गानामथापिवा ॥ २१७ ॥
नैवेद्य तदङ्गस्याप्रदाने सस्यनाशनम् ।
ताम्बूलानामभावेऽङ्गे हीने वा वक्त्ररोगता ॥ २१८ ॥
अथ काण्डपटे हीने देवानां सन्निधिक्षयः ।
भवेदिति गुरुर्ज्ञात्वा प्रायश्चित्तं समाचरेत् ॥ २१९ ॥
देवं सम्पूज्य तद्द्रव्यं द्विदुणं दापयेच्छिवे ।
शान्तिहोमं ततः कुर्यात् स्नपनं वा गुरुर्नयेत् ॥ २२० ॥
तत्तद्द्रव्यविहीने च द्विगुणं दापयेच्छिवे ।
कर्तव्यस्संहिताहोमश्शताघोर जपोऽथवा ॥ २२१ ॥
द्रव्याणामेव चैतेषामर्धे पादे तदर्धके ।
प्रदत्तेऽघोर मन्त्रेण द्विचतुष्षट्शतं क्रमात् ॥ २२२ ॥
जप्त्वा देवाय तद्द्रव्यन्द्विगुणं दापयेत्ततः ।
द्रव्याण्येतान्यमन्त्रेण दत्तानि यदि शङ्करे ॥ २२३ ॥
अदत्तमेव तद्द्रव्यं देवमभ्यर्च्य देशिकः ।
दद्यादन्ते स्वमन्त्रेण द्रव्यं वा द्विगुणं समम् ॥ २२४ ॥
स्नपनं कारयेद्दिष्टं शतं घोरजपं तु वा ।
नित्ये नैमित्तिके काम्ये पाद्यादित्रयलोपने ॥ २२५ ॥
दद्योजातनरेशानाश्शतधावर्त्य देशिकः ।
याद्यादि द्विगुणं दद्यात्तद्द्रव्यं केवलं तु वा ॥ २२६ ॥
दूर्वापुष्पाक्षते हीने शतं जापोहृदामतः ।
प्रवर्तमानेऽभ्यङ्गे वोद्वर्तनिर्मज्जनादिके ॥ २२७ ॥
हीने हृदा शतं जप्त्वा द्विगुणं दापयेत्ततः ।
संस्थितेऽभ्यङ्ग तैलाद्ये पूजया संहिताहुतिः ॥ २२८ ॥
नित्ये नैमित्तिके काम्ये पूर्वकॢप्तशरावृते ।
विलुप्ते संहिताहोमं कृत्वा द्विगुणमाचरेत् ॥ २२९ ॥
अनेन विधिना कुर्यात् पञ्चगव्यं च निष्कृतिम् ।
पूर्वसङ्कल्पिते गन्धे लुप्ते सद्यः शतं जपेत् ॥ २३० ॥
जुहुयाद्वाथ तद्द्रव्यं द्विगुणं सममेव वा ।
अपुष्कले विहीने वा पुष्पे दत्ते विपर्ययात् ॥ २३१ ॥
शतवारं जपेदीशं तद्दद्यात् द्विगुणं ततः ।
धूपेचारात्रिके घोरं जप्त्वान्ते द्विगुणं ततः ॥ २३२ ॥
धूपारात्रिकयोर्दानकाले नीराजनस्य च ।
दीपमालास्थितेनाथ मुषिकाद्याहृतेन वा ॥ २३३ ॥
वह्निना यदि संस्पृष्टे लिङ्गबेरागमादिके ।
अणुना महता वापि राज्ञो रोगो भविष्यति ॥ २३४ ॥
संशोध्य वह्निना दुष्टं संस्नाप्यपरमेश्वरम् ।
पञ्चामृत समायुक्तं नालिकेरोदकान्वितम् ॥ २३५ ॥
सम्पूज्य देवदेवेशं मूर्तिहोमं समाचरेत् ।
अणुमात्रो भवेद्वह्निर्यदि शान्तिं समाचरेत् ॥ २३६ ॥
लिङ्गबेरादिसंस्थानि वासांसि यदि वह्निना ।
निर्दग्धानि तदा कुर्यात् कर्म सम्प्रोक्षणादिकम् ॥ २३७ ॥
दग्धानि चेत् प्रदेशेन तदा शान्तिं समाचरेत् ।
दहने सद्मनः कुर्यात् सद्म सम्प्रोक्षणात्मकम् ॥ २३८ ॥
देवाय स्नपनं कुर्यात् धामच्छेदादिसम्भव ।
तदुक्तां निष्कृतिं कुर्यात् सन्धानादि समन्वितम् ॥ २३९ ॥
वह्निना लिङ्गबेरादावन्यवर्णमुपायते ।
मानुषं चेत् परित्याज्यं ग्राह्यं स्वायम्भुवादिकम् ॥ २४० ॥
प्रतिक्रियानुकर्मोक्त्या कार्या सम्प्रोक्षणान्विता ।
पुस्तको यदि लेशेन दग्धः शान्तिं समाचरेत् ॥ २४१ ॥
सकले विकले कुर्याच्छिवस्य स्नपनं महत् ।
प्राण्यङ्गधूपादेन च पञ्चमस्य शतं जपेत् ॥ २४२ ॥
दीपानामथ वैकल्ये जपेदघोर शतत्रयम् ।
दीपानि द्विगुणं पश्चात् देवदेव प्रदापयेत् ॥ २४३ ॥
रक्षा दीपस्य विच्छेदेऽप्येवं द्विगुणजापयुक् ।
हविष्य दत्ते देवाय स्नपनं तु विधाय च ॥ २४४ ॥
द्विगुणं दापयेत्पश्चादामन्त्रण हविष्यपि ।
अथ काण्डपटे हीने कवचं द्विशतं जपेत् ॥ २४५ ॥
गन्धपुष्पनिवेद्यादि द्रव्येष्वपि तथा भवेत् ।
कृमिकीटनराद्यस्थिनखरोमादि दर्शने ॥ २४६ ॥
त्यजेत् स्वल्पं तु तद्द्रव्यं महच्चेन्न परित्यजेत् ।
शिवाय दत्तद्रव्येषु नखरोमादि दर्शने ॥ २४७ ॥
पञ्चगव्यैस्सुसंस्नाप्य जपेदघोरं शतत्रयम् ।
श्लिष्माश्रुरुधिराद्युक्त द्रव्यैश्चेत् पूजितः शिवः ॥ २४८ ॥
स्नपनं देवदेवाय कल्पयेत् कर्तुरिच्छया ।
सामान्यप्राणि सम्भूतमलयुक्ते तथाचरेत् ॥ २४९ ॥
नैवेद्याहरणे पाकस्थानात्तोयेन सेचनम् ।
हीनं लङ्घनं तत्र यदि जायेत दोषदम् ॥ २५० ॥
अर्घ्याम्बुना तदाप्रोक्ष्य नैवेद्यं बहुरूपिणा ।
शतं जपेद्विशुध्यर्थं हीने वा शङ्खनिस्वने ॥ २५१ ॥
आतोद्य सहिते स्थाने पुरुषाणां शतं जपेत् ।
प्रागेव निश्चितद्रव्यहीने तद्दोषकारकम् ॥ २५२ ॥
तदा मूलं शतं जप्त्वा द्विगुणं दापयेच्छिवे ।
प्रागेव निश्चितद्रव्यवर्धनं धनवर्धनम् ॥ २५३ ॥
नित्ये नैमित्तिके काम्येऽप्येषा निष्कृतिरीतिता ।
लिङ्गबेरादयश्शून्यमस्तकायदि दोषदाः ॥ २५४ ॥
तदाघोरं शतं जप्त्वा पुष्पाद्यैरर्चयेत्ततः ।
पूर्वसन्ध्यार्चितम्लानपुष्पाद्यैस्समवस्थिते ॥ २५५ ॥
पूजिता लिङ्गबेराद्या यदि दोषकरा नृणाम् ।
अघोरेण शतं जप्त्वा पुनः पूजां समाचरेत् ॥ २५६ ॥
बलिदानविहीनं चेद्भवन्त्यखिलदेवताः ।
तत् स्थान विमुखास्तासां तृप्त्यर्थं द्विगुणं नयेत् ॥ २५७ ॥
दशाहोर्ध्वं विहीनं चेत् स्वाणुनापि शताहुतिः ।
नित्ये नैमित्तिके काम्ये त्वकृते वह्निकर्मणि ॥ २५८ ॥
अवग्रहो भवेत्तत्र शान्तिहोमं समाप्य च ।
पुनस्तत्त्रिगुणं कार्यं तन्मात्रं वा द्विजोत्तमाः ॥ २५९ ॥
यदि देशिकसामर्थ्यं द्विसन्ध्यादौ समाचरेत् ।
होमकार्याणि यावन्ति परित्यक्तानि देशिकैः ॥ २६० ॥
तत्तद्द्रव्यैश्च तावन्ति मिलित्वा दिनवृद्धितः ।
प्रमाणहीनं तत्कुण्डं स्थण्डिलं वारि वृद्धिदम् ॥ २६१ ॥
शान्तिहोमं तदा कृत्वा यथावत्पुनराचरेत् ।
कुण्डसंस्कारहीने तु शिवाग्निर्नैव सिद्ध्यति ॥ २६२ ॥
तथाविधे कृते होमे कुण्डे वा स्थण्डिलेऽपि वा ।
अनिष्पन्ने शिवाग्नौ वा तयोस्संस्कार पूर्वकम् ॥ २६३ ॥
होमः पुनरपीष्टस्स्यान्नान्यथा देव सन्नधिः ।
अशैवाग्नौ कृतो होमश्शैवो व्याधिप्रदो भवेत् ॥ २६४ ॥
शिवाग्निरेव शैवे स्यान्नान्योऽग्निः शिवमन्दिरे ।
वैदिकाग्नि क्रिया या तु नेष्यते शिवमन्दिरे ॥ २६५ ॥
पुण्याहाद्यं कथं चोक्तमिति चेच्छैव चोदितम् ।
इत्यत्र क्रियते नैव स्वमनीषा प्रवर्तितम् ॥ २६६ ॥
शिवालये प्रकर्तव्यमित्यादि श्रुतिचोदितम् ।
अस्ति चैद्वेदिकं कर्मेत्येतत्सिद्धान्तवर्त्मना ॥ २६७ ॥
कामिकादि प्रभेदेन स्थापिते पूजितेऽपिवा ।
नोच्यते वैदिकं वाथ पुराणस्मृतिचोदितम् ॥ २६८ ॥
किमु पाशुपतादीनां प्रवेशो नेतितद्विजाः ।
रक्षितेऽग्नौ तु निर्वाणे यजमान विनाशनम् ॥ २६९ ॥
तदाघोराणुना कुर्यात्सहस्रं जपतर्पणे ।
सशिवेऽपि हि निर्वाणेऽयुतं घोराणुनाहुतिम् ॥ २७० ॥
तत्सङ्ख्याजप संयुक्तां निष्कृत्यर्थं समाचरेत् ।
होम द्रव्य विहीने स्यात् तद्द्रव्य द्विगुणागुतिः ॥ २७१ ॥
नित्योत्सवो विहीनश्चेत् सर्वदोषकरो नृणाम् ।
तदादेवं समभ्यर्च्याघोरेणैव शतं हुनेत् ॥ २७२ ॥
सन्धित्रयेऽपि हीने तु शान्ति होमं समाचरेत् ।
अहोरात्रे विहीने तु स्नपनं कारयेच्छिवे ॥ २७३ ॥
पञ्चाहात्तु तदेव स्यादघोरशतहोमयुक् ।
दशाहे स्नपनं शान्तिहोमसंयुक्तमाचरेत् ॥ २७४ ॥
तस्य पक्षकविच्छेदे शान्तिः स्यात् स्नपनेन तु ।
एकमासान्तरे हीने स्नपनं च शताहुतिः (दिशाहुतिः) ॥ २७५ ॥
शान्तिस्तदूर्ध्वं स्यात् किं तु त्रिदिनं ब्राह्मणोत्तमाः ।
पक्षान्तरे ततोप्यूर्ध्वं यदि निष्कृति ऋक्षकम् ॥ २७६ ॥
वर्धयेद्युग्म सङ्ख्यातं पक्षपक्षावसानकम् ।
नित्योत्सवश्च कर्तव्यो निष्कृतेरनुदेशिकैः ॥ २७७ ॥
निवर्त्यमाने बेरेण तस्मिन्नित्योत्सवे यदा ।
बेरं विहाय पुष्पाद्यैर्लिङ्गैर्निर्वर्तिते सति ॥ २७८ ॥
तदाघोरं जपेन्मन्त्री त्रिशतं द्विशतं तु वा ।
वृष्टिपातादिभिर्वापि राष्ट्रक्षौभादिहेतुभिः ॥ २७९ ॥
गर्भगेहे कृते नित्योत्सवेप्येवं जपोऽर्धभाक् ।
तत्काले दीपविच्छेदे राष्ट्रभन्धतमो भवेत् ॥ २८० ॥
तदाघोरशतं जप्त्वा दीपद्विगुणमाचरेत् ।
एवं स्याद्यदि वाद्ये वा नृत्ते वा दोषकारकम् ॥ २८१ ॥
कृत्वा तु संहिताहोममघोर जपमेव वा ।
सहस्रं द्विगुणं पश्चान्नृत्तं वाद्यं समाचरेत् ॥ २८२ ॥
तदा वितानवैकल्ये तृतीयं त्रिशतं जपेत् ।
एवं स्यात् बलिदानेऽपि वाद्यादीपविलोपने ॥ २८३ ॥
पादुकाराधने हीने याने वा पादरोगता ।
कुर्याद्वा संहिताहोमं सहस्रं दक्षिणं जपेत् ॥ २८४ ॥
अयोजितेऽस्त्रनाथेवा लिङ्गे पाशुपताह्वये ।
विघ्नबाधा जपेद्घोरं कुर्याद्वा संहिताहुतिम् ॥ २८५ ॥
उत्सवे कृत एवं स्याद्वैपरीत्य प्रदक्षिणे ।
उक्त प्रटक्षिणेहीने संहिताहोम इष्यते ॥ २८६ ॥
बेरादिपतने यानकाले संवत्सरोक्तवत् ।
तद्वत्कुर्यान्निष्कृतिं च अन्नलिङ्गादिपातने ॥ २८७ ॥
बेरेतु पतिते कुर्यादन्नलिङ्गोक्त निष्कृतिम् ।
पादुके पतिते राष्ट्रकलहस्तन्निवर्तये ॥ २८८ ॥
ध्वजाधिवासरीत्या तु कुम्भं संस्थाप्य मध्यमे ।
पादुकं च समभ्यर्च्य तत्पुरश्शान्तिहोमकम् ॥ २८९ ॥
विधाय कुम्भन्यासं च कृत्वान्ते स्नानमाचरेत् ।
भेदादावनुकर्मोक्त्या निष्कृतिस्स्याद्विजोत्तमाः ॥ २९० ॥
सौख्यं चेन्न कृतं विद्यात्तदा तल्लोकदुःस्थितम् ।
पञ्चविंशतिभिः कुर्यात्स्नपनं कलशैस्तदा ॥ २९१ ॥
नवभिः कलशैर्वाथ गव्यस्नपनमेव वा ।
सौख्यानि यानि हीनानि तत्सौख्यं द्विगुणं नयेत् ॥ २९२ ॥
पञ्चाशत् स्नपनाख्यं स्यादनेकदिनलोपने ।
सौख्याङ्गे तु विहीने वा द्विगुणं तु तदा नयेत् ॥ २९३ ॥
पञ्चाचार्याः स्वकर्माणि न कुर्वन्ति तदा यदि ।
तदा मर्त्याः स्ववृत्तिस्था न भवन्त्यत्र वासिनः ॥ २९४ ॥
ईशास्याघोरवामाजाञ्जपेन्मन्त्राश्शतं शतम् ।
सर्वाभावे नयेच्छान्तिहोमं बहुदिनेऽपि च ॥ २९५ ॥
सौख्यश्लोक विहीने स्यात् तत्सौख्यमकृतं भवेत् ।
अघोरेण शतं जप्त्वा पुनस्तद्द्विगुणं नयेत् ॥ २९६ ॥
सौख्यकाले तु गणिकापतने राष्ट्रदुःस्थितिः ।
यावदेव तदा कुर्याच्छान्ति होमं तदुक्तवत् ॥ २९७ ॥
स्नपनं वा त्वघोरेण सहस्रजपमेववा ।
सौख्यदीपस्य विच्छेदे घोरेणैक शतं जपेत् ॥ २९८ ॥
गानाभावे च तद्राष्ट्रभीतिस्सौख्यं यथोदितम् ।
प्रायश्चित्तं तदा कार्यं तद्भीतिविनिबृत्तये ॥ २९९ ॥
आतोद्य नृत्तवैकल्ये संहिताहोम इष्यते ।
सहस्रं वा जपेद्घोरं द्विगुणं दापयेत्ततः ॥ ३०० ॥
नीराजने तदङ्गे वा हीनेऽग्निभयमादिशेत् ।
देवं संस्नाप्य गव्येन समभ्यर्च्यादराद्गुरुः ॥ ३०१ ॥
द्विगुणं तु नयेत्पश्चाद्यानि हीनानि तानि च ।
शान्तिहोमस्तु वा कार्यो मूर्तिहोमोथवा मतः ॥ ३०२ ॥
अदत्ता भस्मरक्षा चेदघोरेण शतं जपेत् ।
अदत्ते दर्पणच्छत्रचामारादौ तदा नयेत् ॥ ३०३ ॥
अघोरजपसाहस्रमथ पञ्चशतं तु वा ।
कृतेऽप्युषितपुष्पाद्यैरर्चने राष्ट्र विभ्रमः ॥ ३०४ ॥
स्नपनं देवदेवाय कृत्वा शान्तिं त्र्यहं नयेत् ।
गर्भगेहे सनिर्माल्ये देवानां नात्र सन्निधिः ॥ ३०५ ॥
स्थलशुद्धिं तदा कृत्वा देवं सम्पूज्य यत्नतः ।
अघोराख्यं जपेन्मन्त्रं सहस्रं दोषशान्तये ॥ ३०६ ॥
निर्माल्य सङ्करोपेतैर्द्रव्यैरीशे प्रपूजेते ।
तद्राष्ट्रवासिनो मर्त्याः पीडयन्ते शत्रुभिस्तदा ॥ ३०७ ॥
क्षयकुष्ठादिरोगार्तैर्बधिरैः पापरोगिभिः ।
अपस्मारादिभिर्ग्रस्तैर्दुष्टलक्षण लक्षितैः ॥ ३०८ ॥
हीनाधिकाङ्गैर्वेज्यायां कृतायां विशिखैस्तु वा ।
राष्ट्रक्षोभाय सा पूजा भवेन्निष्कृतिरुच्यते ॥ ३०९ ॥
सकृत् कृतेऽर्चने घोरशतमेकं नेयेद्गुरुः ।
तदूर्ध्वं शतवृद्ध्या तु कालभेदाज्जपं नयेत् ॥ ३१० ॥
पक्षोर्ध्वे संहिताहोमो मासोर्ध्वे शान्तिहोमकः ।
षाण्मासोपरि शान्तिस्स्यान्मूर्तिहोमस्समोपरि ॥ ३११ ॥
स्वदेशकालयोरेव यज्ञा इष्टफलप्रदाः ।
अन्यदेशेऽन्यकाले च त एवानिष्टहेतवः ॥ ३१२ ॥
सन्ध्याति क्रमणे घोर सहस्र जपमाचरेत् ।
सा च पञ्चविधा प्रोक्ता शास्त्रे बालादि भेदतः ॥ ३१३ ॥
बालातिबाला युवतिर्वृद्धाति श्रेयसी मता ।
अतिबालाति वृद्धाभ्यां तास्सार्ध घटिका मताः ॥ ३१४ ॥
मार्ताण्डस्योदयार्धात्तु मध्यमात् पूर्वगानिनी ।
अतिबाला च बाला च नास्ति ग्राह्यस्तिसृष्वपि ॥ ३१५ ॥
सन्ध्यास्तत्पृष्ठगामिन्यो युवत्याद्यस्समीरिताः ।
तास्वेव प्रारभेत्पूजां पूर्वाह्णादिषु सर्वदा ॥ ३१६ ॥
श्रेयस्यामुत्तमा तस्याः पार्श्वयोर्मध्यमे मते ।
अतिबालातिवृद्धा च गर्हितारम्भकर्मणि ॥ ३१७ ॥
आराब्धाचेत्तयोः पूजा पूर्वोक्तानिष्कृतिर्मता ।
सन्ध्यारम्भे तदन्यत्र संहिताहोममाचरेत् ॥ ३१८ ॥
आदिशैव कुलोद्भूत व्यतिरिक्तैश्शिवार्चने ।
कृते परार्थे दोषाय सकृत्सन्ध्यार्चने कृते ॥ ३१९ ॥
आचरेत्संहिताहोमं तद्वृद्ध्यादिनवर्धने ।
पक्षोर्ध्वं शान्तिरित्युक्ता मासोर्ध्वं शान्तिहोमकः ॥ ३२० ॥
द्विमासे मूर्तिहोमः स्याच्चतुर्मासे दिशाहुतिः ।
षाण्मासोर्ध्वे विधातव्यं कर्मसम्प्रोक्षणं द्विजाः ॥ ३२१ ॥
षाण्मासात्परतो यस्मादतो देवलकाह्वये ।
अधिकारोऽनुशैवेस्ति भृत्यर्थं न बवेद्यदि ॥ ३२२ ॥
मध्यदेशोद्भवश्चेद्यस्तस्य तत्राधिकारिता ।
चललिङ्ग प्रतिष्ठायां दीक्षायां सर्वदेशकाः ॥ ३२३ ॥
विन्ध्याद्रे र्दक्षिणे राज्ञामुत्तरे वैश्यजन्मनाम् ।
सान्तानिकस्य सर्वत्र न च शूद्रस्य कीर्तिता ॥ ३२४ ॥
अधिकारविहीनेनानुष्ठितं त्वकृतं भवेत् ।
कृते देवलकाह्वेन स्थापनादौ गुरूत्तमाः ॥ ३२५ ॥
पुनस्संस्थापनं कृत्वा विधिनार्चां समाचरेत् ।
अधिकारविहीनेनानुष्ठितं तद्वदाचरेत् ॥ ३२६ ॥
एवं नित्यविधौ प्रोक्तं प्रायश्चित्तं द्विजोत्तमाः ।
अष्टबन्धादि विश्लेषे निष्कृतिक्रम उच्यते ॥ ३२७ ॥
अष्टबन्धे तु विश्लिष्टे लिङ्गे वा प्रतिमादिके ।
रिपुणा सङ्गृहीतो वा देवी वा केवलाद्विजाः ॥ ३२८ ॥
देवीं विहाय देवो वा केवलो रिपुणा हृतः ।
तत्रापि धाम्नि स्फुटिते महत्स्वल्पादि भेदतः ॥ ३२९ ॥
स्थूप्याद्यवयवच्छेदे स्थलाधो जलनिस्रवे ।
स्थलेऽधः पतिते वापि तदङ्गे वाखिलेऽपि वा ॥ ३३० ॥
पिण्डिकापतने वाधः परिवारविलोपने ।
बलिपीठविहीने तु तज्जीर्णे स्फोटनेऽपिवा ॥ ३३१ ॥
तद्दाहपतनादौ च प्राकारे गोपुरे तथा ।
जीर्णेपि पतिते वापि स्फोटनादिसमन्विते ॥ ३३२ ॥
कपिकुक्कुटकाद्यैर्वा कपोतैस्सूकरैश्श्वभिः ।
उलूकगृध्रकाकैश्च ऋतुस्त्री चोर गर्दभैः ॥ ३३३ ॥
पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ ।
गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रतिलोमजैः ॥ ३३४ ॥
गुर्वादिद्रोह संयुक्तैर्दीक्षाहीनैर्द्विजातिभिः ।
चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः ॥ ३३५ ॥
हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः ।
शिल्पिभिः पाणचण्डालरजकाद्यैरथापि वा ॥ ३३६ ॥
स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ गर्भगेहके ।
प्रविष्टे वाथ पूर्वे तु मण्डपे प्रतिमाह्वये ॥ ३३७ ॥
परिवारालये वान्तर्मण्डपे वा द्वितीयके ।
महानसे प्रविष्टे वा बलिपीठेषु वा द्विजाः ॥ ३३८ ॥
निर्वाणदीक्षया हीनैश्शूद्राद्यैस्समयस्थितैः ।
परार्थं स्थापिते लिङ्गे स्पृष्टे गर्भे प्रवेशिते ॥ ३३९ ॥
अन्तर्मण्डलसालादौ मालिकादौ च मण्टपे ।
उषिते वा चिरं मध्ये अशुचिक्षेपणेऽथवा ॥ ३४० ॥
गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यदेशके ।
विष्ठाख्यप्रस्रवोद्गारश्लेष्म मद्यादि सेचने ॥ ३४१ ॥
अशौचिभिः त्रिवर्णाद्यैरन्तर्मण्डलवेशने ।
प्रासादे गर्भगेहेऽर्धे प्रतिमा मण्टपादिके ॥ ३४२ ॥
साले वा मालिकायुक्ते केवले गोरुराङ्कणे ।
बेरे पीठे वृषादौ वा तद्धाम्नि बिलपीठके ॥ ३४३ ॥
परिवारालये कूपे पचनालय एव वा ।
आस्थानमण्डपेऽन्यास्मिन् नृपवेश्मनि वा गृहे ॥ ३४४ ॥
सभायां चूलिकायां वा वाल्मीके समुपस्थिते ।
शिथिलीसम्भवे वाथ मधुपञ्जर सम्भवे ॥ ३४५ ॥
बृहत्पिपीलिकाक्षुद्रारक्तस्त्रीक्षुद्रजन्तवः ।
एतेषां वा समुत्पत्तौ द्वारे वा शयनालये ॥ ३४६ ॥
तैलाज्यहविषः स्थाने द्वारनालेऽनिलालये ।
अजगोमहीषादीनां स्थाने वा ग्राम मध्यमे ॥ ३४७ ॥
दार्वादि लिङ्गे बेरादौ वीथ्यां वा चैत्यदारुणि ।
मठे प्रपादिके वापि आरामादावथापि वा ॥ ३४८ ॥
लिङ्ग मूलेऽथवा तेषां वल्मीकादौ समुद्भवे ।
नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ॥ ३४९ ॥
वैकल्ये वा तदङ्गस्य स्थण्डिले वा तदङ्गके ।
कुम्भादीनां विलोपे च कुम्भादौ मानवर्जिते ॥ ३५० ॥
स्थापिते शिवकुम्भे वा करके कलशेऽपिवा ।
भेदादिसहिते दत्ते पृष्टे वा द्विजसत्तमाः ॥ ३५१ ॥
शङ्ख हैमादि पात्रैर्वा ब्रह्मवृक्षादलोद्भवैः ।
स्नपने कल्पिते बेरे सूत्रवेष्टनवर्जिते ॥ ३५२ ॥
स्वल्पेन तन्तुनावाथ वेष्टिते कलशादिके ।
विधानकूर्च लोपे वा उत्कूर्चक्रमलोपने ॥ ३५३ ॥
रत्नहेमाम्बरादीनां विलोपे च घटादिषु ।
गव्यादि द्रव्य लोपे वा पुण्याहे वा विवर्जिते ॥ ३५४ ॥
कुम्भादावर्चनापेते मन्त्रन्यासाप्रकल्पने ।
आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ॥ ३५५ ॥
पवित्रारोहणे हीने दमनारोहणेऽपिवा ।
कृत्तिकादीपविच्छेदे राष्ट्रक्षोभादिहेतुभिः ॥ ३५६ ॥
बेरादौ भुवि तोये वा गुहायां वा सुरक्षिते ।
पुष्पशून्यशिरोलिङ्गे वृष्टिपातादिसेचिते ॥ ३५७ ॥
भग्नधामस्थिते वापि मृगपक्षिसरीसृपैः ।
पशुभिर्बाधिते लिङ्गे देवतान्तरबाधिते ॥ ३५८ ॥
एवमादिषु कृत्येषु प्रायश्चित्तं विधीयते ।
अष्टबन्धेतु विश्लिष्टे राष्ट्रे शैथिल्यमादिशेत् ॥ ३५९ ॥
अष्टबन्धं त्रिबन्धं वा कृत्वान्ते स्नपनं नयेत् ।
पुरातनं परित्यज्य शास्त्रेणास्त्रं समुच्चरन् ॥ ३६० ॥
अघोरेण शतं होमं समिदाज्यतिलोदनैः ।
रिपुणा सङ्गृहीतं चेल्लिङ्गं वा प्रतिमादिकम् ॥ ३६१ ॥
तद्राष्ट्रनाशो नृपतिश्शत्रुभिः परिपीड्यते ।
सर्वयत्नात् तदाहृत्य तत्रैव स्थापनाय च ॥ ३६२ ॥
लब्धं चेल्लिङ्ग बेराद्यं गुप्तदेशेविधाय च ।
लिङ्गोत्पाटजदोषस्य शान्त्यर्थं घोरमन्त्रतः ॥ ३६३ ॥
सहस्रं होमयेजाद्यतिलाभ्यां चरुणा शतम् ।
मधुरत्रय संयुक्तं सहस्रं दूर्वयाहुतिम् ॥ ३६४ ॥
कृत्वान्ते स्थापनोक्त्यातु स्थापयेत्पूर्वभूतले ।
लक्षणोद्धारणं दृष्टि मोचनं जलवेशनम् ॥ ३६५ ॥
विहायान्यत् प्रकर्तव्यं स्थापयेत् तत्वदर्शिभिः ।
अलब्धं लिङ्गबेराद्यं यदान्यत् स्थापयेन्नवम् ॥ ३६६ ॥
मादादर्वाक् तदूर्ध्वं चेद्यावन्मासत्रयावधि ।
प्रत्यहं शान्तिहोमश्च कर्तव्यः स्थापनान्तकम् ॥ ३६७ ॥
तदूर्ध्वं स्थापनं बाललिङ्गादेश्चात्र नोदितम् ।
तस्मात् सर्वप्रयत्नेन मासत्रितयमध्यमे ॥ ३६८ ॥
संस्थाप्य बाललिङ्गाद्यं बालस्थापन वर्त्मना ।
कैर्गृहीतं क्व चोराद्याः क्व लिङ्गं कीदृशं तु तत् ॥ ३६९ ॥
प्रतिमा मुखलिङ्गं वा बाणलिङ्गादिकं तु वा ।
प्रत्यहं चैवमन्वेष्य स्थितमन्यत्रचेद्ध्रुवम् ॥ ३७० ॥
तदायुद्धेन जित्वा वा वित्तं दत्वाथवादरात् ।
आहृत्य लिङ्गबेराद्यं स्वस्थाने स्थापयेभृशम् ॥ ३७१ ॥
संवत्सरत्रयादर्वाक् संलब्धं बहुयत्नतः ।
संवत्सरत्रयादूर्ध्वमलब्धं चेन्मुनीश्वराः ॥ ३७२ ॥
मूलस्थाने यथापूर्वं तद्द्रव्यैस्तत्प्रमाणतः ।
संस्थाप्य मूललिङ्गाद्यमर्चयेदर्चनोक्तवत् ॥ ३७३ ॥
अज्ञातं पूर्वमानं चेदाकृतिर्वगुरूत्तमैः ।
तत्प्रासादानुरूपेण यजमानानुरूपतः ॥ ३७४ ॥
लिङ्गमापाद्य विधिना स्थापयेदुक्तवर्त्मना ।
बाणलिङ्गं तु वा तत्र स्थापयेत् सर्वसिद्धये ॥ ३७५ ॥
बेराद्यं पीठिकावापि न्यायेनानेन कारयेत् ।
देवीं विहाय देवो वा देवी वा केवला यदा ॥ ३७६ ॥
शत्रुभिस्सङ्गृहीता चेत् स्थितस्यैवानुरूपतः ।
सम्पाद्य चेतरं तस्य प्रतिष्ठां च समाप्य च ॥ ३७७ ॥
कल्याणं कारयेदन्ते विधिना देशिकोत्तमः ।
स्थापनान्ते तु बेरमाद्यमानीतं चेत्तदन्तिके ॥ ३७८ ॥
देशे संस्थाप्य विधिना पूजयेन्नित्यमादरात् ।
पीठं चेत् सन्त्यजेल्लिङ्गे नाथवान्येन योजयेत् ॥ ३७९ ॥
प्रासादस्स्फुटितः पूर्वे यदि राज्ञो भयं भवेत् ।
आग्नेय्यामग्निदाहः स्याद्दक्षिणे कलहो भवेत् ॥ ३८० ॥
नैॠत्यं धननाशस्स्याद्वारुण्यां भृत्यनाशनम् ।
वायव्यां शत्रुवृद्धिस्यादुत्तरे पुत्रनाशनम् ॥ ३८१ ॥
ऐशान्यां दुःखभाग्राजाक्रमेणैवं फलं मतम् ।
उत्तमादि विभेदेन कृत्वा शान्तिं पुरोदिताम् ॥ ३८२ ॥
शान्तिहोमयुतामन्ते सन्धानं धाम्न आचरेत् ।
प्रासादमनुकर्मोक्त्या कारयेद्वा यथाविधि ॥ ३८३ ॥
स्वल्पभेदादियुक्तश्चेच्छान्तिहोमं समाचरेत् ।
प्रासादार्धे त्रिपादे वा पादेऽष्टांशेऽथ भग्नके ॥ ३८४ ॥
कुर्याद्धाम्नोऽथ सन्धानं षट्पञ्चयुगवह्निजम् ।
प्रायश्चित्तं प्रकर्तव्यं पूर्वोक्तं भावितात्मभिः ॥ ३८५ ॥
स्थूप्याद्यवयवच्छिन्नेऽप्येतदेकाहमाचरेत् ।
स्थलाधो जलनिःस्रावे जलेऽधः पतितेऽपिवा ॥ ३८६ ॥
तदङ्गे वा निभग्ने तु भूमौ दोषः प्रजायते ।
शान्तिहोमं तदाकुर्यात् सलिले पतिते त्र्यहम् ॥ ३८७ ॥
कुम्भस्थं वा देवेशं कृत्वा कुर्यात् स्थलक्रियाम् ।
प्रोक्षयेद्वास्त्रतोयेन स्नानार्थं प्रतिसन्ध्यकम् ॥ ३८८ ॥
पुण्याहप्रोक्षणोपेतं शिल्पिभिः कारितेस्थले ।
ततस्सम्प्रोक्षणं कुर्यात् स्थलकर्मावसानके ॥ ३८९ ॥
पिण्डिका पतिताऽधश्चेत् स्वस्थानान्मुनिपुङ्गवाः ।
पीडारिभिर्भवेत् कुम्भवर्धन्योश्च शिवं शिवाम् ॥ ३९० ॥
सविद्येशं समावाह्य पिण्डीं स्थानगतां नयेत् ।
नयेत्तुत्रिदिनं शान्तिं मन्त्रन्यासपुरस्सरम् ॥ ३९१ ॥
ततस्सम्प्रोक्षमं कुर्याच्छिल्प्यादिस्पर्शनं यदि ।
परिवार विहीनेतु भृत्यवर्गस्यनाशनम् ॥ ३९२ ॥
परिवारं समापाद्य प्रतिष्ठां कारयेत्ततः ।
बलिपीठे विहीने तु सर्वदोषावहं भवेत् ॥ ३९३ ॥
सङ्कल्प्य पूर्ववत्पीठं ततस्तत्स्थापनं नयेत् ।
तज्जीर्णे स्फुटिते दाहे पतनादौ सति द्विजाः ॥ ३९४ ॥
शान्तिहोमं तदा कृत्वा सम्प्रोक्षणमथाचरेत् ।
प्राकारे गोपुरे जीर्णे पतिते स्फोटनादिके ॥ ३९५ ॥
राज्ञो भयकरं प्रोक्तं शान्तिहोमं तदा नयेत् ।
ततस्सम्प्रोक्षणं कुर्यात् सन्धानं स्फोटनादिषु ॥ ३९६ ॥
कृत्वा गव्येन सम्प्रोक्ष्य शान्तिमेकाहमाचरेत् ।
कपि कुक्कुटकाद्यैर्वा कपोतैस्सूकरैःश्वभिः ॥ ३९७ ॥
उलूकगृध्रकाकैश्च ऋतुस्त्रीचोर गर्दभैः ।
पतितैः प्रेतकैर्वापि पातकैस्सूतकैरथ ॥ ३९८ ॥
गूढजैः पापरोगात्तैर्व्रात्यैर्वा प्रति लोमजैः ।
गुर्वादिद्रोह संयुक्तैदीक्षाहीनैर्द्विजादिभिः ॥ ३९९ ॥
चतुष्पादैरथान्यैश्च पक्षिभिर्वा सरीसृपैः ।
हीनजातिभिरन्यैर्वा नरैर्दीक्षान्तरस्थितैः ॥ ४०० ॥
शिल्पिभिः पाणचण्डालरजकाद्यैरथापिवा ।
स्पृष्टे पीठेऽथ लिङ्गे वा बेरादौ तत्रवासिनः ॥ ४०१ ॥
राष्ट्रे शत्रु जनैर्मर्त्याः पीडयन्ते सर्व एव ते ।
मृत्भाण्डांस्तु त्यजेदेतैः स्पृष्टानासन्नकानपि ॥ ४०२ ॥
गोमयालेपने कृत्वा पुण्याहं च गुरूत्तमः ।
गव्येन स्नपनं कृत्वा सम्प्रोक्षनमथाचरेत् ॥ ४०३ ॥
ऋतुस्त्रीपातकाशौचकारकैः स्पर्शितेसति ।
शान्तिहोमादिकं कार्यं प्रागुक्तं रजकैरपि ॥ ४०४ ॥
चण्डालपाणकाद्यैश्चेच्छान्तिकर्मादिकं नयेत् ।
गर्भगेहे प्रविष्टे तु स्नपनं शान्तिहोमयुक् ॥ ४०५ ॥
सम्प्रोक्षणं विनाकुर्यात् कपिकुक्कुटकादिभिः ।
ऋतुस्त्रीपातकाद्यैश्चेत् प्रविष्टं गर्भगेहकम् ॥ ४०६ ॥
तदा सम्प्रोक्षणं कुर्यात् केवलं प्राक् प्रचोदितम् ।
चण्डालरजकाद्यैश्चेच्छान्ति होमसमायुतम् ॥ ४०७ ॥
सम्प्रोक्षणं विधातव्यं क्रमादेवं त्रिधा मतम् ।
शान्तिकर्मदिशाहोमं क्रमात्सम्प्रोक्षणं नयेत् ॥ ४०८ ॥
त्रिप्रकारैः क्रमादर्धमण्डपस्य प्रवेशने ।
प्रथमे च द्वितीये च चण्डालविहितं तु यत् ॥ ४०९ ॥
प्रायश्चित्तमृतुस्त्रीणां स्पर्शनादौ विधीयताम् ।
प्रतिमा मण्डपावेशे त्रिप्रकारैः क्रमेण वै ॥ ४१० ॥
शान्तिहोमं च मूर्त्याख्यं दिशाहोमं क्रमान्नयेत् ।
दीक्षाहीनान् द्विजातींश्च हित्वा दीक्षान्तरानपि ॥ ४११ ॥
परिवारालयावेशेऽप्येतदेव समीरितम् ।
कपोतकाकसर्पादि प्रवेशो नात्र दोषभाक् ॥ ४१२ ॥
चण्डालरजकाद्यैश्चेदन्तर्मण्डल वेशनम् ।
कृतं चेन्मूर्तिहोमस्स्याच्छान्तिहोमो द्वितीयके ॥ ४१३ ॥
गोमयालोपनाद्यं च समानं सर्वकर्मसु ।
परिवारालयोक्तं प्रायश्चित्तं महानसे ॥ ४१४ ॥
महानससमा ज्ञेया बलिपीठेषु निष्कृतिः ।
निर्वाण दीक्षया हीनाश्शूद्राद्यास्समयस्थिताः ॥ ४१५ ॥
परार्थं स्थापितं लिङ्गं सुस्थिरं संस्पृशन्ति चेत् ।
कर्तव्यं स्नपनं शान्तिहोमो गर्भ प्रवेशने ॥ ४१६ ॥
अर्धमण्डपवेशादौ तस्य दोषो न विद्यते ।
अन्तर्मण्डलसालादौ मालिकादौ च मण्डपे ॥ ४१७ ॥
चिरं चेदुषितं मर्त्यैरशुचिक्षेपणं तु वा ।
कृतं संशोध्य भूमिं तु क्षालयेद्गोमयादिभिः ॥ ४१८ ॥
उपधातानुरूपेण पुण्याहं शान्तिमाचरेत् ।
गर्भेऽर्धमण्डपे बेरमण्डपे बाह्यतः क्रमात् ॥ ४१९ ॥
विष्ठाख्य प्रस्रवोद्गार श्लेष्म मध्यादि सेचने ।
सम्प्रोक्षणं दिशाहोमं मूर्त्याख्यं शान्तिहोमकम् ॥ ४२० ॥
कुर्याद्गोमयशुद्ध्यादि पूर्ववत् कथितं द्विजाः ।
आशौचिनां त्रिवर्णानामन्तर्मण्डलवेशनम् ॥ ४२१ ॥
दीक्षितानां न दोषाय भवेदेवं मुनीश्वराः ।
ततोन्येषां प्रवेशे तु पञ्चगव्येन सेचयेत् ॥ ४२२ ॥
तत् बहिर्वेशनं तेषां नदोषाय प्रकल्पते ।
मच्चिन्ह धारिणो वाथ शूद्रा वा येऽनुलोमिनः ॥ ४२३ ॥
दीक्षिता वा त्रिवर्णैश्च सदृशास्स्युरदीक्षितैः ।
दीक्षिता मन्त्रहीना वा रुद्रकन्यासमा मताः ॥ ४२४ ॥
पञ्चाचार्याश्च विप्राद्यैर्दीक्षिताश्चेद्दीक्षितैः ।
प्रासादे गर्भगेहेर्धे प्रतिमा मण्डपादिके ॥ ४२५ ॥
साले वा मालिकायुक्ते केवले गोपुरेऽङ्कणे ।
बेरे पीठे वृषादौ वा तद्धाम्नि बलिपीठके ॥ ४२६ ॥
परिवारालये कूपे पचनालय एव वा ।
आस्थानमण्डपेऽन्यस्मिन् नृपवेश्मनि वा गृहे ॥ ४२७ ॥
सभायां चूलिकायां वा वाल्मीके समुपस्थिते ।
शिथिली सम्भवे वाथ मधुपञ्जर सम्भवे ॥ ४२८ ॥
बृहत् पिपीलिका क्षुद्रारक्तस्त्रीक्षुद्रजन्तवः ।
समुत्थिताश्चेद्भूम्यादौ सर्वदोषावहो नृणाम् ॥ ४२९ ॥
पूर्वादितः क्रमेणैषां फलं च शृणुत द्विजाः ।
रोगो भयं वह्निदाहो बन्धुनाशो धनागमः ॥ ४३० ॥
पुत्रनाशस्सुहृत्प्राप्तिर्धान्यमर्थविनाशनम् ।
मध्यादीशानपर्यन्तं वल्मीकस्य च दर्शने ॥ ४३१ ॥
शिथिली सम्भवे मध्ये उत्पद्यन्ते सुखं भवेत् ।
तदूर्ध्वं प्राणिनाशस्स्यादिन्द्रभागे भयं भवेत् ॥ ४३२ ॥
सुहृदागमनं वह्नौ भवेदादौ द्विजोत्तमाः ।
राजक्षोभस्तदूर्ध्वं स्यादर्थलाभो यमे भवेत् ॥ ४३३ ॥
तदूर्ध्वं चैव भार्याया मरणं स्वामिनो भवेत् ।
वृद्धिर्निऋतिकाष्ठायामनर्थं स्यात्तदूर्ध्वतः ॥ ४३४ ॥
वारुण्यां धनलाभस्यादादौ चोरभयं पुनः ।
वायु दिक्स्था तु कन्यायाः सोमे स्याच्छत्रुभिर्भयम् ॥ ४३५ ॥
तदूर्ध्वं धान्यलाभस्स्यादीशाने स्यान्महाभयम् ।
गृहनाशो भवेद्वारे शयनस्थानके मृतिः ॥ ४३६ ॥
तैलाज्यहविषः स्थाने चतुष्पान्नाशनं भवेत् ।
द्वारनाले भवेद्भार्यामरणं भृत्यहारिणी ॥ ४३७ ॥
तिलस्थानगता गोऽजमहिषाद्यालयाश्रिताः ।
दृष्टिरोगो भवेद्ग्राममध्यो देवालयादिके ॥ ४३८ ॥
तदङ्गभूत राष्ट्रस्य भयं लिङ्गे नृपस्य तु ।
सभायां चैत्यवृक्षे वा महावीथ्यां मठेऽपि वा ॥ ४३९ ॥
प्रपारामादिके कूपे वाथ राष्ट्रस्य दुःस्थितिः ।
लिङ्गमूले तु जाताश्चेन्नृपतेर्भयमादिशेत् ॥ ४४० ॥
मधुनीडसमुत्पत्तावेवमेव फलं भवेत् ।
वल्मीकदर्शनेऽप्येवं द्वारादावीरितं फलम् ॥ ४४१ ॥
खातयोग्यं खनित्वादावापूर्य लवणादिभिः ।
शुद्धमृत्खण्ड सहितैर्न यथा पुनरुद्भवः ॥ ४४२ ॥
पुण्याहप्रोक्षणं कृत्वा प्रोक्षयेत् पञ्चगव्यतः ।
संस्थाप्य कलशैर्देवं मूर्तिहोमं समाचरेत् ॥ ४४३ ॥
बाललिङ्गादिके लिङ्गे बेरे पीठेऽथ धाम्नि वा ।
गर्भगेहेऽथवा द्वारि सप्ताहं चैवमाचरेत् ॥ ४४४ ॥
जातेर्धमण्डपे बेरमण्डपे त्रिदिनं नयेत् ।
कुर्यादन्यत्र मूर्त्याख्यं शान्तिहोममथैकहम् ॥ ४४५ ॥
राजधाम्नि दिशाहोमं द्विसप्ताहं समाचरेत् ।
मधुनीडं तु चेत्तत्स्थं मधुनीडं विसर्जयेत् ॥ ४४६ ॥
संशोध्य गोमयाम्भोभिस्सम्प्रोक्ष्यास्रजवारिणा ।
देवेश स्नपनं कृत्वा दिशाहोमं तदा नयेत् ॥ ४४७ ॥
वल्मीकस्य पुरा प्रोक्तदिनसङ्ख्यावशेन तु ।
नित्ये नैमित्तिके काम्ये लुप्ते स्नपनकर्मणि ॥ ४४८ ॥
महाव्याधिर्भवेत् कर्तुश्शान्तिहोमं तदा नयेत् ।
पुनश्च स्नपनं कुर्यादिष्टकाले पुरोक्तवत् ॥ ४४९ ॥
वैकल्ये वा तदङ्गस्य राष्ट्रं पापरतं भवेत् ।
अघोरं त्रिशतं जप्त्वा सम्पूर्णस्नपनं नयेत् ॥ ४५० ॥
विहीने स्थण्डिलाङ्गे वा दुःस्थितिर्भुविजायते ।
हुत्वाऽघोरं सहस्रं तु यथोक्तं स्थण्डिलं नयेत् ॥ ४५१ ॥
कुम्भादयो विहीनाश्चेत् प्रमाणविहिताश्च वा ।
जायते कलहो राष्ट्रे जप्त्वाघोरं सहस्रकम् ॥ ४५२ ॥
पुनश्च स्नपनं कुर्यात् कुम्भास्त्रकरकेतरैः ।
इति तन्मात्रकैरेवं द्विगुणद्रव्य संयुतैः ॥ ४५३ ॥
यदा मनोज्झिताः कुम्भाः पूर्वाघोरशतत्रयम् ।
द्विशतं च शतं कुम्भे वर्धन्यां कलशेषु च ॥ ४५४ ॥
क्रमाज्जपेत् गुरुर्मन्त्री तेषां मान प्रसिद्धय्स ।
स्थापितश्शिवकुम्भो वा वर्धनी कलशोऽथवा ॥ ४५५ ॥
भेदादि सहितोऽदत्तपृष्ठो वा यदि जायते ।
तदा राज्ञो महिष्याश्च कर्मिणां दोषदो भवेत् ॥ ४५६ ॥
तदा पञ्चशतं मन्त्री द्विशतं च शतं क्रमात् ।
जपेदघोर मन्त्रेण सदैव द्विगुणं जपेत् ॥ ४५७ ॥
कुम्भाद्यमन्यमादाय तत्तत्द्रव्ययुतं न्यसेत् ।
शरावशङ्खहैमादिपात्रे वा ब्रह्मवृक्षजे ॥ ४५८ ॥
संस्थाप्य स्नापयेद्देवं शतघोरजपान्वितम् ।
सूत्रैरवेष्टिताः कुम्भपूर्वाश्चेच्छत्रुवर्धनम् ॥ ४५९ ॥
अघोरेणजपः पश्चात् कर्तव्यश्शतसङ्ख्यया ।
तथैव वेष्टितास्स्वल्पतन्तुना निष्कृतिर्मता ॥ ४६० ॥
पिधानलोपे घोरेण शतसङ्ख्यं जपेद्गुरुः ।
कूर्चे विहीने देवानां सन्निधिर्नात्र विद्यते ॥ ४६१ ॥
उत्कूर्चादि विपर्यासे तद्वदेव फलं मतम् ।
तदा हृदा जपेन्मन्त्री द्विशतं त्रिशतं तु वा ॥ ४६२ ॥
रत्नहेमाद्यभावे तु निर्धनः स्थपतिर्भवेत् ।
तथैव वस्त्रलोपे च सहस्रं तु जपेधृदा ॥ ४६३ ॥
पुनश्च स्नपनं कुर्यादुक्तरत्नाभिर्यथा ।
गव्यादि द्रव्य लोपे तु राष्ट्रेकलहमादिशेत् ॥ ४६४ ॥
तदाघोरशतं जप्त्वा तद्द्रव्यं योजयेच्छिवे ।
पुण्याह प्रोक्षणेहीन जपेद्घोरशतं पुनः ॥ ४६५ ॥
कुम्भादावकृतेज्या चेदकृतं स्नपनं भवेत् ।
शान्तिहोमं तदा कुर्यान्मन्त्रन्यासेऽकृते यदि ॥ ४६६ ॥
जपेद्घोरशतं मन्त्री देवसन्निधिहेतवे ।
आषाढादिषु मासेषु कृत्तिकान्तेषु पञ्चसु ॥ ४६७ ॥
पवित्रारोहणे हीने वर्तन्ते तत्य याः क्रियाः ।
तास्सर्वा निष्फला एव प्रासादे वा गृहादिके ॥ ४६८ ॥
देवं सम्पूज्य विधिवत् दिशाहोमं तु कारयेत् ।
इष्टमासे ततः कुर्यात् पवित्रारोहणं परम् ॥ ४६९ ॥
दमनारोहणेऽप्येवं कीर्तितो विधिरग्रजाः ।
दीपावलिर्विहीना चेत् पीड्यन्ते शत्रुभिर्नराः ॥ ४७० ॥
मूर्तिहोमं तदा कृत्वा नयेत्तां लब्धमासके ।
राष्ट्रक्षोभेऽरिचोराद्यैः परस्परविरोधतः ॥ ४७१ ॥
बेरादि बाध शङ्कायां गुहायां वा जलेऽपि वा ।
भूमौ वा रक्षयेत्तस्मिन् क्रियामेनां विधाय च ॥ ४७२ ॥
सम्पूज्य बेरं गन्धाद्यैस्तदग्रे स्थण्डिले कृते ।
कुम्भं च वर्धनीयुक्तं कलशैरावृतं न वा ॥ ४७३ ॥
सूत्रादि सहितं न्यस्त्वावाह्य सोमं महेश्वरम् ।
विद्येश्वरसमोपेतं स्वस्वमन्त्रैस्समर्चयेत् ॥ ४७४ ॥
तत्पूर्वे स्थण्डिलं कृत्वा शिवाग्निं शिवमन्त्रतः ।
शतमर्धं मनोन्मन्या ब्रह्मभिस्त्वङ्गसंयुतैः ॥ ४७५ ॥
विद्येश्वर समायुक्तं प्रत्येकं शतहोमयुक् ।
समिदाज्यान्नसंयुक्तमन्ते पूर्णाहुतिं नयेत् ॥ ४७६ ॥
कुम्भे च करके पीठे मृदादिपरिकल्पिते ।
इष्टकारचिते पीठे लिङ्गे वा विन्यसेन्मनुम् ॥ ४७७ ॥
तत्कुम्भस्थजलेनैव पीठाद्यं स्नापयेद्गुरुः ।
पीठस्याद्यः स्थले देवी पिण्डिकायां तु वा न्यसेत् ॥ ४७८ ॥
तदर्थं प्रत्यहं पूजां लिङ्गे पीठेऽथवा नयेत् ।
एतद्विधानं बेराणां भवेत्सन्निधिकारणम् ॥ ४७९ ॥
पुष्पशून्यशिरोलिङ्गं यस्य राष्ट्रे व्यवस्थितम् ।
क्षयं तस्यावहेन्नित्यं वृष्टिवातातपादिभिः ॥ ४८० ॥
सेवितं भग्नधामस्थं मृगपक्षि सरीसृपैः ।
पशुभिर्बाधितं लिङ्गं देवतान्तरबाधितम् ॥ ४८१ ॥
कर्तारं बाधते नित्यं शक्तानपि च बाधते ।
तस्मात्प्रोक्षण कर्माद्यमचिरात्कारयेन्नृपः ॥ ४८२ ॥
ततः प्रभृति पूजां च कारयेत्स्वस्य वृद्धये ।
उत्तमां मध्यमां हीनां कनिष्ठामथवा द्विजाः ॥ ४८३ ॥
एककालं द्विकालं वा त्रिकालं जपसंयुतम् ।
गन्धोपेतं विशिष्टं स्यात् सधूपं तत्परं मतम् ॥ ४८४ ॥
सदीपं चेत् ततश्शिष्टं सनैवेद्यं ततस्तथा ।
सताम्बूलं ततःश्रेष्ठं सबलिश्शस्यते मतः ॥ ४८५ ॥
साग्निकार्यं ततःपूज्यं सोत्सवेज्या ततो वरा ।
स सौख्य तत उत्कृष्टा ज्ञात्वैवं प्रत्यहं नयेत् ॥ ४८६ ॥
जलं पुष्पं च पत्रं वा प्रत्यहं परिकल्पयेत् ।
वृष्ट्यादि बाधिते लिङ्गे तस्यप्रासादमाचरेत् ॥ ४८७ ॥
भग्ने धाम्नि नवीकुर्यान्मृगाद्यैर्बाधितेऽपि च ।
कवाटार्गलयोगाद्यैस्तस्य रक्षां समाचरेत् ॥ ४८८ ॥
पूर्वस्थितस्य लिङ्गादेर्बाधके स्थापितं यदि ।
ब्रह्मादि बेरं तत्तस्मादन्यत्र स्थापयेत्सुधीः ॥ ४८९ ॥
शिवक्षेत्रे शिवारामे शिवाग्रामे द्विजोत्तमाः ।
विष्णुर्विरिञ्चिश्शक्रश्च बुद्धस्त्वार्हत एव वा ॥ ४९० ॥
अन्येदेवादयो ये च स्वप्रधाना द्विजोत्तमाः ।
नस्थाप्याः स्थापितांश्चापि दूरदेशे निवेशयेत् ॥ ४९१ ॥
तेन राज्ञो भवेच्छान्ति राष्ट्रस्यापि जनस्य च ।
व्यतिरिक्तं शिवक्षेत्रात् स्थापयेद्वैष्णवादिकम् ॥ ४९२ ॥
ततस्थानं देवदेवस्य शिवस्यामिततेजसः ।
योग्यमेवेति निर्दिष्टं शिवस्सर्वाधिपो यतः ॥ ४९३ ॥
वैष्णवं वाथ वैरिञ्च बौद्ध मार्हतकं तथा ।
सौरं वा शाक्रमेवं वा वह्नेः स्थानं यमस्य वा ॥ ४९४ ॥
निऋतेर्वरुणस्यापि वायोर्वैक्षवणस्य वा ।
पार्वत्या वाथ दुर्गायाः क्षेत्रपस्येन्दुमूर्तिनः ॥ ४९५ ॥
ज्येष्ठायाश्च श्रियश्चैव भूम्या वा च स्मरस्य च ।
गणपस्कन्दनन्दीश वसूनां नागपस्य च ॥ ४९६ ॥
मुनीनां च मनुष्याणामसुराणां द्विजोत्तमाः ।
कल्पितं स्थानमीशस्य योग्यमेव न संशयः ॥ ४९७ ॥
सर्वस्मादधिकं येन प्रवदन्ति पिनाकिनम् ।
साधारणं स्मरन्त्येनं ते यान्ति नरकार्णवम् ॥ ४९८ ॥
ब्रह्माच भगवान् विष्णू रुद्रश्चेति समा इति ।
ते तु दुर्मतयः प्रोक्तास्सुचिरं सञ्चरन्त्यलम् ॥ ४९९ ॥
रौरवादिषु नैतेषां मोक्षस्सर्वात्मना मतः ।
मदैक शरणा ये तु तैः पूज्योहं न चापरैः ॥ ५०० ॥
अशीतेरूर्ध्ववर्षो वा बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो वा व्याधि पीडिताः ॥ ५०१॥
तत्रापि च परिक्लेशं ज्ञात्वार्धार्धं प्रयोजयेत् ।
सुदुष्करं स्वयं कर्तुमक्षमो द्विगुणोन्यतः ॥ ५०२ ॥
देशं कालं वयश्शक्तिं जातिं भक्तिं क्रियाक्रमम् ।
सुविचार्य प्रदातव्यं नोपवासो रुजान्विते ॥ ५०३ ॥
प्रायश्चित्ता समर्थस्य पितृभ्रात्रादि बान्धवै ।
तद्विभज्य विधातव्यं द्विगुणं च परैर्जनैः ॥ ५०४ ॥
बालाबलानां बद्धानामातुराणां च पादतः ।
प्रायश्चित्तं प्रदातव्यं यदि भक्तास्सदाशिवे ॥ ५०५ ॥
ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च ।
प्रायश्चित्तं चेरद्भ्राता पिता वान्यत् सुहृज्जनः ॥ ५०६ ॥
अतो बालनरस्यास्य नापराधो न पातकम् ।
राजदण्डो न चैवास्ति प्रायश्चित्तं न विद्यते ॥ ५०७ ॥
देश आदिश्यते येन दिशिकस्त्विति कथ्यते ।
देशाश्च बहवश्शास्त्रे मुक्तिस्थानं परं मतम् ॥ ५०८ ॥
भोगस्थानं च देहस्यात्तथा स्थानान्तराणि च ।
हृत्कण्ठतालु भूमध्य ब्रह्मरन्ध्रं क्रमाद्भवेत् ॥ ५०९ ॥
नाभिर्मेढ्रस्य मूलस्य स्थानं देशोऽत्र कथ्यते ।
सकृत्सन्ध्या विलोपे तु सद्योजातं शतं जपेत् ॥ ५१० ॥
प्रतिसन्ध्यं शतं ध्यातुः सन्ध्यालोपे त्वकामतः ।
कामतस्तूपवासश्च लुप्ते देवार्चने यदा ॥ ५११ ॥
एककालार्चके वापि द्विकालाद्यर्चकेपि वा ।
एकाह्नेऽघोर साहस्रजपस्तु ज्ञानतो भवेत् ॥ ५१२ ॥
उपवासोऽपि विज्ञेयः कामतस्त्वननुष्ठिते ।
बहुकालार्चकस्यापि द्विकालादि विलोपने ॥ ५१३ ॥
लुप्तसङ्ख्यावशेनैव प्रायश्चित्तं समाचरेत् ।
द्विदिनादि विलोपे तु बहुरूपसहस्रतः ॥ ५१४ ॥
प्रत्यहं त्रिशतार्धं स्यात् पक्षपूजाविलोपने ।
अयुताघोर जापस्यात्तद्वृद्ध्या प्रतिमासकम् ॥ ५१५ ॥
संवत्सरात्तदूर्ध्वे तु दीक्षयाश्शुद्धिरिष्यते ।
स्वेष्टलिङ्गे परिभ्रष्टे नेष्टदग्धे हृतेऽपि वा ॥ ५१६ ॥
नरवानरकाकाद्यैः स्पृष्टेऽघोर जपात्ततः ।
लिङ्गान्तरं प्रतिष्ठाप्य भवेच्छुद्धो न संशयः ॥ ५१७ ॥
हस्तादेः पतिते लिङ्गे त्वङ्गुलात्तु द्विवृद्धितः ।
सहस्राघोर वृद्धिस्यात् सहस्रात् प्रभृति क्रमात् ॥ ५१८ ॥
साधारे पतिते लिङ्गे ताले तालेऽयुतं जपेत् ।
द्विगुणं तु निराधारे कल्पनीयं गुरूत्तमैः ॥ ५१९ ॥
एकहस्तात् द्विहस्तान्तं पतने त्वेवमीरितम् ।
जप्त्वा दश सहस्रादि पञ्चगव्यामृतादिना ॥ ५२० ॥
संस्नाप्य पूजयेद्देवं विशेषेणार्चयेद्बुधः ।
अव्यङ्गत्वे तदुद्दिष्टं लिङ्गादौ द्विजसत्तमाः ॥ ५२१ ॥
द्विहस्तादूर्ध्वतः पाते त्वव्यङ्गे लक्षजापतः ।
संस्कारेण विशुद्धिःस्यात् प्रतिष्ठा वात्र सम्मता ॥ ५२२ ॥
अकामतो यदालिङ्गं विशीर्णं पिण्डिकाथवा ।
प्रागुक्तद्विगुणं कुर्यात् कामतो निष्कृतिर्नहि ॥ ५२३ ॥
ब्राह्मणाद्यैस्तु संस्पृष्टे शिवसंस्कारवर्जितैः ।
क्रमाज्जपेदघोरस्य शतवृद्ध्या नरोत्तमः ॥ ५२४ ॥
लिङ्गे पादेन संस्पृष्टे लिङ्घिते वायुतद्वयम् ।
पादलग्नरजःस्पृष्टे बहुरूपायुतं जपेत् ॥ ५२५ ॥
श्लेष्माद्युपगते लिङ्गे तत्तद्युक्तोदकादिभिः ।
त्र्ययुतं द्वययुतं कुर्यात् बहुरूपं नरोत्तमः ॥ ५२६ ॥
मूत्रोदकेन संस्पृष्टे जपेत् सार्धायुतद्वयम् ।
रक्तमूत्ररजश्शुक्लदूषितेऽयुतपञ्चकम् ॥ ५२७ ॥
तत्संयुक्तोदकस्पर्शात् पादहीनं जपेदिदम् ।
विष्ठास्पर्शेतु लक्षं स्यात् पादहीनं तदम्भसा ॥ ५२८ ॥
तद्वन्निर्माल्यगर्ते तु पतनाच्छुद्धिमादिशेत् ।
विष्ठादिगर्तपाते तु लक्षमर्धाधिकं जपेत् ॥ ५२९ ॥
स्पृष्टेऽनुलोमजैर्लिङ्गे कुर्यान्मात्रं कुलोचितम् ।
प्रतिलोमादिभिः स्पृष्टे लक्षमावर्त्य शुद्ध्यति ॥ ५३० ॥
वामदक्षादि मार्गस्थिअः स्पृष्टे लिङ्गेऽयुतं जपेत् ।
चण्डालपाणकाद्यैश्च स्पृष्टे शुद्धिः प्रतिष्ठया ॥ ५३१ ॥
लक्षेणस्थिरमुनमूल्य स्थापयेच्च तदेव हि ।
नित्यहोमे विलोपे च प्रायश्चित्तं तु नित्यवत् ॥ ५३२ ॥
अष्टम्यां वा चतुर्दश्यां पर्वण्ययनयोऽरपि ।
विषुग्रहणयोर्नित्यलोपे कुर्याच्चतुर्गुणम् ॥ ५३३ ॥
अन्यपुण्यदिनेष्वेवं तच्चतुर्गुणमाचरेत् ।
प्रागुकनिष्कृतिं वह्नि निर्माणि तां समाचरेत् ॥ ५३४ ॥
अदत्ते च बलौ कुर्याच्छिवस्याष्टाधिकं शतम् ।
व्रतस्यान्य क्रियायाश्च नियमस्य च लोपने ॥ ५३५ ॥
गायत्र्यष्टशतेनैव विशुद्धिमधिगच्छति ।
अविधाय पवित्रं तदाषाढादिषु पञ्चसु ॥ ५३६ ॥
लक्षत्रयमघोरस्य जप्त्वा चान्द्रायणं चरेत् ।
पवित्रारोहणत्यागे प्रायश्चित्तमिदं मतम् ॥ ५३७ ॥
अन्यमासे कृते तस्मिञ्जपमत्रं विधीयते ।
जपोऽपि लक्षमात्रं चान्द्रायणं मतम् ॥ ५३८ ॥
शतद्वय जपाच्छुद्धिरर्घ्यपात्रे विसर्जिते ।
सहस्रेण विनाशे तु तदर्धात् परिवर्तिते ॥ ५३९ ॥
स्फोटे वा त्वक्षसूत्रस्य शुद्धिर्लिङ्गोक्तपादतः ।
नवसूत्रस्य विच्छेदे सहस्रं जपमाचरेत् ॥ ५४० ॥
शतं स्याज्जीर्णसूत्रस्य हस्तपातात्तथा मतम् ।
अक्षमालां कराद्भ्रष्टाम् आलयेद्गन्धवारिणा ॥ ५४१ ॥
गायत्र्याः शतजापोऽपि सैव प्रागुक्त कर्मणि ।
घण्टादोषे तु लिङ्गोक्तादष्टमांशाच्छुचिर्भवेत् ॥ ५४२ ॥
पूजोपकरणं पद्भ्यां स्पृष्टं पीठदिकं यदा ।
शतद्वयमघोरस्य कामतस्त्वयुतं जपेत् ॥ ५४३ ॥
प्राण्यङ्गधूपदाने च पञ्चमस्य शतं जपेत् ।
केशामांशास्थिकीटादिदुष्टनैवेद्यदर्शने ॥ ५४४ ॥
अघोरस्यायुतं कामादकामात्तु शतं जपेत् ।
नित्य नैवेद्यमानस्य ह्रासे नैमित्तिकस्य वा ॥ ५४५ ॥
अयुतं घोरमन्त्रस्य जप्त्वा शुद्धिमवाप्नुयात् ।
पादेनाकामतः स्पृष्ट्वा गुरुं देवं शिवागमम् ॥ ५४६ ॥
द्वययुतं घोरमन्त्रस्य कामतष्षड्गुणं जपेत् ।
महेशगुरु चण्डाज्ञाभङ्गे लक्षेण शुद्ध्यति ॥ ५४७ ॥
एतदर्थार्जितद्रव्यभक्षणात् पादवर्जितम् ।
निर्माल्य भक्षणे घोरं प्रमादादयुतं जपेत् ॥ ५४८ ॥
भक्षणेन समं दानं स्यात् तदर्धमुपेक्षने ।
अथवा भक्षणेऽकामात् प्रजपेत्ब्रह्मपञ्चकम् ॥ ५४९ ॥
यावत्सहस्रमध्यर्धं कामतो दीक्षया सुचिः ।
निर्माल्य लङ्घनं कृत्वा दक्षिणार्धायुतं जपेत् ॥ ५५० ॥
लङ्घनेन समं स्पर्शे समं विक्रयभक्षणे ।
देवस्वं देवताद्रव्यं नैवेद्यं च निवेदितम् ॥ ५५१ ॥
चण्डद्रव्यं च निर्माल्यं षड्विधं स्मृतम् ।
ग्रामदीशस्य देवस्वं देवद्रव्यं पटादिकम् ॥ ५५२ ॥
नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् ।
चण्डद्रव्यं तु तद्दत्तं निर्माल्यं प्रेरितं बहिः ॥ ५५३ ॥
पिण्डिकास्थं न निर्माल्यमपि देवे विसर्जिते ।
क्रव्यादो जायते दानान्मातङ्गस्तस्य भक्षणात् ॥ ५५४ ॥
लङ्घने सिद्धिहानिश्च विक्रये शबरो भवेत् ।
स्पर्शने जायते स्त्रीत्वं निर्माल्यस्य न संशयः ॥ ५५५ ॥
यन्निर्माल्येन संस्पृष्टं तद्भुजा पुरुषेण वा ।
पादोनं तत्र पूर्वोक्तं स्पर्शलङ्घन भक्षणैः ॥ ५५६ ॥
भक्षणं द्विविधं प्रोक्तमनिवेद्य तदन्यथा ।
देवदेवाय तत्राद्यं देवग्रामादि सम्भवम् ॥ ५५७ ॥
व्रीह्यादि येन केनैवोपाधिनादाय भक्षणम् ।
करोति यस्य सम्मूढा मद्धनस्तेयकृन्मतः ॥ ५५८ ॥
मदर्थं कल्पितं वाथ तण्डुलं चौदनं तु वा ।
यः प्रयच्छति वा भुङ्क्ते सोऽपि स्तेयकृदुच्यते ॥ ५५९ ॥
त एवातीत दुष्टामद्भक्षितादपि सोषदाः ।
तथैवेति चतुष्काष्ठा मद्भुक्तिस्त्वति दोषदा ॥ ५६० ॥
नैवेद्यं कल्पयित्वा तु शिवायेति तदूर्ध्वतः ।
निवेद्य मह्यं तच्छिष्टं भुङ्क्ते प्रत्यहमादरात् ॥ ५६१ ॥
सोऽयं मत्सदृशः प्रोक्तश्चरुभुग्यस्तथा भवेत् ।
मद्भुक्तं चण्डभुक्तं वायो लोभाद्भक्षयेन्नरः ॥ ५६२ ॥
स पापी दुर्मतिः प्रोक्तः पूर्वाभ्यां नातिरिच्यते ।
भक्षयेद्यो नरो भक्त्या पवित्रमिति शंसितम् ॥ ५६३ ॥
शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति ।
अशुद्धात्मा शुचिर्लोभान्मद्भुक्तं पावनं नरः ॥ ५६४ ॥
भक्षणे नाशमायाति रसभोक्ता यथा द्विजाः ।
मद्देहधारिणो लोके देशिका मत्परायणाः ॥ ५६५ ॥
मदैकशरणास्तेषु योग्यं नैवान्यजन्तषु ।
तस्मान्मदीयं निर्माल्यं भुक्त्वा निष्कृतिमाचरेत् ॥ ५६६ ॥
सर्वेषां देशिकादीनां चतुर्वर्णोद्भवात्मनाम् ।
प्रायश्चित्तमहं वक्ष्ये श्रूयतां द्विजसत्तमाः ॥ ५६७ ॥
मौनं त्रिषवणस्नानं शिवाग्नि गुरुपूजनम् ।
अघोरायुत जापश्च गोमयालिप्तमण्डले ॥ ५६८ ॥
पञ्चगव्यं चरुं दन्तधावनं च क्रमाद्भजेत् ।
प्रतिरात्रं चरेदेतद्व्रतं पाप विशुद्धये ॥ ५६९ ॥
अग्निकार्यां विना वाऽपि जपमात्रं विधीयताम् ।
एतद्व्रतं समाख्यातं दशवृद्ध मनुव्रतम् ॥ ५७० ॥
उपव्रतं तथा तस्माद्दशवृद्धं महाव्रतम् ।
महापातकिनां प्रोक्तं महाव्रतमिहागमे ॥ ५७१ ॥
अन्वादि पातकानां तु व्रतमन्वाद्यमीरितम् ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ ५७२ ॥
महान्ति पातकान्यत्र तत्संयोगेन पञ्चमः ।
कामस्त्वेवमाख्यातमज्ञानदर्धमिष्यते ॥ ५७३ ॥
ब्रह्मघ्न व्रतपादं तु क्षत्रियस्य वधे कृते ।
तदर्धं वैश्यजातेस्तु तदर्धं शूद्र इष्यते ॥ ५७४ ॥
अनुलोमेषु सर्वेषु मातृप्रोक्तं समाचरेत् ।
गूढजेषु च तेष्वर्धं तदर्धं प्रतिलोमेषु ॥ ५७५ ॥
दीक्षितेषु च सर्वेषु द्विगुणं समुदाहृतम् ।
अभिषिक्तस्य हनने दीक्षितोक्तं व्रतं मतम् ॥ ५७६ ॥
पानसं द्राक्षामाधूके खार्जूरं गौलमैक्षवम् ।
माध्वी खण्टकमृद्वीकमैरेयं नालिकेरजम् ॥ ५७७ ॥
सामान्यानि विजानीयाद् मद्यान्येकादशैव तु ।
द्वादश्येव सुरा पैष्टिस्सर्वेषामधमा स्मृता ॥ ५७८ ॥
पीत्वा पैष्टीं सुरां विप्रो महाव्रतमथाचरेत् ।
एकादशसुरापाने कुर्याद्व्रतदशांशकम् ॥ ५७९ ॥
सकृत्पैष्टिं प्रमादेन पीत्वा विप्रो द्विजोत्तमाः ।
गोमूत्रयवकाहारो दशरात्रेण शुद्ध्यति ॥ ५८० ॥
द्वि वारादि प्रयोगेण दिनवृद्धिः प्रशस्यते ।
सर्वेषां क्षत्रियादीनां पूर्वोक्तन्याय ईरितः ॥ ५८१ ॥
सुवर्णस्यापहारेण शतादभ्याधिके वधः ।
क्षत्रियादिषु सम्प्रोक्तो विप्रस्य न वधः क्वचित् ॥ ५८२ ॥
निष्कस्तेयेऽयुतं पञ्च निष्कान्तं लक्षमीरितम् ।
दश लक्षं जपान्तं तु तदूर्ध्वं दशवृद्धितः ॥ ५८३ ॥
शतलक्षान्तमुद्दिष्टं ब्राह्मणे क्षत्रियादिषु ।
शतमर्धार्धह्रासेन स्वर्णस्तेये समीरितम् ॥ ५८४ ॥
रजतस्यापहरणे धान्यस्य द्विगुणं मतम् ।
सुवर्णे रजते धान्ये शतमेकादशोत्तरम् ॥ ५८५ ॥
दरिद्रस्यानुरूपेण द्विगुणाधिकमेव हि ।
गुरुतल्पं विहायान्यस्त्रीयोगे नैव पातकम् ॥ ५८६ ॥
याजनं योनि सम्बन्धं स्वाध्यायं सहभोजनम् ।
पातकैस्सह चेत् कुर्यात् सोऽपि तत्सम इष्यते ॥ ५८७ ॥
वत्सरान्तं तदर्वाक् चेदर्थं पादं समाचरेत् ।
अनुपातकशुद्ध्यर्थमनुव्रतमुदाहृतम् ॥ ५८८ ॥
मातृष्वसा च भगिनी स्वसुता च पितृष्वसा ।
आसां च गमनं विप्रास्त्वनुपातकमीरितम् ॥ ५८९ ॥
विप्रस्त्रीगमनं बन्धोराश्रित्य च यो वधः ।
चण्डालपाण रजकोच्छिष्ट भोगेऽनुपातकम् ॥ ५९० ॥
लिङ्गस्य पिण्डिकायाश्च प्रतिमादेर्द्विजोत्तमाः ।
द्वेषेणोत्पाटनम् कृत्वा पातकादधिको भवेत् ॥ ५९१ ॥
तदुक्तं द्विगुणं कुर्याद्राजचोरभयादिषु ।
दुःस्थाननिम्नदोषादौ परिहर्तुं तदुद्धृतम् ॥ ५९२ ॥
संस्थाप्य विधिनाघोरं लक्षामावर्त्य शुद्ध्यति ।
देवक्षेत्रापहरणं देवोपहरणाहृतिः ॥ ५९३ ॥
शिवागमापहारश्च शिवलिङ्गापहारणम् ।
शैवादीनां चतुर्णां तु दण्डनिर्णय एव च ॥ ५९४ ॥
उपपातक शुद्ध्यर्थमुपव्रतमुदाहृतम् ।
पितृव्यसखि शिष्यस्त्री स्नुषाश्च शरणागताः ॥ ५९५ ॥
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ।
सगोत्रा मातुलानीं च समान प्रवरा च या ॥ ५९६ ॥
तासां सङ्गमनं चोपपातकं समुदाहृतम् ।
परिवित्तिः परिवेत्ता तयोर्याजनमेव च ॥ ५९७ ॥
तयोर्दानं च कन्यायाः शिवाग्नयागमनिन्दनम् ।
गुरोश्च प्रतिकूलत्वं तथा निक्षिप्त सङ्ग्रहः ॥ ५९८ ॥
पितृमातृगुरुत्यागः कूटसाक्ष्याभि शापने ।
उक्तित्वं पतितश्चेति तद्धीनं वाथ तद्युतम् ॥ ५९९ ॥
भूवेश्मरत्नवापीनां कुजानामपहर्तृता ।
वापीकूपतटाकादेर्हरणं तूपपातकम् ॥ ६०० ॥
गजाश्वनरनार्युष्ट्रमहिषाणां खरोक्षयोः ।
उपव्रतं वधे कुर्यात्तदर्धं हरणे भवेत् ॥ ६०१ ॥
तन्मांसभक्षणेऽर्धं स्यात्तद्विष्ठास्पृष्टिभक्षणे ।
तत्पादं स्यात्तदालीढस्पर्शादौ स्नानमाचरेत् ॥ ६०२ ॥
तदालीढान्नमुक्तौ च विष्ठास्पृष्ट्यर्धमाचरेत् ।
तद्रोमास्थ्यादि संस्पर्शे स्नानमेव विधीयते ॥ ६०३ ॥
उपव्रतस्य द्विगुणं गोघ्नः कुर्यात्तदर्धकम् ।
गोहर्त्ता तस्य मांसाशी तत्समानं समाचरेत् ॥ ६०४ ॥
गोष्ठे वसन् गोऽनुगामी गोप्रदानेन शुद्ध्यति ।
गवामभावे तन्मूल्यं दातव्यं पुष्कलं तथा ॥ ६०५ ॥
गर्भिणीं कपिलाघ्र दोग्घ्रीहोमधेनुं च सुव्रताम् ।
रोधादिना सादयित्वा द्विगुणं व्रतमाचरेत् ॥ ६०६ ॥
पादमेकं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ।
याजने पादहीनं स्याच्चरेत् सर्वं निपातने ॥ ६०७ ॥
औषधं लवणं चैव स्नेहपिण्याहभोजनम् ।
अतिरिक्तं न दातव्यं काले स्वल्पं तु दापयेत् ॥ ६०८ ॥
न नालिकेर रज्ज्वा च न च मौञ्जेनबन्धयेत् ।
बलाभावाद्विपद्येत गौश्चरन्ती कथञ्चन ॥ ६०९ ॥
जलेवा पल्वले मग्ना मेघविद्युद्धतापि वा ।
श्वभ्रे वा पतिताऽकस्माच्छव पचेनापि भक्षिता ॥ ६१० ॥
शीतवातहता चेत्स्यात्बन्धनेन मृतापि वा ।
शून्यागारे त्वटव्यां वा गृहदाहेऽपि पादपात् ॥ ६११ ॥
उपेक्षाद्यैस्तु तद्विष्ठा भक्षणाद्यं परं मतम् ।
कन्यानां दूषणं चैव परभार्यात्मविक्रयौ ॥ ६१२ ॥
नास्तिक्यमभिचारश्चायाज्य याजनमेव च ।
नीचलोमान्त्यजोच्छिष्ट भोजनं चोपपातकम् ॥ ६१३ ॥
मद्यभाण्डस्थितं द्रव्यं मद्यस्पृष्टं तु वा भवेत् ।
तस्य पानादिना विप्रास्त्वेतद्द्विगुणमाचरेत् ॥ ६१४ ॥
भुक्त्वा शूद्रस्य वाशौचे विप्रस्तूपव्रतार्धभाक् ।
वैश्याशौचेऽर्धभाग्विप्रः क्षत्राशौचे तदर्धभाक् ॥ ६१५ ॥
नृपशूद्रविडाशौचे भुक्त्वा विप्रोऽर्धमाचरेत् ।
वैश्यशूद्रगृहे भुक्त्वा क्षत्रियोक्तार्धमाचरेत् ॥ ६१६ ॥
स्वाशौच भोजने कृत्यमन्त्येष्टावेव कीर्तितम् ।
स्वोत्कृष्टाशौच भुक्त्या तु स्वगृहाशौच भुक्तितः ॥ ६१७ ॥
पादोनं च द्विपादोनं त्रिपादोनं क्रमाच्चरेत् ।
शूद्रस्त्वेवं तदन्यौ चेत् कुर्यात्तां विधिनामुना ॥ ६१८ ॥
विण्मूत्र भक्षणे विप्रः कुर्यादेतदुपव्रतम् ।
रजस्वलामुखास्वादे तथा चण्डालयोषिताम् ॥ ६१९ ॥
रजकादेश्च पैशून्यं कृत्वा तद्वदुपव्रतम् ।
विप्रपातक शुद्ध्यर्थं व्रतमत्र समीरितम् ॥ ६२० ॥
चण्डाल पाणरजकस्त्रीगमे द्विगुणं मतम् ।
व्रतमात्रमुदख्यास्तु शुद्ध्यर्थं विप्र आचरेत् ॥ ६२१ ॥
विप्रस्त्रीगमने चैवोपव्रतन्तु समाचरेत् ।
पादपादविहीनं तु क्षत्रादि त्रितयं चरेत् ॥ ६२२ ॥
ब्राह्मणी शूद्रसंयुक्ता पतिता सप्रजायदि ।
विप्रजोपव्रतार्धं तु सकृदागमने चरेत् ॥ ६२३ ॥
उपव्रतं तु मासोर्ध्वे षण्मासोर्ध्वमनुव्रतम् ।
महाव्रतं समोर्ध्वं स्यात्त्र्यब्दोर्ध्वं पतितैव सा ॥ ६२४ ॥
एतदर्धं तु राज्ञी चेद्वैश्यस्त्री चेत्तदर्धकम् ।
शूद्रस्त्री शूद्रसंयोगात् तदर्धं तु समाचरेत् ॥ ६२५ ॥
शूद्रश्चैव तथा कुर्यात् प्रायश्चित्तं विशुद्धये ।
कन्यासङ्गमने कुर्यात् प्रागुक्तं द्विगुणं द्विजाः ॥ ६२६ ॥
वैश्यश्चेदर्धभाक्तस्मादर्धभाक् क्षत्रियो यर्दिम्? ।
तदर्ध भाग् द्विजः प्रोक्तो विप्रादि स्त्रीसमागमे ॥ ६२७ ॥
अनुलोमाः स्वमात्रुक्तमाचरेयुः स्वशुद्धये ।
प्रतिलोमिषु निर्दिष्टं शूद्रोक्त द्विगुणं व्रतम् ॥ ६२८ ॥
अमानुषीषु पुरुषः प्रतिलोमिष्वयोनिषु ।
रेतस्सित्वा जलेवापि व्रतमब्दं समाचरेत् ॥ ६२९ ॥
नदीशैलूषिकी वेणुजीवनी गमने व्रतम् ।
पतितान्यस्त्रियं गत्वा चण्डालस्यार्धमाचरेत् ॥ ६३० ॥
अन्तर्वत्नी भवेत् स्त्री चेत् प्रायश्चित्तमशक्यतः ।
गर्भे विनिःसृते कुर्यात् द्विगुणं प्रागुदीरितम् ॥ ६३१ ॥
न प्रचारं गृहे कुर्यान्न चान्नादि प्रसाधनम् ।
न शयीत समं भर्त्रा न च भुञ्जीत बन्धुभिः ॥ ६३२ ॥
न च स्नात्वा च भुक्त्वा च गत्वाचैव दिवा स्त्रियम् ।
शेफं बध्वायसाद्यैश्च व्रतमेतत्समाचरेत् ॥ ६३३ ॥
उच्छिष्टं प्रतिलोमानां भुक्त्वा कुर्याद्व्रतं द्विजाः ।
उच्छिष्टं तु समानानां भुक्त्वोपोष्य विशुद्ध्यति ॥ ६३४ ॥
सहस्रमयुतं चैव जपो मध्यमहीनयोः ।
द्वित्रिरात्रोपवासश्च सवर्णोच्छिष्ट भोजने ॥ ६३५ ॥
जघन्योच्छिष्ट सम्पर्कादेवं शतगुणं भवेत् ।
जपोपवासवृद्धिः स्योदेकरात्रादितः क्रमात् ॥ ६३६ ॥
शैवब्राह्मणयोर्निन्दा मद्यपस्त्रीनिषेवणम् ।
स्त्रीहिंसौषधजीवा च वार्द्धुष्यं मूल्यकर्म च ॥ ६३७ ॥
सर्वकार्येष्वधिकारो महायन्त्र प्रवर्तनम् ।
स्वाध्यायाग्नि सुतानां च परित्यागश्च पातकम् ॥ ६३८ ॥
तिलब्रीहिकुलुत्थानां शालीनां मुद्गमाषयोः ।
निष्पावाढक शिम्बानां सर्षपस्य यवस्य च ॥ ६३९ ॥
कुङ्कु प्रियङ्गुनीवारकोद्रवादेर्द्विजोत्तमाः ।
सत्वचां वित्वचां वापि हरणेऽर्धं व्रतस्य च ॥ ६४० ॥
यनश्य्यासनानां च कांस्यरीतिशिलायसाम् ।
त्रपुसीसकताम्रादेर्वस्त्रस्य हरणे कृते ॥ ६४१ ॥
व्रतमात्रं समुद्दिष्टं त्रिगुणं स्तेयमोक्षणम् ।
वानरश्वमृगाणां च विष्ठाशनवराहयोः ॥ ६४२ ॥
दुष्टादुष्टमृगाणां च शिवाय वा वधेकृते ।
शशस्य शिंशुमारस्य शङ्खस्य मकरस्य वा ॥ ६४३ ॥
हनने च व्रतं कुर्यात् तत्पापस्य विशुद्धये ।
उलूककङ्क गृध्राणां काकस्य जलबर्हिणः ॥ ६४४ ॥
कुक्कुटश्येन भासानामथ हंसमयूरयोः ।
पिङ्गलरत्ननेत्रयोश्च सरटाशत पत्रयोः ॥ ६४५ ॥
कपोतस्य बकस्याथ टिट्टिभस्य जराङ्गिणः ।
पिङ्गल्याश्चक्रवाकस्य कौशिकस्य शुकस्य च ॥ ६४६ ॥
मण्डूको गौश्च गौधा च कृकलासश्च मूषिकः ।
नागश्चुचुन्दरी मत्स्यः कूर्मः कर्कटकाह्वयः ॥ ६४७ ॥
वृश्चिकश्चैव शम्बूकश्शलभो मक्षिका तथा ।
पिपीलिका च भूनागो लूताद्या ये च कीर्तिताः ॥ ६४८ ॥
भूगता जलजा वाथ ये चान्ये त्वन्तरिक्षगाः ।
तेषां कृत्वा वधं विप्रो व्रतपादं समाचरेत् ॥ ६४९ ॥
अनस्थिमत्सु चैतेषु शताघोरजपोमतः ।
अन्येनापि प्रकारेण प्रायश्चित्तमिहोच्यते ॥ ६५० ॥
हत्वा कामात् द्विजस्सद्यो गवां गोष्ठे जपेत्तदा ।
पीत्वाकामात् सुरां वाअमं शिवहर्म्येजपेत्तदा ॥ ६५१ ॥
कृत्वास्तेयकामाश्च घोरं पितृवने जपेत् ।
गुरुस्त्रीगमने वक्त्रमकामात्तु जपेद्वने ॥ ६५२ ॥
योगङ्कृत्वा समस्तैस्तु नगाग्रे पञ्चमं जपेत् ।
प्रकाशे कामतस्तस्मिल्लभ मावर्त्य शुद्ध्यति ॥ ६५३ ॥
अकामाद्वा रहस्ये च सहस्राच्छुद्धिरिष्यते ।
कामतस्सरहस्ये च जपेत्तत्रायुतं द्विजाः ॥ ६५४ ॥
अकामतः प्रकाशे च तत्राप्ययुतकद्वयम् ।
गुरुद्रोहादृते शुद्धिः कामतोऽपि भवेदिह ॥ ६५५ ॥
तद्याद्वा देशिकस्तस्य तदाकृच्छ्र पुरस्सरम् ।
पुनर्यागः प्रकर्तव्यस्शुद्धिस्तस्यान्यथान हि ॥ ६५६ ॥
पातकत्रय संयोगस्सामान्यो ब्राह्मणादितः ।
मद्यपानं यदा शूद्रेऽदीक्षिते स्वल्पकं भवेत् ॥ ६५७ ॥
निषेधाभावतस्तस्य दोषस्तत्र न जायते ।
नियमाद्घोर जापस्य प्रकर्तव्यं शतं त्रिकम् ॥ ६५८ ॥
गुरुस्त्रीगमनं यच्छ चतुर्णां सदृशं भवेत् ।
गुरुद्रोहः शिवद्रोहस्तस्मात्तत् पातकं भवेत् ॥ ६५९ ॥
काष्ठादि पार्थिवस्तेये तेजोद्रव्यं विना द्रिजाः ।
सद्योजातजपाच्छुद्धिरकामादिह कथ्यते ॥ ६६० ॥
पञ्चविंशतिकोजापः कर्तव्योऽकामतश्शतम् ।
घृतं वापि गृहीत्वा तु लवणं शर्करादिकम् ॥ ६६१ ॥
कामतोऽकामतोवाऽपि जपेद्वामं तु पूर्वत् ।
रीतिकेतरकांस्यादि गृहीत्वा तैजसं च ॥ ६६२ ॥
धेनुं वा घृतवच्छुद्धिः कामाकामात्तु पूर्ववत् ।
पुष्पं गन्धादिकं हृत्वा पुरुषं स्त्रियमेव वा ॥ ६६३ ॥
अनड्वाहं गजाश्वादि वस्तुजातं तु पूर्ववत् ।
क्षीरं जलं वा शस्त्रं वा हुत्वेशं पूर्वज्जपेत् ॥ ६६४ ॥
अभक्ष्य भक्ष्णे जाते गुह्यकस्य शतञ्जपेत् ।
अकामात् त्रिशशं कमाज्जपेन्मद्यादि वर्जितान् ॥ ६६५ ॥
उदक्यान्नाशने मोहाज्जपेत् गृह्यायुतं बुधः ।
दशोर्ध्वं त्रिशतादर्वाक जप्त्वा स्नानेन शुद्ध्यति ॥ ६६६ ॥
तदूर्ध्वं पञ्चकं यावच्छतं नक्तं विधीयते ।
तदूर्ध्वमुपवासस्यात् त्रिरात्रमयुतोर्ध्वतः ॥ ६६७ ॥
स्वजाति दीक्षितं स्पृष्ट्वा तदाचम्य विशुद्ध्यति ।
आचम्यादीक्षितेनापि सजातीशशतं जपेत् ॥ ६६८ ॥
सदीक्षदीक्षितस्पर्शात् प्रायश्चित्तं तु पूर्ववत् ।
तस्मिन्नदीक्षिते स्पृष्टे जपेत् स्नात्वा शतद्वयम् ॥ ६६९ ॥
इदमेवान्तरस्पर्शाद्दीक्षितस्येतरस्य तु ।
शतत्रिकं जपेत् स्पर्शात् सोपवासः शुचिर्भवेत् ॥ ६७० ॥
भवेत्तदेव शूद्रस्य स्पर्शनाद्दीक्षितस्य तु ।
स्पर्शनाद्दीक्षितस्यापि शतं पञ्चाप्युपोषितम् ॥ ६७१ ॥
इतरे पादहीनं तु कुर्वीरन्नात्मशुद्धये ।
त्रिरात्रमन्त्यजस्पर्शात्सहस्राणि दशिअव तु ॥ ६७२ ॥
पञ्चमस्य तु मन्त्रस्य जपेत्तत्राविचारतः ।
कृच्छ्रो घोर जपः कार्योऽयुतं चण्डालसङ्गमात् ॥ ६७३ ॥
गृहादौ पातकावेशे त्यक्त्वा भाण्डान् प्रलिप्य च ।
कृच्छ्राच्छुद्धिर्भवेत् भुक्तौ तप्तकृच्छ्रं समाचरेत् ॥ ६७४ ॥
ज्ञात्वा भुक्त्वातु पादेन तदासौ तत्समो भवेत् ।
रजकादि प्रवेशादावयुतार्धमजानतः ॥ ६७५ ॥
बहुदेवलकैर्योगे कृच्छ्रचान्द्रायणाच्छुचिः ।
हेमरुप्यादिपात्राणां वारिणा शुद्धिरिष्यते ॥ ६७६ ॥
शङ्खादीनां भवेच्छुद्धिस्तुषौर्वा मथितेन वा ।
भस्मना कांस्यशुद्धिः स्यात् ताम्रमाम्लेन शुद्ध्यति ॥ ६७७ ॥
उच्छिष्टलिप्तपात्राणां शुद्धिरेषा प्रकीर्तिता ।
प्रोक्ष्य शुद्ध्यत्यसन्देहादुच्छिष्टस्पृष्टभाजनम् ॥ ६७८ ॥
तुम्ब्यादि वेणुपात्राणां गोवालैस्तोयघर्षणात् ।
दारवं लोहजोत्कृष्टं वारिणा तद्विशुद्ध्यति ॥ ६७९ ॥
चर्मणां रज्जुवस्त्राणां शुद्धिःस्यात् क्षारवारिणा ।
शुद्धिश्चोदक भाण्डानां पर्यग्निकरणात्मिका ॥ ६८० ॥
तृणादिकं च यत् किञ्चित् काष्ठं वा प्रोक्षितंशुचिः ।
उल्लेखात् भूमिशुद्धिः स्यात् तथा गोमय घर्षणात् ॥ ६८१ ॥
विष्ठाद्युपगतं भाण्डं त्याज्यं स्याद्वेणुमृण्मयम् ।
तद्वन्निर्माल्यसंस्पृष्टं रजसा स्त्री विशुद्ध्यति ॥ ६८२ ॥
शेषस्य पूर्ववच्छुद्धिः वस्त्रशुद्धिर्जलाद्भवेत् ।
शरावपत्र पुटक प्रभृतीनां च भोजने ॥ ६८३ ॥
शुद्धि रत्रोपयुक्तानां परित्यागो विधीयते ।
सत्यन् मनसश्शुद्धिरिन्द्रियाणां यमादिभिः ॥ ६८४ ॥
गर्वस्य शमता दृष्टा शुद्ध्यर्थमविचारतः ।
बुद्धेरपि मुनिव्याघ्रास्सङ्गत्यागात् प्रकीर्तिताः ॥ ६८५ ॥
प्राणाश्शुद्ध्यन्ति विधिवत् प्राणायामबलात्सदा ।
ध्यानाच्छुद्धिस्समुद्दिष्टा प्रधानस्य गुणात्मनः ॥ ६८६ ॥
विवेकाच्छुध्यते ह्यात्मा नात्र कार्या विचारणा ।
श्वमार्जाररवरादीनां विलेहे स्नानमाचरेत् ॥ ६८७ ॥
नाभेरूर्ध्वमधस्ताद्वा मृद्भिश्शुद्ध्यति सप्तभिः ।
उत्तमाङ्ग विधानेन स्नात्वा विद्याङ्ग पञ्चकम् ॥ ६८८ ॥
जप्तव्यं शतमेकं स्याद्विगुणं मन्त्रवादिना ।
अदीक्षितेन संस्पृष्टे स्नानमाग्नेयमाचरेत् ॥ ६८९ ॥
निर्माल्यसङ्करे कामात् सम्पूज्यश्चण्डनायकः ।
तस्यैव देवदेवस्य जपस्साङ्गस्य वै शतम् ॥ ६९० ॥
अकामतोवा सम्पर्कात् केवलस्य शतं भवेत् ।
वारिणा त्वश्मजातीनां मथितेनाश्च मस्तुना ॥ ६९१ ॥
जलजानां च सर्वेषां वैणवानां तथाम्भसा ।
स्निग्धानां रूक्षणाच्छुद्धिः पात्राणां परिकीर्तिता ॥ ६९२ ॥
शुद्धिः स्यादप्यशुद्धानां प्रोक्षणादेव केवलात् ।
मधुनः पाकतश्शुद्धिस्तथैवेक्षुरसस्य च ॥ ६९३ ॥
फलानां क्षालनाच्छुद्धिर्दघ्नश्चैव निरीक्षणात् ।
क्वथितं शुद्ध्यते क्षीरं पक्वानां प्रोक्षणादपि ॥ ६९४ ॥
अथ शैव गुरोरस्य शुद्धिर्वाचा विधीयते ।
परेभ्यो दुःखमापाद्य वाङ्मनःकायकर्मभिः ॥ ६९५ ॥
प्रमादतः परिज्ञाय शुद्धिश्शक्ति जपात्सदा ।
समयानां प्रमादे तु शक्तिजापः प्रशस्यते ॥ ६९६ ॥
वस्त्रशय्यासनादीनां स्तेये गायत्रिकाशतम् ।
गुरुदेवाग्निकार्येषु गर्हितस्य निवेदनात् ॥ ६९७ ॥
शुध्यते नीयमानस्य त्वन्यायान्मुनिपुङ्गवाः ।
म्लानेभ्यो व्याधितेभ्यो वा यतिभ्यः किञ्चिदौषधम् ॥ ६९८ ॥
सर्वेभ्यस्सर्वदा ग्राह्यं न दोषो ह्यत्र शासने ।
पुनः पाकेन संशुद्धिर्लवणस्य सहाम्भसा ॥ ६९९ ॥
अन्यायेन गृहीतस्तु न्यायमर्थयते तु यः ।
यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा सतु कीतर्यते ॥ ७०० ॥
देवार्थं गुरुपित्रर्थमात्मार्थमथवा तु यः ।
यमुद्दिश्य त्यजेत्प्राणान् ब्रह्महा स च कीर्त्यते ॥ ७०१ ॥
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारहरश्चैव षडेते आततायिनः ॥ ७०२ ॥
आततायिनमायान्तमपि शस्त्रान्तगं रणे ।
जिघांसन्तं जिघांसेत्तु न तेन भ्रूणहा भवेत् ॥ ७०३ ॥
युवानां बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवा विचारतः ॥ ७०४ ॥
असूर्या नाम ये लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्याधिगच्छन्ति ये चात्महननाज्जानाः ॥ ७०५ ॥
न च दुःखसमुत्पत्तौ कामतो देहमुत्सृजेत् ।
यदा निर्वेदमायातः प्राप्तभोगोऽथवा पुनः ॥ ७०६ ॥
ध्यानधारणायोदेन शिवलीनमनास्त्यजेत् ।
शिवादित्रय निन्दास्तु श्रुत्वा देहं स्वकं त्यजेत् ॥ ७०७ ॥
तं वा हन्यान्न दोषस्स्याच्छिवत्वं च समाप्नुयात् ।
शैवं पाशुपतं कालामुखं कापालधारिणम् ॥ ७०८ ॥
यदि हन्याज्जगत्सर्वं हतं तेन दुरात्मना ।
ब्रह्मघ्नश्च कृतघ्नश्च विशुद्धावपि कर्मतः ॥ ७०९ ॥
शरणागतहन्ता च योषिद्घ्नश्चापि पापिनौ ।
तथा चागमविप्लावी स्वर्णस्तेयसमो भवेत् ॥ ७१० ॥
अश्वरत्न मनुष्यस्त्रीभू धेनुहरणं तथा ।
निक्षेपस्य च सर्वं हि स्वर्णस्तेयं समं भवेत् ॥ ७११ ॥
देवब्राह्मणहत्तिश्च कूटसाक्ष्यं सुहृद्वधः ।
तथैवेह समुद्दिष्टमभिशापो महात्मनि ॥ ७१२ ॥
औषधं स्नेहमाहारं ददतो बन्धकस्य च ।
प्राणिनां प्राणवृत्त्यर्थं तत्रदोषो न विद्यते ॥ ७१३ ॥
प्रतिसंवत्सरं मासं तिथियुक्तं तु तीर्थभम् ।
निश्चित्य वर्तते पूर्वमुत्सवो यैर्दिनैःपुरा ॥ ७१४ ॥
नवाहाद्यैर्युतो भेरीताडनादिपुरस्सरः ।
तद्दिनत्रिगुणे वापि द्विगुणे वाथ तद्दिने ॥ ७१५ ॥
तदन्यथाकृते राष्ट्रराज्ञोदोषावहो भवेत् ।
तत्र शान्तिर्विधेयादौ प्राग्वदुत्सवमाचरेत् ॥ ७१६ ॥
किं तु मासान्तरे तु स्यात् तस्मिन्मासेऽथवा भवेत् ।
द्विगुणे तद्दिने वाथ मूर्तिहोमं दिशाहुतिम् ॥ ७१७ ॥
क्रमाद्विधाय कर्तव्यमुत्सवं तद्विधानतः ।
ध्वजारोहण पूर्वेत्तु त्रिगुणाह प्रकल्पिते ॥ ७१८ ॥
विधानमेतदाख्यातं द्विगुणेप्येवमूह्यताम् ।
लिङ्गं स्वायम्भुवं चेत्तु विधानमिदमीरितम् ॥ ७१९ ॥
मानुषे वाणलिङ्गादौ दैविके वार्षकेपिवा ।
मासभं तीर्थनक्षत्रमन्यथा वा नयेत्पुनः ॥ ७२० ॥
उत्सवो यो दिनैर्हीनस्तस्य वृद्धिः फलप्रदा ।
राष्ट्रक्षोभे च दुर्भिक्षे राजचोरभयादिषु ॥ ७२१ ॥
वित्ताऽभावेन्यहेतुभ्यः प्राग्वत्कर्तुमशक्यता ।
यदि जायेत तत्रापि शान्तिं पूर्वं विदाय च ॥ ७२२ ॥
दिनहीनं तु वा कुर्यादुत्सवं पूर्वमार्गतः ।
सर्व लोपात् प्रशस्तस्स्यादल्पाहै निर्मितोत्सवः ॥ ७२३ ॥
सर्वलोपेकृते तस्य महादोषः प्रजायते ।
शान्तिं च शान्तिहोमं च मूर्तिहोमं तदा नयेत् ॥ ७२४ ॥
अनेन विधिना येन सर्वैनैमित्तिकादितः ।
विघ्नाद्यरुत्सवो हीनः प्रारब्धोराष्ट्रनाशनः ॥ ७२५ ॥
शान्तिहोमं तदा कुर्यात् पुन्रुत्सवमाचरेत् ।
वृषाधिवासने हीने ध्वजे वारोपिते सति ॥ ७२६ ॥
गावो नश्यन्ति तत्कुर्याच्छान्तिहोमं तदुक्तवत् ।
वृषयागं नयेत्तत्र ध्वजदण्डस्य मूलतः ॥ ७२७ ॥
किन्तूर्ध्वस्थध्वजे मन्त्रन्यासाद्यं मनसाचरेत् ।
ध्वजारोपे विहीने तु नृपतेर्भङ्गमादिशेत् ॥ ७२८ ॥
शान्ति कृत्वा तदामन्त्री पुनरारेपयेत् ध्वजम् ।
ध्वजस्य भ्रमणेहीने ग्रामादावशुभावहः ॥ ७२९ ॥
शान्तिहोमं तदा कुर्यात् सर्वदोषनिवृत्तये ।
वेदी विहीना वा हीनलक्षणा वाशुभप्रदा ॥ ७३० ॥
शान्तिहोमं तदा कृत्वा वेदीं कुर्यात्सलक्षणाम् ।
दण्डोलक्षणहीनश्चेत् प्रधानस्याशुभावहः ॥ ७३१ ॥
मूर्तिहोमं तदा कुर्याच्छान्तिहोममथापि वा ।
स्वलक्षण विहीनश्चेदुपदण्डो भयप्रदः ॥ ७३२ ॥
स्कन्धमानस्य वै हानौ शान्तिहोमं तदानयेत् ।
दण्डोपदण्डस्कन्धादेर्भेद भङ्गादि सम्भवे ॥ ७३३ ॥
शान्तिहोमं तदाकुर्याद्भग्ने शान्त्यन्तरं नयेत् ।
ध्वजो लक्षणहीनश्चेद्राष्ट्रस्यास्य भयङ्करः ॥ ७३४ ॥
सलक्षणं ध्वजं चान्यं रोहणार्थं समाहरेत् ।
शान्तिकर्म नयेद्धीमाल्लक्षणध्वजरोहणम् ॥ ७३५ ॥
एवमेव वृषे कुर्यान्निष्कृतिं दोषहानयेत् ।
ऊर्ध्ववेत्रविहीनश्चेत् ध्वजस्येशं शतं जपेत् ॥ ७३६ ॥
अधोवेत्रविहीनश्चेन्नैवः दोषाय कल्पते ।
रज्जुछेदेऽरिभिर्बाधा शान्तिहोमं समाचरेत् ॥ ७३७ ॥
आख्वादिदष्टे वस्त्राद्ये शान्तिहोमं तदाचरेत् ।
पताका पतितौ भूमौ यदिराष्ट्रस्य दुःस्थितिः ॥ ७३८ ॥
शान्तिहोमं तदा कृत्वा विधिनारोपयेत् ध्वजम् ।
ध्वजे भेदादि संयुक्ते शान्तिकर्म तदाचरेत् ॥ ७३९ ॥
पताकां रोपयेदन्यां सप्ताहाभ्यन्तरे द्विजाः ।
पूर्वं पूर्वं प्रशस्तं स्यादल्पहानिर्यादि द्विजाः ॥ ७४० ॥
मूर्तिहोमं तदाकुर्याच्छान्तिहोममथापि वा ।
केतावारुह्यमाणेऽस्मिन्यष्ट्याद्यभिभेवेन च ॥ ७४१ ॥
लम्बिते दोषदश्शान्त्यै शान्तिहोमं समाचरेत् ।
दर्भमाला विहीना चेच्छान्तिहोमं तदाचरेत् ॥ ७४२ ॥
दण्डं सलक्षण दर्भमालया वेष्टयेत्ततः ।
रज्जुर्वा दर्भमाला वा प्रदक्षिण विधानतः ॥ ७४३ ॥
दण्डेऽसुयोजिता सा चेज्जप्त्वाघोरं सहस्रशः ।
प्रदक्षिणक्रमादग्राद्दर्भमालादिकां नयेत् ॥ ७४४ ॥
उपदण्डो विकूर्चश्चेज्जपेद्घोरं शतत्रयम् ।
ध्वजघण्टा विहीना चेन्न स्याद्वृषभसन्निधिः ॥ ७४५ ॥
आवर्तयेदघोरेण त्रिशतं देशिकस्तदा ।
घण्टायाः पतने भूमौ दक्षिणं त्रिशतं जपेत् ॥ ७४६ ॥
आरुह्य बन्धनं नेष्टं दण्डनाथश्शिवो यथा ।
ध्वजारोहणकाले तु कुम्भन्यासो न चेत्कृतः ॥ ७४७ ॥
वृषकुम्भविभेदादिकारणात् केतुरोहणम् ।
कृत्वान्ते शान्तिहोमं च कुम्भं संस्थाप्य पूर्ववत् ॥ ७४८ ॥
मन्त्रन्यासं ततःकुर्यात् मनसोक्षं हृदम्बुजे ।
तदावरणकुम्भाम्भोऽभिषेको न कृतो यदि ॥ ७४९ ॥
एकैकं स्वस्वमन्त्रैस्तु जपं कुर्याच्छतं शतम् ।
आरोपिते ध्वजे तस्मिन् वलयादवलम्बिते ॥ ७५० ॥
एकद्वित्रिचतुर्मात्रैर्न दोषाय प्रकल्पितः ।
ततोऽधो रविमात्रान्तघोरं त्रिशतं जपेत् ॥ ७५१ ॥
तदधो लम्बिते केतौ शान्तिहोमं विधाय च ।
आरोपयेत् ध्वजं पश्चात् वृषभार्चन संयुतम् ॥ ७५२ ॥
भेरीसन्ताडने हीने लोको मूकः प्रजायते ।
शान्तिहोमं तदा कृत्वा भेरीसन्ताडयेत्ततः ॥ ७५३ ॥
उत्सवारम्भतःपूर्वं देवताह्वान संयुतम् ।
देवतावाहने हीने देवादीनामसन्निधिः ॥ ७५४ ॥
शान्तिहोमं नयेत्प्राग्वद्देवताह्वानमाचरेत् ।
ईशाम्बस्कन्दविघ्नेशभानुचण्डेश्वरादयः ॥ ७५५ ॥
अनाहूतास्तदा दोषो नान्यानाहूतिरापदि ।
पताकारोपणोपेते देवानावाहयेन्न वा ॥ ७५६ ॥
भेरीताडनकार्यं तु तद्वदेव समाचरेत् ।
भेरीचर्मादि भेदादौ कोणच्छेदादि सम्भवे ॥ ७५७ ॥
अघोरं त्रिशतं जप्त्वा भेरीमन्यामथाहरेत् ।
तथैव कोणमन्यं च गृहीत्वा प्राग्वदाचरेत् ॥ ७५८ ॥
कोणे वा पतिते भूमावघोरं त्रिशतं जपेत् ।
तत्काले बलिकाले वा वादके पतिते भुवि ॥ ७५९ ॥
शान्तिहोमं तदा कुर्याद्राष्ट्रदुःस्थितिहानये ।
भेरिकापतने भूमौ भवेद्राज्ञो भयं महत् ॥ ७६० ॥
शान्तिहोमं तदा कृत्वा भेरीं सम्पूजयेद्धृदा ।
यागशालाग्निदग्धा वा विहीना लक्षणैस्तु वा ॥ ७६१ ॥
विमानं कुण्डवेदी वा राष्ट्रदुःस्थितिमावहेत् ।
कुर्याद्यथावत्तत्सर्वमुत्सवं तूत्सवे यदि ॥ ७६२ ॥
प्रत्यहं शान्तिहोमस्स्याद्यावत्तीर्थ दिनं भवेत् ।
ज्ञात्वा चेदुत्सवान्ते च यागशालां विलक्षणाम् ॥ ७६३ ॥
शान्तिं कुर्यात्तदेकाहं तद्दोष विनिवृत्तये ।
विधानमेतत्सामान्यं प्रतिष्ठायां च निष्कृतौ ॥ ७६४ ॥
स्नपने प्रोक्षणे मासपूजादौ सूत्ररोपणे ।
उत्सवाङ्गे च वान्यस्मिञ्जीर्णोद्धारेष्टकाविधौ ॥ ७६५ ॥
नित्ये नैमित्तिके काम्ये कर्मण्यन्यत्र योज्यताम् ।
यागोपकरणेऽप्येवं किं तु यागावसानके ॥ ७६६ ॥
शान्तिहोमो विधेयस्स्यादेकाहमुत्सवेऽपि च ।
प्रधानाधममध्यानां करणानां विलोपने ॥ ७६७ ॥
शान्तिहोममघोराणां द्विशतं त्रिशतं जपेत् ।
विहीने स्थण्डिलेऽङ्गे वा शान्तिहोमं तदाचरेत् ॥ ७६८ ॥
पूर्ववत्स्थण्डिलं कुर्यात् सस्यनाशनिवृत्तये ।
शिवकुम्भेषुवर्धन्यावृतेषु घटेषु वा ॥ ७६९ ॥
उत्सवाङ्गेषु चान्येषु कलशेषु यदा भवेत् ।
भेदो वा सुषुरच्छेदो वैलक्षण्यं क्रमेण तु ॥ ७७० ॥
शान्तिहोममघोराणुजपं पञ्चशतं चतुः ।
शतं त्रिशतमित्येवं कुर्याद्दोषापनुत्तये ॥ ७७१ ॥
कुम्भाद्यं नवमानीय प्राग्वत् संस्थापनं नयेत् ।
वर्धनी वाथ कुम्भो वा घटा विद्येश्वराधिपाः ॥ ७७२ ॥
स्वर्णाम्बुजविहीना वा स्वल्पस्वर्ण समन्विताः ।
कुर्युः कर्तुस्च दारिद्रयं जप्त्वाघोरं सहस्रकम् ॥ ७७३ ॥
शास्त्रसिद्धं पुनर्दद्यात् तद्दोषविनिवृत्तये ।
कुम्भाद्या वस्त्रहीनाश्चेद्वातरोगो भवेन्नृणाम् ॥ ७७४ ॥
जप्त्वाघोर सहस्रं तु दद्याद्वस्त्रं पुनर्गुरुः ।
पञ्चरत्नादि वैकल्येऽप्येवमेव समाचरेत् ॥ ७७५ ॥
सूत्रकूर्चपिधानादेरभावेऽप्येवमाचरेत् ।
हीने कौतुकबन्धेतु तदङ्गे वा पुरोदिते ॥ ७७६ ॥
स यागो निष्फलः प्रोक्तस्तस्मात्तद्दोषहानये ।
शान्तिहोमं तदाकुर्यात् कौतुकं बन्धयेत्ततः ॥ ७७७ ॥
जपेद्घोरं त्रिशतं तदङ्गानां विलोपने ।
तद्वदह्निकृते तस्मिन् कृत्वा सद्योऽधिवासनम् ॥ ७७८ ॥
पूर्वस्थानस्थिते देवे प्रोक्तं कौतुक बन्धनम् ।
आनीते मण्टपादौ वा जप्त्वाघोरं शतार्धकम् ॥ ७७९ ॥
बलितालाद्यभावे तु सहस्रं दक्षिणं जपेत् ।
त्रिशतं दीपहानौ च द्विगुणं दीपमाचरेत् ॥ ७८० ॥
उत्सवो यानहीनश्चेत् सर्वदोषावहो नृणाम् ।
स्नपनं शान्तिहोमं च प्रतियानं समाचरेत् ॥ ७८१ ॥
वृषिकाले महावाते राष्ट्रक्षोभे महाभये ।
ग्रामप्रदक्षिणं नेष्टमिष्टं धामप्रदक्षिणम् ॥ ७८२ ॥
स्नपनं शान्तिहोमं च तदा कार्यं द्विजोत्तमाः ।
एकवास्तुनि विप्रेन्द्रा वर्तमाने शिवोत्सवे ॥ ७८३ ॥
अन्यदेवोत्सवस्तत्र कृतश्चेत् ग्राम विभ्रमः ।
तद्दोषविनिवृत्यर्थं शान्तिहोमं समाचरेत् ॥ ७८४ ॥
तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् ।
अङ्गारकबलिश्चैव यामलोक्तो नदोषदः ॥ ७८५ ॥
वामभैरवसिद्धश्चेद्बलिर्ग्रामक्षयो भवेत् ।
बलिः प्रमादाद्दत्तश्चेच्छान्तिहोमं समाचरेत् ॥ ७८६ ॥
तथैव मातृशान्तौ च प्रायश्चित्तं समाचरेत् ।
शून्यग्रामं समाश्रित्य बलियाने प्रकल्पिते ॥ ७८७ ॥
तदा राष्ट्रक्षयं विद्यात् कृतं चेच्छान्तिमाचरेत् ।
आलये बलियाने वा तस्यां देवालयावृतौ ॥ ७८८ ॥
देवाङ्गवास्तौ शस्तस्स्यात् परवास्तोर्विशेषतः ।
तथैवासन्नवास्तुश्च दूरवास्तौ द्विजोत्तमाः ॥ ७८९ ॥
नानावृक्ष समायुक्तोऽनेकवेश्म समन्वितः ।
इतरस्मात् प्रशस्तस्स्याद्विपरीते विपत्करम् ॥ ७९० ॥
ब्रह्मक्षत्रविशां वास्तुः श्रेष्ठ इत्यभिधीयते ।
अनुकल्पो ह्यशक्तानामन्यत्रैव समाचरेत् ॥ ७९१ ॥
अनुलोमाधिवासो वा शौद्रो वा मध्यमौ मतो ।
तद्विनाधिष्ठितो वास्तुर्हीन इत्यभिधीयते ॥ ७९२ ॥
अन्तर्वातोर्वि शिष्टस्स्याद्बहिर्वास्तु बलिभ्रमः ।
एकत्र बलियाने च श्रेष्ठमित्यभिधीयते ॥ ७९३ ॥
अनुकल्पो ह्यशक्तानामन्यत्रैवं समाचरेत् ।
अनुकल्पप्रवृत्तानां शान्तिहोमो जपोऽथवा ॥ ७९४ ॥
हीनेविताने घोरणोः शतसङ्ख्यं जपं नयेत् ।
ध्वेज विहीनेऽप्येवं स्याज्जपोऽत्र शतसङ्ख्यया ॥ ७९५ ॥
ध्वजे विहीने रात्रौतु दोषो नास्ति द्विजोत्तमाः ।
बलिद्रव्ये विहीने तु क्षुद्बाधा जायते नृणाम् ॥ ७९६ ॥
तद्दिनाधिपमन्त्रेण जपेतद्विशतसङ्ख्यया ।
बलिद्रव्य समायुक्तं दापयेदन्यसन्धिके ॥ ७९७ ॥
बलिदाने विहीने च क्षुद्बाधा जायते नृणाम् ।
मूर्तिहोमं ततः कृत्वा यानान्ते वा बलिं नयेत् ॥ ७९८ ॥
देवालये बलिर्हीनो यदाघोरं शतं जपेत् ।
यस्सां दिशि बलिर्हीनो ग्रामादौ संहिताहुतिम् ॥ ७९९ ॥
तत्तद्दिशापतेर्मन्त्रं शतजापसमन्वितम् ।
विधाय यानकाले वातदन्ते वा बलिं नयेत् ॥ ८०० ॥
अन्नलिङ्गे विहिने तु दुर्भिक्षं जायते भुवि ।
शान्तिहोमं ततःकृत्वा सान्नलिङ्गं बलिं नयेत् ॥ ८०१ ॥
तच्छेदभेदपातादौ तथैव फलमादिशेत् ।
तल्लिङ्गं सुदृढं कृत्वा यजेदस्त्रं तु तद्गतम् ॥ ८०२ ॥
विधाय संहिताहोमं तस्मिन्स्थानेऽप्यनन्तरम् ।
नयेदारभ्य तल्लिङ्ग पातस्थानात्प्रदक्षिणम् ॥ ८०३ ॥
पतितं चेत्यजेदन्नं सम्पाद्यान्नं समाचरेत् ।
समाप्य पूर्ववद्यानं संहिताहोममाचरेत् ॥ ८०४ ॥
बलिपात्रेषु पतिते त्वघोरेण शतं जपेत् ।
भेदादावन्यदादाय बलिद्रव्यं तु निक्षिपेत् ॥ ८०५ ॥
दशायुधानि वा भूमौ सम्भूतानि पतन्तिचेत् ।
निर्वाणानि तदा कुर्याच्छान्ति होमं तदा नयेत् ॥ ८०६ ॥
च्छेदभेदादियुक्तानि यदि दारुमयानि वा ।
तथान्यानि समापाद्य सम्भूतानीतराणि वा ॥ ८०७ ॥
संस्कृत्य स्वस्वमन्त्रैस्तु सावशेषं समापयेत् ।
लोहजान्यनुकर्मोक्तया नीत्वान्ते स्थापनं नयेत् ॥ ८०८ ॥
शूलास्त्रे पतिते राज्ञो भयं भवति तत्र च ।
धामादौ वा दिशाहोमं नयेदस्त्रार्चनान्वितम् ॥ ८०९ ॥
च्छेदभेदादिके जाते त्वापाद्यैवानुकर्मवत् ।
उत्सवं पूर्ववत् कुर्यादन्येनास्त्रेण वा द्विजाः ॥ ८१० ॥
समाप्योत्सवकार्यं तु तत्सन्धायानुकर्मवत् ।
सम्प्रोक्षणं ततः कुर्यादस्त्रराजप्रतिष्ठया ॥ ८११ ॥
यानकालेऽन्यकाले वा बेरादौ पतिते सति ।
राजा मरणमाप्नोति सद्यः कुर्यात् प्रतिक्रियाम् ॥ ८१२ ॥
अव्यङ्गे पतिते बेरे पतिते वा करादधः ।
द्विकरात् त्रिकराद्वापि तदूर्ध्वं च क्रमान्नयेत् ॥ ८१३ ॥
संहिताशान्तिहोमौ च शान्तिं मूर्तिदिशाहुती ।
स्नपनं च जपेत् घोरमन्त्रेण शतसहस्रकम् ॥ ८१४ ॥
नैवेद्यमपि सामान्यमुत्सवं शेषमाचरेत् ।
अङ्गहीने ऽनुकर्मोक्त्या सन्धानाद्यं च निष्कृतिम् ॥ ८१५ ॥
अधिवासादिकं कर्म सद्य एव समाचरेत् ।
मासर्क्ष तिथिवारादि प्रेक्षां हित्वैव देशिकः ॥ ८१६ ॥
पुनश्च कौतुकं बध्वा उत्सवाद्यं प्रकल्पयेत् ।
उत्तमाङ्गादिहीने चानुकर्मोक्त्या समाचरेत् ॥ ८१७ ॥
तत्राप्यन्येन बेरेण सन्धानान्तं हि चोत्सवम् ।
कारयेद्देशिको धीमान् प्रत्यहं शान्तिहोमयुक् ॥ ८१८ ॥
धामान्तरगतेनाथ कर्तव्यो वा द्विजोत्तमाः ।
गर्भद्वारादिमानेष्टमानयुक्तेन नान्यथा ॥ ८१९ ॥
ततो बेरं समापाद्यानुकर्मोक्त्या तदेव हि ।
प्रतिष्ठा च विधायान्ते चाङ्कुरार्पण पूर्वकम् ॥ ८२० ॥
उत्सवं कारयेद्देवं नवाहाद्युत्सवेषु च ।
लिङ्गेऽप्येवं समानं दर्म हे शिवदीक्षिताः ॥ ८२१ ॥
उत्सवे ग्रामबाह्ये तु बद्धप्रतिसरे द्विजाः ।
बेरेऽतिनिन्दिते दोषो राज्ञो भवति शान्तये ॥ ८२२ ॥
शान्तिहोमं तदा कुर्यात् संहिताहोममेव वा ।
कुर्वाणश्चेत् क्रियाम्भूमौ पतितो देशिकस्तदा ॥ ८२३ ॥
ग्रामानवस्थितिर्ज्ञेया तदर्थं बहुरूपिणम् ।
जपेत् पञ्चशतं मन्त्री पतितेऽप्येवमेव हि ॥ ८२४ ॥
बलिदातरि तत्काले पतिते तं शतं जपेत् ।
आयुधास्त्रान्नलिङ्गेशवाहने पतिते भुवि ॥ ८२५ ॥
गुरुश्शतं जपेद्घोरं द्विगुणं शकरास्त्रयोः ।
पूजायाश्चैव सन्ध्यादिविभिन्नाया विलोपने ॥ ८२६ ॥
पाद्यादीनां च गन्धस्य पुष्पाणां धूपदीपयोः ।
अनिर्वाण प्रदीपस्य नैवद्यादेर्विलोपने ॥ ८२७ ॥
प्रागुक्तविधिना कुर्यात् प्रायश्चित्तं गुरुत्तमाः ।
विलुप्ते वह्निकार्ये वा होमद्रव्यविलोपने ॥ ८२८ ॥
निर्वाणेऽग्नौ शिवोपेतेऽप्यशिवे वाथ पूर्ववत् ।
रथारोहो विहीनश्चेन्नीचास्स्युर्मनुजा भुवि ॥ ८२९ ॥
शान्तिहोमं तदा कृत्वा रथारोहणमाचरेत् ।
यानकाले रथादीनां भङ्गे भङ्गो भुवो भवेत् ॥ ८३० ॥
सन्धानयोग्यं सन्धानं कृत्वा शान्तिं समाचरेत् ।
तद्देश धाम्नि वा कुर्याद्यानादौ दोषशान्तये ॥ ८३१ ॥
सन्धानकर्मायोग्यश्चेद्रथान्तरमथानयेत् ।
आनीय शिविकाद्यं वा तत्रारोप्य महेश्वरम् ॥ ८३२ ॥
पूर्ववत् देवदेवेशं स्वालये विनिवेशयेत् ।
विनोद दर्शन काले जातश्चेत् कलहो महान् ॥ ८३३ ॥
शान्तिहोमं तदा कुर्यादघोरस्यायुतं जपेत् ।
विनोददर्शने हीने संहिताहोममाचरेत् ॥ ८३४ ॥
नीराजनविधौ हीने प्रायश्चित्तं तु पूर्ववत् ।
यानान्तस्नस्नपने हीने शान्तिहोमविलोपिते ॥ ८३५ ॥
देवसनिधि वैकल्यं मूर्ति होमः प्रतिक्रिया ।
स्नपनं शान्तिहोमं च नयेत् सन्निधि सिद्धये ॥ ८३६ ॥
हीनाधिष्ठितदेशे वा देवयाने प्रवर्तिते ।
प्रचुरस्नपनं कुर्याच्छान्तिहोमं महत्तरम् ॥ ८३७ ॥
तैलाभ्यङ्गे विहीने तु शिरोरोगो नृणामिह ।
शान्तिहोमं तदा कृत्वा तैलाभ्यङ्गं समाचरेत् ॥ ८३८ ॥
नृत्तमूर्त्युत्सवे हीने पूर्वसङ्कल्पिते नराः ।
भवन्ति पापिनस्सर्वे तदर्थं शान्तिमाचरेत् ॥ ८३९ ॥
नटेशभ्रमणं पश्चादिष्टकाले समाचरेत् ।
यात्रादानस्य विच्छेदे सा यात्रा निष्फला भवेत् ॥ ८४० ॥
शान्तिहोमं तदा कृत्वा पूर्ववद्दानमाचरेत् ।
मृगयायास्तु वैकल्ये नृपस्यापजयो भवेत् ॥ ८४१ ॥
शान्तिहोमं तदा कृत्वा मृगयामिष्टभे नयेत् ।
हीने कौतुकतीर्थे स्यान्नैव गङ्गादिसन्निधिः ॥ ८४२ ॥
तद्वत्सूर्योदयात् पश्चात् तीर्थकार्ये कृते सति ।
निष्कृतिस्स्यात् क्रमाच्छान्तिहोमो वा संहिताहुतिः ॥ ८४३ ॥
एतत् कौतुकतीर्थे स्यात् ध्वजारोहे कृते सति ।
अन्यत्रकौतुक स्नानं कल्पयेद्वर्जयेत्तुवा ॥ ८४४ ॥
चूर्णोत्सवे तदङ्गे वा हीने स्याद्रोगपीडनम् ।
शान्तिहोमो भवेदङ्गिन्यङ्गे स्यात्संहिताहुतिः ॥ ८४५ ॥
विलुप्ते धाम्नि वा स स्यात्तीर्थस्नानेऽथवा पुनः ।
चूर्णोत्सवभ्रमे हीने संहिताहोममाचरेत् ॥ ८४६ ॥
महातीर्थ विलुप्तस्यात्स यागो निष्फलो निष्फलो द्विजाः ।
शान्तिं कृत्वा तदर्थं तु तीर्थकार्यं ततो नयेत् ॥ ८४७ ॥
पूर्वं नद्यादिके तस्मिन्वर्तमाने तदन्यथा ।
कृते तद्दोष शान्त्यर्थं शान्तिहोमं तदाचरेत् ॥ ८४८ ॥
तीर्थाङ्ग लोपे कर्तव्यस्संहिताहोम इष्टदः ।
प्रासादे मनुजे जाते मृते राजो भयं महत् ॥ ८४९ ॥
मृतादि तत्प्रोदेशान्त्तु विसृज्य च बहिस्ततः ।
प्रोक्षयेत् गोमयाम्भोभिर्येन देशेन ते गताः ॥ ८५० ॥
तद्देशे तु ततः कुर्यात् पुण्याह प्रोक्षणं च वै ।
मृतप्रसूतदेशं तु खानयोग्यं खनेत्तदा ॥ ८५१ ॥
परित्यज्य मृदोऽशुद्धा मृद्भिश्च परिपूरयेत् ।
प्रक्षाल्यासन्नकुड्याद्यं गोमयालेपनं स्थले ॥ ८५२ ॥
पुण्याहं तत्र गव्येन प्रोक्षणं च क्रमान्नयेत् ।
शैव सम्भोजनं चान्ते जलसम्प्रोक्षणं नयेत् ॥ ८५३ ॥
स्नपनं शान्तिहोमं च यदिगर्भगृहे भवेत् ।
शान्तिहोमोज्झितं कुर्यादर्धमण्डपके सति ॥ ८५४ ॥
प्रतिमामण्डपे शान्तिहोमं च स्नपनं विना ।
अन्तस्सालान्तरे चेद्धि जलसम्प्रोक्षणं नयेत् ॥ ८५५ ॥
अन्तस्सालस्थ देवानां स्नपनं शान्तिहोमवत् ।
गव्येन प्रोक्षयेत्तत्स्थपीठान्यपि विशुद्धये ॥ ८५६ ॥
त्यजेन्मार्दानि भाण्डानि क्षालयेद्दारवं जलैः ।
अन्तस्सालस्य बाह्ये चेत् स्नपनेन दिशाहुतिः ॥ ८५७ ॥
पाकस्थानादि देशेषु मरणादौ च सम्भवे ।
पूर्वच्छुद्धिमापाद्य पर्यग्निकरणं नयेत् ॥ ८५८ ॥
शान्तिहोमं ततः कुर्यान्मूर्तिहोममथापि वा ।
प्राकारद्वय बाह्ये चेच्छान्तिहोमं समाचरेत् ॥ ८५९ ॥
धाम्नो द्वादशदण्डान्तवास्तौ मर्त्यो मृतो यदि ।
परित्यज्यैव तत् कुर्यान्नित्यनैमित्तिकादिकम् ॥ ८६० ॥
कृतश्चेद् ग्रामनाशस्स्यात् तदर्थं स्नपनं नयेत् ।
सूतावापि मृता धाम्नि पक्षिणः पशवोः मृगाः ॥ ८६१ ॥
सर्पो वा जायते राष्ट्रनराणामिह दुःस्थितिः ।
गोमयालेपनं तत्र प्रोक्षयेत् पञ्यगव्यतः ॥ ८६२ ॥
स्नपनं गर्भगेहे चेच्छान्तिहोमं च कारयेत् ।
केवलस्नपनं चार्धमण्डपे परिकल्पयेत् ॥ ८६३ ॥
देवतामण्डपे तत्स्थदेवान् सम्प्रोक्ष्य गव्यतः ।
सम्पूज्य गन्धपुष्पाद्यैश्शान्तिहोमं च कारयेत् ॥ ८६४ ॥
एतत्सर्वं तु सामान्यमुत्सवेऽनुत्सवेऽपि च ।
उष्णीषमुत्तरीयं वा वसनं यज्ञसूत्रकम् ॥ ८६५ ॥
शिरो वा वह्निना दग्धं स्यादाचार्यस्य सुव्रताः ।
ज्वरबाधा भवेद्ग्रामे तद्दोषशमनाय च ॥ ८६६ ॥
गुरुस्स्नात्वा शुचिर्भूत्वा शान्तिहोमं च कारयेत् ।
एवमेव भवेत् कर्तृहोत्रादीनां मुनीश्वराः ॥ ८६७ ॥
वस्त्रशय्यासनादीनां दाहच्छेदादि सम्भवे ।
दष्टे वा मूषिकाद्यैस्तु क्रमात् फलमिहोच्यते ॥ ८६८ ॥
कोणे वा भोगवृद्धिस्स्यात् प्रान्तेऽनिष्टं प्रक्रीर्तितम् ।
पुत्रोत्पत्तिर्यशश्चैव दशपाशान्तमध्यमे ॥ ८६९ ॥
प्रान्तेनिष्टं समाख्यातं रोगो वा मृत्युरन्यतः ।
वस्त्रं वा त्रिगुणं कृत्वा ब्रह्मेन्द्रयमवह्निषु ॥ ८७० ॥
महादोष समाख्यातो दोषो नान्यत्र कथ्यते ।
एवमेव नराणां च तदा स्नानं विधाय च ॥ ८७१ ॥
जप्त्वाघोर सह्रस्रं तु दष्टवस्त्राणि दापयेत् ।
नराणां शिवभक्तानां दीक्षितानां शिवाय वा ॥ ८७२ ॥
वस्त्राद्यं दैविकं चेद्धि प्रोक्ष्य गव्येन शुद्धये ।
कारयेत् संहिताहोमघोरं वा जपेत्तथा ॥ ८७३ ॥
अदीक्षितैश्च शूद्राद्यैः प्रविष्टे यागमण्डपे ।
सम्प्रोक्ष्यास्त्राम्बुना घोरं दशवारं जपेन्मनुम् ॥ ८७४ ॥
तत्संस्पृष्टे तु कुम्भादौ तदन्यं विनिवेशयेत् ।
संहिताहोमपूर्वं तु श्वादीनां च प्रवेशने ॥ ८७५ ॥
गोमयालेपनं चैव पुण्याहप्रोक्षणान्वितम् ।
गव्यसम्प्रोक्षणोपेतं प्रतिलोमान्त्यजैर्यदि ॥ ८७६ ॥
सूतकैः प्रेतकाद्यर्वा कुम्भादींस्तद्गतांस्त्जेत् ।
गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् ॥ ८७७ ॥
मूर्तिहोमं विधायान्ते कुम्भादीन् पूर्ववन्यसेत् ।
श्वादीनां स्पर्शनेप्येवं निष्कृतिः परिकीर्तिता ॥ ८७८ ॥
चण्डालाद्यैः प्रविष्टश्चेदेवं कृत्वा तदन्तिके ।
स्नपनं कारयेच्छम्भोर्दिशाहोमं च कारयेत् ॥ ८७९ ॥
तैः स्पृष्टाः प्रतिमाद्याश्चेत् प्राग्वन्निष्कृतिमाचरेत् ।
यागशालाग्निदग्धश्चेद्भयं स्याद्राजवेश्मनि ॥ ८८० ॥
व्यपोह्य पूर्वकुम्भादीन् सम्पूज्य वृषभध्वजम् ।
मूर्तिहोमं विधायान्ते पूर्ववद्यागमण्डपम् ॥ ८८१ ॥
कृत्वा सद्योऽधिवासं तु पूर्ववत्सर्वमाचरेत् ।
कुम्भसंस्थापनोपेते विदग्धे यागमण्डपे ॥ ८८२ ॥
महानसेऽथवा स्थानमण्डपे गोपुरादिके ।
विदग्धे शान्तिहोमं तु कृत्वा पूर्ववदाचरेत् ॥ ८८३ ॥
प्रपायामग्निदग्धायां संहिताहोममाचरेत् ।
विदग्धे गर्भगेहेऽर्धमण्डपे प्रतिमादिके ॥ ८८४ ॥
अन्तस्सालान्तरे बाह्ये साले च क्रमशो भवेत् ।
स्नपनेन दिशाहोमो मूर्तिहोमस्तथाविधः ॥ ८८५ ॥
शान्तिश्च शान्तिहोमश्च संहिता होम एव च ।
दुष्टे तु लिङ्गबेरादौ तदुक्तां निष्कृतिं नयेत् ॥ ८८६ ॥
परिवालये कुर्यात् प्रतिमामण्डपोक्तवत् ।
उत्सवेऽप्यनुत्सवेप्येतत् सामान्यं कर्म सम्मतम् ॥ ८८७ ॥
ग्रामादिवेश्मदाहे तु सम्हिताहोममाचरेत् ।
महादाहोद्भावे ग्रामे शान्तिहोमं समाचरेत् ॥ ८८८ ॥
प्रतिक्रियाह्यदत्ता चेद्वसनं चोत्तरीयकम् ।
सोष्णीषं देशिकद्रव्यं हैमपञ्चाङ्गभूषणम् ॥ ८८९ ॥
अङ्गुलीयकमात्रं वा तानि यानीष्टमानतः ।
अघोरशतमावर्त्य दद्यात्तान्यादराद्गुरोः ॥ ८९० ॥
आचार्य सङ्करो राष्ट्रं राजानं नाशयत्यथ ।
एकाचार्येण कर्तव्यमेकदेवालयास्थितम् ॥ ८९१ ॥
कर्मान्येन कृतं तच्छेत् तस्यादाचार्यसङ्करः ॥
ऋषय ऊचः जलाद्याहरणं गन्धपुष्पधूपादि
कल्पनम् ॥ ८९२ ॥
दीपनैवेद्य सङ्कॢप्तिर्देवे नित्यार्चनं च यत् ।
सकलाराधनं यच्च परिवारार्चनादिकम् ॥ ८९३ ॥
नित्योत्सवश्च गानाद्यं स्नपनाद्यङ्गकल्पनम् ।
उत्सवाद्यङ्गकॢप्तिर्वा देवतावाहनादिकम् ॥ ८९४ ॥
तत्काले मूललिङ्गादिपूजनं नित्यहोमकम् ।
अनेक नरनिर्वत्य कथमेकः करोत्यहो ॥ ८९५ ॥

शिवः -

साधवास्ते महाप्राज्ञाः समाधिं कथयाम्यहम् ।
नित्ये नैमित्तिके काम्ये यत्कर्मैकालये स्थितम् ॥ ८९६ ॥
एकाचार्येण कर्तव्यमिति साधूदितं मवा ।
देशिकस्यास्य पुत्रोवा पौत्रो वा तस्य बान्धवाः ॥ ८९७ ॥
तद्दीक्षितास्तदादेश समाविष्टाश्च ये नराः ।
आदिशैव कुलेजाता ब्राह्मणाः क्षत्रिया विशः ॥ ८९८ ॥
शूद्रा वा येऽनुलोमास्ते गन्धर्वा नर्तकादयः ।
रुद्रकन्याश्च पद्दास्यस्तदाज्ञापालका यदि ॥ ८९९ ॥
तैरप्यनुष्ठितं कर्म देशिकेनानुष्ठितं भवेत् ।
यथा राज्ञा नियुक्तैस्तु सामन्त प्रमुखैरपि ॥ ९०० ॥
यत्कृतं राजकार्यं स्यात्तथैवापि सम्मतम् ।
अन्यथा सति कर्तव्ये शान्ति तत्र समाचरेत् ॥ ९०१ ॥
तत्र सङ्करदोषोऽपि फलमेवं च निष्कृतिः ।
क्रिया या वर्तते पूर्वं शास्त्रसिद्धा पुनः पुनः ॥ ९०२ ॥
सर्वत्र क्रिया प्रकर्तव्याशास्त्रसिद्धां परित्यजेत् ।
अन्यथा सति कर्तव्ये राज्ञो ध्वम्स उदाहृतः ॥ ९०३ ॥
शान्तिस्तदर्थं कर्तव्या तद्दोषनिवृत्तये ।
शास्त्रसिद्धैव पूर्वापि ततो ततो वृद्धिस्सुखप्रदा ॥ ९०४ ॥
तस्मात्सर्वप्रयत्नेन पूर्वमप्यधिकं चरेत् ॥ ९०५ ॥

इति ऊत्तरकामिकाख्येमहातन्त्रे प्रायश्चित्तविधिःत्रिंशतितमः पटलः ॥

प्रणवासनमारूढं दुराधर्पं महाबलम् ।
पञ्चास्यं दशकर्णश्च प्रतिवक्त्रं त्रिलोचनम् ।
दंष्ट्राकरालमत्युग्रं मुक्तनादं सदुर्जयम् ।
कपाल मालाभरणं चन्द्रार्धकृतशेखरम् ।
केकराक्षं महामाला नागाभरण लेलिहम् ।
सूर्यकोट्ययुताभं च विघ्नसङ्घातमर्दकम् ।
भुजैर्दशभिरत्युग्रैः भैरवास्त्रौस्समन्वितम् ॥
खड्गचापमहाशूलाभय पाशांश्च दक्षिणे ।
खेट वाण कपालांश्च वरप्रासौ च वामतः ॥
पिङ्गाभस्मश्रुभ्रू युक्तं तथा विधशिरोरुहम् ।
ध्यात्वैवम् उच्चरन् मन्त्रमावाह्यार्चन मारभेत् ॥

सिंहवक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्वं शिखान्विताम् ।
कृष्णाञ्जननिभां वृत्तरक्तनेत्र त्रयान्विताम् ॥
वहन्तीं सव्यहस्ताभ्यां शूलं डमरुकं वहन् ।
वहन्तीं वाम हस्ताभ्यां मुण्डं शेषे पल्लवम् ॥
कृष्णाम्बर धरां सास्त्रमां सास्यां नर्तने रताम् ।
मौक्तिकाभारणैर्युक्तां सर्वावय भूषणाम् ॥
अट्टहासरवोपेतं कृष्णाजिन समन्वितम् ॥

ध्यायेत् सूर्यसहस्राभम् अघोरास्त्रम् अरिन्दमम् ।
प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् ॥
त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् ।
सर्वोपवीतं शूलासि शक्तिमुद्गर धारिणम् ॥
चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्धशेखरम् ।
नृत्यमानं महाकार्यं नागाभरणभूषितम् ॥
देवदानव दैत्यानां दर्पितानां विमर्दकम् ॥

३१। एकत्रिंशत्तमे पटले अद्भुत शान्ति विधिः

वक्ष्येऽद्भुतानां शान्तिं तु सर्वारिष्ट निवारिणीम् ।
रजन्यां दर्शनं भानोः परराज भयं भवेत् ॥ १ ॥
विप्र भोजन संयुक्तां तत्र शान्तिं समाचरेत् ।
दर्शे चाभ्युदिते चन्द्रे परो राजा भविष्यति ॥ २ ॥
पूर्ववत् कल्पयेत् शान्तिं मध्यमेनाधमेन वा ।
सम्भवे भूमि कम्पेतु नृप भङ्गो भवेद् ध्रुवम् ॥ ३ ॥
मधुक्षीर घृतस्स्नानं सहस्रप्रस्थ सम्मितैः ।
तदर्धे वा तदर्धे वा शतप्रस्थैः तदर्धतः ॥ ४ ॥
स्नपनोक्ता शिवे कुर्यात् त्रिसप्ताहं द्विसप्तमम् ।
सप्ताहं वा धृतक्षौद्रैः श्रेष्ठ मार्गेण कारयेत् ॥ ५ ॥
प्रसाद मण्डपाद्यादि भ्रमणेप्येवमाचरेत् ।
नदी तटाक कूपादि क्षोभे दुर्भिक्षता भवेत् ॥ ६ ॥
तत्तीरे मण्डपं कृत्वा तन्मध्ये स्थण्डिले शिवम् ।
साम्बं कुम्भे च वर्धन्यां परितोष्ठ घटेषु च ॥ ७ ॥
स सूत्राम्बरहैमेषु सप्ततीर्थं च कन्यया ।
पूजयेत् गन्धपुष्पाद्यैः दिशाहोमं समाचरेत् ॥ ८ ॥
कुम्भाम्भः प्रक्षिपेत्तेषु पञ्चाहं ह्येवमाचरेत् ।
प्रतिमारोदनेस्वेदे नृपस्य मृतिमाचरेत् ॥ ९ ॥
सर्वेषां प्राणिनां नाशं सद्यः कुर्यात्प्रतिक्रियाम् ।
कृत्वातु प्रतिमा शुद्धिं श्रेष्ठां शान्तिं समाचरेत् ॥ १० ॥
शान्ति होमं च विप्राणां भोजनं नित्यमाचरेत् ।
तदन्ते चोत्सवं कुर्यात् यथा वित्तं मुनीश्वराः ॥ ११ ॥
जाते शोणित वर्षेतु सर्वेषां नाशनं भवेत् ।
प्रासाद मण्डपादीनि रुधिराक्तानि शोधयेत् ॥ १२ ॥
गोमयालेपनं कृत्वा पर्यग्निकरणं नयेत् ।
पुण्याहं वाचयित्वातु मध्वाद्यैः स्नपनं नयेत् ॥ १३ ॥
भूमिकम्पोक्तमार्गेण शान्ति होमं च कारयेत् ।
सप्ताहमेवं कुर्याद्वा द्वित्रि सप्ताह मेव वा ॥ १४ ॥
मधु क्षीराद्य वृष्ट्यादौ राष्ट्र क्षोभं समादिशेत् ।
मृत्तैलाश्मासृगाद्यैर्वा वर्षश्चेत्तद्वदेवहि ॥ १५ ॥
तद्द्रव्य स्नपनं कुर्यात् भूमिकम्पोक्तमार्गतः ।
विशेषाच्छिवमभ्यर्च्य भूरि नैवेद्य संयुतम् ॥ १६ ॥
शैवान् सम्भोजयेत् प्रश्चादेवं सप्ताहमाचरेत् ।
लोके मृदादि वृष्टिश्चेत् क्षीर स्नपन सम्युतम् ॥ १७ ॥
लिङ्ग बेरद्रुमादिभ्यः शोणितादेः समुद्भवे ।
सम्पूज्य गन्ध प्रमुखैः वस्त्रयुग्मेन वेष्टयेत् ॥ १८ ॥
दिशाहोमं नयेत्तेषु शैवान् सम्भोजयेत्ततः ।
पर चक्राद्भयं ज्ञेयं तद्भीतेर्विनिवृत्तये ॥ १९ ॥
लिङ्ग बेर द्रुमाद्यङ्गं शोधयेदस्त्रवारिणा ।
वास्तुं सम्पूजयेत्पश्चात् तदन्ते स्नापयेच्छिवम् ॥ २० ॥
शान्ति कर्मोक्त नक्षत्र वशादेतत्समाचरेत् ।
अकस्मात्पतितं धाम मूलादामस्तकं यदि ॥ २१ ॥
नृप भङ्गो भवेत्तेन मूर्तिहोमं तु कारयेत् ।
स्नपनं च शिवे नृत्यं कुर्याद्वित्तानु सारतः ॥ २२ ॥
शान्त्युक्त दिन सङ्ख्यया वशेनैतत्समाचरेत् ।
प्रासाद मनुकर्मोक्त्या आद्येष्टकादि युतं नयेत् ॥ २३ ॥
त्रिपादेऽर्धे तथा पादे तदर्धे वाथभग्नके ।
कुर्याद्धाम्नोऽथ सन्धानं सप्तपृष्ट पञ्च वेदभम् ॥ २४ ॥
प्रायश्चित्तं प्रकर्तव्यं प्रागुक्तं भावितात्मभिः ।
स्थूयाद्यवयवे छीन्नेऽप्येत देकाहमाचरेत् ॥ २५ ॥
नादिकाद्यङ्ग वैकल्ये सन्धानं संयगाचरेत् ।
अकस्माद्धामभेदादौ फलमिन्द्रादि दिग्वशात् ॥ २६ ॥
निष्कृतिश्व पुरा प्रोक्ता ततस्तद्वत्समाचरेत् ।
धामान्तरस्थ देवानां भग्नादौ समुपस्थिते ॥ २७ ॥
अनुकर्मविधोनोक्तं कुर्यात्कर्म गुरुस्तदा ।
मण्डपादि निपाते च शान्तिमेकाहमाचरेत् ॥ २८ ॥
धाम स्थानान्तरं प्राप्तं यदिलिङ्गादिसंयुतम् ।
नृपतेरादिशेद्भङ्गं तेन वैदेशिकोत्तमः ॥ २९ ॥
सम्पूज्य देवं गन्धाद्यैः श्रेष्ठशान्तिं समाचरेत् ।
शैव सम्भोजनोपेतां विप्रभुक्ति समन्वितम् ॥ ३० ॥
लिङ्गान्तरं प्रतिष्ठाय पूर्वमान समं यथा ।
बाणलिङ्गादिकं वाथ प्रासादेन समन्वितम् ॥ ३१ ॥
अथवा पूर्वलिङ्गं चेत् तत्प्रासाद समन्वितम् ।
अनुकर्मविधानेन पूर्वस्थाने समं नयेत् ॥ ३२ ॥
हीनं प्रासादमात्र स्यात् पूर्वस्थाने समाचरेत् ।
स्थानानन्तर गतं लिङ्गम् उदक् पूर्वत्र विन्यसेत् ॥ ३३ ॥
तत्स्थाने धाम वा कार्यमनुकर्मोक्त वर्त्मना ।
वृक्षे स्थानान्तरं प्राप्ते सस्यनाशो भविष्यति ॥ ३४ ॥
तद् वृक्ष जाति सम्भूत समिद्भिर्मूर्ति होमकम् ।
समाचरेद् द्विसप्ताहं शैव भोजनं संयुतम् ॥ ३५ ॥
तत्समीपे स्थिते लिङ्गे स्वयं भूतादिके परम् ।
स्नपनं कारयेन्नित्यं प्रभूत हविषान्वितम् ॥ ३६ ॥
स्थापयेत् पूर्वदेशेऽन्य वृक्षं तज्जाति सम्भवम् ।
तदन्य कुसुमे जाते तदन्य फल सम्भवे ॥ ३७ ॥
संवत्सरत्रयादर्वाक् वृक्षे पुष्पफलोद्भवे ।
सप्ताहं वा नवाहं वा पञ्चाहं शान्तिमाचरेत् ॥ ३८ ॥
तन्मूले शान्ति होमं च प्रत्यहं गुरुराचरेत् ।
शिवलिङ्गे च बेरे वा पीठे वोष्णादि सम्भवे ॥ ३९ ॥
सर्वे ज्वरादि भूतास्तु नश्यन्ति मनुजा ध्रुवम् ।
गन्धोदै र्नालिकेराद्यैः विन्यस्तैः स्नपनोक्तितः ॥ ४० ॥
स्नापयेत् परमेशानं पञ्चामृत समन्वितम् ।
अथवाक्षीर मध्वाज्यैः प्रस्थैस्संस्नापयेच्छिवम् ॥ ४१ ॥
सहस्रादि चतुष्प्रान्तैः आढकादि समन्वितैः ।
चन्दनागरु कर्पूरोशीर कुङ्कुम संयुतम् ॥ ४२ ॥
गन्धं महत् समालभ्य पुष्पाद्यैर्पुष्कलैर्यजेत् ।
दिशाहोअं ततः कुर्यात् यावदौष्णं निवर्तते ॥ ४३ ॥
शीतकुम्भोऽपि कर्तव्यश्शान्ति मिच्छन्नरैस्तदा ।
नरा मृगाश्व पशवः पक्षिणो वा सरीसृपाः ॥ ४४ ॥
जनयन्तिस्वजात्यन्यं यदि क्षोभो भवेद्भुवि ।
बहुशीर्षक हस्ताङ्घ्रि नासादेहादि संयुतः ॥ ४५ ॥
स्ववर्णेतर वर्णादि भ्रूविकारादि संयुताः ।
स्पष्ट वर्णायुता अश्वादयो जातायति द्विजाः ॥ ४६ ॥
तथाभूतान्परित्यज्य सद्यः कुर्यात्प्रतिक्रियाम् ।
शिवं सम्पूज्य विधिवत् दिशाहोमं समाचरेत् ॥ ४७ ॥
शैवान्सम्पूज्य विधिवत् शान्तिहोमं समाचरेत् ।
शिवान्सम्भोजये देवं नयेद्वा सप्तपञ्चमम् ॥ ४८ ॥
निष्कृतौ गोगजाश्वानां सत्यां तेषां निकेतने ।
नित्यं वास्तुबलिं शान्ति होमं क्षेत्रेश्वरेज्यया ॥ ४९ ॥
युद्धे वा पर्वतादीनां राज्ञो युद्धभयं भवेत् ।
शिवं सम्पूज्य विधिवत् दिशा होमन्तु कारयेत् ॥ ५० ॥
स्नापयेत् परमेशानं नव सप्ताह माचरेत् ।
लिङ्गे बेरे च पीठे वा स्वेदो राष्ट्र भयं भवेत् ॥ ५१ ॥
प्रक्षाल्यास्त्राम्बुनाभ्यर्च्य शान्तिं सप्ताहमाचरेत् ।
लिङ्गे बेरे विमाने वा मण्डपे गोपुरादिषु ॥ ५२ ॥
परिवारालये साले देवेशास्थानमण्डपे ॥ ५२१।२ ॥
सभास्वशनिपाते च राज्ञो व्याधिं समादिशेत् ।
नव प्राकार मार्गेण क्रमाच्छान्तिं समाचरेत् ॥ ५३१।२ ॥
तत्र लिङ्गे च पिठे च बेरे वायं विधिर्भवेत् ।
दिशाहोमं ततः कृत्वा महा स्नपन संयुतम् ॥ ५४१।२ ॥
अष्टोत्तरशत स्नानं युतं पञ्चामृतान्वितम् ।
पञ्चगव्य समोपेतं मधुक्षीरं घृतैरपि ॥ ५५१।२ ॥
सहस्रादि चतुष्प्रान्तैः प्रस्थमानैर्महेश्वरम् ।
स्नापयित्वार्चये द्विप्रान् भोजयेच्शान्ति होमयुक् ॥ ५६१।२ ॥
एवं कृतेतु सप्ताहम् अन्ते चोत्सव माचरेत् ।
प्रासादे सर्वधाभिन्ने प्राग्वदेवमुनीश्वराः ॥ ५७१।२ ॥
अकस्मात्पतिते धाम्नि यदुक्तं तद्वदाचरेत् ।
प्रायश्चित्तं तथैवास्यां मण्डपादौ शिवाग्रजाः ॥ ५८१।२ ॥
शैवान् सम्भोजयेन्नित्यं शिवशास्त्र विशारदान् ।
प्रादादे निष्कृतिः प्रोक्ता यासानृपति केतने ॥ ५९१।२ ॥
शैत्य वृक्षेथवाश्वत्थे चान्यस्मिन् देवतात्मके ।
सप्ताहं शान्तिः कर्तव्या महा शान्ति निपातिते ॥ ६०१।२ ॥
प्रत्यहं शान्ति होमं च कृत्वा तत् वृक्ष पूर्वतः ।
तत्रैव तत् समीपे वा तज्जातीयन्तरुन्यसेत् ॥ ६११।२ ॥
ग्रहे कूपे तटाके वा नद्यां वा शान्तिरेकहम् ।
करिणी मदयुक्ताचेत् वाहनानां क्षयो भवेत् ॥ ६२१।२ ॥
सप्ताहं शान्तिः कर्तव्या शान्ति होमं च तत् गृहे ।
महा वात प्रकोपेतु राष्ट्र क्षोभो भविष्यति ॥ ६३१।२ ॥
पञ्चाहं त्रिदिनं वैक दिनं वा शान्तिमाचरेत् ।
धूमे समुद्भवे चाग्नौ करोति स्वामिनो भयम् ॥ ६४१।२ ॥
गव्येन प्रोक्षयेत्तत्र धारयाथ खनेद्भुवम् ।
शुद्ध मृद्भिश्च पूर्याथ पञ्चमृद्भिश्चलेपयेत् ॥ ६५१।२ ॥
पुण्याहप्रोक्षणन्तत्र ब्राह्मणांस्तत्र भोजनम् ।
शान्तिस्तत्र विधातव्या नव भेद विभेदिनी ॥ ६६१।२ ॥
लिङ्ग बेरासने धूमे दुष्टे त्वेतच्चकारयेत् ।
क्षीर प्रस्थ सहस्रैर्वातदर्धे स्नापयेच्छिवम् ॥ ६७१।२ ॥
तदर्धैवा तदर्धैवा शीत कुम्भ स्तदन्तिके ।
लिङ्ग बेरे च पीठादौ वर्णान्तर गते सति ॥ ६८१।२ ॥
राज्ञो व्याधिं विजानीयात् क्षालयेन्निर्मलं तथा ।
पिष्टमृत् बिल्व दर्भेश्च रजन्या मलवारिभिः ॥ ६९१।२ ॥
शान्तिरेवं प्रकर्तव्या ज्येष्ठ मध्यादि भदतः ।
चन्दनो शीर कर्पूर कुङ्कुमा गरु संयुतम् ॥ ७०१।२ ॥
पुष्कलं गन्धमापाद्य लेपयेत् गन्धमादरात् ।
सम्पूज्य गन्ध पुष्पाद्यः प्रार्थयेद् दुरितक्षयम् ॥ ७११।२ ॥
शैवान् सम्भोजयेन्नित्यं सामान्यान् ब्राह्मणानपि ।
भेर्यादीनां स्वयं घोषे महा मारी प्रवर्तते ॥ ७२१।२ ॥
सम्प्रोक्ष्यस्त्राम्बुना भेरी प्रमुखान् गन्धपुष्पकैः ।
अभ्यर्च्य देव देवेशं शान्तिमिष्टां समाचरेत् ॥ ७३१।२ ॥
प्रति सूर्योदयेवापि प्रतिचन्द्रप्रदर्शने ।
जायते भूपति स्त्वन्यो यत्र राष्ट्रे भवेदिदम् ॥ ७४१।२ ॥
नवाहाद्येकरात्रान्तं शान्तिमिष्टां समाचरेत् ।
रात्राविन्द्र धनुर्दृष्टे पर चक्राद्भयं भवेत् ॥ ७५१।२ ॥
शुक्रादिका गृहं त्यक्त्वा दिवातारक दर्शने ।
अनावृष्टि र्ध्रुवं लोके गृहनक्षत्रपातने ॥ ७६१।२ ॥
वाहनानां क्षयं विधात् तदर्थं शान्तिमाचरेत् ! ॥ ७७ ॥
नवाहाद्येकरात्रान्तं विभवस्यानुरूपतः ।
अग्निनक्षत्र पाते च जपेत् घोरं शतत्रयम् ॥ ७८ ॥
प्रत्यहं षट्दिनादूर्ध्वमशनेः पातने सति ।
राज्ञो दोषः प्रजायेत तदर्थं तु दिशाहुतिम् ॥ ७९ ॥
सप्ताहं वाथ पञ्चाहं तत् पात दिन सङ्ख्यकम् ! ॥ ७९१।२ ॥
स्नपनेन समोपेतं राज्ञोदोषनिवृत्तये ।
क्षीराद्यैः स्नपनं कुर्यात् सप्ताहाशनि सम्भवे ॥ ८०१।२ ॥
चन्द्रार्क मण्डले पञ्च दिनोर्ध्वं परिवेष्टते ।
तन्मण्डलाधिपो राजा शत्रुभिश्चाभिभूयते ॥ ८११।२ ॥
शान्तिं कुर्याद्विशेषेण ज्येष्ठमध्यादि भेदिनीम् ।
वह्नि दाहेदिशां जाते दुर्भिक्षं भुविजायते ॥ ८२१।२ ॥
क्षीराभिषेचनं देवे स्नपनोक्त्या ततो नयेत् ।
तदन्ते शान्ति होमं च पञ्चाहं ह्यैव माचरेत् ॥ ८३१।२ ॥
लिङ्गादावर्चिते गन्ध पुष्पाद्यै त्वन्यवर्णके ।
सर्वेषामपि वर्णानां म्सूरी रोग मादिशेत् ॥ ८४१।२ ॥
शिवं सम्पूज्य विधिवत् दिशाहोमन्तु कारयेत् ।
पञ्चाहं त्रिदिनं वापि प्रभूतं तु हविर्निवेत् ॥ ८५१।२ ॥
अकस्माच्चैत्य वृक्षे तु पतिते बोधिसञ्ज्ञिके ।
समूले नृपतेर्व्याधि मादिशेन्मृति सूचनम् ॥ ८६१।२ ॥
शिवं सम्पूज्य विधिवत् श्रेष्ठां शान्तिं समाचरेत् ।
तद्देशे शान्ति च यद्देशे पतितिस्तरुः ॥ ८७१।२ ॥
तज्जातीयं तरुं तत्र न्यसेद्वा तत्समीपके ।
तच्छारवाः पतिताश्चेद्धि राष्ट्रक्षोभो महान्भवेत् ॥ ८८१।२ ॥
शान्तिं श्रेष्ठस्य मध्यं तु दिशा होमं तु कारयेत् ।
तदेक शाखा पतने कलहो भुवि जायते ॥ ८९१।२ ॥
शान्तिं श्रेष्ठाधमां कुर्यात् क्रमादेवं त्रिधा मतम् ।
द्वि सप्ताहं नवाहं वा सप्त पञ्चाग्निभिं तथा ॥ ९०१।१ ॥
शान्तिं समाचरेद्वाथ पक्षेषु त्रिषुवाग्रजाः ।
एवमेवान्यवृक्षाणां प्रधानानां समाचरेत् ॥ ९११।२ ॥
शलभादि समुत्पन्ने दुर्भिक्षं जायते भुवि ।
मूर्ति होमं त्रिसप्ताहं कारयेच्छैव भुक्तियुक् ॥ ९२१।२ ॥
नरा मृगाश्च पशवः पक्षिणो वा सरीसृपाः ।
उन्मत्ताश्चे त्तु सप्ताहं दिशाहोमं त्र्यहं तु वा ॥ ९३१।२ ॥
कारयेत् त्रिदिनं वाथ गजाश्वमरणोद्भवे ।
अतिवृष्टि समुत्पत्तौ भुवौ दुर्भिक्षतां वदेत् ॥ ९४१।२ ॥
सक्तु प्रस्थ सहस्रैश्च रात्रि चूर्णै स्तथामतैः ।
तदर्धै र्वा तदर्धर्धै र्वा शतप्रस्थै स्तदर्धतः ॥ ९५१।२ ॥
अर्धैर्वा स्नापयेद्देवं स्नपनोक्त प्रकारतः ।
आलोढ्य रजनीं पश्चात् कर्पूरेण विमिश्रिताम् ॥ ९६१।२ ॥
षड्वेद नेत्रमात्रं तु वेष्टयेत् लिङ्ग पिण्डिके ।
बेरं वाऽगरु कर्पुर वर्ति दीपान नेकशः ॥ ९७१।२ ॥
मुद्गान्नं तापयेत्पश्चात् शान्तिहोमं तु कारयेत् ।
एवं कुर्यात्तु सप्ताहं पञ्चाहं त्रिदिनं तु वा ॥ ९८१।२ ॥
राज्ञ प्रधान महिषी प्रधानाश्वो गजोथ वा ।
गुरुः पुरोहितो वाथ मृतश्चे न्नृपते र्भयम् ॥ ९९१।२ ॥
सम्पूज्य देव देवेशं सप्ताहं शान्ति माचरेत् ।
पञ्चाहं त्रिदिनं वाथ गजाश्व मरणे नयेत् ॥ १००१।२ ॥
मृत्युजिन्मनुना साष्ठ सहस्रालब्धकेन तु ।
तोयेन सेचयेद्राज्ञो मस्तके तं मनुं स्मरन् ॥ १०११।२ ॥
शेषोदं स्नानपानार्थं दद्यादायुष्यसिद्धये ।
प्रत्यहं होमरक्षां च देव देव प्रसादजम् ॥ १०२१।२ ॥
भस्मापि नेयमाचार्यैश्शैव सिद्धान्त पारगैः ।
सप्ताहाम्यन्तरे तां च वरयेत् मतिमाम्नृपः ॥ १०३१।२ ॥
गुरुं पुरोहितं वाथ महिषीं गजमेव च ।
वाजिनं वा तदप्येवं राजराजाङ्ग माहरेत् ॥ १०४१।२ ॥
प्रासादे मण्डपादौ वा प्राकारे गोपुरेथवा ।
परिवारालयोर्ध्वे वा नृपस्य भवनोपरि ॥ १०५१।२ ॥
ग्रहेषु मालिकादौ वा श्वारोहस्तस्य रोदनम् ।
मार्जार प्रमुखानां रोदनं यदि जायते ॥ १०६१।२ ॥
स्थान भ्रंशं तदा मर्त्याः प्राप्नुयुस्तन्निवृत्तये ।
तं हत्वाथ ततस्त्यक्त्वा पुण्याहं वाचयेत्ततः ॥ १०७१।२ ॥
शान्तिं तत्र नयेदिष्टां रोहणे रोदनेऽपि च ।
शान्ति होमोऽथवा घोर जपो मार्जाररोदने ॥ १०८१।२ ॥
शिवारोहे विशेषेण शान्ति मेकाहमाचरेत् ।
अश्वालयेऽग्नौ सञ्जाते सप्ताहं शान्तिमाचरेत् ॥ १०९१।२ ॥
लिङ्गे बेरे च पीठादौ खद्योतारोहणे सति ।
राज्ञी वा तन्महिष्यादौ चान्यस्मिन् पुरुषेथ वा ॥ ११०१।२ ॥
तेषां दोषं विजानीयात् देवेचेद्राज दोषदम् ।
तं हत्वा तांश्च संस्नाप्य शान्ति होमं समाचरेत् ॥ ११११।२ ॥
स्नपनञ्चशिवेकुर्यादेकाहं त्रिदिनन्तु वा ।
नृपतेश्च मनुष्याणान्देहे घोरं जपेत्तु वा ॥ ११२१।२ ॥
लिङ्गमूले च पीठे वा बेरे वा गर्भगेहके ।
परिवारेऽथ जायेरञ्जन्तवो वाथ मक्षिकाः ॥ ११३१।२ ॥
प्रचुराश्चेत् भुवः क्षोभो भवेत्तद्दोष शान्तये ।
तत्स्थानं शोधयित्वाष्ट बन्धाद्यैर्बन्धयेत्तथा ॥ ११४१।२ ॥
पुण्याहं वाचयित्वान्ते शान्ति युक्त्या समाचरेत् ।
कवाटोद्घाटनेवाथ पिधाने स्वयमेव च ॥ ११५१।२ ॥
सञ्जाते राष्ट्र विक्षोभ शान्तिं सप्ताहमाचरेत् ।
चरन्ति केतवे व्योम्नि नानारूपास्समन्ततः ॥ ११६१।२ ॥
सूर्येवास्तङ्गते तस्मिन् उदयात् पूर्वमेव वा ।
दृश्यन्ते श्वेत रक्तादि वर्णा नक्षत्र सन्निभाः ॥ ११७१।२ ॥
दीर्घपुच्छायथाविद्यात् राष्ट्रक्षोभं महत्तरम् ।
शान्तिं कुर्यात्तदा श्रेष्ठ मध्यमाधममार्गतः ॥ ११८१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे अद्भुतशान्ति विधिः एकत्रिंशतितमः
पटलः

३२। द्वात्रिंशत्तमे पटले अनुकर्मविधिः

अनुकर्मविधिंवक्ष्ये सर्वेषां च सनातनम् ।
प्रासादे पतिते भिन्ने वक्त्रे जीर्णे च दिग् भ्रमे ॥ १ ॥
हीने जात्यादि संस्थानेमानोन्मानादि हीनए ।
तत्तद् द्रव्यैरथोत्कृष्टैः मानयुक्तं तथा नयेत् ॥ २ ॥
मानयुक्तं तु यद्वस्तु तत्सर्वं पूर्ववत् नयेत् ।
मानयुक्तमधिष्ठानाद्यङ्गंयद्विपरीतजम् ॥ ३ ॥
तदप्यलक्षणं तस्याप्यन्यथाभाव इष्यते ।
स्वायम्भुवादि लिङ्गेषु कल्पितं पूर्ववन्नयेत् ॥ ४ ॥
शास्त्रोक्तं वाथतन्नेयं तत्रदोषो न विद्यते ।
अथवाश्ममयं बाह्येऽबाह्ये स्यादिष्टकामयम् ॥ ५ ॥
मानयेन्मानवे धाम्नि कूट पञ्चरकोष्टकाः ।
अस्थानस्था विधातव्याः स्वस्थानस्था विशेषतः ॥ ६ ॥
नागरे नागरं कुर्याद्वेसरे वेसरं मतम् ।
द्राविडे च तथा कार्यं वराटादौ तथा मतम् ॥ ७ ॥
घनेऽघने विमाने तु तथा भवनमिष्यते ।
भवनं जीर्ण मन्यस्मिन् कुर्वन्दिक्षुचकारयेत् ॥ ८ ॥
पूर्वस्मिन्नुत्तरे वापि कुर्यात्कोणेषुबुद्धिमान् ।
द्वारं पूर्ववदिष्टं स्यात्पश्चिमद्वारमेव वा ॥ ९ ॥
नष्टे संस्थापयेद् गर्भं तथाचाद्येष्टकामपि ।
नासिकाद्यङ्गहीनेतु पुनस्तद्वत्समाचरेत् ॥ १० ॥
अप्रमाणेऽन्यथाचेद्धि सप्रमाणं यथा नयेत् ।
सुस्थितन्दुस्थितं वापि शिवलिङ्गं न चालयेत् ॥ ११ ॥
जीर्णादिदोषसम्युक्तं पूजायुक्तं तु सुस्थितम् ।
जीर्णादिदोषरहितं पूजाहीनन्तु दुस्थितम् ॥ १२ ॥
जीर्णोद्धारे कृतेकर्तुर्मौलिकं फलमिष्यते ।
जीर्णाद्यं पूजितं हन्ति निहन्ति तदपूजितम् ॥ १३ ॥
तस्मात्समुद्धरेज्जीर्णं यथा शास्त्रं सुखाय च ।
जीर्णं दग्धं कृशं स्थूलं हीनं मानाधिकं तथा ॥ १४ ॥
भग्नं च सक्षतं लिङ्गमसमं यच्च दृश्यते ।
लक्ष्मोज्झितंवज्रहतं सम्पुटं स्फुटितं तथा ॥ १५ ॥
आभीचारकं गर्भाढ्यं व्यङ्गाङ्गयेति कीर्तितम् ।
त्याज्यानि सर्वथैतानि लिङ्गानि षोडशैव तत् ॥ १६ ॥
जीर्णाद्यैस्संयुतन्त्याज्यं पीठं वा कशिला वृषः ।
अत्युच्चनिम्नादिङ्मूढमध्यस्थं विषमस्थितम् ॥ १७ ॥
चलितं चालितं लिङ्गं पतितं पातितं तथा ।
अज्ञेनस्थापितं लिङ्गं तथामन्त्रक्रियेतरम् ॥ १८ ॥
परित्यक्त शिलायोगमपि न स्थापितं भवेत् ।
तथैव स्थापनीयानि यद्येतान्यव्रणानि हि ॥ १९ ॥
असुरैर्मुनिभिर्देवैः तत्वविद्भिः प्रतिष्ठितम् ।
जीर्णं वाप्यथवा भग्नं विधिनापि न चालयेत् ॥ २० ॥
नृपतस्करवह्निभ्यो भयादन्यत्र धारयेत् ।
ह्रियमाणं जलेन हृतं तेन च यद्भवेत् ॥ २१ ॥
न विरोधोऽस्ति लिङ्गस्यलक्षार्धजपतश्शुचिः ।
स्थापनं तेषु वान्यत्र कर्तव्यं पूर्ववन्मुखम् ॥ २२ ॥
शतदन्डान्तरेस्थाप्यं जलबाधा समन्वितम् ।
सहस्रकार्मुकान्तं वा स्थापयेल्लिङ्गं मादरात् ॥ २३ ॥
बेरेऽप्येतत्समानं स्यान्द्दुष्टे त्वन्यत्प्रयोजयेत् ।
बेरे शिलामयेमार्देपक्वे वार्क्षेऽथ रत्नजे ॥ २४ ॥
पक्ष्म भ्रुवास्यरेखादिहीने तु परिवर्जयेत् ।
अङ्गहीने तु तत्त्याज्य मित्यत्रज विचारणा ॥ २५ ॥
लोहजे मृण्मये मृण्मये बेरे हस्त नास्यङ्घ्रि भूषणैः ।
कर्णदन्तादिभिर्हीने तत्तद्द्रव्यर्दृढं नयेत् ॥ २६ ॥
उत्तमाङ्गविहीनेतु त्यक्त्वान्यद्योजयेन्नवम् ।
पद्बाहुहीनेत्याज्यं वा सन्धानं वासमाचरेत् ॥ २७ ॥
उपाङ्गमङ्गं प्रत्यङ्गं शरीराङ्गं त्रिधास्मृतम् ।
अङ्गं प्रधानशूलं स्यात् ब्रह्मदण्डस्तु कथ्यते ॥ २८ ॥
वक्षोदण्ड कटिस्थश्च बाहुकूर्परकोष्ठगाः ।
ऊरुस्थेजानुजङ्घे च उपाङ्गान्युदिताणि च ॥ २९ ॥
शेषं दण्डाद्विजानीयात् प्रत्यङ्गानीतिबुद्धिमान् ।
ब्रह्मदण्डविहीने तु शूलस्थापनमारभेत् ॥ ३० ॥
प्रत्यङ्गो पाङ्ग हीने तु पुनस्सन्धानमाचरेत् ।
पूर्वसंस्थापितो ब्रह्मदण्डश्चेल्लक्षणान्वितः ॥ ३१ ॥
तमेव स्थापयेत्तत्र पुनरापादनं विना ।
भङ्गादीनां समुत्पत्तौ पुनस्संस्थापनं नयेत् ॥ ३२ ॥
शैलंवामृण्मयं पक्वमगाधेऽम्भसिनिक्षिपेत् ।
रत्नजं च परित्याज्यं ग्राह्यं वा घटनाय च ॥ ३३ ॥
वार्क्षं शिवाग्नौ निक्षिप्य भूमौवानिरवनेज्जले ।
लोहं द्रवीकृतं तत्र योजयेद्बेरकर्मणि ॥ ३४ ॥
तत्प्रभां पीठीकां वापि तत्र वान्यत्र योजयेत् ।
अप्रतिष्ठित देवश्चेत् तत्पीठादौनियोजयोत् ॥ ३५ ॥
तस्योपकरणार्थं वा योज्यं देवान्तरेऽपिवा ।
सलक्षणातु पीठी चेत् तद्वत् ब्रह्मशिलावृषः ॥ ३६ ॥
ते सर्वत्र प्रयोज्यास्स्युत्त्याज्यावामुनि पुङ्गवाः ।
शैलपीठस्य चोद्धारं कृत्वाशैलं तु योजयेत् ॥ ३७ ॥
अलाभे चेष्टकाभिश्च तथापीठं सुयोजयेत् ।
पश्चात् शैलं समायोज्यमाकृति पूर्ववद्भवेत् ॥ ३८ ॥
चतुरश्रेतु वृत्तं वा नवृत्ते चतुरश्रकञ्ज् ।
मण्डपे परिवारे च परिवारालयेऽप्यथा ॥ ३९ ॥
अनुकर्मविधिं प्राग्वद्विधिना कल्पयेत्ततः ।
अन्तर्मण्डलसालाद्यं पूर्ववत्परिकल्पयेत् ॥ ४० ॥
ततो वृद्धिर्क्षयौ वास्तोर्नृपते र्विपदाकरौ ।
सप्रमाणे यथा शास्त्रं विहितालङ्कृतान्विते ॥ ४१ ॥
अप्रमाणेऽन्यथाचेत्तु तत्र दोषो न विद्यते ।
प्रशस्ता प्रागुदग् वृद्धिः प्रतीच्छ्यांरिपुभिः क्षयः ॥ ४२ ॥
दक्षिणे मरणं कर्तुस्तस्माद्वृद्धिर्नचेष्यते ।
तद्वास्तु परितोवृद्धिः समावाविषमापि वा ॥ ४३ ॥
गोपुरेऽप्यनुकर्मैवं प्रासादोक्तवदाचरेत् ।
ग्रामादीनां गृहादीनां शालानां च विशेषतः ॥ ४४ ॥
आरभ्यव्यासदीर्घाभ्यां हीनं नेष्टं मुनिश्वराः ।
समं वा योजयेत्तस्मादधिकं वापि योजयेत् ॥ ४५ ॥
युक्तिततः परितो वापि प्रागुदग् दिशिवर्धयेत् ।
गृहमालिकयोर्भूमिं सङ्ख्ययापरिकल्पयेत् ॥ ४६ ॥
सर्वथानोचितं हीनं कुर्यादुक्तक्रमेण तु ।
उक्तानामपि सर्वेषा विशेषः कश्चिदिष्यते ॥ ४७ ॥
हीनं कुर्याद्वरद्रव्यैस्समं वा तत्र पूर्ववत् ।
जीर्णेपिधाने धामाद्यमासनस्थादिभिः समम् ॥ ४८ ॥
किन्तु खट्गमये मन्त्राविन्यस्यापरमाहरेत् ।
लिङ्गादौ च घटे पूर्णे पीठे वा प्रत्यहं यजेत् ॥ ४९ ॥
स्थापयेदपरं यद्वा विसर्जन पुरस्सरम् ।
यद्रूपं यत् प्रमाणञ्च यन्मयं यदनुद्ध्रतम् ॥ ५० ॥
सर्वेषामपि चैतेषामुद्धारव्धिरुच्यते ।
तदग्रे मण्डपं कुर्याद्दक्षे वैऽसानकोणके ॥ ५१ ॥
पूर्वद्वारसमोपेत मेकतोरण संयुतम् ।
सर्वालङ्कार संयुक्तन्तर्भामालादि संयुतम् ॥ ५२ ॥
तत्रापि द्वारपूजादि स्थण्डिले तु शिवार्चनम् ।
मन्त्रसन्तर्पणं कृत्वा वह्नौ कुण्डादि कल्पिते ॥ ५३ ॥
समिदाज्यतिलोपेतं हविषा च समन्वितम् ।
वास्त्वन्तदिक् बलिं समाचम्य गुरुत्तमः ॥ ५४ ॥
सकलीकरणं कृत्वा भोजयेच्शिवलिङ्गीनः ।
ततो विज्ञापयेद्देवं प्रभोदोषावहं त्विदम् ॥ ५५ ॥
अस्योद्धारे कृते शान्तिर्भवतीति भवद्वचः ।
अस्योद्धारायमान्त स्मादधितिष्ठस्सदाशिवः ॥ ५६ ॥
एवं कर्मकिलोक्तेशश्शान्तिहोमं समाचरेत् ।
क्षीराज्यमधुदुर्वाभि श्शिवेनाष्टसहस्रकम् ॥ ५७ ॥
गत्वात दन्तिकं मन्त्री हृदास्नाप्य प्रपूजयेत् ।
व्यापकेश्वरशब्दन्तु चतुर्थ्यन्तं प्रयोजयेत् ॥ ५८ ॥
प्रणवादि नमोन्तन्तु मूलमन्त्रोयमीरितः ।
व्यापकेश्वर शब्दन्तुहृदयादिपदं ततः ॥ ५९ ॥
चतुर्थ्यन्तं प्रयोक्तव्यं प्रणवादि समन्वितम् । ५९१।२
नमस्कारान्त संयुक्तं हृदयाद्यङ्ग पञ्चकम् ।
न बीजं योजयेत्तैस्तु लिङ्गञ्ज प्रणवासने ॥ ६०१।२ ॥
स्थण्डिलस्थं यजेन्मन्त्रीं गन्धपुष्पसृगादिभिः ।
ततस्तदाश्रितं सत्वं श्रावये दस्त्र मुच्चरन् ॥ ६११।२ ॥
सत्वं कोपीह यः कश्चिदिदमाश्रित्य तिष्ठति ।
लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यथेष्टं तत्र गच्छतु ॥ ६२१।२ ॥
विद्याविद्येश्वरैर्युक्तश्शम्भुरत्रभविष्यति ।
एवमुक्त्वा महास्त्रेण दत्वार्घ्यन्तु पराङ्मुखम् ॥ ६३१।२ ॥
तस्माद्देवं समावाह्यकुम्भे संस्थापयेत् गुरुः ।
अग्रस्थण्डिलसंयुक्तेस्वर्ण वस्त्र समन्विते ॥ ६४१।२ ॥
सकूर्च्चे सापिधाने च ससूत्रेपल्लवान्विते ।
तथा विधायां वर्द्धन्यामम्बिकां स्थापयेत् गुरुः ॥ ६५१।२ ॥
सम्पूज्य गन्धपुष्पाद्यैस्त्वनुगुप्तन्निधापयेत् ।
प्रत्यहं चार्चनं कार्यं शान्तिहोमसमन्वितम् ॥ ६६१।२ ॥
ततः पाशुपतास्त्रेण प्रतिभागं सहस्रकम् ।
हुत्वाशान्त्यं भसाप्रोक्ष्यकुशैःस्पृष्ट्वाजपेत् गुरुः ॥ ६७१।२ ॥
विलोमार्ध्यन्ततो दत्वा विसृजेत्तत्वतत्वपान् ।
तदन्ते मूर्तिमूर्तीशान् लिङ्गपिण्ड्यादि संस्थितान् ॥ ६८१।२ ॥
सुवर्णान्तररज्वा वा वृषभेण प्रचालयेत् ।
शिवमस्तु गृणन् लोकैः प्रिक्षिपेत्तुजलेगुरुः ॥ ६९१।२ ॥
भूयः पुष्ट्यर्थकं कृगादिक् पतीनां प्रतर्पणम् ।
प्रासादवास्तुशुद्ध्यर्थं होतव्यन्तु शतं शतम् ॥ ७०१।२ ॥
महापाशुपतास्त्रेण प्रासादन्तत्ररक्षयेत् ।
तन्मानमपरञ्चात्र स्थापयेद्देशिकोत्तमः ॥ ७११।२ ॥
स्वयमुत्भूत् लिङ्गानान्दैविकेवार्षिकेपिवा ।
गाणवे लोहजे चैव नदीप्रस्त्रवणादिषु ॥ ७२१।२ ॥
एवमादिष्टलिङ्गेषुनैवकार्या घटस्थितिः ।
मानुषाणाञ्च लिङ्गानां घटकार्यन्तदुच्यते ॥ ७३१।२ ॥
सप्ताहान्तञ्च पक्षान्तं मासान्तञ्चेत् घटस्थितिः ।
तदूर्ध्वं कुम्भसंस्थश्चेद्देवेशस्सर्वदोषकृत् ॥ ७४१।२ ॥
तस्मात् सर्वप्रयत्नेन मासान्ते वाथ पूर्वके ।
संस्थाप्यबाललिङ्गाद्यं तन्मध्येविन्यसेन्मनुम् ॥ ७५१।२ ॥
मासादिद्वादशाब्दान्त न्तदन्तरदिनेष्वथ ।
तस्मादादायदेवेशं मूललिङ्गेनिवेशयेत् ॥ ७६१।२ ॥
मूललिङ्गन्नलब्धञ्चेद्देशकालानुरोधतः ।
षट्त्रिंशदब्दापर्यन्ते मूललिङ्गेनिवेशयेत् ॥ ७७१।२ ॥
बाललिङ्गप्रतिष्ठोक्तदिन पक्षादि होमकम् ।
द्विगुणं त्रिगुणन्तस्य चतुर्विशतिवत्सरे ॥ ७८१।२ ॥
कृतञ्चेत् द्विगुणंहोममाचरेद्देशिकोत्तमः ।
षट्त्रिंशद्वत्सरोर्द्धन्तु मूलस्थानन्तदेवहि ॥ ७९१।२ ॥
तत्र स्थं बाललिङ्गाद्यं त्यक्त्वामूलन्तुविन्यसेत् ।
सकलेप्येवमेवं स्याद्विशेषः कश्चिदिष्यते ॥ ८०१।२ ॥
द्वादशाब्दान्तरेऽवश्यन्मूलस्थानेनिवेशयेत् ।
नोचेत्तत्रैव संस्थाप्यमूल बेरं विशेषतः ॥ ८११।२ ॥
एष एव विधिः प्रोक्तः प्रासादादौ शिवद्विजाः ।
किन्तु खड्गेऽमले मन्त्रान् विन्यस्यापरमारभेत् ॥ ८२१।२ ॥
परिवारमरानेवं घटस्थान् स्थापयेत् गुरुः ।
शिवलिङ्गादियद्वस्तु यदज्ञेन प्रतिष्ठितम् ॥ ८३१।२ ॥
दैवज्ञै श्शिलिनान्यैर्वा शिवदीक्षाविवर्जितैः ।
भूयोपि तस्य संस्कारं कुर्यात् पूर्वोक्तवत् गुरुः ॥ ८४१।२ ॥
शिव सिद्धान्तमार्गस्थादन्ये पाशुपतादयः ।
तैरपिस्थापि तं लिङ्गं पुनस्संस्कृत्य पूजयेत् ॥ ८५१।२ ॥
आदौ पाशुपताः प्रोक्ता स्सोमसिद्धान्तकाः परे ।
लाकुलास्त्वपरेज्ञेयाः प्रत्येकं त्रिविधास्मृताः ॥ ८६१।२ ॥
वामदक्षिणसिद्धान्तभेदेन नव भेदिनः ।
शैवाश्चतुर्विधास्त्वन्ये मन्त्रतन्त्रव्यवस्थिताः ॥ ८७१।२ ॥
गारूढाभैरवावाम भूततन्त्रव्यवस्थिताः ।
प्रत्येकं त्रित्रिभेदेन पूर्ववत् संव्यवस्थिताः ॥ ८८१।२ ॥
तैरपि स्थापितं लिङ्गं मादिशैवस्समर्चयेत् ।
यामलत्व परञ्ज्ञेयं तच्चमिश्रमिहोच्यते ॥ ८९१।२ ॥
वामदक्षिणसिद्धन्त भेदेन त्रिविधं मतम् ।
वामं पार शिवार्हं स्यात् दक्षिणं भैरवार्हकम् ॥ ९०१।२ ॥
सिद्धान्तं यामलं सर्व मादिशैवार्हकं विदुः ।
व्यतिरिक्तन्तु सिद्धान्ताद्रौद्रं सर्वमुदीरितम् ॥ ९११।२ ॥
वामदक्षिणमिश्रादिभेदेन बहुभेदिकम् ।
लौकिकं वौदिकञ्चान्य दध्यात्ममतिमार्गकम् ॥ ९२१।२ ॥
तथापाशुपतं सोम सिद्धान्ताख्यञ्चलाकुलम् ।
गारुढं भैरवं वामं भूततन्त्रञ्चयामलम् ॥ ९३१।२ ॥
कापालं पाञ्चरात्रञ्च बौद्धमार्हमतन्तथा ।
बृहस्पतिमतं साङ्ख्यं योगंवैखानसन्तथा ॥ ९४१।२ ॥
वेदान्ताख्यञ्च मीमाम्स पुराणन्धर्म शास्त्रकम् ।
वास्तुशास्त्रन्तथासौत्रं षडङ्गमितिहासकम् ॥ ९५१।२ ॥
तथा वेदाश्च चत्वारोयत्तत्र परिचोदितम् ।
सर्वं रौद्रं समादिष्टं सिद्धान्तं सौम्यमिष्यते ॥ ९६१।२ ॥
रद्रैश्च स्थापितं यश्च विष्ण्वादि प्रतिमादिकम् ।
तत्सर्वं शैवमापाद्य शैवस्सर्वं समर्चयेत् ॥ ९७१।२ ॥
लिङ्गाद्यमादिशैवेन स्थापितं पूजितन्तुवा ।
तद्रूपं पूजितन्तैश्चे द्राष्टं राजान मेव च ॥ ९८१।२ ॥
तत्र ग्रामं ग्रामसंस्थांश्च सर्वान्हन्तिनसंशयः ।
तैस्तु संस्थापितं पूर्वमादि शैवेन पूजितम् ॥ ९९१।२ ॥
यदितैः पूजितं पश्चात् सेनानिं सेनया सह ।
अमात्यं मन्त्रिणं विप्रान् क्षत्रियं वैश्यमेव च ॥ १००१।२ ॥
शूद्रान्तरजनान् सर्वान्नचिरान्नाशयिष्यति ।
तस्माद्राजा प्रयत्नेन वारयेदचिरेण तान् ॥ १०११।२ ॥
तैस्तु संस्थापितं पूर्व मादिशवेन पूजितम् ।
राज्ञो विजयदञ्चायुर्वृद्धिदं पलदं सदा ॥ १०२१।२ ॥
शान्तत्वाच्छैवमन्त्राणां सर्वेषां शुभदामताः ।
आभिचारकलिङ्गाद्यं रोद्रैश्च स्थापितञ्चयत् ॥ १०३१।२ ॥
तन्त्रेणो द्धारणं वक्ष्ये श्रूयतां द्विजसत्तमाः ।
तत् स्थानं सम्प्रविश्याथ मृद्भाण्डांश्च विवर्जयेत् ॥ १०४१।२ ॥
शैलं लोहञ्जदारुत्थं संशोद्ध्य च पुनः पुनः ।
कुड्याद्यं सुधायालिप्य स्थलं गोमयवारिणा ॥ १०५१।२ ॥
पुण्याहं वाचयित्वातु वास्तुहोमञ्चकारयेत् ।
पर्यग्निकरणं कृत्वा पुनः पुण्याह माचरेत् ॥ १०६१।२ ॥
अस्त्रतोयेन सम्प्रोक्ष्य पञ्चगव्येन शोधयेत् ।
कर्षणादि प्रतिष्ठान्त क्रियायां ये निवेशिताः ॥ १०७१।२ ॥
मन्त्रांस्तानुद्धरेन्मन्त्री महापाशुपतेन च ।
महाजालप्रयोगेण सर्वमन्त्राश्च संहरेत् ॥ १०८१।२ ॥
ॐ हूं हां हं पुनर्हां हूं जालमुद्रा च संहतिः ।
तल्लिङ्गाद्यं च संशोध्य कुशभस्ममृदाम्भसा ॥ १०९१।२ ॥
कषायोदकसंयुक्तं गोमूत्रेणोदकान्तरम् ! ॥ ११० ॥
पञ्चगव्येन संस्नाप्य गन्धपुष्पादिभिर्यजेत् ।
लिङ्गस्थशम्बरे ज्ञाते पूर्ववन्मन्त्रसंहृतिः ॥ १११ ॥
अविज्ञाते च तन्मन्त्रे प्रणवं योजयेद्गुरुः ।
जन्तुकल्पद्रवार्थं तु मन्त्रमस्त्रं नियोजयेत् ॥ ११२ ॥
एकी भूतांस्तु दीपेन मन्त्रांस्तल्लिङ्गसंस्थितान् ।
स्मरन् समुद्धरेद्दिपं तल्लिङ्गाणुभिरन्वितम् ॥ ११३ ॥
पूर्वमन्त्रेण संहृत्य मुद्रयासंहरेत् गुरुः ।
पुनस्संशोद्ध्यतं लिङ्गं पूर्वद्रव्यै श्शरेण च ॥ ११४ ॥
कर्षणादि प्रतिष्ठान्त माचरेन्मानसीं क्रियाम् ।
स्वस्वमन्त्रसमोपेतं स्वस्व होम समन्वितम् ॥ ११५ ॥
लिङ्गसंस्थापनोक्तेन प्रतिष्ठा माचरेत् गुरुः ।
लक्षणोद्धारणन्नेष्टं जलेचैवाधिवासनम् ॥ ११६ ॥
शयनं स्थापनं चैवहित्वान्यत्सर्वमाचरेत् ।
गर्भगेहेथ तत्सर्वं मण्डपे वा समाचरेत् ॥ ११७ ॥
देवाग्रे तत्र कुण्डेवा स्थण्डिलेवाथ होमयेत् ।
स्वयं भूर्दैविके बाणे चार्षे गाणाधिपे तथा ॥ ११८ ॥
च्छिन्ने वा स्फुटितेभिन्ने तत्र शान्तिर्विधीयते ।
दिशाहोमन्ततः कुर्यादृगाद्यद्ध्यनन्तथा ॥ ११९ ॥
अष्टोत्तर शतप्रस्थैः कुर्यात्क्षीराभिषेचनम् ।
शान्तिहोमन्ततः कृत्वा स्नपनं कारयेत्ततः॥ १२० ॥
ब्राह्मणान् भोजयेत् पश्चात् शैवान् सम्भोजयेत्ततः ।
प्रभूतहविषं दत्वा ताम्बूलन्दापयेत्ततः ॥ १२१ ॥
मध्यरात्रौ बलिन्दद्यात् ग्रामेवानगरेथवा ।
मुत्गान्नं पायसं गौलं कदलीफलसंयुतम् ॥ १२२ ॥
सप्ताहमेवं कर्तव्यं सर्वदोषानुत्तये ।
आचार्यं पूजयेन्नित्यं स्वर्णवस्त्रादिभिस्ततः ॥ १२३ ॥
तदन्ते स्नपनं कुर्यात् प्रभूतन्तु हविर्ददेत् ।
सर्वेरङ्गैर्विशीर्णञ्जेत् पुनस्संस्थापयेन्नवम् ॥ १२४ ॥
लिङ्गे स्वायम्भुवादौ तु जीर्णादौ शान्तिरीरितः ।
सर्वलक्षण संयुक्त मल्पदोषन्तुवा भवेत् ॥ १२५ ॥
प्रासादस्यतु विस्तारे रसमात्रान्नदुष्यते ।
उत्सेधेरविमात्रान्तङ्क्षन्तव्यञ्चाङ्गुलादिकम् ॥ १२६ ॥
द्विमात्रन्तु स्थले प्रोक्तं स्तं भाद्यङ्गेषुमात्रकम् ।
ग्रामखेटपुरादौतुदण्डान्तं परिकीर्तितम् ॥ १२७ ॥
सालेषु हस्तमानान्तं यवान्तं लिङ्गमानके ।
चतुर्यवान्त मर्चासु मात्रान्तं पीठकल्पने ॥ १२८ ॥
द्वाराद्यङ्गेषु मात्रान्तं वालाग्रं ब्रह्मसूत्रके ।
तदप्यकार्यं लिङ्गाग्रेक्षन्तव्यं मानमीरितम् ॥ १२९ ॥

इति उत्तरकामिकाख्ये महातन्त्रे अनुकर्मविधिः द्वात्रिंशतितमः पटलः

३३। त्रयस्त्रिंशत्तमे पटले काम्ययोगविधानविधिः

काम्ययोग विधानन्तु प्रवक्ष्यामि समासतः ।
काम्यसिद्धिश्च मन्त्रैस्स्यान्मन्त्राश्च बहवो मताः ॥ १ ॥
सर्वे मन्त्रास्समर्थास्स्युस्सर्वे चेष्टफलप्रदाः ।
तेष्वघोराणुरत्यन्तदोषघ्नः किष्णवर्णभाक् ॥ २ ॥
व्यालबद्धजटाचूटः कपालदलमण्डितः ।
सुरपिङ्गेक्षणोऽत्यन्त श्वेतदंष्ट्रा समन्वितः ॥ ३ ॥
चन्द्रचूडो विशालास्यो नागयज्ञोपवीतवान् ।
महाकायो महादंष्ट्री किङ्किणीखसंयुतः ॥ ४ ॥
महाशूलाग्र सम्प्रोत महासुर विनाशनः ।
खड्गखेटधनुर्बाणमुण्डकः कालशक्तिधृत् ॥ ५ ॥
वराभयकपालाहि पाशप्रासगदायकरः ।
दंष्ट्रे द्वे कीलनिर्याते वक्त्राग्रे भीषणे सिते ॥ ६ ॥
स्वसेना रक्षको नित्यं परसेनाभयङ्करः ।
वैरिप्रयुक्तकर्मघ्नस्सर्वव्याधिनिवारकः ॥ ७ ॥
सर्वदोष विनाशे तु समर्थो भक्तवत्सलः ।
असिताङ्गादिभिन्नित्यमावृतो वा निरावृतः ॥ ८ ॥
आसिताङ्गो रुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः ।
कपाली भिषणश्चैव संहारश्चाष्टमस्स्मृतः ॥ ९ ॥
चतुर्भुजास्त्रिणेत्राश्च कृष्णवर्णा महाबलाः ।
त्रिशूलमुण्डसंयुक्ता हृदयाञ्जलि संयुताः ॥ १० ॥
सुदंष्ट्रा भीम वक्त्राश्च स्वामिचेष्टा समन्विताः ।
ॐ जुंसः इति मन्त्रोऽयं देवो मृत्युञ्जिदाह्वयः ॥ ११ ॥
एष एवामृतेशस्स्यादादौ कूटयुतो न वा ।
रसादिशुक्लपर्यन्तधातु सप्ताक्षरान्वितम् ॥ १२ ॥
हकारेण शरीरं तु रसमित्यादितः पठेत् ।
अन्ते च रक्ष रक्षेति वीप्सितं च पदं पठेत् ॥ १३ ॥
आदौ स्याद्देवदेवेशेति (पदम्) समुद्धरेत् ।
प्राणं च देवदत्तस्य मूलमन्त्रं नियोजयेत् ॥ १४ ॥
पीठं जुङ्कारकॢप्तंस्यान्मूर्तिर्ॐ जुंसतो भवेत् ।
मध्ये निवेशयेत्कूटं प्रासादं वा नवात्मकम् ॥ १५ ॥
कण्ठोष्ठ्यं वाहकाराद्यं ब्रह्मण्यङ्गानि कल्पयेत् ।
अनेन सदृशो नास्ति मन्त्रो मृत्युञ्जयो द्विजाः ॥ १६ ॥
सुधाकलशमध्यस्थः श्वेतपद्मासनस्थितः ।
चतुर्भुजस्त्रिणेत्रश्च जटाखण्डेन्दुमण्डितः ॥ १७ ॥
व्याघ्रचर्मपरीधानो नागेन्द्रोरोविभूषणः ।
त्रिशूलं चाभ्यं चोर्ध्वे सुधाकलशमध्ययोः ॥ १८ ॥
दधानष्षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् ।
कपालं कुण्डिकां वामे योगमुद्रां करद्वये ॥ १९ ॥
अनेन सदृशो मन्त्रो नास्ति प्राणादिरक्षणो ।
न भविष्यति भूतश्च सत्यमेतदुदाहृतम् ॥ २० ॥
भोजनं चापि कर्तव्यं त्र्यक्षरेणामृतीकृतम् ।
तेनामृतं भवत्याशु स्वादितं मृत्युजिद्भवेत् ॥ २१ ॥
अमृतेशेन देवेन जलं सङ्ग्राह्य यत्नतः ।
शतजप्तं पिबेत्तोयममृती भवति ध्रुवम् ॥ २२ ॥
क्षीरेण सहसम्पृक्तदूर्वाकाण्डमखण्डितम् ।
ब्रह्मवृक्षेन्धनैर्दीप्ते वह्नौ जुह्वन्न मृत्युभाक् ॥ २३ ॥
देवं तूपासने यस्य नित्यं मृत्युञ्जयात्मकम् ।
नाचिरेणैव कालेन मृत्युस्तस्य भविष्यति ॥ २४ ॥
मासाद्वर्षशतं प्रोक्तं द्विमासादिद्वशतं भवेत् ।
प्रतिमास प्रयोगेण चाब्देनैकेन सुव्रताः ॥ २५ ॥
कालः प्रदक्षिणं कृत्वा स्तुत्वा सम्पूज्य साधकम् ।
गच्छत्यत्र न सन्देहस्सत्यं विप्रा मयोदितम् ॥ २६ ॥
स पुनाति दृशा वाचा चरणेन करेण च ।
नदीजनपदोद्यान पुरादीनि न संशस्यः ॥ २७ ॥
किं पुनः प्राणिनं भीतं स्वात्मानं स्वाश्रयं च वा ।
अघोरास्त्रमतो वक्ष्ये बीजमालात्मकं द्विजाः ॥ २८ ॥
रक्तवस्त्रधरं देवं भिन्नाञ्जन समप्रभम् ।
भुजाष्टकसमोपेतमूर्ध्वकेशं सुदंष्ट्रिणम् ॥ २९ ॥
स्पष्टदंष्ट्राघरोष्ठं च दीप्ताग्नि समलोचनम् ।
किङ्किणीमालया भ्राजत् पादनूपुर संयुतम् ॥ ३० ॥
सप्तायुध समायुक्तं सर्वाभरणभूषितम् ।
शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ॥ ३१ ॥
धूतवृश्चिक संयुक्तं कण्ठाभरणभूषितम् ।
मेखलोदरकण्ठेषु कर्णहृत्करबाहुषु ॥ ३२ ॥
पादयोर्हस्तयोर्नागैश्चतुर्दशाभिरुज्ज्वलम् ।
पङ्कजासन मध्यस्थं त्रिणेत्रं रौद्ररूपिणम् ॥ ३३ ॥
शूलमूलं च वेतालं खङ्गं डमरुकं शुभम् ।
दधानं दक्षगैर्हस्तैर्वामगैश्शूलमध्यमम् ॥ ३४ ॥
घण्टां खेटं कपालं च शत्रुसङ्क्षय सम्मुखम् ।
अग्रस्थवामपादं च ध्यात्वाघोरास्त्रमर्चयेत् ॥ ३५ ॥
अन्यथाप्युच्यते ध्यानं यथावच्छृणुत द्विजाः ।
ध्यायेत्सूर्य सहस्राभमघोरास्त्रमरिन्दमम् ॥ ३६ ॥
प्रदीप्तदशनप्रान्तं प्रकाशमुखकन्दरम् ।
त्र्यक्षं तटिल्लताजिह्वं दीप्तभ्रूश्मश्रुमूर्धजम् ॥ ३७ ॥
सर्पोपवीतं शूलसिशक्तिमुद्गर धारिणम् ।
चतुर्भुजं चतुर्वक्त्रं स्फुरच्चन्द्रार्घशेखरम् ॥ ३८ ॥
नृत्यमानं महाकायं नागाभरणभूषितम् ।
देवदानव दैत्यानां दर्पितानां विमर्दकम् ॥ ३९ ॥
प्रस्फुर स्फुर इत्येवं हृदयं परिकीर्तितम् ।
घोरघोरतरेत्येतत् तच्छिरस्सम्प्रकीर्तितम् ॥ ४० ॥
ततश्च तनुरूपेति शिखामन्त्रः प्रकीर्तितः ।
चटप्रचटशब्दं तु वीप्सितं कवचं भवेत् ॥ ४१ ॥
ततः कह कहत्युक्त्वा वम मन्दयेति स्मरेत् ।
घातयेति द्विरुच्चार्यं पञ्चमाङ्गं प्रकीर्तितम् ॥ ४२ ॥
प्रान्ते स्यादूहुम्फडित्येवं चतुर्थ्यन्तं हृदादिकम् ।
नमस्कारादि संयुक्तमादौ प्रणवसंयुतम् ॥ ४३ ॥
परचक्रप्रथमने महाव्याधि प्रकोपने ।
शान्तिके पौष्टिके वश्ये प्रायश्चित्ते विचिन्ययेत् ॥ ४४ ॥
किमनेन बहूक्तेन भयकालेऽप्युपस्थिते ।
मन्त्रेणानेन नश्यन्ति ज्वरग्रहविषादयः ॥ ४५ ॥
परैर्यदभिचारादि कर्म मन्त्रौषधादिकम् ।
मन्त्राणि योगयुक्तानि पावके शलभा यथा ॥ ४६ ॥
तथा पाशुपतास्त्रं च शिवास्त्रं क्षुरिकास्त्रकम् ।
अनेनैव प्रकारेण ध्यात्वा सम्पूजयेद् गुरुः ॥ ४७ ॥
अघोरमर्चयित्वाथ तदग्रेऽस्त्रं समर्चयेत् ।
दक्षिणेऽघोरदेवस्य मध्ये देवं सदाशिवम् ॥ ४८ ॥
विशेषाद्दक्षिणे वक्त्रेऽघोरदेवं समर्चयेत् ।
चतुर्दिक्षु यजेदस्त्रचतुष्कं शिवपूर्वकम् ॥ ४९ ॥
अघोरपूर्वकं पाशुपताश्त्रं क्षुरिकास्त्रकम् ।
एवमभ्यन्तरेष्विष्ट्वा तज्जातीन् परितो यजेत् ॥ ५० ॥
हित्वा शिवास्त्रं तत्रैव यजेत् प्रत्यङ्गिरां पराम् ।
सङ्ग्रामविजयं वाथ क्षुरिकास्थानपमध्यमे ॥ ५१ ॥
एवमभ्यर्चयेद्वोऽसौ सोऽयम्मत्सदृशोमतः ।
तेन नासाध्यमस्तीह लोके त्रिभुवने द्विजाः ॥ ५२ ॥
सत्यमेतत्समुद्दिष्टं गोपनीयं प्रयत्नतः ।
पालनीयोविशेषेण साधकाधिपतिस्सदा ॥ ५३ ॥
दक्षिणामूर्तिमन्त्रस्योद्धारस्त्वत्रनिगद्यते ।
वाक्सिद्धिस्तेन मन्त्रेण जयोत्पादे च शस्यते ॥ ५४ ॥
फलान्यन्यानि सर्वाणि तत्प्रसादात् भवन्ति हि ।
ॐ नमो भगवच्छब्दं सम्बुद्ध्यन्तं नियोजयेत् ॥ ५५ ॥
दक्षिणामूर्तिशब्दं च तथैव विनियोजयेत् ।
मेधां प्रयच्छ स्वाहेति मूलमन्त्र उदाहृतः ॥ ५६ ॥
स्वरेषु हृदयादीनामुद्धारः परिकीर्तितः ।
नमस्वाहावषठुं च फडित्यन्ते नियोजयेत् ॥ ५७ ॥
शुद्धस्फटिकसङ्काशं प्रसन्नवदनान्वितम् ।
गङ्गाचन्द्रसमोपेतं कुण्डलीकृतमूर्धजम् ॥ ५८ ॥
व्याघ्रचर्मपरीधानं चतुर्बाहुसमन्वितम् ।
शुद्धस्फटिकमालां च ज्ञानमुद्रां च दक्षिणे ॥ ५९ ॥
वामे पद्मं च वह्निं च वरदाभयदं तु वा ।
पुस्तकेन युतंवाथ दधानं नयनत्रयम् ॥ ६० ॥
महावृषभसंयुक्तमनिसङ्घैस्समावृतम् ।
ध्यात्वैवं देव देवेशं सर्वकार्याणि साधयेत् ॥ ६१ ॥
यान्तारूढं (हकारं च) षष्ठस्वरसमन्वितम् ।
चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ॥ ६२ ॥
अथवान्य प्रकारेण भैरवं विकृताननम् ।
ऊर्ध्वरेफसमायुक्तं भैरवं बीजमुत्तमम् ॥ ६३ ॥
सङ्ग्राम विजयो नाम्ना मन्त्रोऽयं परिकीर्तितः ।
अस्यमन्त्र प्रभावेण त्रैलोक्यविजयी भवेत् ॥ ६४ ॥
यत् किञ्चित् क्रियते कर्म त्रैलोक्ये येन केनचित् ।
रहितो मन्त्रराजेन नैव सिध्यति साधकः ॥ ६५ ॥
आरूढाब्जं सशक्तिं हृदयकमलजं भास्करं
पधस्तम्

वक्त्रैर्युक्तं चतुर्भिः परमरुण
चतुश्शक्तिभिर्व्याप्तदिक्कम् ।
कायार्धारूढकान्तं शिवमभयवरं
साक्षमालाकपालं
भूत्यै पाशाङ्कुशाभ्यां ग्रहगणनमितं नौमि
खट्वाङ्ग हस्तम् ॥ ६६ ॥

ब्रह्माणि च षडङ्गानि क्रमेणैव समुद्धरेत् ।
विस्तारादि चतुश्शत्कीश्चतुर्वक्त्रेषु पूजयेत् ॥ ६७ ॥
भोगाङ्गं पूजयेत्पश्चाद् धृतादीनग्निकोणतः ।
नेत्रं दक्षिणादिग्भागे गर्भावरण ईरितः ॥ ६८ ॥
दीप्तयादिशक्तयो बाह्ये ग्रहास्तद्बाह्यमार्गतः ।
तद्बहिर्लोकपालास्युः क्रमेणाभ्यर्चयेद्गुरुः ॥ ६९ ॥
कामाचररतो वापि भावयेद्भास्करं सदा ।
वक्ष्ये प्रत्यङ्गिरोद्धारं समासाद् द्विजसत्तमाः ॥ ७० ॥
सर्वभक्तिप्रदं सर्वव्याधिविध्वंसनं परम् ।
ज्वारापस्मारमारीणां नाशनं क्षयनाशनम् ॥ ७१ ॥
शत्रुकृत्यादि सम्भूतरोगानीक विनाशनम् ।
चतुरङ्ग बलोपेत शत्रुक्षयकरं परम् ॥ ७२ ॥
स्वसेनारक्षकं नित्यं समर्थं सर्वकर्मसु ।
ॐ ह्रीङ्कारं समुद्धृत्य तदन्ते कृष्णवाससे ॥ ७३ ॥
ततश्च सिंहवदने महावदन इत्यपि ।
महाभैरविवर्णेच सर्वशत्रुपदं तथा ॥ ७४ ॥
कर्मविध्वंसिनीत्येवं परमन्त्र पदं ततः
छेदिनीत्युद्धरेत्पश्चात्सर्वभूतदमन्यपि ॥ ७५ ॥
सर्वभूतांस्ततो बन्धबन्धेति पदमुद्धरेत् ।
सर्व विघ्नानिति पदं छिन्धिछिन्धीतियत्पदम् ॥ ७६ ॥
सर्वव्याधिं निकृन्तेति निकृन्तेति पदं च यत् ॥ ७६१।२ ॥
ज्वालाजिह्वे करालेति पदं दंष्ट्रे पदं पुनः ॥ ७७१।२ ॥
प्रत्यङ्गिरे पदं ह्रीञ्च नमोस्त्विति पदं ततः ।
तेस्वाहेत्युद्धरेदेष मन्त्रः प्रत्यङ्गिरात्मकः ॥ ७८१।२ ॥
प्रत्यङ्गिरेयं विख्यात श्शतवर्ण स्वरूपिणी ।
आद्यसप्ताक्षरं हृत् स्यात् शिरः पञ्चदशाक्षरम् ॥ ७९१।२ ॥
दशाक्षरम् शिरवातस्मात् कवचं सप्तवर्णकम् ।
तथैवतस्मान्नेत्राणुश्चतुस्त्रिशत्भिरस्त्रकम् ॥ ८०१।२ ॥
त्रयोदशाणुर्गायत्रीसावित्रीसप्तवर्णतः ।
नमस्वाहावषड्वौषट् हुम्पट्युक्ता हृदादयः ॥ ८११।२ ॥
सिम्हावक्त्रोग्रदंष्ट्राग्नि सप्रभोर्ध्व शिखान्विताम् ।
कृष्णाञ्जन निभांवृत्त रक्तनेत्रत्रयान्विताम् ॥ ८२१।२ ॥
वहन्ती सव्यहस्ताभ्यां शूलं डमरुकं परम् ।
वहन्तीं वामहस्ताभ्यां मुण्डं शेषेतु पल्लवम् ॥ ८३१।२ ॥
अट्टहासादि शब्दैस्तु गर्जितामुदितामपि ।
कृष्णाम्बर धरां सासृक् मांसास्यां नर्तनेरताम् ॥ ८४१।२ ॥
मौक्तिकामरणैयोग्यैस्सर्वावयव भूषिताम् ।
कृष्णाजिनघटान्नाम्ना भैरवीमर्चितां सुरैः ॥ ८५१।२ ॥
देवीन्ध्यात्वैकचित्तस्तुसर्वशत्रून् विनाशयेत् ।
ध्वंसयेत् सर्वरोगांश्च परमन्त्रान्निवारयेत् ॥ ८६१।२ ॥
विद्याधरत्वलाभाय कृष्णागरुयुतं परम् ।
अथवा नाभिकञ्जल्कं जुहुयात् साधकोत्तमः ॥ ८७१।२ ॥
कदम्बकलिकाहोमाद्यक्षिणीसिद्ध्यति ध्रुवम् ।
प्रियङ्गु कदलीपुष्पाण्यादृतोजुहुयात् बुधः ॥ ८८१।२ ॥
करवीरस्य पुष्पाणि घृतं च मधुसम्युतम् ।
खादिरादि समिच्चैवक्षिप्रमातुष्टिकारिका ॥ ८९१।२ ॥
सिद्धार्त्थञ्चैव मुक्तां च अश्वमांसी समन्वितम् ।
पायसं पयसायुक्तं तत्क्षणात् क्षणिकं व्रजेत् ॥ ९०१।२ ॥
धुर्तूरपुष्पसंयुक्तं खदिरोर्ध्व समन्वितम् ।
कृष्णनीलं घृतं चैव स्तम्भयेदभिचारतः ॥ ९११।२ ॥
रक्तपङ्कजपुष्पञ्चतत्समं रक्तचन्दनम् ।
कपिलाघृतसम्युक्तं कपिलाक्षीर सम्युतम् ॥ ९२१।२ ॥
होमयेद्दशसाहस्रं क्षिप्रं होमयति ध्रुवम् ।
महिषोत्भूतमर्कञ्च गर्दभं क्षीरमेव च ॥ ९३१।२ ॥
गिरिकायाश्चतत्पुष्पमङ्गिरास्थिसमन्वितम् ।
जुहुयात् शत साहस्रं तत्कुलोत्साधनं भवेत् ॥ ९४१।२ ॥
कुङ्कुमारोचनाश्चैव कार्पास फल गुग्गुलुः ।
वेणुनाभेदनं सद्यो भवेदेव न संशयः ॥ ९५१।२ ॥
निम्बपुष्पं तथाब्रीहिं निम्बतैलसमायुतम् ।
अर्कक्षीर समायुक्तं होमयेदपिपारतम् ॥ ९६१।२ ॥
राजयक्ष्मादि रोगाणां शान्तयेजुहुयाद्गुरुः ।
घृताक्तेन तिलेनैव दूर्वया घृतसिक्तया ॥ ९७१।२ ॥
दुकूल चरुलाजांश्च मधुत्रय समन्वितान् ।
औदराणां च रोगाणां शुद्धीपत्थ्यामरीचिभिः ॥ ९८१।२ ॥
जुहुयादग्निसिद्ध्यर्थमग्निबीज पुरस्सरम् ।
अक्षिरोगादि रोगाणां क्षीरेण च घृतेन च ॥ ९९१।२ ॥
मधुनाहोमयेत्सर्वं नेत्र मन्त्रेणमन्त्रवित् ।
विषमज्वर नाशाय चूतपत्राणि होमयेत् ॥ १००१।२ ॥
घृतेन सहसार्द्राणि प्लुतमृत्युञ्जिता तथा यथा ।
सर्वोपद्रव नाशय रुद्र शान्त्या खिलादिभिः ॥ १०११।२ ॥
वस्त्राद्यर्वातशान्त्यर्थं सर्षपश्लेष्मशान्तये ।
पित्ताशान्त्यै च जुहुयात् चन्दनाद्यैस्सुशीतलैः ॥ १०२१।२ ॥
सहस्रमयुतं वाथ लक्षन्तत्रिगुणन्न्तु वा !! ॥ १०३ ॥

इति उत्तरकामिकाख्ये महातन्त्रे काम्ययोगविधानविधिः
त्रयस्त्रिंशतितमः पटलः ॥

रक्त वस्त्रधरं देवं भिन्नाञ्जन समप्रभम् ।
भुजाष्टक समोपेतम् उर्ध्वकेशं सुदंष्ट्रिणम् ॥
स्पष्टदंष्ट्राधरोष्ठं च दीप्ताग्नि समलोचनम् ।
किङ्किणीमालया भ्राजात् पादनुपूरसंयुतम् ॥
सप्तायुध समायुक्तं सर्वाभरण भूषितम् ।
शुक्लयज्ञोपवीतं च रक्तपुष्पोपशोभितम् ॥
धृतवृश्चिकसंयुक्तं कण्ठाभरण भूषितम्
मेखलोदरकण्ठेषु कर्णहृत्कर बाहुषु
पादयोर्हस्तयोर्नागैः चतुर्दशभिरुज्ज्वलम्
पङ्कजासनमध्यस्थं त्रिणेत्रं रौद्ररूपिणम्
शूलमूलं च वेतालं खङ्गं हमरुगं शुभम्
दधानं दक्षणैः हस्तैः वामगैश्शूलमध्यमम् ।
घण्टां खेटं कपालं च शत्रुसक्षय सम्मुखम्
अग्रस्थ वामपादञ्च ध्यात्वाघोरास्त्रम् अर्चयेत् ॥

तेष्वघोराणुरत्यन्त दोषघ्नः कृष्णवर्णभाक् ।
व्यालबद्धजटाचूटः कपालदलमण्डितः ॥
सुरपिङ्गेक्षणोत्यन्तं श्वेतदंष्ट्रा समन्वितः ।
चन्द्र चूडो विशालास्यो नागयज्ञोपवीतवान् ॥
माकायो माहदंष्ट्री किङ्किणीरवसंयुतः ।
महाशूलाग्रसम्प्रोत महासुर विनाशनः ॥
खड्गखेट धनुर्बाण मुण्डकः कालशक्तिधृत् ।
वराभयकपालाहि पाश प्रासगदाकरः ॥
दंष्ट्रे द्वे कील निर्याते वक्त्राग्रे भीषणोसिते ॥

चतुर्वक्त्रं ज्वलत्केशं विद्युत्पुञ्जसमप्रभम् ।
चन्द्रखण्ड समूर्धानं स चतुष्कर पल्लवम् ॥
अशनि ध्वनि संयुक्तमसह्यं भीमविक्रमम् ।
द्वादशाक्षमहाशक्ति शूलाभव वरान्वितम् ॥
ध्यात्वैवं गन्धपुष्पाद्यैः शिवास्त्रं स्वाणुना यजेत् ॥

सुधाकलश मध्यस्थः श्वेतपद्मासनस्थितः ।
चतुर्भुजस्त्रित्रश्च जटाखण्डेन्दु मण्डितः ॥
व्याघ्रचर्म परीधानो नोगेन्द्रोरो विभूषणः ।
त्रिशूलं चाभयं (डमरुम्) चोर्ध्वे सुधाकलशमध्ययोः ॥

दधानः षड्भुजश्चेत् स त्रिशूलं चाक्षमालिकाम् ।
कपालं कुण्डिकां वामे योगमुद्रां करद्वये ॥
अनेन सदृशो मन्त्रो नास्ति प्राणादि रक्षणे ।

आरूढाब्जं स शक्तिं हृदयकमलजं भास्करं पद्महस्तम् ।
वक्त्रैर्युक्तं चतुर्भिः परमरुणचतुश्शक्तिभिर्व्याप्त दिक्कम् ॥
कायार्धारूढकान्तं शिवमभयवरं साक्षमालाकपालम् ।
भूत्यै पाशाङ्कुशाभ्यां ग्रहणनमितं नैमि खड्वाङ्ग हस्तम् ॥

३४। चतुस्त्रिंशत्तमे पटले सम्प्रोक्षण विधिः ।

सम्प्रोक्षणविधिं वक्ष्ये सर्वदोष निकृन्तनम् ।
आवर्तञ्चेत्यनावर्तं पुनरावर्तनन्तथा ॥ १ ॥
ततोन्तरितकञ्चेति प्रोक्षणन्तु चतुर्विधम् ।
मूलबालाग्रहाम्मूल स्थानेयत्स्थापनं मतम् ॥ २ ॥
तदावर्तमिति प्रोक्त मनावर्तन्ततोच्यते ।
पतितैः पातकैस्पृष्टे चण्डालैरन्यजैस्तथा ॥ ३ ॥
मासोर्ध्वपूजाहीने च विश्लिष्टे स्थलकर्मणि ।
लिङ्गे पीठे च चलिते अनावर्तमिति स्मृतम् ॥ ४ ॥
मूलास्यात्समादाय स्थाप्य बालालये पुनः ।
तस्मात्संस्थापनं मूले पुनरावर्तनं स्मृतम् ॥ ५ ॥
प्रतिमानां च मिश्राणां शक्तिनामायुधादिभिः ।
स्फोटने वर्णहीने च अङ्गोपाङ्गविहीनके ॥ ६ ॥
चर्मच्छेदेऽहीने च भूषणादि विहीनके ।
अम्बुजासनहीने च स्थलकर्मविहीनके ॥ ७ ॥
विश्लिष्टे पीठबन्धेतु तदन्तरित मुच्यते ।
यात्राहोमयुगावर्तमन्ये स्युस्तद्विहीनकाः ॥ ८ ॥
आवर्तेतुद्विजास्सर्वान् मासपक्षर्क्षकादिकान् ।
लिङ्गसंस्थापनस्योक्त मार्गेणैव समाचरेत् ॥ ९ ॥
न तिथिर्न च नक्षत्रं न वाराद्यंशकादिकाः ।
कालापेक्षां विना कुर्याच्छेषाण्यन्यानि सुव्रताः ॥ १० ॥
आवर्तवदनावर्तं कुर्यादेभिर्विहीनकम् ।
लक्षणोद्धारणं तोयाधिवासः शयनं तथा ॥ ११ ॥
अनावर्तमिति ज्ञेयं पुनरावर्तनं त्विह ।
सर्वमावर्त वत्कुर्यात् किं तु मूलद्वयान्वितम् ॥ १२ ॥
ततोऽन्तरितकं विप्रास्सङ्क्षेपेण वदाम्यहम् ।
रत्नन्यासाक्षिमोक्षौच जले चैवाधिवासनम् ॥ १३ ॥
शय्याधिवासनं विप्रा विना व बेरकर्मणि ।
नववस्त्रेण संवेष्ट्य बेरस्य सकलाङ्गकम् ॥ १४ ॥
प्रागुक्तविधिना कुम्भन्यासं होमं च कारयेत् ।
स्नपनं कारयेदन्ते चान्यत्सर्वं समानकम् ॥ १५ ॥
एवं यः कारयेन्मर्त्य पुण्यां गतिमाप्नुयात् ॥ १५१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे सम्प्रोक्षण विधिः चतुर्स्त्रिंशतिमः
पटलः ॥

३५। पञ्चत्रिंशत्तमे पटले पीठप्रतिष्ठां विधिः

पीठ संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
लिङ्गायाम विशालं तु पीठं सर्वार्थ साधकम् ॥ १ ॥
विष्ण्वम्श समतुङ्गं च छाया दोष विवर्जितम्) ।
पूजांशस्योदया प्रान्त पीठ निर्गमनान्वितम् ॥ २ ॥
ईदृशं पीठमापाद्य कोन सिद्ध्येत मानवः ।
लिङ्गायामसमं वापि लिङ्गायामार्धमेव वा ॥ ३ ॥
सप्तविंशतिमानानि षड्विंशत्यम्श मानकम् ।
लिङ्गास्यतारत्रिगुणं भवेत्पञ्चगुणं तु वा ॥ ४ ॥
तदन्तरे तथा भक्ते सप्तविंशति मानकम् ।
लिङ्गमानवशात्पीठ विस्तारं परिकीर्तितम् ॥ ५ ॥
तिथ्यङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ।
षोडशाङ्गुल सम्युक्त विंशकाङ्कुलकावधि ॥ ६ ॥
हस्तादि नवहस्तान्तं लिङ्गानां पीठविस्तृतिः ।
लिङ्गानामाधिकः वीठविस्तारोनेष्यते द्विजाः ॥ ७ ॥
अग्रं मूलसमं वास्य हीनमूलं तु नेष्यते ।
षडंशात् षोडशांशान्तं कृत्वा मूलविशालकम् ॥ ८ ॥
एकांशेननाग्रविस्तारं पीठं वा परिकीर्तितम् ।
विष्ण्वंशोत्सेधतुङ्गस्य पीठस्य ब्रह्म भागकए ॥ ९ ॥
चतुर्भागे त्रिभागांशाधिकं वा पीठतुङ्गकम् ।
तयोर्मध्येऽष्टधा भक्ते नवमानमुदीरितम् ॥ १० ॥
नन्धावर्तशिला चाल्पे वर्जनीयाद्विजोत्तमाः ।
मानुषे पीठमानं स्यात्स्वयम्भूतादिकेऽपि च ॥ ११ ॥
चललिङ्गेऽपि सामान्यं विधानं किञ्चिदुच्यते ।
लिङ्गमानसमं वार्ध द्विगुणं पीठ मिथ्यते ॥ १२ ॥
विस्तारमध्यसप्तांशे मानं सप्तदशैव हि ।
मूलं प्रोक्त प्रमाणां च सङ्ग्राह्यं द्विजसत्तमाः ॥ १३ ॥
विस्तारार्धसमन्तुङ्गं समं वाधाधिकं तु वा ।
प्रत्येकं सप्तधा भक्ते मानं सप्तदश द्विजाः ॥ १४ ॥
स्वायं भुवादि लिङ्गेषु लिङ्गायामादि विस्तरः ।
पीठस्य तु न दोषस्स्याज्ज्ञात्वैवं पीठमाचरेत् ॥ १५ ॥
वेदाश्रमं वर्तुलं वाथ सम्मतं पीठ रूपकम् ।
लोहजे रत्नलिङ्गे वा बाणालिङ्गेऽपि वा मतम् ॥ १६ ॥
बेरायामत्रिपादं वा तच्चचुर्थांशमेव वा ।
कल्पयेत्पीठ विस्तारं मध्यमे षोडशांशकम् ॥ १७ ॥
मानं सप्तदशाख्यातं समाश्रं वायतं तु वा ।
द्विगुणावधितन्मध्ये कृते प्राग्वत्तथा मतम् ॥ १८ ॥
पीठायामं समाख्यातं तस्योत्सेधश्च कथ्यते ।
विस्तारसममुत्सेधस्तदर्धो वा तदन्ते ॥ १९ ॥
विकारांशं भवेत्सप्तदशमानं द्विजोत्तमाः ।
पादाधिकं तथोत्सेधं विस्तरात् परिकल्पयेत् ॥ २० ॥
वसुधाभाजितेमध्ये नवमानमिति स्मृतम् ।
बिम्बोत्सेधचतुर्भागं पद्मोत्तुङ्गं परं मतम् ॥ २१ ॥
बेरायामाष्टभागैकमपरं परिकीर्तितम् ।
अष्टधा मध्यमं भक्त्या नवमानं प्रकल्पयेत् ॥ २२ ॥
स्थानकेवातलायामादेकैकाङ्गुलवृद्धितः ।
द्वादशाङ्गुलपर्यन्तं पङ्कजस्याग्र विस्तरः ॥ २३ ॥
आसने पद्मविस्तारस्त्रयोविंशति मात्रतः ।
अर्धाङ्गुलाद्यं षट्त्रिंशत्करजावधिमानकम् ॥ २४ ॥
त्रिभागैकधिकोमूलविस्तारः श्रेष्ठः उच्यते ।
द्वादशाम्श विहीनेऽथ मध्ये षोडशधाकृते ॥ २५ ॥
विस्तारस्सप्तसम्युक्तो दशधा परिकीर्तितः ।
विस्तारसदृशस्त्वायो द्विगुणो वाथ मध्यमे ॥ २६ ॥
वसुधा भाजितेदैर्घ्यं नवधा परिकीर्तितम् ।
त्रिभागाद्रुद भागान्तं तदुत्सेधे विभाजिते ॥ २७ ॥
एकद्वित्रिचतुष्पञ्चभागैरूर्ध्वस्थपङ्कजम् ।
शेषांशैस्स्यादधः पद्मं हीनं वोर्ध्वदलैस्तुवा ॥ २८ ॥
चतुरष्टदलोपेतं विकारार्क दलं तु वा ।
विपुलं तुङ्गमायुक्तं स्थानके पीठमुच्यते ॥ २९ ॥
अधिकोत्तुङ्गसंयुक्तमासनोपरि कल्पयेत् ।
त्रिभागाद्रुद्र भागान्तं दैर्घ्यविस्तारमेव वा ॥ ३० ॥
विभज्य पार्श्वयोरेकद्वित्रिभागमथापि वा ।
संस्थाप्य शेषभागैस्तु मध्ये भद्रं प्रकल्पयेत् ॥ ३१ ॥
सभद्रंवाविभद्रं वा पीठं सर्वत्र कारयेत् ।
एकपीठमनेकेषां यदि शोभावशान्नयेत् ॥ ३२ ॥
वृत्तावायतवृत्तापि अर्धचन्द्राकृतिस्तु वा ।
पद्माकृतिं प्रकर्तव्या तत्रासीनेऽर्धचन्द्रकम् ॥ ३३ ॥
अलङ्गारमतोवक्ष्ये लिङ्गानां पीठतुङ्गने ।
षोडशांशे तु मानेन पादुकं परिकीर्तितम् ॥ ३४ ॥
वेदांशा जगती प्रोक्ता गुणांशः कुमुदो भवेत् ।
वस्वश्रपद्ममेकेन वहन्यंशः कर्ण उच्यते ॥ ३५ ॥
षोडशांशे तदुत्सेधे द्विभागं पादुकं भवेत् ।
शरांशं पद्ममानं स्याद् द्विभागं वृत्तमुच्यते ॥ ३६ ॥
वेदांशमूर्ध्वपद्मस्यादश्विन्यशेन पट्टिका ।
घृतवार्यं शमानं स्यात् पद्मपीठमदं मतम् ॥ ३७ ॥
एकविंशतिभागेऽग्निभागैः पादुकमूर्ध्वतः ।
पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ॥ ३८ ॥
कर्णस्त्वेकेनकम्पः स्याद् भूतांशैरूर्ध्वपङ्कजम् ।
द्वाभ्यां पङ्क्ती भवेदूर्धे घृतवायैक भागतः ॥ ३९ ॥
षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् ।
जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ॥ ४० ॥
षोडशांशेतदुत्सेधे पादुक सार्ध भागभाक् ।
जगतीबन्ध भागेन गुणार्धं पद्मतुङ्गकम् ॥ ४१ ॥
व्योमाम्श मूर्ध्वकम्पं तु द्वाभ्यां कुमुद उच्यते ।
वृत्ताकारस्तदूर्ध्वैतु पट्टिका भागमानतः ॥ ४२ ॥
द्वाभ्यां कर्णस्तुपदम्ंस्यादर्धेननांशेन पट्टिका ।
शेषेण घृतवारीतु श्रीकरं पीठमीर्तितम् ॥ ४३ ॥
पञ्चविंशति भागेतु व्योमाम्श पादुकं भवेत् ।
पद्ममेकेन भागे तु व्योमाम्श पादुकं भवेत् ॥ ४४ ॥
जगती चतुरंशं स्यात्पद्मतुण्डं त्रिभागतः ।
गलमर्धन्त्रिभागेन पद्मं द्वयंशेन वृत्तकम् ॥ ४५ ॥
कुमुदं पद्मभागेन वाजनं व्योम भागतः ।
भागाभ्यां कर्ण- इत्युक्तस्स्यादेकेनैव वाजनम् ॥ ४६ ॥
कञ्चमेकेन भागाभ्यां महावाजनमीर्तितम् ।
एकेनकम्पमर्धेन घृतवार्यभिधीयते ॥ ४७ ॥
पीठं शाम्भवमाख्यातमन्यथान्यद्विधीयते ।
एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च ॥ ४८ ॥
भागेन पादुकं वेद भागेन जगतीमता ।
एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः ॥ ४९ ॥
कुमुदं पद्मंशेन वाजननत्वेक भागतः ।
कर्णो द्विभाग भागेन वाजनं पद्ममंशतः ॥ ५० ॥
द्विभागानु महापट्टी पद्मंशेन भागतः ।
कम्पस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम् ॥ ५१ ॥
अष्टादश विभागेतु व्योमांशं पादुकं भवेत् ।
अद्ध्यर्धं पद्ममित्युक्तं कम्पमेकांशतो भवेत् ॥ ५२ ॥
जगतीवेद भागेन गुणांशः कुमुदं भवेत् ।
कम्पमेकेन कर्णस्यात् द्विभागं कम्पमेकतः ॥ ५३ ॥
महापट्टी द्विभागेन वाजनञ्चैक भागतः ।
अर्द्धेन घृतवार्युक्त मुमापीठ मिदं मतम् ॥ ५४ ॥
विकारांशे तदुत्सेधे पादुकं भागमानकम् ।
पद्ममम्श मिमम्बन्ध भागेन जगती भवेत् ॥ ५५ ॥
भागाभ्यां पङ्कजात् ग्रीवाचार्द्धार्धे नोर्ध्वे पङ्कजम् ।
कुमुदं स्यात् द्विभागेन पद्ममर्द्धेन चार्धतः ॥ ५६ ॥
कम्पङ्कर्णस्तु चार्द्धेनार्धेनकम्पञ्चवारिजम् ।
भागार्द्धेन महापट्टी सार्धेनां शेनमूर्द्धनि ॥ ५७ ॥
घृतवारिसमाख्यातं सम्पत्करमिहोदितम् ।
रुद्रभागेतु तत्तुङ्गे व्योमांशं पादुकं भवेत् ॥ ५८ ॥
गुणांशं जगतीकम्प मेकं कर्णोद्विभागतः ।
एकांशो वाजनं प्रोक्तो महापट्टी द्विभागतः ॥ ५९ ॥
घृतवार्येकभागेन नन्दिकावृत्तमीरितम् ।
तिथ्यशं विभजेत्तुङ्ग मद्ध्यर्धं पादुकं भवेत् ॥ ६० ॥
अर्द्धेन कम्पपद्मं स्यात् गुणांशं गलमर्द्धतः ।
पद्ममंशेन भागाभ्यां कुमुदं पद्ममंशतः ॥ ६१ ॥
अर्द्धं गलं त्रिभागेन पद्मं सार्द्धेन पट्टिका ।
अर्द्धाम्श घृत वार्युक्तं स्वस्तिकञ्चेदमीरितम् ॥ ६२ ॥
तुङ्गाष्टदशभागेतु द्विपादं पादुकं भवेत् ।
पङ्कजन्तु त्रिभागेन पट्टिकैकांशनिर्मिता ॥ ६३ ॥
षट्भागैः कर्ण- इत्युक्तो वाजनं चैक भागतः ।
अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजन मिष्यते ॥ ६४ ॥
घृतवार्येक भागेन पूर्णचन्द्र मिदं भवेत् ।
कलांशं विभजेत्तुङ्गं व्योभागेन पादुका ॥ ६५ ॥
द्वाभ्यां पद्ममथैकेन कंष्षट्भागतोगलम् ।
भागेन कम्पं स्यात् द्विभागेन द्विभागतः ॥ ६६ ॥
महापट्यम्श मानैक घृतवायूर्ध्वतो भवेत् ।
स्थण्ण्डिलं पीठमेवं स्यात् पुनरन्य मिहोच्यते ॥ ६७ ॥
त्रिषडंशेतदुत्सेधे द्विभागं पादुकं भवेत् ।
व्योमांशं कम्पमित्युक्तं द्विभागं पद्ममुच्यते ॥ ६८ ॥
भागेन कम्पमित्युक्तं शेषं पूर्ववदेवहि ।
एकोनविंशत्यंशे तु द्विभागं पादुकं भवेत् ॥ ६९ ॥
कम्पमंशेन भागेन पुनः कम्पं द्विभागतः ।
पद्ममंशेन कंस्स्यात् शेषं पूर्ववदीरितम् ॥ ७० ॥
स्वायम्भुवमिदं प्रोक्तमधिष्ठानानियानि च ।
उपपीठानि तान्यत्र योज्यानी हाग्रजोत्तमाः ॥ ७१ ॥
घृतवारि तदूर्ध्वेस्यादेकभागेन सार्द्धतः ।
द्विभागेनाथ कर्तव्यं भक्त्याभीष्टाशतुं गमे ॥ ७२ ॥
महापट्टि विनिष्क्राम समनिष्क्रम संयुतम् ।
घृत वारि विधेयं वा वृत्तं वा चतुरश्रकम् ॥ ७३ ॥
अधिष्टानेक तोपेत मथवा परिकल्पयेत् ।
कर्णमानञ्च सङ्ग्राह्य कम्पादौ विनियोजयेत् ॥ ७४ ॥
तन्मान मथकर्णेतु यावदेक यवेन च ।
वृद्ध्याष्ट मात्रपर्यन्तं वृद्धिहानिं प्रयोजयेत् ॥ ७५ ॥
सर्वेष्वङ्गेषु पीठानां सकले निष्कलेपि च ।
चलेवाप्यचले लोहे रत्नजे बाणालिङ्गके ॥ ७६ ॥
शलेदारुमये वापि मृण्मयेन्य मयेपिवा ।
निष्कलेतु प्रमाणं स्यात् तन्मान मधुनोच्यते ॥ ७७ ॥
पीठतारं त्रिभागं स्यात् प्रणालो मूलविस्तरः ।
तदर्द्धेणाग्र विस्तार स्सर्वलिङ्गेषु योग्यकः ॥ ७८ ॥
पीठार्द्धमानः पादोवा मध्यमे षोडशांशके ।
मानं सप्तदशं ख्यातं नालायामं द्विजोत्तमाः ॥ ७९ ॥
तत्समंवा सपादं वा त्रिपादं वाथ मध्यमे ।
तथा विभक्ते सङ्ग्राह्य मानं सप्तदशैव च ॥ ८० ॥
प्रणालमूलदेशेतु गदग्रं तेन मानतः ।
त्रिपाद मर्द्ध पादोनं पञ्चत्रित्य्त्रम्श मेववा ॥ ८१ ॥
सप्तांशे भूतवेदाग्नि भागं वाग्रे प्रकल्पयेत् ।
वारि वाहस्तथा प्रोक्ता वागाम्भीर्या द्विस्तरेण वा ॥ ८२ ॥
मूलकम्पं तदूर्ध्वन्तु पद्मं पार्श्व द्वयोरपि ।
तदूर्ध्वेकम्पमेकद्वि व्योमभागैस्तथा क्रमात् ॥ ८३ ॥
प्रणालघनमानेतु तन्मान मधुनोच्यते ।
कर्णार्द्धमाअं तन्मानं पीठोत्सेधं विभज्य च ॥ ८४ ॥
त्रिसप्तमानं वेदांशा देकभागविवृद्धितः ।
दशभागावसानन्तु पीठनाल घनं तुवा ॥ ८५ ॥
समानयोनिजंश्रेष्ठं तदभावे विभिन्नजम् ।
अभिन्नपिण्डिकं लिङ्गं नेष्टं भुक्त्यर्क्थिनामिह ॥ ८६ ॥
तदन्यमिष्टं श्रेष्ठं स्याद्रत्नजं स्पष्टिकादिकम् ।
अखण्डशैलमिष्टं स्यात् तदभावे सखण्डकम् ॥ ८७ ॥
खण्डन्त्वङ्गावसानं स्यादूर्ध्व खण्डमखण्डजम् ।
प्रणालयुक्तमिष्टं स्यात् तदधः खण्डनेपि च ॥ ८८ ॥
नदोषाढ्यादिवस्त्वन्ताः खण्डाः पीठाः प्रकीर्तिताः ।
सकलानामनालं स्यात् सनालमथपीठकम् ॥ ८९ ॥
घृतवारिविहीनं वा सहितं वा प्रकल्प्यते ।
बाणलिङ्गादि लिङ्गानां चतुरश्राय ताश्रकम् ॥ ९० ॥
कृत्वा तदूर्ध्वेतु पीठं वा परिकल्पयेत् ।
पीठलग्नां प्रभां कुर्यात् भिन्नां वा
भिन्नयोगिकाम् ॥ ९१ ॥
नाना वाजन पीठं संयुक्तां मुक्तादामावलि
क्रियाम् ।
नाना पुष्पावलीप्रोतां नाना वह्नि शिखान्वितम् ॥ ९२ ॥
सर्वालङ्कारसंयुक्तामिष्टास्य घन संयुताम् ।
सतोरणं वा वृत्तं वा सायतं वा प्रमाणतः ॥ ९३ ॥
बेरलिङ्गवशात् कॢप्ताम्ष्टमान समन्वितम् ।
एवं लक्षण माख्यातं स्थापनं चाधुनोच्यते ॥ ९४ ॥
पिण्डिकायामुमादेवीलिङ्गे स्याच्च सदाशिवः ।
तयोर्यः क्रियते योगस्सा प्रतिष्ठेति गद्यते ॥ ९५ ॥
योगश्च द्विविधोज्ञेयः त्वाद्यः पश्चाद्भवस्त्विति ।
आद्यः प्रागेव कथितो लिङ्गस्थापनकर्मणि ॥ ९६ ॥
द्वितीयः कथ्यते विप्राः पूर्वं तस्याः यदा कृतिः ।
तथैव च पुनः कुर्यादन्यथा दोषकारकम् ॥ ९७ ॥
मानवे पीठ सङ्कल्पपिधानं परिकीर्तितम् ।
चतुरश्रेऽथ वृत्ते वा रूपान्तरयुतेऽपि वा ॥ ९८ ॥
दैविके चार्षकेबाणेलिङ्गेस्वायम्भुवे तथा ।
वृत्तं सर्वत्रकर्तव्यं पूर्वाकृतियुतं तु वा ॥ ९९ ॥
पूर्वद्रव्येण कर्तव्यमुत्कृष्टेनाथवा नयेत् ।
लिङ्गसंस्थापनस्योक्तावर्त्मना सकलां क्रियाम् ॥ १०० ॥
कारयेत्कथ्यते विप्राः शेषस्तदवधार्यताम् ।
अङ्कुरार्पणकार्यं तु प्रागुक्तविधिना नयेत् ॥ १०१ ॥
हर्म्याग्रे सौम्यदेशेऽग्नौ चैशान्यं यागमण्डपम् ।
प्रागुक्तविधिना मानं मण्टपे परिकीर्तितम् ॥ १०२ ॥
तन्मध्ये वेदिकां कुर्याल्लिङ्गस्थापन वर्त्मना ।
कुण्डानि परितः कुर्यान्नवपञ्चैक सङ्ख्यया ॥ १०३ ॥
योन्याकाराणि कुण्डानि त्रिमेखलयुतानि च ।
तत्पूर्वे सौम्यदेशे वा स्नानार्थं स्नानमण्डपम् ॥ १०४ ॥
एवं निष्पाद्य सर्वन्तु पश्चात् कर्मसमारभेत् ।
विशेषयजनं कृत्वा स्तुत्वानत्वा मुहुर्मुहुः ॥ १०५ ॥
शिवं विज्ञाप्य लब्धाज्ञः क्रियामेनां समारभेत् ।
लिङ्गाग्रे स्थण्डिलं कृत्वा शिवकुम्भस्यवर्धनीम् ॥ १०६ ॥
मध्यमे स्थापयित्वातु परितोऽष्टौ घटांस्तु वा ।
ससूत्रान् सापिधानांश्च सकूर्चाम्बर पल्लवान् ॥ १०७ ॥
गन्धसृग्दाम धूपाद्यै सर्चयेत्तदनन्तरम् ।
पुण्याहं वाचयित्वातु सासनं मूर्ति संयुतम् ॥ १०८ ॥
आवाह्यलिङ्गं लिङ्गस्य शिवकुम्भगतं न्यसेत् ।
पीठाद्देवीं समावाह्य वर्धन्यां मध्यमेन्यसेत् ॥ १०९ ॥
विद्येशान् परितोन्यस्त्वा गन्धाद्यरर्चयेत्तुतान् ।
नैवेद्यान्तैश्च तत्पूर्वे स्थण्डिले होममाचरेत् ॥ ११० ॥
सहस्रसङ्ख्यं मूलेन समिदाज्यन्नलाजकैः ।
तिलेनापि समायुक्तं प्रत्येकं तु शतं तु वा ॥ १११ ॥
प्रायश्चित्तमघोरेण शतसङ्ख्येन होमयेत् ।
अन्यत्र स्थण्डिलं कृत्वा ततस्संस्थापयेदमून् ॥ ११२ ॥
नित्यपूजा प्रकर्तव्या लिङ्गे कुम्भे च नित्यशः ।
टङ्केन हैमजातेन पीठं छित्वास्त्र मुच्चरन् ॥ ११३ ॥
अगाधेऽभसि निक्षिप्य तदुद्भूतसुधादिकम् ।
शान्तिहोमः प्रकर्तव्यः प्रत्यहं तु शतं तु वा ॥ ११४ ॥
ततस्संस्थापनं कुर्यात् तद्विधानमिहोच्यते ।
शाणाभिघर्षणं कृत्वा पञ्चमृत्पञ्चगव्यतः ॥ ११५ ॥
कषायोदकगोमूत्र गोशकृद्भिर्जलानतरे ।
प्रणवेनास्त्रमन्त्रेण स्नापयेत्परमेश्वरम् ॥ ११६ ॥
वस्त्रचन्दनपुष्पाद्यैरिष्ट्वामण्डपमध्यमे ।
स्थण्डिलङ्कल्पयित्वास्मिन् स्थापयेत्पिण्डिकां ततः ॥ ११७ ॥
गन्धाद्यैरर्चयित्वा भगाङ्कं लक्ष्म लक्षयेत् ।
मध्वाज्याभ्यां तु सन्तर्प्यमृत्युजिन्मन्त्रामुच्चारन् ॥ ११८ ॥
ताम्रजे कांस्यजे पात्रे मध्वाज्याभ्यां समन्विते ।
सहैमं दर्शयेद्विद्वान् नेत्र मन्त्र मनुस्मरन् ॥ ११९ ॥
धान्यराशिंसवत्साङ्गाङ्कन्यां हृदय मन्त्रतः ।
प्रच्छन्नपट मावर्ज्य दर्शयेद्देशिकोत्तमः ॥ १२० ॥
प्राग्वत् संस्नाप्य देवीन्तु वस्त्र गन्धादिनार्चयेत् ।
प्रदक्षिणन्नयेत् ग्रामेजलतीरे निवेश्य च ॥ १२१ ॥
स्थण्डिलं तत्र निक्षिप्य स्थापयेत् तत्र पिण्डिकाम् ।
कलशां स्थापयेदष्टौ लोकपालाधिपान् क्रमात् ॥ १२२ ॥
देवीञ्चकलशानिष्ट्वा लम्बकूर्च समन्विताम् ।
नव वस्त्र परिच्छन्नां फलकोर्ध्वेजलान्तरे ॥ १२३ ॥
स्थापयेदभितोष्टौ तु कलशान्सूत्रसंयुतान् ।
पिधानाम्बरहैमस्तान् शक्त्यधिष्ठितान् ॥ १२४ ॥
पश्चान्मण्टपमासाद्यचतुस्तोरणसंयुक्तम् ।
सवितानध्वजं दर्भमुक्ता पुष्पजमालया ॥ १२५ ॥
सर्वत्रज्वलितं दीप्तैर्ज्वलिद्भिः परिवारितम् ।
सर्वलक्षणसम्पन्नं सुविसर्जित तक्षकम् ॥ १२६ ॥
ब्राह्मणान् भोजयित्वा तु गोमयेनोपलोपयेत् ।
पुण्याहं वाचयित्वातु वास्तु होमं च कारयेत् ॥ १२७ ॥
द्वाराण्यस्त्रेण सम्प्रोक्ष्य द्वाराणि द्वारपान्यजेत् ।
प्रविश्य सद्यद्वारेण सौम्यास्योर्ध्वस्थितस्थितिः ॥ १२८ ॥
मन्त्रकायं शिवं चान्तरिष्ट्वा हृन्नाभिबिन्दुषु ।
गृहीत खड्ग हस्तस्सन् पूजितात्मसमन्वितः ॥ १२९ ॥
कृतपञ्चाङ्ग भूषस्तु कुम्भास्त्राशाधिपार्चनः ।
कृतकुण्डाग्नि संस्कारो जलवासान्महेश्वरीम् ॥ १३० ॥
आनीय स्नपनाख्योक्त मण्टपे स्नपनं नयेत् ।
मृत्कषायोदगव्याद्यैः पुष्पपत्रफलोदकैः ॥ १३१ ॥
कुशगन्धजलैः पञ्चामृतैस्संस्नापयेच्छिवाम् ।
आछाद्य वस्त्रयुग्मेन गन्धैरर्चयेत्तु ताम् ॥ १३२ ॥
कृत्वा कौतुकबन्धन्तु तन्नाले तद्गलेऽपि वा ।
शालिभिः स्थण्डिलं कृत्वा वसुद्रोणसमन्वितैः ॥ १३३ ॥
तदर्धेस्तण्डुलैर्युक्तं तदर्धतिललाजकम् ।
दर्भै पुष्पै परिस्तीर्य चर्मजाद्यैरनु क्रमात् ॥ १३४ ॥
ततश्शय्यां च सङ्क्ल्प्य तदलाभेऽम्बरैर्नयेत् ।
आसनं तत्र सङ्कल्प्य पिण्डिकां विन्यसेद् धृदा ॥ १३५ ॥
आच्छाद्य वस्त्रयुग्मेन तद्देशे करकं न्यसेत् ।
सूत्र वस्त्र परिच्छन्नं नवरत्नसमन्वितम् ॥ १३६ ॥
सहैमपङ्कजं कूर्चफलपल्लव वस्त्रकम् ।
तन्मध्ये सासनां देवीमर्चयेद् गन्धसम्मुखैः ॥ १३७ ॥
वर्धनीरष्ट सङ्ख्याताः कूर्चवस्त्रससूत्रकाः ।
सहैमाः पल्लवोपेतास्सापिधानाः फलोद्वहाः ॥ १३८ ॥
वामाद्यधिष्टिता बाह्ये परितो विनिवेशयेत् ।
गन्धाद्यैरर्चयित्वा तु पिण्डिकां वर्धनीमपि ॥ १३९ ॥
तत्वतत्वेशि संयुक्तां मूर्तिमूर्तीश्वरीं न्यसेत् ।
कर्णस्याधो गले कर्णादूर्ध्वे तत्वत्रयं न्यसेत् ॥ १४० ॥
क्रिया ज्ञानं तथेच्छेति त्रितत्वेशाः प्रकीर्तिताः ।
धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा ॥ १४१ ॥
धात्री विभ्वीति मूर्तिभ्यः परिभाव्याः क्रमेण तु ।
पञ्चपक्षेऽथवा ग्राह्य त्वत्रानुक्तं तु यद्भवेत् ॥ १४२ ॥
लिङ्गसंस्थापनप्रोक्त विधिनाखिलमाचरेत् ।
चन्दनाद्यै स्समभ्यर्च्य होम कर्म समारभेत् ॥ १४३ ॥
समिदाज्यान्नलाजैश्च तिलैस्सर्षपकैर्यवैः ।
पलाशो दुम्बराश्वत्थन्यगोधाः पूर्वतोदिशि ॥ १४४ ॥
शमीखदिरमायूरश्रीवृक्षा वह्निकोणतः ।
पलाशं तु प्रधानं स्यात्पलाशो वाखिलो मतः ॥ १४५ ॥
सहस्रं वा तदर्धं वा शतमष्टाधिकं तु वा ।
देव्या मूलेन होतव्यं तदङ्गैस्तद्दशांशतः ॥ १४६ ॥
शान्त्यः प्रोक्षणं दर्भस्पर्शनं च समारभेत् ।
तत्वतत्वेश्वराद्यैश्च होमयेत्प्रतिकुण्डकम् ॥ १४७ ॥
प्रायश्चित्तमघोरेण शतोच्चारेण होमयेत् ।
भूतिदर्भतिलै रक्षां कृत्वा तत्त्ववलिं तदा ॥ १४८ ॥
अन्तर्बलिं च क्षेत्रेशबलिं च प्रक्षिपेत् गुरुः ।
ततः प्रभाते विमले मूर्तिमद्भिर्गुरुश्शुचिः ॥ १४९ ॥
कृतनित्यविधानस्तु सामान्यार्घ्यकरो गुरुः ।
द्वाराणि तत्पतीनिष्ट्वा समुत्थाप्य महेश्वरीम् ॥ १५० ॥
गन्धैः पुष्पैश्च धूपैश्च दीपैर्नवेद्यकैस्तदा ।
ताम्बूलान्तैश्च सम्पूज्य पिण्डिकां वर्धनीमपि ॥ १५१ ॥
अग्नि होमैश्च सन्तर्प्य प्रायश्चित्तं विधाय च ।
दत्वा मूलेन पूर्णां तु सर्वदोषनिकृन्तनीम् ॥ १५२ ॥
सर्वातोद्य समायुक्तं नृत्तगान समन्वितम् ।
धामप्रदक्षिणं नीत्वा गर्भगेहे निवेशयेत् ॥ १५३ ॥
लिङ्गसंस्ह्तापनप्रोक्तविधिना तान्निवेशयेत् ।
पिण्डिकास्थापनं बाणलिङ्गस्य यदि वर्तते ॥ १५४ ॥
तदग्रे मण्टपादौ तु तल्लिङ्गं स्थण्डिलेन्यसेत् ।
नव वस्त्रपरिच्छन्नं शुभाशासु शिरो यथा ॥ १५५ ॥
पीठे सुधादिकं त्यक्त्वा तस्मिन्नेव प्रदेशके ।
पीठं संस्थापयित्वातु तत्र लिङ्गं निवेशयेत् ॥ १५६ ॥
रत्नानि सर्वपीठस्य गर्ते संस्थाप्य सद्गुरुः ।
सुवर्णं वाथ निक्षिप्य प्राग्वत्सर्वं समाचरेत् ॥ १५७ ॥
अष्टबन्धं त्रिबन्धं वा योजयेत्तदनन्तरम् ।
पुण्याह प्रोक्षणं शान्तिकुम्भ तोयाभिषेचनम् ॥ १५८ ॥
प्रागुक्तविधिना कृत्वा आसनाणुं ततो न्यसेत् ।
पीठे क्रियाख्यं विन्यस्य गुरुः प्रागुक्तवर्त्मना ॥ १५९ ॥
लिङ्गाग्रनिहितं चापि शिवकुम्भं च वर्धनीम् ।
वामादि चर्धनीयुक्तां वेदिकान्तरसंस्थिताम् ॥ १६० ॥
देवाग्रे स्थापयित्वा तु जीवन्यासेन विन्यसे ।
संस्थाप्य वर्धनीं वापि वर्धन्यष्टक संयुतम् ॥ १६१ ॥
वेदिका मध्यमे न्यस्त्वा जीवन्यासार्थमारभेत् ।
जीवन्यासस्त्रिषु स्थानेष्वथ कार्योऽथवासने ॥ १६२ ॥
लिङ्गादौ स्थापिते कुम्भे न्यासकाले विशेषतः ।
स्नपनं कारयेदन्ते पञ्चामृतविधिस्तु वा ॥ १६३ ॥
केवलेनाम्भसा वाथ गन्धाद्यैस्सम्यगर्चयेत् ।
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ १६४ ॥
तावदत्र त्वया देवि सान्निध्यं कुरु सर्वदा ।
लिङ्गसंस्थापन प्रोक्तं दक्षिणार्धं च दापयेत् ॥ १६५ ॥
चतुर्दिनं त्रयं वापि द्वयमेकं च नित्यशः ।
विशेषपूजा कर्तव्या होमेन च समन्विता ॥ १६६ ॥
पूर्वोक्तैरणुभिश्शक्तैः पायसैर्होममाचरेत् ।
चतुर्थे प्रथमे वाथ चण्डकल्पो विधीयताम् ॥ १६७ ॥
बाणादौ स च नेष्टस्स्यादथवा परिभाव्यतम् ।
पीठसंस्थापनस्यापि फलं लिङ्गप्रतिष्ठया ॥ १६८ ॥
समानं कथितं यस्मात् प्रतिष्ठैकोभयत्र च ॥ १६८१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे पीठप्रतिष्ठा विधिः पञ्चत्रिंशत्तमः
पटलः ॥

अलङ्कारमतो वक्ष्ये लिङ्गानां पीठ तुङ्गके
षोडशांशे तु मानेन पादुकं परिकीर्तितम्
वेदांशा जगती प्रोक्ता गुणाशः कुमुदो भवेत्
वस्वश्र पद्ममेकेन वह्नयंशः कर्ण उच्यते ।
अंशेन पट्टिकाज्ञेया महापट्टी द्विभागतः
घृतवार्यंशमानेन भद्रपीठमिदं मतम् ।

षोदशांशे तदुत्सेधे द्विभागं पादुकं भवेत् ।
शरांशं पद्ममानं स्यात् द्विभागं वृत्तमुच्यते ॥
वेदांशम् ऊर्ध्वपद्मं स्यात् अश्विन्यंशेन पट्टिका ।
घृतवार्यं शमानं स्यात् पद्मपीठमिदं मतम्

एकविंशति भागेऽपि भागैः पादुकमूर्ध्वतः ।
पञ्चभिः पङ्कजं कम्पस्त्वेकेनोर्ध्वं त्रिभागतः ॥
कर्णस्त्वेकेन कम्पः स्यात् भूतांशैः ऊर्ध्वपङ्कजम् ।
द्वाभ्यां पङ्कि भवेदूर्ध्वे धृतवार्येक भागतः ॥

षोडशांशे तदुत्सेधे पादुकं सार्धभागभाक् ।
जगती बन्ध भागेन गुणार्धं पद्मतुङ्गकम् ॥
व्योमांशम् ऊर्ध्वकम्पं तु द्वाभ्यां कुमुद उच्यते ।
वृत्ताकारस्तदूर्ध्वे तु पट्टिका भागमानतः
द्वाभ्यां कर्णस्तु पद्मं स्यात् अर्धेनांशेन पट्टिका ।
शेषेण घृतवारी तुश्रीकरं पीठमीरितम् ॥

पञ्चविंशति भातु तु व्योमांशं पादुकं भवेत्
पद्मम् एकेन तस्य ऊर्ध्वे वाजनं व्योम भागतः
जगती चतुरंशं स्यात् पद्मतुण्डं त्रिभागतः
गलमर्धं त्रिभागेन पद्मं त्र्यंशेन वृत्तकम्
कुमुदं पद्मम् एकेन वाजनं व्योमभागतः
भागाभ्यां कर्णम् इति उक्तस्स्यात् एकेनैव वाजनम्
कञ्चम् एकेन भागाभ्यां महावाजनम् ईरितम्
एकेन कम्पमर्धेन घृतवार्यभिधीयते
पीठं शाम्भवमाख्यातम् अन्यथान्यद्विधीयते

एकविंशति भागं तु पीठोत्तुङ्गं विभज्य च
भागेन पादुकं वेदभागेन जगती मता
एकेन कर्णस्त्वेकेन पद्मं स्यात् गुणभागतः
कुमुदं पद्ममंशेन वाजनम् एक भागतः
कर्णो द्विभागो भागेन वाजनं पद्ममंशतः
द्विभागा तु महापट्टी पद्ममंशेन भागतः
कम्पस्स्यात् घृतवार्यूर्ध्वे विजयाख्यमिदं मतम्

अष्टादश विभागे तु व्योमांशे पादुकं भवेत् ।
अध्यर्धं पद्मम् इति उक्तं कम्पम् एकांशतो भवेत् ॥
जगती वेद भागेन गुणाशः कुमुदो भवेत् ।
कम्पम् एकेन कर्णस्स्यात् द्विभागः कम्पमेकतः ॥
महापट्टी द्विभागेन वाजनं च एक भागतः
अर्धेन घृतवार्युक्तम् उमा पीठमिदं मतम् ॥

विकारांशे तदुत्सेधे पादुकं भागमानकम् ।
पद्ममंशमितं बन्धभागेन जगती भवेत् ॥
भागाभ्यां पङ्कजाढ् ग्रीवा च अर्धार्धेनोर्ध्वपङ्कजम् ।
कुमुदं स्यात् द्विभागेन पद्मम् अर्धेन च अर्धतः
कैपं कर्णस्तु च अर्धेनार्धेन कम्पं च वारिजम्
भागार्धेन महापट्टी सार्धेन अंशेन मूर्धनि
घृतवारि समाख्यातं सम्पत्करम् इहोदितम्

रुद्रभागे तु तुत्तङ्गे व्यामांशं पादुकं भवेत् ।
गुणांशं जगती कम्पमेकं कर्णो द्विभागतः ॥
एकांशो वाजनः प्रोक्तो महापट्टी द्विभागतः ।
घृतवार्येक भागेन नन्दिकावृत मीरितम् ॥

तिथ्यंशं विभजेत्तुङ्गम् अध्यर्धं पादुकं भवेत् ।
अर्धेन कम्पं स्यात् गुणांशं गलमर्धतः
अर्धेन कम्पं पद्मं स्यात् गुणांशं गमर्धतः
पद्मम् अंशेन भागाभ्यां कुमुदं पद्मम् अंशतः
अर्धं गलं त्रिभागेन पद्मं सार्धेन पट्टिका
अर्धांशं घृतवार्युक्तं स्वस्तिकं चेदमीरितम्

तुङ्गाष्टादश भागे तु द्विभागं पादुकं भवेत् ।
पङ्कजं तु त्रिभागेन पट्टिकैकांशनिर्मिता ॥
षड्भागैः कर्ण इत्युक्तो वाजनं चैक भागतः ।
अब्जं द्विभागतः प्रोक्तं द्वाभ्यां वाजनम् इष्यते ॥
घृतवार्येक भागेन पूर्णचन्द्रमिदं भवेत् ॥

कलांशं विभजेत्तुगं व्योम भागेन पादुकम् ।
द्वाभ्यां पद्ममथैकेन कम्पम्पड् भागतो गलम् ॥
भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः ।
महापट्ट्यंशमानेन घृतवार्यूर्ध्वतो भवेत् ॥
स्थण्डिलं पीठमेवं स्यात् पुनरन्यदिहोच्यते ॥

त्रिषडंशे तदुत्सेधे द्विभागं पादुकं भवेत् ।
योमांशं कम्पमित्युक्तं द्विभागं पद्मम् उच्यते ॥
भागेन कम्पम् इत्युक्तं कम्पं षड् भागतो गलम् ।
भागेन कम्पं पद्मं स्यात् द्विभागेन द्विभागतः ॥
महापट्टी अंशमानेन घृतवार्यूर्ध्वतो भवेत् ॥

एकोन विंशति अंशे तु द्विभागं पादुकं भवेत् ।
कम्पमंशेन भागेन पुनः कम्पं द्विभागतः ॥
पद्ममंशेन कम्पस्स्यात् शेषं पूर्ववदीरितम् ।
स्वायम्भुवम् इदं प्रोक्तम् अधिष्ठानानियानि च ॥
उपपीठानि तान्यर योज्यानीहाग्रजोत्तमाः

३६। षड्त्रिंशत्तमे पटले बाणलिङ्ग प्रतिष्ठा विधिः

बाणलिङ्ग प्रतिष्ठां तु वक्ष्ये सङ्क्षेपतः क्रमात् ।
बाणो नामासुरः प्रोक्तस्स च सिद्ध्यर्थ मादरात् ॥ १ ॥
प्रार्थयामास पूजार्थं लिङ्गानि विविधानि च ।
दत्तवाल्लिङ्गकोटीनां चतुर्दशाः महेश्वरः ॥ २ ॥
तानि सम्पूज्य कालान्ते स्थानेष्वेतेषु न्यक्षिपत् ।
लिङ्गार्द्रौ कालिकागर्ते श्रीनगे कन्यकाश्रमे ॥ ३ ॥
कन्या तीर्थे च नेपाले महेन्द्रे चामरेश्वरे ।
अन्यत्र च नदीमध्ये पर्वते च विशेषतः ॥ ४ ॥
माष मात्रादि हस्तान्तं तेषां मानमुदाहृतम् ।
पादाङ्गुल विवृद्धान्तु गृहणीयाद्वा यथेच्छया ॥ ५ ॥
विस्तार नाहमानं तु बाणलिङ्गस्य नेष्यते ।
रेखाबिन्दु कलङ्कादि रहितं युक्तमेव वा ॥ ६ ॥
सर्वेषामपि लिङ्गानां बाणलिङ्गं विशिष्यते ।
स्नपने यजने धूपे गन्धपुष्प निवेदने ॥ ७ ॥
अन्य कर्मणि विप्रेन्द्राः स्वायम्भूतादिके तथा ।
प्रासाद पीठिकादीनां नियमो न च नेष्यते ॥ ८ ॥
ग्रामादि सर्व वास्तूनां बाह्ये बाह्यान्तरेऽपि वा ।
विमानं बाणलिङ्गस्य कल्पयेत् कल्पवित्तमः ॥ ९ ॥
शिला मृल्लोह सद् वृक्ष रत्नाद्यैः पीठिका भवेत् ।
एक वर्णं भवेत्पीठं सर्व कामार्थ सिद्धये ॥ १० ॥
लिङ्गोत्सेधं त्रिभागैकं पञ्चद्व्यंशमथापि वा ।
विधेयं खातमानन्तु लिङ्गार्द्धमथवा द्विजाः ॥ ११ ॥
यथाभिमतमानं वा खामानमुदाहृतम् ।
सतित् प्रवाह संस्थं च बाणलिङ्ग समाकृतिः ॥ १२ ॥
यदन्यपि बोद्धव्यं लिङ्गं सर्व सुखावहम् ।
पर्वतादि समुत् भूतन्तद्वदेव समीरितम् ॥ १३ ॥
उन्नतन्तु मुखं ज्ञेयं स्थूलभागे कृशेपिवा ।
स्थूलं वाथ कृशं कान्तिमद्रूप मूर्ध्वगः ॥ १४ ॥
रत्नजञ्चैव माख्यातं लोहजञ्च तथामतम् ।
सहजं वाथभिन्नं वा लिङ्गं श्रेष्ठं सयोजितम् ॥ १५ ॥
रत्नजे लोहजेप्येवं पार्थिवेपि तथामतम् ।
सर्वेषामपि चैतेषां प्रतिष्ठाद्यं निगद्यते ॥ १६ ॥
शैललिङ्ग प्रतिष्ठायां श्रेष्ठकाल उदाहृदः ।
चललिङ्ग प्रतिष्ठायां प्रतिमादौ च मध्यमः ॥ १७ ॥
कालोधमस्स्यात् बाणादौ मुमुक्षोस्सर्व एव हि ।
मासायनर्क्षवारादि विधिस्तेषु च नेष्यते ॥ १८ ॥
तथैव बाणलिङ्गस्य किन्तु कालोधमोथवा ।
विधाय वज्रबन्धाद्यं ततः स्थापन मारभेत् ॥ १९ ॥
अङ्कुरार्पण कार्यन्तु प्रागुक्त विधिना नयेत् ।
रत्नन्यासन्ततः कुर्यान्नवः पञ्चैक रत्नकम् ॥ २० ॥
पिण्डिकावट मध्येतु हैमं वाथ विनिक्षिपेत् ।
लक्षणोद्धारण न्नेष्टं स्वाकारो लक्षणं भवेत् ॥ २१ ॥
विधायलिङ्गशुद्धिन्तु शिवेनास्त्रेण मृज्जलैः ।
जलाधिवासनं कुर्यान्नव पञ्चैक कुण्डकम् ॥ २२ ॥
कुर्याल्लिङ्गाधि वासार्थं वेदिका सहितं यथा ।
वेदिकारहितञ्चैत् ग्रहादौ स्थण्डिलं मतम् ॥ २३ ॥
शिल्प्युद्वासनं पुण्याहं विप्रभुक्त्युपलेपनम् ।
भूपरिक्षा विधेयन्तु वास्तु पूजाग्नि तर्पणम् ॥ २४ ॥
स्थणिले शयनं तस्य पूजनं प्राग्वदाचरेत् ।
जलमध्यादथानीय शुद्धिं गव्यादिभिर्नयेत् ॥ २५ ॥
अभ्यर्च्यावेष्ट्य वस्त्रेण कृत प्रतिसरं शिवम् ।
शय्यां मध्ये निवेश्याथ शिवकुम्भं च वर्धनीम् ॥ २६ ॥
विद्येश कुम्भ संयुक्तं ससूत्रं सापिधानक ।
सहिरण्यं सवस्त्रं च गन्धोदपरिपूरितम् ॥ २७ ॥
संस्थाप्य संयजेत्सर्वां स्तत्वतत्वेश संयुतान् ।
मूर्ति मूर्तिश्वरान्यस्त्वा सम्पाद्यैवं शिवानलम् ॥ २८ ॥
समिदाज्यान्न लाजैश्च तिलेन च समन्वितम् ।
जुहुयात् मूलमन्त्रेण शतमष्टोत्तरं यथा ॥ २९ ॥
मनोन्मन्यार्ध मङ्गैस्तु दशांशं द्विजसत्तमाः ।
तत्वतत्वेश्वरादीनां पूर्ववत् होममाचरेत् ॥ ३० ॥
वस्त्रेणाच्छाद्य लिङ्गन्तु नैवेद्यं च निवेदयेत् ।
प्रातः स्नात्वार्चयित्वा तु मण्डपाधिप देवताः ॥ ३१ ॥
लिङ्गमग्नि मघोरेण जुहुयाच्चत सङ्ख्यया ।
सम्प्राप्त दक्षिणस्तुष्टः प्राप्त पञ्चाङ्गभूषणः ॥ ३२ ॥
मुहुर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ।
एकाद्या नवनिष्कान्ता भवेद्देशिक दक्षिणा ॥ ३३ ॥
सङ्कल्प्य सासनं मूर्तिं मूलमन्त्र शिवे न्यसेत् ।
तज्जलैः स्थापयेद्देवं देवीं पीठ स्वरूपिणीम् ॥ ३४ ॥
स्नपनं कारयेदन्ते दद्यान्नैवेद्यमादरात् ।
यदनुक्तं भवेदत्र लिङ्ग स्थापन वन्नयेत् ॥ ३५ ॥
चतुर्थहोमं चण्डेशयजनं चास्य नेष्यते ।
प्रत्यहं पूजयेद्देवम् अर्चनोक्त विद्यानतः ॥ ३६ ॥
शिष्टलिङ्गे गतिर्नास्ति समान्यस्य गतिं क्षणात् ।
जीर्णादि दोष दुष्टं च विधिनापि न चालयेत् ॥ ३७ ॥
सुदृढं स्वर्णपट्टाद्यैः कृत्वाशान्तिं समाचरेत् ।
कुम्भे वा स्थण्डिले वापि मण्डले पीठकादिके ॥ ३८ ॥
पूर्वदिक्कलिते देशे दिक्कॢप्ते मण्डपादिके ।
सम्पूज्य देवदेवेश मुदग्देशे मनोन्मनीम् ॥ ३९ ॥
अष्ट विद्येश्वरोपेतं गन्धाद्यैरुपाचारकैः ।
पञ्चाङ्ग भूषणोपेतो यावत् कृत्यं समाप्यते ॥ ४० ॥
अन्ते विसर्जनं कुर्यात् शान्ति होमं समाचरेत् ।
आदावन्ते च वा होमं प्रत्यहं होममेव वा ॥ ४१ ॥
तत्र सम्प्रोक्षणं नेष्टं तदर्धं होममेव वा ।
लिङ्गाग्रे स्थण्डिलं तत्र कुम्भसंस्थापणं नुहि ॥ ४२ ॥
कुम्भेत्वावाहनं तस्मात् कुम्भमन्त्रान्निवेशयेत् ।
नेष्यते स्नपनं हित्वा जीर्णोद्धार विधौ द्विजाः ॥ ४३ ॥
तत्कुम्भोदैरपि स्नानं केवलं प्रोक्षणं तु वा ।
क्रियान्ते स्नपनं कुर्यात् विशेषेणार्चयेच्छिवम् ॥ ४४ ॥
एष एव विधिः प्रोक्तो बन्धविश्लेष कर्मणि ।
स्थल कर्मणि विश्लेष सुधाकर्म विहीनके ॥ ४५ ॥
क्षणमात्रे च निर्वृत्य कर्मण्यत्र न पूजनम् ।
होमाद्यमपि नेष्टं स्यात् कर्तुं लिङ्गं समर्चयेत् ॥ ४६ ॥
गन्धाद्यरुपचारैश्च शान्ति होमन्तु वा नयेत् ।
मूर्तिहोमं दिशाहोमं तत् कर्म गुरुलाघवम् ॥ ४७ ॥
पीठस्थलोप कॢप्तौ चेत् स्नपनं देव पीठयोः ।
तयोरभ्यन्तर स्यापि दार्ड्य शैथिल्य कारणात् ॥ ४८ ॥
शुद्धिं वस्त्रादिना कृत्वा यथा निर्माल्य शोधनम् ।
अस्त्राम्बु प्रोक्षणं तत्र स्नपनार्थं द्विजोत्तमाः ॥ ४९ ॥
बहु दैवसिकं स्नानं (भङ्गश्चेत्) स्नपनं महत् ।
महाहविस्तथा प्रोक्तं राज्ञोराष्ट्रस्य शान्तये ॥ ५० ॥
ग्रामस्थान जनानाञ्च तत्स्थान वासिनाम् ।
कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ॥ ५१ ॥
प्रासादे पतिते भिन्ने त्वेत देवं समीरितम् ।
स्वायम्भुवादि लिङ्गाना मेतत् सामान्यमीरितम् ॥ ५२ ॥
शिल्प्यपेक्षमिदं कर्म कुर्यात्सम्प्रोक्षणान्वितम् ।
अन्यत् सर्व समानं स्यात् कर्मसामान्यलिङ्गकः ॥ ५३ ॥
स्वायम्भुवादि लिङ्गानां नेष्यतां मनु सङ्करः ।
अनेनैव प्रकारेण स्थापनं रत्नजे मतम् ॥ ५४ ॥
स्वर्णादि लोहजेवापि तत् सम्भूतेति कीर्तितः ।
चलेवाप्यचलेवापि स्थापनञ्चैत दीरितम् ॥ ५५ ॥
चलञ्च द्विविधं प्रोक्तम् अङ्गं प्राधानिकं त्विति ।
चित्रादि प्रतिमादीनां पूजार्थं तत्तदग्रके ॥ ५६ ॥
पूजितं त्वङ्गमित्युक्त मन्यत् प्राधानिकम्मतम् ।
अङ्गिनश्च यथा पूजा यत्काले शास्त्र चोदिता ॥ ५७ ॥
नित्योत्सवादि संयुक्ता तथा तस्य क्रिया भवेत् ।
अन्यत्र शुद्धनृत्तं च तद्वन्नित्योत्सवादिकम् ॥ ५८ ॥
त्यक्त्वान्यत् प्राग्वदुद्दिष्टमात्मार्थे तद्विशिष्यते ! ॥ ५८१।२ ॥

इति उत्तरमामिकाख्ये महातन्त्रे बाणलिङ्गप्रतिष्ठाविधिः
षट्त्रि।शत्तमः पटलः ॥

३७। सप्तत्रिंशत्तमे पटले काम्यलिङ्ग प्रतिष्ठा विधिः

काम्यलिङ्ग प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकाम् ।
काम्यानि सिद्धयो ज्ञेयाः सिद्धयो बहुधा स्मृताः ॥ १ ॥
कन्यसं मध्यमं ज्येष्ठं चेति चतुर्विधम् ।
प्रत्येकं त्रिविधं प्रोक्त मुत्तमादि विभेदतः ॥ २ ॥
फलं दृष्टमदृष्टं च द्विधं तत्परापरम् ।
कन्यसं भूपतीशत्वं मध्यमं बलसिद्धयः ॥ ३ ॥
उत्तमं खेचरत्वं च श्रेष्ठं देव समानता ।
भिद्यते बहुधैकैकं विद्येशत्वादि भदतः ॥ ४ ॥
विद्येशत्वं च रुद्रत्वं ब्रह्मत्वं वैष्णवम् पदम् ।
इत्येवमादिदैवत्वं श्रेष्ठमित्युच्यते बुधैः ॥ ५ ॥
सिद्ध्यश्चाणिमाद्याश्च चक्रवर्ति त्वमेव च ।
इत्येवमादिकं श्रेष्ठं सिद्धीनां मुनिपुङ्गवाः ॥ ६ ॥
गुलिकाञ्चन पाताल खङ्गघण्डादि मध्यम् ।
अपमृत्युजयोच्चाय वश्याद्य मधमं मतम् ॥ ७ ॥
दृष्टत्वे तदनेनैव यद्देहेनोप भुज्यते ।
देहान्तरेण वा दृष्टं मायाकार्ये परत्र च ॥ ८ ॥
मायाकार्येऽमरेशादि रुद्रस्थाने तु यत्सुखम् ।
अपरं तत्परं विद्यादनन्तादि पतट्स्थितिः ॥ ९ ॥
न सिद्धिर्न च मुक्तिश्च लिङ्गाश्रयणमन्तरा ।
शिवलिङ्ग मनादृत्य सिद्धि मुक्तयभिलाषिणाः ॥ १० ॥
एते मूढाधियस्तीर्णाः किं भीमं भव सागरम् ।
भवाभीष्ट फलं प्राप्ताः सिद्धिसिद्धाः सुराः मताः ॥ ११ ॥
रत्नलिङ्ग जपा मूढाः का युक्ति र्भ्रान्तः चेतसः ।
तस्मालिङ्गाश्रयात्सिद्धर्युक्त लिङ्गसमाश्रयेत् ॥ १२ ॥
विष्ण्वाद्या वसवो रुद्राः मुनयश्च महौजसः ।
विधिवल्लिङ्गमाराध्य फलमिष्टतमं गताः ॥ १३ ॥
स्वायम्भुवं स्थापितं वा मुनिभिर्विबुधैर्गणैः ।
सिद्धैर्विद्याधराद्यैश्च न मानुष्यैः कदाचन ॥ १४ ॥
स्वयं वा स्थापयित्वा तु सर्वलक्षण संयुतम् ।
यथा शास्त्रं यथा कालं यथा देशं परीक्ष्य च ॥ १५ ॥
तत्र संसाधयेत् सिद्धि माचार्यस्साधकोऽपि वा ।
स्वयम्न कर्तु मशक्तानां वृपतीनां हिताय च ॥ १६ ॥
देशिकस्साधयेत् सिद्धिं चतुर्णां वा हिताय च ।
स्वस्य वान्यस्य वाकर्तुर्हितकृद्बद्देशिकोत्तमः ॥ १७ ॥
लिङ्गार्थमाकरं यायात् स्वस्य कृत्यानु सारतः ।
शिलादि द्रव्यमादाय नयेत् कर्मानुरूपतः ॥ १८ ॥
तानि द्रव्याणि बगुधा शिलामृल्लोह दारुभिः ।
रत्नक्षणिक वस्तूनि कथ्यन्ते तान्यशेषतः ॥ १९ ॥
श्वेता रक्ता च पीता च कृष्णा चेति चतुर्विधा ।
चतुर्णामपि वर्णानां शिला धात्री च सम्मता ॥ २० ॥
एताश्चतस्त्रो विप्रस्य तिस्त्रो राज्ञामुभे विशः ।
एका शूद्रस्य नियमाच्छिला भूम्यश्च कीर्तिताः ॥ २१ ॥
तत्तद्भूजनिता एव मृदो लिङ्गार्थमीरिताः ।
फलं लिङ्गानूरूपेण शिलानां समुदाहृतम् ॥ २२ ॥
पृथ्वीशत्वं फलं ज्ञेयं चतसृणां मृदामपि ।
श्री कामस्य सुवर्णोत्थ राज्यकामस्य राजतम् ॥ २३ ॥
आयसं मारणे लिङ्गमुन्मादे सांस्यजं भवेत् ।
उत्सादे रीतिजं ज्ञेयं त्रपुजं पुत्र वृद्धये ॥ २४ ॥
वृद्धिकामस्य ताम्रोत्थं सीसजं व्याधिनाशनम् ।
लोहलिङ्गं समाख्यातं रत्नलिङ्ग मथोच्यते ॥ २५ ॥
वज्रलिङ्गं क्षितीशत्वे मौक्तमारोग्यदं भवेत् ।
इन्द्र नीलमयाल्लिङ्गात् सर्वान् कामान् समश्रुते ॥ २६ ॥
महान्नीलमयाल्लिङ्गात् वैणवं पदमाप्नुयात् ।
वडूर्याद् व्याधिनाशः स्यात् सौभाग्यं पुष्परागजान् ॥ २७ ॥
आरोग्यतं मरकतं प्रवालं च वशीकरम् ।
राजावर्तमयाल्लिङ्गात् महाभोगं समश्रुते ॥ २८ ॥
नैलं नागेन्द्र भोगाय शङ्खं सौभाग्यदं भवेत् ।
शूलाक्ष मणिजं शत्रु क्षयाय पुलकं तथा ॥ २९ ॥
सस्यकं सस्य निष्पत्यै सौरार्थं सूर्यकान्तजम् ।
चन्द्रकान्तं मृत्युजिते भूतिदं पद्मरागजम् ॥ ३० ॥
स्फाटिकं सर्वसिद्ध्यर्थं भौमजं दिव्यसिद्धये ।
वैक्रान्तकं महावृत्तरक्तायथस्कान्दजं हितम् ॥ ३१ ॥
क्षुद्रसिद्धियुतं मन्त्रजाति संस्कार संस्कृतम् ।
गुणादष्टफल प्रोक्तं परासु मणिजातिषु ॥ ३२ ॥
इत्थं रत्नजमाख्यातं दारुजं कथ्यतेऽधुना ।
सारवद् वृक्षजं भूत्यै क्षीरद्रुमजमायुषे ॥ ३३ ॥
साधुर्यगन्ध गुणवज्ज्ञान सौभाग्य कीर्तिदम् ।
रक्ताह्वचन्दनाशोकं शिंशुपाशोक बिल्वजम् ॥ ३४ ॥
सर्वदुःखादि राहित्ये पिशाचज मरिच्छिदे ।
यद्वा साधक नक्षत्र वशाल्लिङ्ग तु दारुजम् ॥ ३५ ॥
कारस्करं चामलकन्तथोदुम्बर जम्बुकौ ।
खदिरः कृष्णककुभौ शिरीषाश्वत्थकौ ततः ॥ ३६ ॥
पुन्नागश्चैव न्यग्रोधः पलाशः प्लक्षकस्तथा ।
अम्बष्ट बिल्वार्जुन काश्शाल्मली वकुलस्तथा ॥ ३७ ॥
पिण्डी सर्जस्तथा वृक्षो वञ्जुलः पनसस्तथा ।
आम्रार्कौ च कदम्बश्च वह्नि निम्बौ तथैव च ॥ ३८ ॥
मधूकश्चाश्विनी पूर्वनक्षत्राणां तु पादपाः ।
एभि-ऋक्षैरभिरुद्धैस्तरुभिश्शान्तिकादिकम् ॥ ३९ ॥
विधाय लिङ्गं कर्तव्यं साध्यर्क्षे मारणादिकम् ।
श्वेतार्कमूलजं लिङ्गं जयार्थं विजयार्थिनाम् ॥ ४० ॥
चन्दनं सर्ववश्यं स्याच्छ्रीकरं रक्तचन्दनम् ।
सरलं सर्वकाम्यार्थं खदिरं रोगनाशनम् ॥ ४१ ॥
साप्तपर्णं च सालोत्थं राजादन समुद्भवम् ।
विशेषात् सर्व वर्णानां सर्वकामार्थ साधनम् ॥ ४२ ॥
उदुम्बर मयं पुष्ट्यै शान्त्यै न्यग्रोध सम्भवम् ।
वश्यायाश्वत्थजं लिङ्गम् आरोग्ये खादिरं भवेत् ॥ ४३ ॥
लिङ्गं वैभीतकं शत्रूच्चाटनार्थं द्विजोत्तमाः ।
दारुजं लिङ्गमाख्यातं क्षणिकं लिङ्गमुच्यते ॥ ४४ ॥
सङ्केतं मोक्षभूत्यर्थं गोमयं रोगनाशनम् ।
अन्नमन्नाद्य कामस्य पैष्टं पुष्टि प्रदायकम् ॥ ४५ ॥
गौलं प्रीतिकरं प्रोक्तं फलमिष्टार्थ सिद्धये ।
घृतेन कल्पितं लिङ्गं ह्लाद दृद्दुःखिनामपि ॥ ४६ ॥
ह्लाद कृन्नवनीतं च गुणाढ्यं मृण्मयं भवेत् ।
विशेषाद्भस्मजं लिङ्गं सर्वव्याधि निवारणम् ॥ ४७ ॥
स्वस्ववर्णानुरूपेण पौष्पं पुष्टिप्रदायकम् ।
बिल्वादि पत्रजं लिङ्गं यत्तत्पुत्र विवर्धनम् ॥ ४८ ॥
तद्बीज जनितं लिङ्गं विशेषात् तृप्तिकारणम् ।
धान्य तण्डुलजं लिङ्गं तत्तद्द्रव्य फलप्रदम् ॥ ४९ ॥
कन्दमूलमयं लिङ्गं ब्रह्मतत्वस्य कारणम् ।
रोगहृत् साक्तवं लिङ्गं तथा लाज विनिर्मितम् ॥ ५० ॥
जलेन रचितं लिङ्गं प्राणिनां शान्तिपुष्टितम् ।
लिङ्गं यच्चित्रितं सद्यो विचित्रफल दायकम् ॥ ५१ ॥
कर्पूर चन्दनाद्यैस्तु लिङ्गं यत्तज्जरापहत् ।
द्रव्याणि कथितान्येवं लक्षणं च विधीयते ॥ ५२ ॥
प्रासाद गर्भमानेन लिङ्गं ज्येष्ठादि भेदतः ।
मुख्य तस्सिद्धये प्रोक्तं मुक्त्यर्थ मनुषङ्गतः ॥ ५३ ॥
हस्तादि लिङ्गमानानि यानि तानि विमुक्तये ।
भुक्तये चानु षड्गेण भवन्ति विधियोगतः ॥ ५४ ॥
गर्भार्धमधमं ज्ञेयं पञ्चत्र्यंशं वरं भवेत् ।
तदन्तरेऽष्टभागे तु नव लिङ्गानि सन्ति हि ॥ ५५ ॥
तस्मात्तस्माद् अधस्तात्तु त्रीणि भवन्ति हि ।
षट्त्रिंशन्मान मुद्दिष्टं गर्भमानं द्विजोत्तमाः ॥ ५६ ॥
प्रासादे वा ततो वह्नि वेदग्रह विभाजिते ।
द्वारिवांशं परित्यज्य सपीठाश्रा विशेषतः ॥ ५७ ॥
पूर्ववच्च प्रमाणानि लिङ्गानां विहितानि तु ।
एकाङ्गुलं समारभ्य साङ्गुलाङ्गुलवृद्धितः ॥ ५८ ॥
अष्टोत्तर शतान्तं तु त्रिविद्धाङ्गुलमानतः ।
एकहस्तं समारभ्य षडङ्गुलविवृद्धितः ॥ ५९ ॥
नव हस्त प्रमाणान्तं हस्तमान वशान्नयेत् ।
हस्तादधः स्थितं शैलं प्रासादेषु न शस्यते ॥ ६० ॥
पादोनं दारुजं लोहमस्यार्धेनैव सम्मतम् ।
अङ्गुलादि वितस्त्यन्तं रत्नलिङ्गं द्विजोत्तमाः ॥ ६१ ॥
आयादि शुभसंयुक्तं नयेत् कर्मानु रूपतः ।
हस्तादध स्थितं शैलं योज्य मुच्चाट नादिषु ॥ ६२ ॥
लिङ्गायामैक भागे तु वेद भागेन विस्तरः ।
खण्डत्रयं समं कुर्यात् सिद्धि लिङ्गेषु सर्वसु ॥ ६३ ॥
चतुरश्रं तथाष्टाश्रं कूर्चा वृत्त शिरोवहम् ।
अर्धचन्द्र शिरोयुक्तं स्थापयेदैन्द्र पीठके ॥ ६४ ॥
पूर्वदिक्स्वेष्टसिद्ध्यर्थं लिङ्गं वज्रशिरो यथा ।
वज्रकार्यं समायोज्य स्तम्भादि परिकीर्तितम् ॥ ६५ ॥
लिङ्गोर्ध्वे रुद्रभागे तु शरांशैश्चतुरश्रकम् ।
वस्वश्रं पूर्ववत् वृत्ते सप्ताश्रं स्वां दिशं विना ॥ ६६ ॥
आग्नेय पीठे तल्लिङ्गं वह्निदिक् स्वाम्यसिद्धये ।
लिङ्गं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके ॥ ६७ ॥
शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः ।
तापदाहं रिपोः कुर्याल्लिङ्गमाग्नेयकं द्विजाः ॥ ६८ ॥
नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः ।
प्रधान भुजयोर्याम्यं वृतमग्निच्युतिः क्रमात् ॥ ६९ ॥
याम्यदिक् स्वाम्यसिद्ध्यर्थं स्थापयेद्याम्यपीठके ।
लिङ्गं दण्डशिरोयुक्तं स्थापयेद्विधिनामतम् ॥ ७० ॥
गुरुदण्डं तु याम्याया मायुर्वृद्धिं च पौरुषम् ।
रिपोर्देशे स्थितं नाशं नगरद्दक्षिणे ततः ॥ ७१ ॥
मारीं च भेदनं रोगं विधत्ते नात्र संशयः ।
दैर्ध्याद्वाविंशदंशे तु शरांशैच्चतुरश्रकम् ॥ ७२ ॥
अष्टाश्रं पूर्ववद्वृत्तं दशाश्र सहितं द्विजाः ।
स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये ॥ ७३ ॥
खड्वाङ्गं पिण्डिकायां तु स्थापयेदसि मस्तकम् ।
अरातिक्षयविद्वेषं कीलभेदेन मोहनम् ॥ ७४ ॥
तत्सैन्यध्वंसमुन्मादं रक्षोमारी प्रवर्तनम् ।
कुरुते नात्र सन्देहो विधिवन्मन्त्र संयुतम् ॥ ७५ ॥
उत्सेधे मनुभागे तु वेदाश्रं ब्रह्मभागकम् ।
चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दु मस्तकम् ॥ ७६ ॥
वारुण्यां स्थापयित्वा तु तद्दिगीशत्वमाप्नुयात् ।
पाशमस्तक युक्तं तत् पाशकाय विधानतः ॥ ७७ ॥
प्रतिष्ठाप्य परां शान्तिं पुष्टिं श्री वृद्धि सष्टवम् ।
व्याधिहानिं च सौभाग्यमाप्नुयान्नात्र संशयः ॥ ७८ ॥
गायत्र्यंशे भवेद्दैश्वर्यं सप्तभागं तु विस्तरे ।
नवभक्ते त्रिभिर्भक्ते मध्ये षड् रस वृद्धये ॥ ७९ ॥
तदूर्ध्वे तु भवेद्वृत्तं रुद्रांशे त्रापुषं शिरः ।
वायव्यां तु प्रतिष्ठाप्य वायु दिक् स्वाम्य
माप्नुयात् ॥ ८० ॥
लिङ्गं ध्वजशिरोयुक्तं ध्वजाङ्कायां न्यसेद्गुरुः ।
तेन लिङ्गेन मन्त्रज्ञः प्रोच्चाटोद्वेग विभ्रमान् ॥ ८१ ॥
भृशं शोषवियोगौ च शत्रोः कुर्यान्नसंशयः ।
पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्वशिरोऽन्वितम् ॥ ८२ ॥
यक्षाख्यायां प्रतिष्थाप्ययक्षदिक् स्वाम्य माप्नुयात् ।
गदा मस्तक लिङ्गं तु गदाङ्के स्थाप्य देशिकः ॥ ८३ ॥
जाम्बूनद सुख प्राप्तिमतीव बलदं मतम् ।
जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि ॥ ८४ ॥
लभते नात्र सन्देहो मन्त्रैस्सान्निध्यमागतम् ।
दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसम्भवम् ॥ ८५ ॥
एका दशांशो विष्णवंशः पार्श्वे रामैस्तु वर्धनात् ।
अष्टाश्रं वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम् ॥ ८६ ॥
कुक्कुटाण्ड शिरोयुक्तं लिङ्गमैशान्य पीठके ।
स्थापयित्वा स्वदिक् साम्यं लिङ्गं शूलशिरोयुतम् ॥ ८७ ॥
शूलाख्यायां तु संस्था पृथीवीशत्वमवाप्नुयात् ।
ज्ञानविज्ञानमोक्षार्थं योगीशत्व प्रदायकयकम् ॥ ८८ ॥
शिवप्रदायकं सौख्यं तद्वत् साम्राज्यसिद्धितम् ।
उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम् ॥ ८९ ॥
वस्वश्रं पूर्ववद्वृत्तं लिङ्गं छत्रशिरोयुतम् ।
ब्राह्यां स्थापयित्वा तु स्वदिगीशत्वमाप्नुयात् ॥ ९० ॥
तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्टितम् ।
खचरी शत्वमाप्नोति साम्राज्य फलसाधन् ॥ ९१ ॥
गायग्र्यंशे तु लिङ्गोच्चे शरांशैश्चतुरश्रकम् ।
पूर्ववन्मध्य वृत्ते तु मस्तकं त्रपुषोपमम् ॥ ९२ ॥
संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यपलं भवेत् ।
चक्रमस्तक संयुक्तं चक्राङ्कायां तु देशिकः ॥ ९३ ॥
व्यस्त्वा पाताल सिद्धिं च रसायनमवाप्नुयात् ।
लिङ्गायामे नवांशे तु ब्रह्मांशो गुणभागतः ॥ ९४ ॥
तथा विष्णु हरश्चापि विस्ताराच्च तथैव ते ।
सिद्धिलिङ्गमिदं श्रेष्ठं विच्छायादिषपिण्डिकम् ॥ ९५ ॥
आप्यादि देवलिङ्गेषु लोकपालार्चितेषु वा ।
सहस्र लिङ्गं कर्तव्यं तच्च प्रागुक्त वन्नयेत् ॥ ९६ ॥
सर्वान् कामान्ददात्येतद्वागीशी कृतलक्षणम् ।
अर्चांशे वेदभागे तु नाहे नक्षत्र भाजिते ॥ ९७ ॥
अष्टोत्तरशतं लिङ्गं सूत्रैर्विषययोजितैः ।
आढ्यादि लिङ्गान्युत्सेधैः समखण्डानि कल्पयेत् ॥ ९८ ॥
छत्रकुक्कुटखण्डेन्दु त्रपुषाभ शिरांसि हि ।
धारालिङ्गं तथैकाश्रं द्वित्र्यंशादिकं द्विजाः ॥ ९९ ॥
साध्यसिद्धिस्सुतावाप्तिः पुराप्तिः काम्यलाभता ।
मृतिरुच्चाटन दूषशान्ती पुष्टिर्वशी कृतिः ॥ १०० ॥
आकर्षारोग्य रागाश्च शोषणं च धनम् सुखम् ।
मोहस्तं भाभिधाताभ यक्षा पैशाचराक्षसैः ॥ १०१ ॥
आसुरं पौरुषं चैव सादेशैशान भैरवम् ।
देवत्वं देवराजत्वं सर्वकामफलं च यत् ॥ १०२ ॥
रुद्रत्वं च फलान्येषु लिङ्गेष्वेकाश्रकादिषु ।
एवमेव हि पीठानि कल्प्यान्यश्च विभेदतः ॥ १०३ ॥
लिङ्गानां लक्षणं ख्यातं विविच्यन्ते शिरांसु च ।
अष्टांशे तु चतुर्भक्ते भाग भाग विवर्धनाअत् ॥ १०४ ॥
भवन्ति पुण्डरीकादि शिरांसि फलभेदः ।
पुण्डरीकाद्यशो दीप्तिर्विशाले विपुलां श्रियम् ॥ १०५ ॥
प्राप्नोति सर्वं श्रीवत्साद्विजयं शत्रुमर्दनात् ।
कुक्कुटाण्ड शिरस्तस्य चतुर्थाम्श विवर्धनात् ॥ १०६ ॥
प्रजावृद्धिकरं यस्मात् प्रजां लेभे प्रजापतिः ।
तत् त्रिभागैक भागेन वर्तनादिषु मस्तकम् ॥ १०७ ॥
सप्तलोक पतित्वं च सौभाग्यायुष्य सिद्धिदम् ।
षड्भाग वर्धनाद् भूति निमित्तं त्रपुषाकृतिः ॥ १०८ ॥
साध्याश्च ऋषयो देवा यस्माद्भूतिं परां गताः ।
साधारण विधावेतान्यर्चयित्वा नरोत्तमाः ॥ १०९ ॥
प्राप्तःस्वं स्वमभिप्रेतं तदन्तेपद मव्ययम् ।
छत्राद्विशीर्ष मालोक्यं वज्त्रादीनां निगद्यते ॥ ११० ॥
अर्चनांशे वेदभागे वज्रभागे तु वर्तितम् ।
त्रिभागवर्तनाच्छक्तिरर्चांशे रुद्रभाजिते ॥ १११ ॥
दिक्विभक्ते त्रिभिर्दण्डं सार्धांशेन स्वरांशकम् ।
खड्गमस्तकमाख्यात मष्टांशे सार्धवर्धनात् ॥ ११२ ॥
पाशध्वजं शरांशेतु सपादांशाद् गदाशिरः ।
ग्राहांशे सार्धभागेन शूलमूर्ध्नि त्रिरुन्नतम् ॥ ११३ ॥
वसुनन्दांशके भागवर्तनाच्चक्रपङ्कजे ।
शिरोलक्षण माख्यातं लक्षणोद्धार उच्यते ॥ ११४ ॥
अर्चांशे नवधा भक्ते गुणांशे लक्ष्म लक्षयेत् ।
लक्ष्मार्धात् पक्षरेखे द्वे तस्याग्रे गजचक्षुषी ॥ ११५ ॥
कुर्याद्दिक् साम्यसिद्ध्यर्थं वज्राद्यं लक्ष्म मूर्धनि ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा ॥ ११६ ॥
गदा त्रिशूलं चक्रं च पद्मं चेदि दशायुधम् ।
ब्रह्मविष्ण्वादि देवानां पदमिच्छन् द्विजोत्तमाः ॥ ११७ ॥
तदस्त्राङ्कित पीठं च तदस्त्राङ्कितलक्ष्मतः ।
लिङ्गाशे नवधा भक्ते नवाम्श कृत लक्ष्मकम् ॥ ११८ ॥
स्थापितं शत्रुदेशे तु नाशनं स्वस्य तस्य च ।
द्वितीयाच्चक्षुषोर्वेधादक्षिरोगादिकं मृतिः ॥ ११९ ॥
तृतीयादास्य सूत्राच्च पङ्गुत्वं मरणं ध्रुवम् ।
ग्रीवासूत्राच्चतुर्थाच्च शत्रुबन्धविनाशनम् ॥ १२० ॥
पञ्चमाद्भूतवेधाच्च भवेच्छत्रो पराजयः ।
षष्टांशात्तु तथा वेधात् पुत्रपत्नी विनाशकम् ॥ १२१ ॥
हृद्देशे हृद्भवा शूला कुक्ष्यार्तिः कुक्षि वेदनात् ।
नाभिदेशे तु शत्रूणां भवेत्सर्वात्मकं भयम् ॥ १२२ ॥
अर्चाया नवमांशे तु लक्ष्मसूत्रफलं क्रमात् ।
कथितं हि तथापीह त्रिभागे रसभागके ॥ १२३ ॥
यवस्य तु तुरीयांशं ह्रासयेद्द्वर्धयेत् क्रमात् ।
वेध दोष निवृत्यर्थम् एवं लक्ष्म प्रकल्पयेत् ॥ १२४ ॥
गायत्र्यंशे तु लिङ्गोच्चे लक्ष्मविस्तृतिरंशतः ।
शिरसो वर्तनं यद्वत्तल्लक्षण शिखा भवेत् ॥ १२५ ॥
तदैन्द्रे वज्रसंस्थानं तीक्ष्णाग्रं कुशमध्यकम् ।
शक्त्याख्यमर्थ विष्कम्भ युतमुन्नत मस्तकम् ॥ १२६ ॥
याम्य दण्डाग्र संस्थानं पाशाग्रट्टङ्क पूजितम् ।
नैश्चाचरे सजिह्वाग्रं कौबेरे तु गदाश्रकम् ॥ १२७ ॥
शूलाश्रमैश्वरं लिङ्गं वायव्यां ध्वजमस्तकम् ।
सामान्येषु निजाकारं लक्षणं स्वार्थ साधनम् ॥ १२८ ॥
लक्ष्ममध्येऽथवा कुर्यात् वज्राद्यायुधकल्पनम् ।
स्तम्भनादौ तु कर्तव्यं लोकपालार्चितं द्विजाः ॥ १२९ ॥
अर्चायामे नवांशे तु सप्तमे वास्त्रकल्पनम् ।
मणि मुक्ता प्रवालानां न कार्यम मलार्चिणाम् ॥ १३० ॥
स्वतेजोलक्षणं लोहे बाणलिङ्गे तथैव च ।
लक्षणैर्हीन मप्येतद्विस्तारायामनाहजैः ॥ १३१ ॥
शुभलक्षण लक्ष्मं चेत् लिङ्ग सर्वार्थ सिद्धिदम् ।
पीठपिण्डिकयोर्वक्ष्ये लक्षणं विप्रसत्तामाः ॥ १३२ ॥
लिङ्गायामसमं पीठं विष्ण्वंशोत्सेध संयुतम् ।
ऐन्द्रमाग्नेयकं याम्यं राक्षसं वारुणं ततः ॥ १३३ ॥
वायव्यं याक्षमैशान्यं ब्राह्मं गारुडमेव च ।
प्रोक्तानि पीठमानानि त्रिपादाः पिण्डिका मताः ॥ १३४ ॥
ऐन्द्रयादि सञ्ज्ञिकास्तास्युः वक्ष्ये पीठाकृतिं ततः ।
वेदाश्रं योनिखण्डेन्दुत्र्यश्रं वृत्त षडश्रकम् ॥ १३५ ॥
पद्ममष्टाश्रकं वृत्तं कुण्ड लक्षणतो नयेत् ।
वेदाश्रेऽष्टादशांशे तु भागत्यागात्सनन्ततः ॥ १३६ ॥
निर्गमं द्विगुणं दिक्षु क्षेत्रार्धेन प्रविस्तरम् ।
सभद्रं गारुडं पीठं वक्ष्ये तेषां तु भूषणम् ॥ १३७ ॥
ऐन्द्रं केवल वेदाश्रं पादकण्ठादि वर्जितम् ।
योनिश्चेद्रसभागे तु भवेदेकैकशः क्रमात् ॥ १३८ ॥
पाज्जगती कर्णिका कण्ठनिर्गमात् पट्टिकाद्वयम् ।
पीठमाग्नेयकं प्रोक्तं पिण्डिका षोडशांशतः ॥ १३९ ॥
तदुत्सेधे ग्रहांशे तु चन्द्रनैत्रैक वह्निभिः ।
पाज्जती कर्णिका कण्ठं तदूर्ध्वे पट्टिकाद्वयम् ॥ १४० ॥
याम्यमेवं समाख्यातं तदूर्ध्वे याम्यपिण्डिका ।
राक्षसे समाख्यातं भक्ते एकद्वित्र्यंशकैः क्रमात् ॥ १४१ ॥
पाज्जगती कर्णिका कण्ठं राक्षसे पट्टिकाद्वयम् ।
तदूर्ध्वे राक्षसी पिण्डी वारुणे रुद्रभाजिते ॥ १४२ ॥
चन्द्रयुग्मैकरूपैश्च त्रिभिः पाज्जगती धटम् ।
कर्णिका कण्ठ एव स्यान्निर्गमात्पट्टिकाद्वयम् ॥ १४३ ॥
तदूर्ध्वे वारुणी पिण्डि वायव्ये विश्वभाजिते ।
इन्दुतेजोऽङ्घ्र रूपाक्षि रूपयुग्मेन्दुभागकैः ॥ १४४ ॥
पाज्जगती कुम्भवेत्रास्युः कण्ठश्चैकैक वेशतः ।
निर्गमता पट्टिकास्त्स्त्रस्तदूर्ध्वे वायवी स्मृता ॥ १४५ ॥
आप्यालङ्कार वद्याक्षं जङ्घाकर्णिकयोः क्रमात् ।
षोडशद्वादश दलात् कण्ठादूर्ध्वे विपर्ययात् ॥ १४६ ॥
तद्दलाष्टसमोपेतां तदूर्ध्वे पिण्डिकां नयेत् ।
ऐश रुद्रांशकं कृत्वा रूपरामैक रामकैः ॥ १४७ ॥
चन्द्रनेत्रांशकैश्चैव पाज्जतगती कर्णिका गलम् ।
तदूर्ध्वे पिण्डिका ब्राह्मी गारुडं वा तथैव च ॥ १४८ ॥
संस्थान वर्तनाकारैः वा राक्षसं मतम् ।
तदूर्ध्वे पट्टिके द्वे तु पिण्डीं चैशीं तदूर्ध्वतः ॥ १४९ ॥
पङ्क्तयंशे रूप नेत्रैक गुणैः पात्कुम्भकार्णिकाः ।
कण्ठं चैकेन भागाभ्यां निर्गमा त्पट्टिके ततः ॥ १५० ॥
तदूर्ध्वे वैष्णवी वक्ष्ये पिण्डिकालक्षणं द्विजाः ।
आग्नेयी वैष्णवी चैन्द्री पिण्डिका द्विमेखला ॥ १५१ ॥
याम्या च राक्षसी याक्षी चैशी ब्राह्मी त्रिमेखला ।
षण्मेखला च वायव्या वारुणी पञ्चमेखला ॥ १५२ ॥
विष्ण्वम्श षोडशोत्सेधः पुण्डिकापीठविस्तरः ।
शेषः पीठोच्चमानं स्यात् खातबाह्ये तु मेखला ॥ १५३ ॥
वज्रं वज्राङ्कपीठं स्यात् वज्री वज्राङ्ग पीठिका ।
पीठं सहस्रलिङ्गस्य सालङ्कारयुगाश्रयुक् ॥ १५४ ॥
आश्मेऽश्मसम्भवा पिण्डी पार्थिवे पार्थिवी तथा ।
दारुजे दारुजा पिण्डी धातुजे धातु सम्भवा ॥ १५५ ॥
रत्नजे रत्नजा श्रेष्ठा श्रेष्ठैलोहैश्च वा भवेत् ।
उच्छ्रयं चललिङ्गानां पूजांशाद् द्विगुणं भवेत् ॥ १५६ ॥
लिङ्गायामे भवेत्पिण्डी लिङ्गं च परितो यथा ।
कृशुषु वर्धयेद्द्रुद्रं स्थूललिङ्गेषु ह्रासयेत् ॥ १५७ ॥
ह्रासयेद्वर्धयेदम्श मच्युतस्य हि न च्युतिः ।
पिण्डिकायाः समानार्थं ह्रासयेद्वर्धयेद्द्विजाः ॥ १५८ ॥
चललिङ्गेषु कर्तव्यं रत्नजानां तु तद्भवेत् ।
मुद्गमात्रा पर्वमात्रा पिण्डिका शोभना यथा ॥ १५९ ॥
पिण्डिका सहितोत्सेधं लिङ्गनाहसमं भवेत् ।
सौक्ष्म्ये वैको गुणो येन बलीयान् सर्वदोषजित् ॥ १६० ॥
समस्तमणिजातीनां दीप्तिस्सान्निध्यकारणम् ।
मानोन्मान प्रमाणं च तेषु ग्राह्यं न वा बुधैः ॥ १६१ ॥
साधयेद्दारुजं रत्नं पार्थिवं लोहजं तथा ।
गन्धादि निर्मितं वाथ न च सिद्धौ मनश्शिलाम् ॥ १६२ ॥
मुक्तौ हितं च तल्लिगं बाणं सर्वार्थ सिद्धिदम् ।
अन्यद्वापि भवेल्लिङ्गं नदी प्रस्रवणोद्भवम् ॥ १६३ ॥
लिङ्गाकारं यथा मन्त्रैः स्थापितं वरदं भवेत् ।
हस्तादधस्तु रौद्रेषु द्वाभ्यां पिण्डीति भाजिते ॥ १६४ ॥
रौद्रेषु कृत्येषु यवांशः पिण्डिकाधिकः ।
पिण्डिका हीनमाना या शत्रुहानौ ततोऽधिका ॥ १६५ ॥
उच्चाटादौ विधेयातु व्यङ्गा व्याधिप्रकोपने ।
स्त्रीनाशे लक्षणाद्धीना कार्या कर्मानुरूपतः ॥ १६६ ॥
अव्यक्त मेवमाख्यातं व्यक्ताव्यक्त मथोच्यते ।
समलिङ्गे तु कर्तव्यं चतुरष्टाश्र वृत्तकम् ॥ १६७ ॥
कुर्यात्पूर्वोक्तवक्त्रे तु एकद्वित्रिचतुर्मुखम् ।
पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ॥ १६८ ॥
पूर्वोक्त विधिना कुर्यात् एकत्रिचतुराननम् ।
द्विवक्त्रं पूर्ववत्पूर्वे पश्चिमे कल्पयेत्ततः ॥ १६९ ॥
चर्तुर्णां चैव वक्त्राणामूर्ध्वे कुर्यात्तु पञ्चमम् ।
प्रतिवक्त्रं जटाचूडं चन्द्रार्ध कृत शेखरम् ॥ १७० ॥
प्रतिवक्त्रं त्रिणयनं भुजस्कन्धाद्विकं तु वा ।
भुक्ति मुक्ति प्रसिद्ध्यर्थं यथा शोभं द्विजोत्तमाः ॥ १७१ ॥
भद्रपीठं द्विधा कृत्वा लोहं च सुदृढं नयेत् ।
व्यक्ताव्यक्तमिदं ख्यातं व्यक्तलिङ्गमथोच्यते ॥ १७२ ॥
बद्ध पद्मासनासीनं शुद्धस्फटिक सन्निभम् ।
पञ्चास्यं दशदोर्युक्तं प्रतिवक्त्रं त्रिलोचनम् ॥ १७३ ॥
वक्त्रं प्रति जटाचूडं चन्द्रार्ध कृतशेखरम् ।
देह पञ्चक संयुक्तं चरमद्वय संयुतम् ॥ १७४ ॥
तस्य पूर्वमुखं सुभ्रु सुकपोलं स्मिताधरम् ।
जाम्बूनद प्रतीकाशं कल्पयेत्तु भुजद्वयम् ॥ १७५ ॥
दक्षहस्तेऽक्षसूत्रं तु वामे वै बीजपूरकम् ।
दक्षमञ्जनसङ्काशं भीषणं विवृतास्यकम् ॥ १७६ ॥
व्यालबद्धजटाचूडं कपालदलमण्डितम् ।
तुङ्गाग्रश्मश्रु संयुक्तं शूलधण्डा करद्वयम् ॥ १७७ ॥
उत्तरं वामवक्त्रं तु दाडिमीकुसुमप्रभम् ।
भूषण प्रचुरं वक्त्रं योषाच्छविसमायुतम् ॥ १७८ ॥
दक्षिणोत्पन्न हस्ताढ्यं पश्चिमं रजतप्रभम् ।
बालवेष समायुक्तं पुण्डरीक निभेक्षणाम् ॥ १७९ ॥
वराभय करोपेतं ध्यानासक्तमिव स्थितम् ।
पञ्चमं स्फटिक प्रख्यं प्रशान्तं सस्मिताननम् ॥ १८० ॥
ईशानमूर्ध्व वक्त्रं स्यात् करौ कटकभूषितौ ।
इत्थं वक्त्रसमायुक्तं वक्त्र वर्णानुलेपनम् ॥ १८१ ॥
कलावत्सरदेशीयं दिव्याभरणभूषितम् ।
सर्व कामप्रदं शान्तं द्वात्रिंशल्लक्षणान्वितम् ॥ १८२ ॥
ईशानदेहकरणं कल्पयेद्द्वारसंयुतम् ।
भुक्ति मुक्ति प्रसिद्ध्यर्थं मथकर्मानु रूपतः ॥ १८३ ॥
संस्थान वर्ण दिव्यास्त्र द्वारादीनि प्रकल्पयेत् ।
कुर्यादीशान देहं तु दशतालोत्तमेन तु ॥ १८४ ॥
पुरुष प्रमुखान्देहानीश देहार्धमानतः ।
कुर्यात्तदुर्ध्व कायानि नाधः कायानि देशिकः ॥ १८५ ॥
पूर्वोक्त लक्षणैर्मानैः देहैः पञ्चभिरन्वितम् ।
कुर्यात्सदाशिवं देवं यथा युक्तं यथाशुभम् ॥ १८६ ॥
ध्यायेदेवं विधं वापि ज्ञानरूपं सदाशिवम् ।
कुर्यादूर्ध्वससौम्यास्यं दशबाहुं त्रिलोचनम् ॥ १८७ ॥
जटामकुट संयुक्तं चन्द्रार्धकृतशेखरम् ।
व्याल यज्ञोपवीतं चा शार्दूलवसनान्वितम् ॥ १८८ ॥
नृत्यन्तं सुस्मितं देवं सर्वा भीष्टप्रदायकम् ।
श्री कण्ठमेवमख्यात मन्यथापि च कथ्यते ॥ १८९ ॥
त्र्यक्षं षोडश हस्ताढ्यं पादद्वय समायुतम् ।
जटामकुट संयुक्तं मूर्ध्निधुत्तूरपुष्पकम् ॥ १९० ॥
नानावर्णांवरैर्युक्तं वेणिकादिभिरलङ्कृतम् ।
ऊर्ध्वस्थदक्षपादाढ्यं दिव्यायुध समन्वितम् ॥ १९१ ॥
किञ्चित्सभङ्ग वक्त्राढ्य वामपाद समन्वितम् ।
वृषं ध्जं च खेटं च मुण्डं चाग्निं च झर्झरीम् ॥ १९२ ॥
पिच्छं च गजहस्तं च वामे त्वष्टभुजाः स्मृताः ।
त्रिशूलं नागहस्तं च परशुः पाश एव च ॥ १९३ ॥
गदा च दीपं डमरुहस्तं त्वभयं कृत्ततः ।
नागैराभरणैर्युक्तं कुण्डलाभ्यामलङ्कृतम् ॥ १९४ ॥
सर्वलक्षण संयुक्तं पादनूपुर संयुतम् ।
गौरीं स्कन्दं गृहीत्वा तु वामे पार्श्वे तु संस्थिताम् ॥ १९५ ॥
एव मूर्ध्वाङ्ग नृत्यन्तं त्वन्यथापि निगद्यते ।
नानायुध समोपेत विंशद्धस्तयुतोऽपि वा ॥ १९६ ॥
नाना विधायुधोपेत नवद्वय करोथवा ।
दक्षिणं वामजङ्घान्त मुद्भुतं वामापादकम् ॥ १९७ ॥
कुञ्चितं वामहस्तो वा दक्षिणो वा प्रसारितः ।
इतरोऽभय हस्त स्यात् परौ टङ्कानलान्वितौ ॥ १९८ ॥
टङ्क विहाय शूलं वा डमरुं वापरे करे ।
अग्निं हित्वा मृगोवाथ रुद्रोऽयं काल सञ्ज्ञितः ॥ १९९ ॥
त्र्यक्षश्चतुर्भुजः क्रूर स्सखट्वाङ्गक पालकः ।
वराभय करोपेता रुद्रोयं वाम सञ्ज्ञककः ॥ २०० ॥
एष एव हि खट्वाङ्ग रहित श्शूल संयुतः ।
अघोर रुद्रनामायं भीमो भव विनाशनः ॥ २०१ ॥
त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः ।
अन्योऽपि नक्र संयुक्तो जटामकुट संयुतः ॥ २०२ ॥
धनुर्बाण समोपेता मृगटङ्क समायुतङ्क ।
भूतोत्तमाङ्ग विन्यस्त वामपाददलान्वितः ॥ २०३ ॥
अथवा पादुके पद्मे भक्तानां शेखरेषु वा ।
वामे गौरी समायुक्तश्चन्द्रार्ध कृतशेखरः ॥ २०४ ॥
एष रुद्रो भुजङ्गेश स्सर्वाभीष्टाफलप्रदः ।
त्र्यक्षो द्विभुजश्शान्तो जटाखण्डेन्दुमण्डितः ॥ २०५ ॥
वरदाभय वामतः पार्वतीयुतः ।
आसीनो वा स्थितो वापि वरदानोद्यतः स्वयम् ॥ २०६ ॥
देवी वामोरुसंस्था वा वामबाहूर्ध्व विग्रही ।
तस्यास्तु दक्षिणो बाहुरीश स्कन्ध स्थितोऽथवा ॥ २०७ ॥
तस्या कट्याश्रियो वापि देवोयं सर्वकामदः ।
गौरी गौरीश्वरश्चैव चतुर्भुज समन्वितौ ॥ २०८ ॥
कपालशूल संयुक्तौ वरदाभयसंयुतौ ।
त्रिणेत्रौ वा द्विनेत्रौ वा प्रलम्बित पदान्वितौ ॥ २०९ ॥
प्रणम्रच्छविकत्र्यक्षौ पाद मूलस्य भैरवौ ।
एकस्याश्चतुरास्या वा पञ्चास्या वाथ भैरवाः ॥ २१० ॥
भैरवैरपि हीनो वा पङ्कजोपरि संस्थितौ ।
कालान्तकादि संयुक्तौ भक्तानामथवोपरि ॥ २११ ॥
एष रुद्रस्समाख्यातिस्त्रिशूलः सर्वसिद्धिदः ।
देहार्धान्वित कान्तोऽयं श्रीमान्वृषभवाहनः ॥ २१२ ॥
द्विहस्तौ च चतुर्हस्तौ वरदाभय संयुतौ ।
मृगटङ्कयुतो वाथ ललाटेऽपि सुलोचनः ॥ २१३ ॥
विलोचनो वा दक्षाङ्गस्थितोमादेह एव वा ।
अर्धनारीश्वरो नाम्ना हर्यर्धो हरिणा यदि ॥ २१४ ॥
चतुर्भुजश्चतुर्वक्त्रः त्रिणेत्रश्चन्द्रशेखरः ।
शूल पङ्कज युक्तो वा वरदाभय संयुतः ॥ २१५ ॥
कपालशूल संयुक्तो बद्धपद्मासने स्थितः ।
नीलरुद्र स्समाख्यातो नाम्ना व्याग्रोग्रऽष्टिकः ॥ २१६ ॥
चतुर्भुजस्त्रिणेत्रश्च वरदाभयसंयुतः ।
पिच्छ चामरसंयुक्तो भीमरुद्र स्समीरितः ॥ २१७ ॥
मृगाक्ष मालयोपेतः फलाभयकरोऽपि वा ।
वरदाभय हस्तो वा शान्तरूपः स्मिताननः ॥ २१८ ॥
जटामकुट संयुक्तः स्थानकादि समन्वितः ।
रुद्रोऽयं सर्वशर्वस्स्यात् अभीष्टफलदायकः ॥ २१९ ॥
शर्वरुद्रस्त्रिणेत्रस्तु वरदाभय संयुतः ।
कपाल शूल संयुक्तो बद्धपद्मासनस्थितः ॥ २२० ॥
मृगंशूल समायुक्तश्चतुर्भुज समन्वितः ।
पाशमुण्डधरो वापि टङ्कपाशधरोऽपि वा ॥ २२१ ॥
वरदा संयुक्तः स्थितः पद्मासनोपरी ।
भवरुद्र समाख्यात स्सर्वेषां भव नाशनः ॥ २२२ ॥
कपाल शूल हस्ताश्च रुद्रा एकादश स्मृताः ।
वराभय करोपेता स्सदंष्ट्रा उग्रदृष्टयः ॥ २२३ ॥
अथवा मृगटङ्कायां वराभय करान्विताः ।
उक्षस्थाः त्रिदशाः पद्मस्थिता वा गौरमूर्तयः ॥ २२४ ॥
कपालीशादयो रुद्रास्तत्तद्दिक् पालविग्रहाः ।
उग्रा नानायुधोपेतास्तत्तद्दिक्पालपालकाः ॥ २२५ ॥
तत्तद्दिक्पालढ्या यद्वा रुद्रोक्त विग्रहाः ।
किमत्र बहुनोक्तेन ये देवा रुद्र विग्रहाः ॥ २२६ ॥
यो रुद्राश्शान्त भावाढ्या स्तत्र प्रोक्ता महेश्वराः ।
एवं लक्षणमाख्यातं तेषां स्थापनमुच्यते ॥ २२७ ॥
एतन्नामादि वर्णेन बिन्दु नाद युतेन तु ।
त्रयोदशान्त युक्तेन चतुर्थ्यन्ताख्यया युजा ॥ २२८ ॥
उद्धरेन्मूलमन्त्रं तु ब्रह्माद्यङ्गानु सारतः ।
रुद्राणां रुद्रमूर्तीणां शान्तानामीश्वरो मनुः ॥ २२९ ॥
अथवा तैः पुरैवोक्त विधिनात्रापि कीर्तिताः ।
कालोऽङ्कुरार्पणं रत्नविन्यासो नेत्रमोक्षणम् ॥ २३० ॥
शुद्धि प्रदक्षिणं तोयाधिवासो मण्डपक्रिया ।
तत्रैव कुण्ड सङ्कॢप्तिर्नव पञ्चैक सख्यया ॥ २३१ ॥
तक्षद्वासनं विप्र भोजनं वास्तु होमकम् ।
पुण्याहं वास्तु होमं च बेरशुद्धिरनन्तरम् ॥ २३२ ॥
कौतुकं स्थण्डिलं तस्या शयन स्थपनं तथा ।
कुम्भादीनां सपर्या च नैवेद्यादि निवेदनम् ॥ २३३ ॥
तत्वमूर्त्यादि विन्यास स्तदीशैश्च समन्वितः ।
होमं पलाशसद्बिल्व वटोदुम्बर पिप्पलैः ॥ २३४ ॥
अपामार्ग सदश्वत्थ खादिरैः प्राग्दिगादितः ।
प्रधाने तु पलाशेन घृतेन चरुणातिलैः ॥ २३५ ॥
द्वितीयेऽह्नि ततः पूर्णां दक्षिणादनमेव च ।
मन्त्रन्यासश्च विधिवत् स्नपनं पुष्कलोदनम् ॥ २३६ ॥
उत्सवो योग्य देवानां सामान्यस्थापनोक्तवत् ।
कर्तव्य स्सर्व कर्मापि लिङ्ग संस्थापनं यदि ॥ २३७ ॥
मुखलिङ्गस्य वा विप्राः तदध्यायोक्तमार्गतः ।
कर्तव्यः सर्वकर्मापि विशेषस्तत्र कथ्यते ॥ २३८ ॥
एकान्ता यो मनुस्स्वेष्ट फलस्स्वाण्वन्तमेव वा ।
लिङ्गे विन्यस्य नक्षत्रं स्वेष्ट कर्म समारभेत् ॥ २३९ ॥
स्वायम्भुवादिकं लिङ्गं समाश्रित्य कदाचन ।
कार्यं कर्माभिचाराद्यं न स्याच्चेत् स्वस्य तद्भवेत् ।

इति उत्तरकामिकाखे महातन्त्रे काम्यलिङ्गप्रतिष्ठा विधिः
सप्तत्रिंशत्तमः पटलः ॥

लिङ्गायामैक भागे तु वेद भागेन विस्तरः
खण्डत्रयं समं कुर्यात् सिद्धिलिङ्गेषु सर्वसु
चतुरश्रं तथा अष्टाश्रं कूर्चावृत्त शिरोवहम्
अर्धचन्द्रं शिरोयुक्तं स्थापयेदैन्द्र पीठके
पूर्वदिक्स्वेष्ट सिद्ध्यर्थं लिङ्गं वज्रशिरोयथा
वज्रकायं समायोज्य स्तम्भादि परिकीर्तितम्

लिङ्गोर्ध्वे रुद्रभागे तु शरांशैः चतुरश्रकम्
वस्वश्रं पूर्ववद्वृत्ते समाश्रं स्वां दिशं विना
आग्नेयपीठे तल्लिङ्गं वह्निदिक् स्वाम्यसिद्धये
लिङ्गं शक्ति शिरोपेतं स्थाप्यं शक्त्यङ्ग पिण्डिके
शान्त्युग्रं तु तथा तेजो रिपुनाशो द्विषादयः
तापदाहं रिपो कुर्यात् लिङ्गम् आग्नेयकं द्विजाः

नवांशे पञ्चभिः पूर्वापरे पार्श्वद्वयं त्रिभिः
प्रधान भुजयोः याम्यं वृत्तमग्निव्युतिः क्रमात्
याम्यदिक् स्वाम्ब सिद्ध्यर्थं स्थापयेत् याम्य पीठके
लिङ्गं दण्डशिरो युक्तं स्थापयेद्विधिनामतम्
गुरुदण्डं तु याम्यायाम् आयुर्वृद्धिं च पौरुषम्
रिपोर्देशे स्थितं नाशं नगराद्दक्षिणे ततः
मारीं च भेदनं रोगं विधत्ते नात्र संशयः

दैर्घ्यद्वाविंशदंशे तु शरांशैश्चतुरश्रकम्
अष्टाश्रं पूर्ववत् वृत्तं दशाश्र सहितं द्विजाः
स्थापयेद्राक्षसे पीठे स्वदिक् साधन सिद्धये
खड्वाङ्गं पिण्डिकायां तु स्थापयेत् असिमस्तकम्
अरतिक्षय विद्वेषं कील भेदेन मोहनम्
तत्सैन्य ध्वंसमुन्मादं रक्षो मारी प्रवर्तनम्
कुरुते नात्र सन्देहो विधिवन्मन्त्रसंयुतम्

उत्सेधे मनु भागे तु वेदाश्रं ब्रह्म भागकम्
चतुरश्रं तथाष्टाश्रं वृत्तं बालेन्दुमस्तकम्
वारुण्यां स्थापयित्वा तु तद्दिगीशत्वम् आप्नुयात्
पाशमस्तक युक्तं तत् पाशकाय विधानतः
प्रतिष्ठाप्य परां शान्तिं पुष्टि श्रीवृद्धिसोष्ठवम्
व्याधिहानिञ्च सौभाग्यम् आप्नुयान्नात्रसंशयाः

पूर्वोक्तं वारुणं लिङ्गं याक्षं चोर्ध्व शिरोन्वितम्
यक्षाख्यायां प्रतिष्ठाप्य यक्षदिक् स्वाम्यमाप्नुयात्
गदामस्तक लिङ्गं तु गदाङ्गे स्थाप्यदेशिकः
जाम्बूनदसुखप्राप्तिमतीव बलदं मतम्
जयं धैर्यं तथा राज्य प्राप्तिं च प्रभुतामपि
लभते नात्र सन्देहो मन्त्रैः सान्निध्यमागतम्

उत्सेधे ग्रहभक्ते तु वेदाश्रं तु शरांशकम्
वस्वस्त्रं पूर्ववत् वृत्तं लिङ्गं छत्रशिरोयुतम्
ब्राह्म्यां स्थापयित्वा तु स्वादिगीशत्वमवाप्नुयात्

गायत्र्यंशो भवैद्दैर्घ्य सप्तभागां तु विस्तरे
नवभक्ते त्रिभिभक्तेमध्ये षड्रस वृद्धये ।
तदूर्ध्वेतु भवेद् वृत्तं रुद्रांशे त्रापुषं शिरः ।
वायव्यां तु प्रतिष्ठाप्य वायुदिक् स्वाम्यमाप्नुयात्
लिङ्गं ध्वजशिरोपेतं युक्तं ध्वजाङ्कायां न्यसेद्गुरुः
तेनलिङ्गेन मन्त्रज्ञः प्रोच्चाटोद्वेगविभ्रमान् ।
भृशम् शेषवियोगौ च शत्रोः कुर्यान्नसंशयः ॥

दैर्घ्यार्धं रौद्रवत् कृत्वा रसाङ्गैः पद्मसम्भवम् ।
एकादशांशो विष्ण्वंशः पार्श्वैरामैस्तु वर्धनात्
अष्टाश्र वृत्तकं रौद्रं पार्श्वमध्ये त्रिरुन्नतम्
कुक्कुडाण्ड शिरोयुक्तं लिङ्गमैशाख्य पीठके
स्थापयित्वा स्वादिक् साम्यं लिङ्गं शूलशिरोयुत
शूलाख्यायां तु संस्थाप्य पृथिवीशत्वम् आप्नुयात्
ज्ञानविज्ञान मोक्षार्थं योगीशत्व प्रदायकम्
शिवप्रदायकं सोख्यं तद्वत् साम्राज्यसिद्धिदम्

तदेवाब्जशिरः पद्मं पद्माङ्कायां प्रतिष्ठितम् ।
खेचरीशत्वमाप्नोति साम्राज्य फलसाधनम् ॥

गायत्र्यंशे तु लिङ्गोच्चे शरांशैश्चतुश्रकम् ।
पूर्ववन्मध्य वृत्ते तु मस्तक त्रपुषोपगम् ॥
संस्थाप्य गारुडे पीठे तद्दिक् स्वाम्यफल भवेत् ।
चक्रमस्तकं संयुक्तं चक्राङ्कायां तु देशिकः ॥

त्र्यक्षश्चतुर्भुजः क्रूरस्स खड्वाङ्ग कपालकः ।
वराभय करोपेतः रुद्रोऽयं वाम सञ्ज्ञकः ॥

एष एव हि खड्वाङ्गरहितश्शूलसंयुतः ।
अघोररुद्र नामायं भीमो भयविनाशनः ॥

शर्वरुद्र स्त्रिणेत्रस्तु वरदाभय संयुतः ।
कपालशूल संयुक्तो बद्धपद्मासनस्थितः ॥

मृगशूल समायुक्त श्चतुर्भुजसमन्वितः ।
पाशमुण्डधरो वाऽपि टङ्क पाशधरोऽपिवा ॥
वरदाभयसंयुक्तः स्थितः पद्मासनोपरि
भवरुद्रस्समाख्यातं सर्वेषां भवनाशनः ॥

त्र्यक्षश्चतुर्भुजो दंष्ट्रायुतवक्त्रान्वितश्शुचिः
अन्योऽपि नक्रसंयुक्तो जटामकुट संयुतः
धनुर्बाण समोपेतो मृगटङ्ग समायुतः
भूतोत्तमाङ्ग विन्यस्त वामपादतलान्वितः
वामे गौरी समायुक्तः चन्द्रार्धकृतशेखरः
एषरुद्रो भुजङ्गेशः सर्वाभीष्टफलप्रदः

अव्यक्तमेवं व्याख्यातं व्यक्ताव्यक्तम् अथोच्यते ।
समलिङ्गे तु कर्तव्यं चतुरश्राष्टवृत्तकम् ॥
कुर्यात् पूर्वोक्तवक्त्रेतु एकद्वित्रिचतुर्मुखम् ।
पञ्चमं चैववक्त्राणि चतुर्दिक्षु च मध्यमे ॥
चतुर्णां चैव वक्त्राणाम् उर्ध्वे कुर्यात्तुपञ्चमम् ।
प्रतिवक्त्रं जटाचूडं चन्द्रार्धकृतशेखरम् ॥
प्रतिवक्त्रं त्रिणयनं भुजस्कन्धादिकं तु वा

३८। अष्टत्रिंशत्तमे पटले आर्षलिङ्ग प्रासाद विधिः

लिङ्गानामार्षकाणां तु प्रासाद विधिरुच्यते ।
आर्षकमृषिभिस्सर्वैः कौशिकाद्यैः प्रतिष्ठितम् ॥ १ ॥
स्थूल मूलं स्थूलं मध्यस्थूलं कृशन्तु वा ।
विकांशं वृत्तांशं यत्फलाकारं मानसूत्र
विवर्जितम् ॥ २ ॥
मानुषेतरमित्युक्तमार्षं स्यादधुनाच्यते ।
पूजाम्श द्विगुणं पीठं त्रिगुणं गर्भगेहेकम् ॥ ३ ॥
तदर्धं भित्तिमानं स्यात् तत्समं त्र्यंशमेव वा ।
विस्ताराद् द्विगुणं तच्च त्रिपादाधिकमेव वा ॥ ४ ॥
अर्धाधिकं तु वा सप्तभागाधिक मथापि वा ।
लिङ्ग विस्तारमानेन त्रिगुणं पीठ मुच्यते ॥ ५ ॥
गर्भगेहं ततस्तस्य त्रिभाग द्वयभित्ति युक् ।
प्राग्वदुत्सेध उत्तिष्ट अन्यथापि निगद्यते ॥ ६ ॥
लिङ्ग विस्तार कर्णेन द्विगुणान्तार्ध संयुतम् ।
पीठ विस्तार मानेन सार्धानर्ध विवर्धनात् ॥ ७ ॥
सार्धाद्विगुणपर्यन्तं पीठ विस्तार उच्यते ।
द्विगुणं त्रिगुणं तेन चतुर्गुण मथापि वा ॥ ८ ॥
नालीगृह विशालं स्याद् द्विभागं स्यात् त्रिपादकम् ।
सार्ध द्वयाम्श कैकाम्श समं वा भित्ति विस्तरः ॥ ९ ॥
उदयं प्राग्वदेव स्याद्न्यथा च निगद्यते ।
लिङ्गनाहस्य कर्णेन पीठ विस्तार उच्यते ॥ १० ॥
त्रिगुणं गर्भगेहं स्यात् प्रञ्चांशे त्रयंशमेव वा ।
द्व्यंशे चैकांशकं वापि भित्ति विस्तार मारभेत् ॥ ११ ॥
पूजांशोच्चद्विभागस्यात् कर्णपीठ विशालकम् ।
तस्माच्चतुर्गुणं नालीगेहं तत्त्रषडंशकैः ॥ १२ ॥
एकांशस्य विस्तार मन्यथा च प्रकथ्यते ।
लिङ्ग द्विगुण विस्तार कर्णपीठ विशालकम् ॥ १३ ॥
नालीगेहं त्रिभागं तु त्रिचतुष्पञ्चभागके ।
एकांशं तद्द्विस्तारमन्यथा पुनरुच्यते ॥ १४ ॥
परिणाहे विकारांशे तच्चतुर्दश कर्णकम् ।
पिण्डिका विपुलं नाली तच्चतुगुणमुच्यते ॥ १५ ॥
तत्पादत्र्यंशमानं वा अष्टांशं भित्ति विस्तरः ।
विस्तार द्विगुणे कर्ण दशांशेम्श विहीनकम् ॥ १६ ॥
पीठं तारं तत पञ्चगुणं नालीगृहं भवेत् ।
तत्पञ्च सप्तभागैकं भित्तितारार्धमारभेत् ॥ १७ ॥
हीना हीनान्तरेऽष्टाम्श पीठे नालीगृहे तथा ।
भवन्ति बहुमानानि तेष्विष्टं गृह्यतां वरैः ॥ १८ ॥
लिङ्गे स्वायम्भुवे चैतत् प्रोक्तं तदपि गृह्यताम् ।
एवमेकतले प्रोक्तं द्वितलादिषु धामसु ॥ १९ ॥
साधारे वा निराधारे त्वलिन्दं भित्तिरेव च ।
प्रागुक्त विधिना धाम नक्षत्राद् द्वितलं नयेत् ॥ २० ॥

इति उत्तर कामिकाख्ये महातन्त्रे आर्षलिङ्ग प्रासाद विधिः
अष्टत्रिंशत्तमः पटलः ॥

३९। एकोनचत्वारिंशत्तमे पटले पौरुष लिङ्ग प्रासाद विधिः

अथ पौरुषलिङ्गस्य प्रासादविधिरुच्यते ।
पौरुषं भक्तियुक्तौ मनुजैः स्थापितं भवेत् ॥ १ ॥
पूर्वास्मिन्स्थापिते तस्मिन्नज्ञाते पूर्व मन्दिरे ।
लिङ्गमानवशेनात्र प्रासादं परिकल्पयेत् ॥ २ ॥
लिङ्गविष्कम्भमानेन त्रिगुणं पीठविस्तरः ।
त्रिभागन्नालि गेहस्य त्रिचतुर्भाग भागतः ॥ ३ ॥
भित्तिविस्तार उद्दिष्ट उत्सेधं पूर्ववद्भवेत् ।
लिङ्गविष्कम्भकर्णस्य अध्यर्धादर्धवृद्धितः ॥ ४ ॥
सार्धद्विगुणकं यावत् पीठविस्तारमाहरेत् ।
तस्माच्चतुर्गुणं पञ्चगुणं त्रिगुणमेव वा ॥ ५ ॥
नालीगृह विशालं स्यात् पीठ विस्तार मानतः ।
समं वा द्विगुणं वापि अद्यर्धं पीठ विस्तृतम् ॥ ६ ॥
उदयं प्राग्देव स्यादन्यथापि चकथ्यते ।
पूजांशद्विगुणं पीठमुदयं तु विशालतः ॥ ७ ॥
चतुष्पञ्चगुणं नाली गेहमत्र विधीयते ।
ततोऽवशिष्टं तत्सर्वं पूर्ववत् परिकल्पयेत् ॥ ८ ॥
लिङ्गात् पीठं ततो गर्भं गार्भाद्भित्तिविनिश्चये ।
एकात्सप्तयवान्तं मात्रादेक विवृद्धितः ॥ ९ ॥
त्रिमात्रान्तं तदावृद्धिं ह्रासं च परिकल्पयेत् ।
पीठं गर्भे भवेदेव भवेत् प्रासादविस्तरे ॥ १० ॥
तदर्धं वा त्रिपादं वा कुड्यतार मुदाहृतम् ।
अन्तरेऽष्टांशमानं वा तत्पादं वा समाहरेत् ॥ ११ ॥
उदयं प्राग्वदुद्दिष्टं यच्च स्वायम्भुवादिषु ।
तथा तदपि तद्ग्राम मानं पौराणपौरुषे ॥ १२ ॥
पट्टिकाङ्गमधिष्टान मार्षके धाम्नि कीर्तितम् ।
उपानं जगतीकण्ठ पट्टिका कुमुदादिषु ॥ १३ ॥
स्थलान्तं कल्पयेदेवं पूराणे धाम्नि पौरुषे ।
मानुषे पट्टिकान्तं च वृत्यन्तं जलनिस्रवम् ॥ १४ ॥
पीठव्यासेन हर्म्यस्य नालिके भज्य युग्मयुक् ।
यदि तद्वाह्य भागं च युग्ममेव विधीयते ॥ १५ ॥
युग्मञ्चेद्युग्ममेवस्यात् सम्मिश्रं तेषु नेष्यते ।
त्रिवर्ण पूजितं लिङ्गं पौरुषं वा विधीयते ॥ १६ ॥

इति उत्तरकामिकाख्ये महातन्त्रे पौरुषलिङ्गप्रासादविधिः एकोन
चत्वारिंशत्तमः पटलः ॥

४०। चत्वारिंशत्तमे पटले लिङ्गवशात् प्रासादविधिः

अथेदानीं विशेषेण लिङ्गात् प्रासाद उच्यते ।
स्वायं बाणलिङ्गं दैवीकं चार्षकं त्विति ॥ १ ॥
सिद्धविद्याधराद्यैश्च स्थापितं यन्महात्मभिः ।
तेषां लिङ्गवसाद्विद्वान् प्रासादं परिकल्पयेत् ॥ २ ॥
पूजाम्श मानतो नाहात् विस्तारादुच्छ्रयादपि ।
एतेषां कर्णमानैश्च प्रसादं परिकल्पयेत् ॥ ३ ॥
तत्समं द्विगुणं वापि त्रिगुणं वा चतुर्गुणम् ।
पञ्चषड्गुणितं वापि द्विगुणाद्यं प्रगृह्यताम् ॥ ४ ॥
अष्टौ वा देवमानानि नवमानानि सुव्रताः ।
तत्तदर्धं तदर्धं स्याद् द्वात्रिंशत् कथितानि तु ॥ ५ ॥
प्रत्येकं चैवमाख्यातं पीठमानं द्विजोत्तमाः ।
पीठ द्विगुणमानो वा त्रिगुणो वा चतुर्गुणः ॥ ६ ॥
पञ्चषड्गुणितो वापि गर्भहेहस्य विस्तरः ।
अवान्तर प्रमाणानि पूर्ववत्परिकल्पयेत् ॥ ७ ॥
गर्भगेहविशाले तु द्विभागादेकभागतः ।
षड्गुणान्तर पर्यन्तान् भागान् कृत्वैकभागतः ॥ ८ ॥
एकभाग विवृद्ध्या तु द्विगुणान्ता विशालता ।
भित्तेरन्तर मानं तु पूर्ववत्परिकल्पयेत् ॥ ९ ॥
लिङ्गात् पीठं ततो गर्भो गर्भाद्भित्ति विनिश्चये ।
एकात्सप्तयवान्तं तु मात्रादेक विवृद्धितः ॥ १० ॥
पीठ गर्भे भवेदेवं भवेत् प्रासादविस्तरे ।
अङ्गुलीहस्त पूर्णार्थं सप्तमात्रन्त माचरेत् ॥ ११ ॥

इति उत्तरकामिकाख्ये महातन्त्रे लिङ्गवशात् प्रासाद विधिः
चत्वारिंशत्तमः पटलः

४१। एकचत्वारिंशत्तमे पटले सार्व देशिक लिङ्ग प्रासाद विधिः

सार्वदेशिक लिङ्गादेस्स्थापनं सम्यगुच्यते ।
प्रासाद स्याथ लिङ्गस्य पीठस्याश्मन एव वा ॥ १ ॥
सार्वदेशिक सञ्ज्ञस्य विधिस्सर्वत्र सम्मतः ।
सात्विके राजसे देशे तामसे वा प्रकल्पयेत् ॥ २ ॥
विशेषाद्राजसे देशे राज्ञां विजयकारणम् ।
धर्म कामार्थ सिद्ध्यर्थं सार्व कामिकमुच्यते ॥ ३ ॥
अन्ये मोक्ष प्रदास्सर्वे कर्तुः कारयितुस्सदा ।
नागरं स्याद्युगे कार्ते त्रेते द्वाविड मिष्यते ॥ ४ ॥
द्वापरे वेसरं कार्यं सार्वदेश्यं कलौ युगे ।
वराटं चैव सालिङ्गं सर्वत्रापि च सम्मतम् ॥ ५ ॥
नागराद्द्राविडाच्चापि कालिङ्गाद्वेसरादपि ।
वराटाख्यं विशिष्टं स्यात्सार्वदेश्यं मुनीश्वराः ॥ ६ ॥
सार्व देशिक मित्युक्तं फलं तस्य विशिष्यते ।
स्वायम्भुवं च बाणं च दैविकं चार्षकं तथा ॥ ७ ॥
यथा विशिष्टं विप्रेन्द्राः दाहृतम् ।
मानुषे त्वेव लिङ्गादौ फल वैशिष्य मिष्यते ॥ ८ ॥
तस्माच्छ्रेयोऽर्थिभिः कार्यं सार्वदेशिक सञ्ज्ञितम् ।
तन्त्र सङ्कर दोषोऽपि मन्त्र सङ्कर एव वा ॥ ९ ॥
आचार्य सङ्करो वापि देशसङ्कर एव वा ।
काल सङ्कर दोषश्च युगसङ्कर एव वा ॥ १० ॥
अन्येषां सङ्करो वापि यतो नातो विशिष्यते ।
सार्वदेशिक धाम्नस्तु मानोन्मानं विधीयते ॥ ११ ॥
त्रिचतुर्हस्तमारभ्य द्विद्विहस्त विवर्धनात् ।
पञ्चाशद्धस्तपर्यन्तं मानं स्यात् सार्वदेशिकम् ॥ १२ ॥
सार्व देशिक धामादौ शान्तिकाद्युच्छ्रयास्तु ये ।
तारद्विभागे त्र्यंशाद्याः सप्तान्ताः शान्तिकादयः ॥ १३ ॥
अध्यर्ध त्रिगुणान्ताश्च सङ्ग्राह्या देशिकोत्तमैः ।
एक द्वित्रिकरैर्युक्तमानाद्धीनं तु वाधिकम् ॥ १४ ॥
आयाद्यं सकले नेति नियमान्नेष्यते द्विजाः ।
विस्ताराद्च्छ्रयाद्वाथ विस्तार स्योच्छ्रयेण वा ॥ १५ ॥
विस्तारायामतो वाथ नाहेनाथ परीक्षयेत् ।
प्रसङ्गेन च कथ्यन्ते लेशादाया दयोऽपि ये ॥ १६ ॥
गुणयेदिष्टमानं तु नवनागरसैः क्रमात् ।
रुद्रभानु शरिर्हन्याच्छेषमायं विनिर्दिशेत् ॥ १७ ॥
गुणाष्टरन्ध्र दशभिः मनुषड् वसु सप्तभिः ।
गुणयेत् क्षपये द्वापि तच्छेषं व्ययमादिशेत् ॥ १८ ॥
भानु नाडि रसैर्वृद्धनक्षत्रैः क्षपयेद्दिनम् ।
नृप कर्तृ दिना द्वास्तु लिङ्गाद्युक्त दिनान्तकम् ॥ १९ ॥
गुणयेल्लब्ध नक्षत्रे जन्माद्यानि यथा क्रमम् ।
तुष्टिस्सम्पद्विपत्क्षेम प्रत्यरं साधको वधः ॥ २० ॥
मैत्रं परममैत्रं कलहः प्रथमक्रमे ।
द्वितीये सम्पदाद्यास्तु पूर्ववत्समुदाहृदम् ॥ २१ ॥
शुभं तृतीय जन्मर्क्षं मृतमष्टमराशिकम् ।
वैनाशिकं च त्यक्त्वा तु तृतीये वा विपर्यये ॥ २२ ॥
शेषं शुभमिति ज्ञेयमेवं ज्ञात्वा प्रयोजयेत् ।
वियोगाद्यशुभं योगं गणं चासुर मानुषम् ॥ २३ ॥
वर्जयेत्सिद्धिकामस्तु मुक्तिकामो यथेच्छया ।
सप्तर्तुर्भूत वेदाग्नि नवभिः क्षपितं तु यत् ॥ २४ ॥
तस्कराद्यंशकं ज्ञेयं नाम्ना तेषां फलं भवेत् ।
रुद्र रन्ध्रगुणैवृद्धिं योनिभिः क्षपयेद्गुरुः ॥ २५ ॥
ध्वजाद्या योनयश्चाष्टौ षट्जाद्यास्सप्तयोनयः ।
पृथ्व्याद्याः पञ्च सङ्ख्या वा
दक्षिणाद्यास्त्रयोऽग्नयः ॥ २६ ॥
चतुष्प्रकाराद्विज्ञेया ध्वजाद्याः पूर्ववन्मताः ।
षड्जो वृषभगान्धारौ पञ्चमो मध्यमस्तथा ॥ २७ ॥
निषादो धैवतस्सप्त योनयस्तासु शस्यते ।
षड्ज"च वृषभो मध्ये भूतेषु पृथिवी जलम् ॥ २८ ॥
गार्हपत्यस्तथैवाहनीयोऽग्निषु शस्यते ।
पृथ्व्याद्याः प्रथिताः पञ्च दक्षिणाद्यास्तथाग्नयः ॥ २९ ॥
वृद्धं नवाष्टकरसैर्हरेद्वारं तु सप्तभिः ।
निन्दिता रविसौराराश्शुभयोगे शुभप्रदाः ॥ ३० ॥
प्रासादे मण्डपे चैव प्राकारे गोपुरे तथा ।
लिङ्ग बेरादिके चैव मायाद्यं कल्पयेद्विजाः ॥ ३१ ॥
किं तु लिङ्गे च बेरे च तुड्गे नैव निरीक्षयेत् ।
धाम्नस्त्र्यंशं चतुस्त्र्यंशं पञ्चत्र्यम्श द्रिभागिकम् ॥ ३२ ॥
षडंशे चतुरंशं वा सप्तभागे तु पञ्चभिः ।
चतुर्भिर्वा त्रिभागैर्वा गर्भगेहं पकल्पयेत् ॥ ३३ ॥
अष्टांशे त्रिचतुष्पञ्चषड्भागैर्गर्भ इष्यते ।
नवांशे त्रिचतुष्पञ्चषड् सप्तांशैस्तु नालिकाम् ॥ ३४ ॥
मिश्रं वा योजयेद्भित्तिं युग्मायुग्मकरेषु च ।
त्र्यंशैकं तदूद्वयांशं वा पञ्चांशे त्र्यंशमेव वा ॥ ३५ ॥
षडंशे चतुरंशं वा सप्तांशे त्र्यंशमेव वा ।
चतुरंशं तु वा मध्ये षडंशं पञ्च भागिकम् ॥ ३६ ॥
अष्टांशे तु कृते व्यासे नवांशे पञ्च भागिकम् ।
चतुरंशेन वा भद्रं मध्यमे परिकल्पयेत् ॥ ३७ ॥
पादं वार्ध त्रिपादं वा कुर्याद्द्वयंशं तु निर्गमः ।
भद्रस्य युग्मपार्श्वस्थ रुद्र रूपादिरेव वा ॥ ३८ ॥
तले तले तु चैवं वा कल्पयेद्देशिकोत्तमः ।
सार्व देशिक लिङ्गानि कथ्यन्ते गर्भमानतः ॥ ३९ ॥
प्रसादर्गभमाने तु पञ्चाशे त्रिभिरुत्तमम् ।
नवांशे पञ्चभिर्मध्यं भवत्यर्धेन कन्यसम् ॥ ४० ॥
तदवान्तरभेदेन भवन्त्यन्यानि षद्पुनः ।
तत्तदन्तरमानेन त्रयस्त्रिंशत्प्रमाणकम् ॥ ४१ ॥
विंशत्यंशे कृते गर्भे दशांशमधमं भवेत् ।
एकादशांशैर्मध्यं स्यात् भागैर्द्वादशभिर्वरम् ॥ ४२ ॥
मध्यमेष्ट विभागे तु नव लिङ्गादयस्तु वा ।
गर्भन्तु नवधा कृत्वा नवलिङ्गोच्छ्रयस्तु वा ॥ ४३ ॥
अधमं गर्भपादं वा त्रिपादं चोत्तमं भवेत् ।
मध्यमेऽष्ट विभागे तु तत्तदन्तभेदतः ॥ ४४ ॥
त्रयस्त्रिंशत्प्रमाणानि लिङ्गानां कथितानि च ।
अथवा गर्भ गेहस्य त्र्यंशैकमधमं भवेत् ॥ ४५ ॥
गर्भार्धं मध्यमं ज्ञेयं पञ्च त्र्यंशं वरं मतम् ।
पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ॥ ४६ ॥
लिङ्गायामे विकारांशे चतुर्भूतरसैर्हितम् ।
एकहस्तं समारभ्य चेकैकाङ्गुल वर्धनात् ॥ ४७ ॥
नवहस्त प्रमाणान्तं मानं स्याल्लिङ्ग दर्ध्यके ।
एक विंशति भागेन गर्भगेहे विभाजिते ॥ ४८ ॥
त्रयोदशांशकं श्रेष्ठं दशाम्श मधमं भवेत् ।
पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ॥ ४९ ॥
लिङ्गायामे विकारांशे चतुर्भूत रसैर्हितम् ।
सत्रिभागैश्शरैर्लिङ्ग विस्ताराः परिकीर्तितः ॥ ५० ॥
गायत्र्यंशे तु लिङ्गोच्चे पञ्चभिर्वाथ विस्तरः ।
अथवाष्ट दशांशे च लिङ्गोच्चे पञ्चभागिके ॥ ५१ ॥
चतुर्भागोथवा लिङ्गविस्तारः परिकीर्तितः ।
दैर्ध्यं त्रिसप्तधा कृत्वा रसभूताब्धि भागतः ॥ ५२ ॥
विस्तारः कथितश्शास्त्रे लिङ्गानां मुनिपुङ्गवाः ।
द्वार स्तम्भादिभिश्चैव मानं लिङ्गे समूह्यताम् ॥ ५३ ॥
भागेन वाथ लिङ्गानि विभजेत्तानि चाङ्गुलैः ।
आयादि शुभसिद्ध्यर्थम् अंशैर्वा विभजेद्यथा ॥ ५४ ॥
षोडशांशं समारभ्य चतुर्विंशति संयुतम् ।
शतांशं विभजेत्तत्र त्वेकाम्श योजयेद्गुरुः ॥ ५५ ॥
तैर्वा निरीक्षये ल्लिङ्गं बेराद्यायादिकं गुरुः ।
समखण्डं वर्धमानं शैवाधिक्यं त्रिराशिकम् ॥ ५६ ॥
स्वस्तिकं च सहस्रख्यं धारालिङ्गमिति द्विजाः ।
इयत्तया समुद्देश क्रमेणैष विधीयते ॥ ५७ ॥
त्रिधा विभज्य लिङ्गोच्चं कुर्याद्भागत्रयं क्रमात् ।
तद्भाग सदृशस्तारस्समखण्डोऽयमीरितः ॥ ५८ ॥
पूर्वोक्त तारयुक्तो वा समखण्डो मुनीश्वराः ।
पक्षस्मृत्येक विंशांशं गायत्र्यंशे शिवायते ॥ ५९ ॥
चतुष्पञ्चर्तुसप्तांशा ब्रह्मभागे समीरिताः ।
भाग भाग विवृद्ध्या स्यात्
तस्मात्तस्माद्धरीशयोः ॥ ६० ॥
वर्धमानानि चत्वारि ब्राह्मणादिष्वनुक्रमात् ।
अथवान्यप्रकारेण वर्धमानं विधीयते ॥ ६१ ॥
एक हस्तेऽङ्गुलं ह्येकं द्वित्रिहस्ते त्रिमात्रकम् ।
चतुष्पञ्चकरे पञ्च षड् सप्तसु च सप्तकम् ॥ ६२ ॥
नवाङ्गुलं तु विज्ञेयं लिङ्गयोर्वसरन्ध्रयोः ।
एकद्वित्रिक्रमाद्दद्यादधिके ऋतुवत्कृते ॥ ६३ ॥
ब्रह्मविष्णुहरांशे तु हास्तिकोपि ह्यतो विधिः ।
सप्तसप्ताष्ट भागं तु पञ्च पञ्च षडंशकम् ॥ ६४ ॥
चतुश्चतुश्शरांशं तु वह्नि वह्नि युगांशकम् ।
एवं शिवाधिकं लिङ्गं ब्राह्माद्यादिष्वनुक्रमात् ॥ ६५ ॥
लिङ्गोच्चं नवधा कृत्वा ब्रह्माद्यास्त्रिस्त्रिभागतः ।
षड्सप्ताष्ट विभागैस्तु नाहो रुद्रादिषु क्रमात् ॥ ६६ ॥
त्रैरशिकमिदं लिङ्गंशुद्राणां तत् प्रशस्यते ।
नवधा लिङ्गमानेन त्रिचतुर्भिरजादयः ॥ ६७ ॥
स्वस्तिकं लिङ्गमाख्यातमन्यथा च निगद्यते ।
त्रिंशद्भागे शिवायामे नवदिग्रुद्रभागतः ॥ ६८ ॥
ब्रह्माद्यास्त्वथवा तेभ्यो भाग भागाद्यनुक्रमात् ।
त्रयस्त्रिंशत्कृते लिङ्गे स्वस्थिकं शूद्रयोग्यकम् ॥ ६९ ॥
सहस्राख्यं च धाराख्यं पूर्वोक्त्यात्रापि गृह्यताम् ।
मुख लिङ्गं च पूर्वोक्त विधिनात्रापि भाव्यते ॥ ७० ॥
शिरोवर्तनमेतैषां पूर्वोक्तविधिना नयेत् ।
लिङ्गानामधिकं दद्याच्छिरसो वर्तनांशकम् ॥ ७१ ॥
समस्तमथवा त्र्यंशमधिकं वर्तनांशतः ।
शिवलिङ्गप्रतिष्ठोक्तविधिना लक्षणं नयेत् ॥ ७२ ॥
यावल्लिङ्गस्य विस्तार स्तावत् पीठस्य विस्तृतिः ।
लिङ्गविष्कम्भमानेन त्रिगुणा वाथ विस्तृतिः ॥ ७३ ॥
चतुष्पञ्च गुणा वापि द्विगुणा वाथ विस्तृतिः ।
पूजाम्श द्विगुणा वाथ त्रिगुणा वा चतुर्गुणा ॥ ७४ ॥
तत्तत्कर्णप्रमाणा वा नाहेन सदृशापि वा ।
नाह द्विगुण माना वा पीठ विस्तृति रुच्यते ॥ ७५ ॥
तत्तदन्तर मानानि पीठानां कथितानि च ।
गर्भगेह त्रिभागैकश्चतुर्भागैक एव वा ॥ ७६ ॥
गर्भार्धोवाविशालस्स्यात् पीठस्य मुनिपुङ्गवाः ।
विष्णुभाग समोत्तुङ्ग पादार्ध सहितोऽथवा ॥ ७७ ॥
ब्रह्मांशमष्टधा कृत्वा व्योम भाग विवर्धनात् ।
पञ्चांशोच्चं तदुच्चं वा विष्ण्वंशोत्तुङ्गतोऽधिकः ॥ ७८ ॥
पीठ स्थापनरीत्यैव तस्यालङ्कार माचरेत् ।
लिङ्ग विष्कम्भमानेन द्विगुणं त्रिगुणं तु वा ॥ ७९ ॥
चतुष्पञ्च गुणं कूर्म शैलं प्रकल्पयेत् ।
तत्तदन्तर मानानि नवधापरिकल्पयेत् ॥ ८० ॥
लिङ्गायाम समं वापि लिङ्गनाहसमं तु वा ।
पीठ विस्तार सदृशं ब्रह्मशैलं प्रकल्पयेत् ॥ ८१ ॥
तद्विशाल समं वाथ त्रिपादं त्वर्धमेव वा ।
तत्पादं वा समुत्सेधं ब्रह्मशैलस्य कल्पयेत् ॥ ८२ ॥
तद्वन्मध्यं चतुर्भक्त्वायुज्याद्वा कशिलोच्छ्रयम् ।
लिङ्ग विष्कम्भ मानं तु विकाराम्श समं भवेत् ॥ ८३ ॥
भागादेक विवृद्ध्या तु चतुर्भागावसानकम् ।
ब्रह्मशैलावटं कुर्यात् उत्सेधाद्विस्तरात् पुरः ॥ ८४ ॥
एकैकयाविवृद्ध्या तु द्वयङ्गुलान्तं प्रकल्पयेत् ।
कश्चिदस्ति विशेषोऽस्मिन् यावत्पूजाम्श दैर्घ्यकम् ॥ ८५ ॥
तावन्निर्गमसंयुक्तं पीठिका यदि कल्पिताः ।
छायादोषो यथा नस्यात् लिङ्गपीठिकयोर्द्विजाः ॥ ८६ ॥
देशस्य देशनाथस्य कर्तुः कारयितुस्तथा ।
आवहेदुत्तमां सिद्धिं सर्व लिङ्गेष्वयं विधिः ॥ ८७ ॥
तथैव पूजा भागार्धा दधश्चेल्लक्षणं कृतम् ।
अर्चांशादधिकं पीठं पार्श्वतो न्यूनमेव वा ॥ ८८ ॥
कल्पितं पीठमेवं वा पीठलिङ्गं तु मुक्तिदम् ।
सिद्ध्यै विगर्हितं तत्स्यात् समं चेत् सिद्धिदं द्वयम् ॥ ८९ ॥
शान्तिकाद्युछ्रयाद्यं च प्रोक्तं प्रासाद कल्पने ।
गण्यं तदनु रोधेन नाद्यन्तमिह कथ्यते ॥ ९० ॥
तत्सङ्ग्रहेऽपि नात्यन्त दोषस्स्यात् सार्वदेशिके ।
स्वयम्भु दैविके बाणे गाणे मौने विशेषतः ॥ ९१ ॥
लक्षणं नेष्यते तेषां विस्तारेणोच्छ्रयेण वा ।
तथा ब्रह्मादिभिर्भागै श्शिरोलक्षण भेदतः ॥ ९२ ॥
ब्रह्मनन्दि शिलाभिश्च स्वाकारो लक्षणं यतः ।
त्रिभिर्ब्रह्मादिभिर्भागैर्द्वाभ्यामेकेन वा युतम् ॥ ९३ ॥
यदाकार विशिष्टं तद्रूपं तस्य तदेव हि ।
प्रासाद पीठिके तेषां गर्भमानादिकं च यत् ॥ ९४ ॥
सार्व देशिकमेवेष्टं यतस्ते सार्वदेशिकाः ।
प्रासाद पीठिकादीनां जीर्णादौ समुपस्थिते ॥ ९५ ॥
जीर्णोद्धार विधानेन पीठप्रासाद माचरेत् ।
परित्यक्त शिलायोगे शिलायोगश्च कथ्यते ॥ ९६ ॥
स्वायम्भुवादि लिङ्गानां दृश्यभागादधः स्थितम् ।
दर्शयेत् खननाद्यैश्चेच्चोर दुःखावहं नृणाम् ॥ ९७ ॥
दृश्य भागमिति ज्ञेयं ब्रह्मविष्णुहरांशकम् ।
तस्मादधः स्थितं लिङ्गं मूलेनैव परीक्षयेत् ॥ ९८ ॥
अज्ञानाच्छोधने कर्तुर्मृत्युरेव न संशयः ।
सार्वदेशिकलिङ्गानामित्थं लक्षण मीरितम् ॥ ९९ ॥
प्रतिष्ठाया विधानं यत् पूर्वोक्त विधिनोच्यते ॥ ९९१।२ ॥

इति उत्तर कामिकाख्ये महातन्त्रे सार्वदेशिकलिङ्ग प्रासाद विधिः एक
चत्वारिंशत्तमः पटलः ॥

४२। द्विचत्वारिंशत्तमे पटले अङ्गलिङ्ग प्रतिष्ठा विधिः

अङ्गलिङ्गप्रतिष्ठान्तु प्रवक्ष्यामि समासतः ।
प्रधानमङ्गमित्येवं द्विधं लिङ्गमुच्यते ॥ १ ॥
मण्डपाः परिवारा वा प्राकारा गोपुरादयः ।
यस्य लिङ्गस्य विद्यन्ते तत् प्रधानमिति स्मृतम् ॥ २ ॥
यत् प्रधानाविरोधेन पञ्चप्राकार मध्यमे ।
तदङ्गमिति विख्यातं परिवारैर्विनाकृतम् ॥ ३ ॥
शुभाशासंस्थितं भुक्त्यै मुक्त्यै सर्वासुदिक्षु च ।
पश्चिमोत्तरपूर्वाशाश्शुभाशास्सम्प्रकीर्तिताः ॥ ४ ॥
कुर्यात्तेषां विमानाद्यं मूल धामोनमानकम् ।
तत्रसंस्थापयेल्लिङ्गं प्रतिमां वोभयात्मिकाम् ॥ ५ ॥
प्राकारत्रयबाह्ये तु यदि देवाः प्रकीर्तिताः ।
परिवारादिकं तत्र कुर्याद्वा लेशमार्गतः ॥ ६ ॥
नित्योत्सवादिकं तत्र विरोधाय न कल्पते ।
अङ्गलिङ्गाद्यकं शुद्धशैव मार्गेण कारयेत् ॥ ७ ॥
नैव पाशुपतेनापि न महाव्रतिना क्वचित् ।
न बौद्धार्हतकापालपाञ्चरात्रादिकैर्न च ॥ ८ ॥
अन्यैरपि न कर्तव्यं दर्शनान्तरसंस्थितैः ।
प्रमादत्तैः कृते तच्च शैवं सम्पादयेत् क्षणात् ॥ ९ ॥
एकहस्तात्त्रिहस्तान्तमङ्गलिङ्गप्रमाणकम् ।
अत ऊर्ध्वं न कर्तव्यं कृतं चेत् सर्वदोडकृत् ॥ १० ॥
पञ्चादशकरादूर्ध्वं प्रासादं नैव कारयेत् ।
स्वधामगर्भमानाद्वा कुर्यादङ्गुलमानतः ॥ ११ ॥
सार्वदेशिकमेवेष्टं प्रासादं लिङ्गमेव च ।
कर्षणादिकमेतेषां कर्तव्यं वा न वा पृथक् ॥ १२ ॥
आद्येष्टकादिकं कर्म तावदस्य समाचरेत् ।
एवं लिङ्ग विमानाद्यं कृत्वा संस्थापयेत् सुधीः ॥ १३ ॥
प्रागेव विहितं यस्मात् प्रतिष्ठा तेन चोच्यते ।
मूर्धेष्टकादिकं कर्म जीर्णोद्धारादिकं च यत् ॥ १४ ॥
पूर्वोक्त विधिना सर्व कर्तव्यं चोदितं तथा ।
क्रियमाणेऽपि मूलस्य पवित्रारोहणादिके ॥ १५ ॥
तस्मिन्कालेऽङ्गलिङ्गादेः पवित्रारोहण न वा ।
पृथग्वा करणीयं तद्यथाशास्त्रं द्विजोत्तमाः ॥ १६ ॥
एवंयः कारयेदङ्गलिङ्गादेः स्थापनं नरः ।
आयुः श्रीकीर्तिसौभाग्यारोग्यभोग्यबुहुप्रजाः ॥ १७ ॥
संलब्धकामो देहान्ते शिवेन सह मोदते ।
एकाद्येकैकवृद्ध्या तु रुद्रसङ्ख्यावसानकम् ॥ १८ ॥
अष्टोत्तरशतं वाथ तदर्धं वा तदर्धकम् ।
शतं वार्धं तदर्धं वा शतोर्ध्वमपि पुष्कलम् ॥ १९ ॥
एवं यः कारयेत् कर्ता स एवाहं न संशयः ॥ १९१।२ ॥

इति उत्तरकामिक महातन्त्रे अङ्गलिङ्गप्रतिष्ठाविधिः द्वित्वारिंशत्तमः
पटलः ॥

४३। त्रिचत्वारिंशत्तमे पटले सदाशिवस्थापन विधिः

सदेशस्थापनं वक्ष्ये तल्लक्षणपुरस्सरम् ।
द्रव्यैश्शिलादिभिः कुर्यात् पूर्वोक्तैस्तं विशेष्टः ॥ १ ॥
बद्धपद्मासनं श्वेतं स्थितं पञ्चास्यसंयुतम् ।
पिङ्गलाभं जटाचूडं दशदोर्दण्डमण्डितम् ॥ २ ॥
अभयं च प्रसादं च तथा शक्तिं त्रिशूलकम् ।
खट्वाङ्गं दक्षभागस्थैर्वहन्तं करपल्लवैः ॥ ३ ॥
बुजङ्गं चाक्षमालं च डमरुं नीलपङ्कजम् ।
बीजापूरं च वामस्थैर्वहन्तं सुप्रसन्नकम् ॥ ४ ॥
अर्चनाध्यायसंसिद्धध्यानान्तरयुतं तु वा ।
इच्छाज्ञानक्रियाशक्तित्रयसङ्कॢप्तलोचनम् ॥ ५ ॥
ज्ञानचन्द्रकलायुक्तं कलावर्षोपलक्षितम् ।
ब्रह्मसूत्रादिकं कार्यं सुखेश प्रतिमोदितम् ॥ ६ ॥
एवं सदाशिवः कार्यो मनोन्मना समन्वितम् ।
इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते ॥ ७ ॥
वाराद्यं पूर्ववद्ग्राह्यमङ्कुराणां समर्पणम् ।
तदन्ते रत्नविन्यासं दृष्ट्युन्मीलनमेव च ॥ ८ ॥
बेरशुद्धिं पुरादीनां प्रदक्षिणमथाचरेत् ।
जलाधिवासनं पश्चान्मण्टपं पूर्ववन्नयेत् ॥ ९ ॥
मण्टपे कुण्डकॢप्तिं च ग्रहभूतैकसङ्ख्यया ।
तानि कुण्डानि वृत्तानि तद्दिगश्राणि वा भवेत् ॥ १० ॥
पश्चाच्छिल्पिविमोक्षं च द्विजानां भोजनं तथा ।
पुण्याहं वास्तुहोमं च भूपरिग्रहमेव च ॥ ११ ॥
वेद्यूर्ध्वे स्थण्डिलं शय्याकॢप्तिं पूर्ववदाचरेत् ।
प्रतिमाशोधनं कृत्वा कौतुकं बन्धयेत्ततः ॥ १२ ॥
शय्यायां शाययेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् ।
शिरःप्रदेशे देवस्य सदाशिवघटं न्यसेत् ॥ १३ ॥
सर्वलक्षणसपन्नं यजेत् कुम्भे सदाशिवम् ।
वर्धनीमुत्तरे न्यस्य यजेत्तस्यां मनोन्मनीम् ॥ १४ ॥
परितोऽष्टौ घटान्न्यस्य विद्येशांस्तेषु पूजयेत् ।
तत्त्वमूर्त्यादिविन्यासं कृत्वा होमं समाचरेत् ॥ १५ ॥
संस्कृत्य कुण्डं वह्निं च समिदाज्यचरूंस्तिलान् ।
यवा।लाजांश्च हुत्वान्ते सिद्धार्थं च पयांस्तथा ॥ १६ ॥
अश्वत्थोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च ।
शमीरवदिरमायूरबिल्वास्युः वह्निकोणतः ॥ १७ ॥
प्रधानस्य पलाशस्स्यात् स च सर्वत्र वा मतः ।
प्रत्येकं पूर्ववद्धुत्वा द्वितीये देशिकश्शुचिः ॥ १८ ॥
उद्धृत्य प्रतिमामिष्ट्वा कुम्भानग्निं च पूर्ववत् ।
देशिकादींश्च सम्पूज्य दक्षिणां दापयेत्ततः ॥ १९ ॥
ततो महूर्ते सम्प्राप्ते कुम्भाद्बीजं पुरो न्यसेत् ।
कुम्भाद्बीजं समादाय सदेशहृदि विन्यसेत् ॥ २० ॥
वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् ।
सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ॥ २१ ॥
अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ।
तत्तद्घटोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ॥ २२ ॥
स्नपनं भूरि नैवेद्यं पूजामुत्सवमारभेत् ।
देव्याश्च स्नपनं कृत्वा कल्याणं कारयेत्ततः ॥ २३ ॥
अनुक्तमत्र यत्कुर्यात् सामान्यस्थापनोक्तवत् ।
नित्यार्चनादिकं सर्वं प्राग्वदेव समाचरेत् ॥ २४ ॥
सदाशिव प्रतिष्ठां तु कुर्यादेवं हि यो नरः ।
इहैव भोगान् भुक्त्वेष्टान् सोऽन्ते यायाच्छिवं परम् ॥ २५ ॥

इति उत्तरकामिकाख्ये महातन्त्रे सदाशिवस्थापन विधिः
त्रिचत्वारिंशत्तमः पटलः ॥

४४। चतुश्चत्वारिंशत्तमे पटले देवी स्थापन विधिः

देव्यास्संस्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
शिलादिद्रव्यमापाद्य तैः कुर्यात् प्रतिमां ततः ॥ १ ॥
ग्रामादौ शिवहर्म्ये तु अष्टदिक्ष्वन्तरालके ।
गौरीप्रतिष्ठा कर्तव्या इष्ट देशे मनोरमे ॥ २ ॥
त्रिहस्ताद्येकपञ्चाशद्धस्तविस्तार संयुतम् ।
तस्या धाम विधातव्यमुत्सेधाद्यं तु पूर्ववत् ॥ ३ ॥
वलभ्याकारमिष्ट स्यादनुरूपयुतं तु वा ।
वलभ्याकारमिष्टं चेच्चतुर्धा विभजेत्ततिम् ॥ ४ ॥
दैर्घ्यं त्वेककांशवृद्ध्या तु षड्भिर्भगर्भो भवेत्पदैः ।
एकेन भित्तिरुद्दिष्टा त्रिधा वा विभजेत्ततिम् ॥ ५ ॥
द्वाभ्यां गर्भो भवेद्भित्तिस्समन्तादेकभागतः ।
चतुर्धा भाजिते तारे षड्भिदैर्घ्यमथापि वा ॥ ६ ॥
गर्भस्त्वष्टपदैः ख्यातस्त्वन्यथा च निगद्यते ।
पञ्चधा भाजिते तारे दैघ्यं षड्भिरथापि वा ॥ ७ ॥
सप्तभिस्त्वष्टभिर्वाथ नवभिर्दशभिस्तथा ॥ ८ ॥
षड्भागे त्वेकभागादि वृद्ध्या द्विगुणामानतः ।
आयामं गर्भभित्योश्च पूर्ववत्परिकल्पयेत् ॥ ९ ॥
एवं विंशति भागान्तं विस्तारे परिकल्पिते ।
तत्तद्विगुणमानान्तमायामं परिकल्पयेत् ॥ १० ॥
द्वितलादितलेऽलिन्दान् भित्तिं च बहुसङ्ख्यया ।
पादेन वार्धभागेन त्रिपादेन समन्ततः ॥ ११ ॥
सार्धेन सत्रिपादेन द्विभागेनाथ कल्पयेत् ।
हित्वालिन्दं बहिर्भागाद्धनं वा सर्वमिष्यते ॥ १२ ॥
अधिष्ठानादि षड्वर्गं पूर्ववत् परिकल्पयेत् ।
शालाकारम् सभाकारं प्रासादाकारमेव च ॥ १३ ॥
मस्तकस्थूपिसङ्ख्या स्यादेकादेकाद शान्तिका ।
दिग्देवतासु देव्यास्तु रूपभेदाः प्रकीर्तिताः ॥ १४ ॥
शिवायतनदेवा वा गणपः षण्मुखोऽपि वा ।
सिंहा वा वृषभो वापि वाहनं परिकीर्तितम् ॥ १५ ॥
शुका वा कोणदेशे स्युरन्यत् प्रागुक्तवन्नयेत् ।
पूर्वास्यं पश्चिमास्यं वा दक्षिणास्यं समीरितम् ॥ १६ ॥
उत्तरास्यं तु वा कुर्यात्सर्वं तत्सम्पदां पदम् ।
कृता चेद्गर्भमानेन तद्विस्तारो विशिष्यते ॥ १७ ॥
आयामो वाथ सङ्ग्राह्याः प्रतिमालक्षणोक्तितः ।
धाम्नि दिग्देवताः स्थाप्यास्तद्देवीरूप विग्रहाः ॥ १८ ॥
रुद्रस्कन्दणेशा वा द्वादशान्ततलान्विते ।
हर्म्य कोणेषु विषभं सिंहं वा परिकल्पयेत् ॥ १९ ॥
प्रासादभित्तिदेवानामशेषाणामपि प्रभोः ।
प्रासादस्य प्रतिष्ठायां प्रतिष्ठा परिकीर्तिता ॥ २० ॥
रुद्रावतारक्रीडासु प्रतिष्ठा नैव कीर्तिता ।
प्राकारपरिवारांश्च मण्टपादींश्च कल्पयेत् ॥ २१ ॥
वामाद्याश्शक्ययो वापि परिवारे व्यवस्थिताः ।
श्रीर्दुर्गा क्ष्मा शशिन्या च गायत्री चाप्युषा तथा ॥ २२ ॥
सन्ध्यां सरस्वतीत्येताः स्थाप्या वा मुनिपुङ्गवाः ।
प्रज्ञा मेधा श्रुतिश्चैव स्मृतिः स्वाहा वषट् च वै ॥ २३ ॥
धृतिमतिश्च पूर्वादिक्रमाद्देव्यः प्रकीर्तिताः ।
अथवा ज्येष्ठयोपेतास्सप्त मातर - ईरिताः ॥ २४ ॥
देहली पेषणी चुल्की खण्डनोलूखली तथा ।
मुसली मुद्गरी देवी वर्धमानी च वा मताः ॥ २५ ॥
चतुर्द्विहस्ता इष्टास्त्राः पद्महस्तास्तु वा मताः ।
वृषो गणाधिपः स्कन्दो महाशास्ता धनेश्वरः ॥ २६ ॥
वीरश्च क्षेत्रपालश्च भास्करः पूर्वतो दिशि ।
नै -ऋते वाग्निदेशे वा विघ्नेशं सम्प्रकल्पयेत् ॥ २७ ॥
इन्द्रादीन्वा तदस्त्राणि कल्पयेत् पूर्वतो दिशि ।
निर्माल्यधारिणीं देवीमशनीमीशगोचरे ॥ २८ ॥
पूर्वोक्त परिवारान्वा कल्पयेद्देशिकोत्तमाः ।
महापिठे विशेषेण सर्वाश्चापसरसः स्थिताः ॥ २९ ॥
देव्या मानं त्रिधा प्रोक्तं शिवलिङ्गानुरूपतः ।
पूजाशसदृशं वाथ द्विगुणं त्रिगुणं तु वा ॥ ३० ॥
चतुष्पञ्चगुणं वापि पूजांशोच्चत्रिपादकम् ।
अर्धं तदन्तरेष्टंशे नवमानं च वा भवेत् ॥ ३१ ॥
पूजांशोच्चं चतुर्विंशच्छतं वाथ विभज्य च ।
भ्रूदृग्घ्राणास्यकर्णान्तं बाहुकक्षस्तनान्तकम् ॥ ३२ ॥
लिङ्गमानवशाद्देवीमानं निष्कल सञ्ज्ञके ।
प्रतिमामानतस्तस्या मानमेवं समीरिओतम् ॥ ३३ ॥
मात्राङ्गुले गृहार्चायां यवैर्वा परिकल्पयेत् ।
ततश्चेयं प्रकर्तव्या देवी प्रोक्तप्रमाणतः ॥ ३४ ॥
चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैकवक्त्रका ।
दुकूलवसना देवी करन्डमकुटान्विता ॥ ३५ ॥
वरदाभय संयुक्ता पाशाङ्कुशकरान्विता ।
द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता ॥ ३६ ॥
पद्महस्ताति शान्ता च सादेवी कनकप्रभा ।
शुकोत्पलकरा वापि शूलपाशकरापि वा ॥ ३७ ॥
यथेष्टास्त्रापि वा शङ्खचक्रहस्ता तु षड्भुजा ।
दंष्ट्राकरालवदना पञ्चास्या दशदोर्युता ॥ ३८ ॥
देवोक्तास्त्रासना वापि देवालिङ्गनतत्परा ।
देवोरुसंस्थिता वापि स्थानकासनसंयुता ॥ ३९ ॥
प्रलम्बवामपादा वा लम्बितापरपादिका ।
देवेन सहिता वापि केवला वा प्रकीर्तिता ॥ ४० ॥
श्यामा श्वेताथवा रक्ता साधकेच्छानुरूपतः ।
ऋज्वाकारयुता वापि द्विभङ्ग सहिताथवा ॥ ४१ ॥
नासाग्राल्लम्बयेत्सूत्र दक्षिणास्थितपात्तले ।
गुल्पमध्ये स्थितं सूत्रं शिवसूत्रमिति स्मृतम् ॥ ४२ ॥
तत्सूत्राद्वामभागस्थस्तनमध्यं गुणाङ्गुलम् ।
तत्सूत्रं नाभिमध्यं यदेकाङ्गुलमिति स्मृतम् ॥ ४३ ॥
सूत्रयोरन्तरं वेदमात्रमित्यभिधीयते ।
जानुसूत्रान्तरं प्रोक्तं गुणाङ्गुलमिति द्विजाः ॥ ४४ ॥
द्वयोरङ्गुष्ठयोर्मध्यं सार्धविश्वाङ्गुलं मतम् ।
तत्त्रिभागैकभागं तु पाष्णर्योरन्तरकं स्मृतम् ॥ ४५ ॥
कटकाग्रस्य चोत्सेधःस्तनाक्षस्य समो भवेत् ।
नाभेस्तु मणिबन्धः स्यात् सार्धविश्वाङ्गुलोद्विजाः ॥ ४६ ॥
पार्श्वमध्यमबाह्वोश्च मध्यमं पर्वताङ्गुलम् ।
प्रलम्बितकरस्याग्रादूर्वग्रं तु षडङ्गुलम् ॥ ४८ ॥
जानोस्तु मणिबन्धाच्च मध्यमं चतुरङ्गुलम् ।
पार्श्वमध्यमबाह्वोश्च मध्यमं तु षडङ्गुलम् ॥ ४९ ॥
दृष्टान्तमात्रमेतत्स्यात् सूत्रे तु नियमो न हि ।
स्वतन्त्रे द्विविधं देव्या मानं शास्त्रे प्रचोदितम् ॥ ५० ॥
मूलदेव्याः प्रमाणं तु पूर्वमुक्तं द्विजोत्तमाः ।
उत्सवाद्यङ्गदेवीनां मानं यन्मूलबेरजाम् ॥ ५१ ॥
लिङ्गमानवशात् प्रोक्तं मूलदेवीवशात्तथा ।
अङ्गेषु मानं सग्राह्यं जानूरूसममेव वा ॥ ५२ ॥
एवं देवी प्रकर्तव्या तस्याः सञ्ज्ञा द्विधा मता ।
मनोन्मनीति गौरीति लक्ष्मभेदस्तु नानयोः ॥ ५३ ॥
मूर्तिस्सादाशिवी यत्र कल्प्यते तत्र कल्प्यताम् ।
तदा मनोन्मनीसञ्ज्ञां लभते विप्रसत्तमाः ॥ ५४ ॥
नृत्तमूर्त्यादिभेदेषु गौर्याद्याख्यां समश्रुते ।
कृत्वा सलक्षणां देवीं मन्त्रैस्संस्थापयेत्ततः ॥ ५५ ॥
सान्तरेफ महामाया बिन्दुनाद समन्विता ।
मनोन्मन्या मनुश्चायं हस्थाने खान्तयुग्यदि ॥ ५६ ॥
गौरीमन्त्र इति प्रोक्तः सविरर्गौ तु वा मतौ ।
वान्तरेफ महामाया विष्ण्वंशाभ्यां युतो मनुः ॥ ५७ ॥
अष्टवर्गतृतीयं तु चतुर्थस्वर संयुतम् ।
बिन्दुनाद शिखामात्रं देवीबीजमिदं तु वा ॥ ५८ ॥
ऐङ्कारं क्लीं समायुक्तः सौकारो बिन्दुनादयुक् ।
मन्त्रोऽयं हंससंयुक्तः श्रीबीजं वा मनुर्भवेत् ॥ ५९ ॥
एवं चतुर्मनुर्देव्यास्सनातन इति स्मृतः ।
एवं मूलमनुः प्रोक्तस्तस्मिन् ब्रह्माङ्गकल्पना ॥ ६० ॥
हृत्पुटौ जातिमूलौ तु मूर्तिविद्यमनू स्मृतौ ।
आदिशक्तिमनुर्वापि मूलमन्त्र इति स्मृतः ॥ ६१ ॥
एवं मन्त्रस्समादिष्टः प्रतिष्ठा तत उच्यते ।
कालश्च पूर्ववद्ग्राह्यस्त्वङ्कुरार्पणमेव च ॥ ६२ ॥
मण्डपे स्थण्डिले पूर्वमुखां संस्थाप्य विन्यसेत् ।
तत्पीठे मध्यमे हैमं पूर्वतश्चेन्द्रनीलकम् ॥ ६३ ॥
वैडूर्यं च प्रवालं च मुक्तावज्रं तथैव च ।
पुष्परागं च गोमेदं तथा मरकतं द्विजाः ॥ ६४ ॥
हृदा वामादिमन्त्रैश्च हैमं सर्वत्र वा मतम् ।
अक्षिमोक्षं तु सौवर्णनखविन्यासमाचरेत् ॥ ६५ ॥
तर्पणं मधुपूर्वैस्तु प्रच्छन्नपटवेशनम् ।
गोद्विजालोकनं धान्यमर्त्यानां चैव पूर्ववत् ॥ ६६ ॥
आचार्यशिल्पिपूजा च मृदाद्यैर्बेरशोधनम् ।
ग्रामप्रदक्षिणं कृत्वा जले चैवाधिवासयेत् ॥ ६७ ॥
परितः कलशास्तस्य न्यसेद्वामाद्यधिष्ठितान् ।
प्रसादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्टपाः ॥ ६८ ॥
योन्याभवनपञ्चैक ऋक् सङ्ख्याकुण्डकल्पनम् ।
तत्सौम्ये कल्पयेत् सम्यक् स्नानवेदीं च पूर्ववत् ॥ ६९ ॥
तक्षकोद्वासनं विप्रभुक्तिर्गोमय लेपनम् ।
पुण्योदसेचनं वास्तुदेवतानां च पूजनम् ॥ ७० ॥
होमं च स्थण्डिलेवेद्यां पूर्ववच्छयनं नयेत् ।
जलादानीय तां देवीं स्नपनं पूर्ववन्नयेत् ॥ ७१ ॥
गन्धपुष्पादिनाभ्यर्च्य कौतुकं बन्धयेद्धृदा ।
शयने शाययेद्देवीं प्राङ्मस्तक समन्वितम् ॥ ७२ ॥
रक्तवस्त्रेण संवेष्ट्य गन्धपुष्पादिना यजेत् ।
देव्याः शिरःप्रदेशे तु घटं प्राधानिकं न्यसेत् ॥ ७३ ॥
लक्षणोदितरूपं तद्ध्यात्वा गन्धादिनार्चयेत् ।
परितोऽष्टौ घटान्नयस्त्वा वामादिभिरधिष्ठितान् ॥ ७४ ॥
वस्त्रहेमादि संयुक्तान् घटान् सर्वांश्च सम्मतान् ।
आत्मविद्याशिवाख्यं च जानुकण्ठशिरोऽवधि ॥ ७५ ॥
मायां सदेशशक्त्यन्तव्यापनीं विन्यसेद्गुरुः ।
क्रिया ज्ञानं तथेच्छा च त्रितत्त्वाधीश्वरी मता ॥ ७६ ॥
धारिका दीप्तिमत्युग्रा ज्योत्स्ना चेता बलोत्कटा ।
धात्री विभ्वती मूर्तीश्वरियुक्ता मूर्तीस्ततो न्यसेत् ॥ ७७ ॥
पञ्चमूर्त्यात्मके न्यासे वामाद्या मूर्तिपा मताः ।
गन्धपुष्पादिभिः पश्चान्नैवोद्यान्तैः क्रमाद्यजेत् ॥ ७८ ॥
मूर्तिमन्त्रं च ब्रह्माङ्गं मूल देवीं मनुं न्यसेत् ।
गुरुर्मूर्तिधरैस्सार्धं होम कर्म समारभेत् ॥ ७९ ॥
पूर्वोक्त लक्षणोपेतस्त्वादिशैव कुलोद्भवः ।
वेदपाठश्चतुर्दिक्षु कोणे मन्त्रजपो भवेत् ॥ ८० ॥
संस्कृत्य कुण्डं वह्निं च तर्पयेत्समिदादिभिः ।
समाद्घृतान्नलाजैश्च तिलैस्सर्षपकैर्यवैः ॥ ८१ ॥
पलाशोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु च ।
शमीखदिरमायूर श्री वृक्षा वह्निकोणतः ॥ ८२ ॥
पलाशस्तु प्रधानेऽपि स च सर्वत्र वा मतः ।
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥ ८३ ॥
गुरुर्मूलेन जुहुयात् तत्समं वा तदर्धकम् ।
मूर्तिपाहुतिरुद्दिष्टा ब्रह्माङ्गैरष्टदिक्षु च ॥ ८४ ॥
मूर्तिमूर्तीश्वरीश्चैव तत्तत्कुण्डेषु तर्पयेत् ।
सर्वैर्देवैस्समोपेतं प्रधाने तर्पयेद्गुरुः ॥ ८५ ॥
शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां जपमारभेत् ।
दर्भैस्संस्पर्शनञ्चैव प्रतिभागं समाचरेत् ॥ ८६ ॥
ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः ।
उत्थाप्य देवीं कुम्भांश्च प्राग्वद्वह्निं च तर्पयेत् ॥ ८७ ॥
दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं ततः ।
मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् ॥ ८८ ॥
कशिलां पूर्वमन्त्रेण रत्नहेमादि गर्भिताम् ।
प्राग्वद्धाम्नीश्वरीं नीत्वा मूलमुच्चार्यविन्यसेत् ॥ ८९ ॥
सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं च कारयेत् ।
चलाचेत् स्नानवेद्यां तु मन्त्रन्यासं समाचरेत् ॥ ९० ॥
देव्यग्रे तु घटान्न्यस्य कुम्भाद्बीजं तुतद्धृदि ।
विन्यसेदनुकुम्भेभ्यः पीठस्य परितो मनून् ॥ ९१ ॥
तत्त्वमूर्त्यादि विन्यासं पूर्ववत्कारयेत्ततः ।
तत्तत्कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ॥ ९२ ॥
स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं गुरुः ।
स्तुत्वा नेक विधैः स्तोत्रैरमुं श्लोकं पठेत्ततः ॥ ९३ ॥
यावच्चन्द्रश्चसूर्यश्च यावत्तिष्ठति मेदिनी ।
तावदत्र त्वया देवी स्थातव्यमिह मन्दिरे ॥ ९४ ॥
सम्पूज्य देशिकादींश्च दक्षिणां दापयेत्ततः ।
उत्तमादि विभिन्नां तु लिङ्गस्थापन चोदिताम् ॥ ९५ ॥
ततः कल्याणकर्मास्याश्चतुर्थे कर्मवित्ततः ।
देव्याः स्वयं प्रधानायास्सहजायाश्च वर्जयेत् ॥ ९६ ॥
कर्म वैवाहिकं विप्राः प्रतिष्ठैवं समीरिता ।
इत्थं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् ॥ ९७ ॥
एवं यः कारयेन्मर्त्यः प्रतिष्ठां भावनायुतः ।
भक्त्वेह भोगान् स्वस्येष्टान् सोऽन्ते यायाच्छिवम्पदम् ॥ ९८ ॥
पित्रोर्दिवि च संस्थाप्य कुलानामेकविंशतिम् ।
शृणु ध्वमथ विप्रेन्द्रा देव्या नित्यार्चनादिकम् ॥ ९९ ॥
शौचमाचमनं स्नानं सन्ध्योपासनतर्पणे ।
प्रागुक्त विधिना कृत्वा प्रविशेदालयं प्रति ॥ १०० ॥
प्रक्षलिताङ्घ्रिहस्तस्तु समाचम्य विधानतः ।
सकलीकृतदेहस्तु समान्यर्घ्यं प्रकल्प्य च ॥ १०१ ॥
द्वारं तदम्भसा प्रोक्ष्य पूजयेद्द्वारनायिकाः ।
द्वारस्य पार्श्वयोश्चैव शङ्ख पद्मनिधी तथा ॥ १०२ ॥
द्वारपालौ तु कर्तव्यौ खड्ग खेटक हस्तकौ ।
चूडामकुटसंयुक्तौ रत्नश्यामौ विभीषणौ ॥ १०३ ॥
सर्वाभरण सम्पन्नौ सर्वरत्न विभूषितौ ।
ऊर्ध्वोदुम्बरमध्यस्थ वाणी मभ्यर्च्य शाखयोः ॥ १०४ ॥
गङ्गां च यमुनामिष्ट्वा देव्यस्त्रं देहलीगतम् ।
अन्यथा वा विशालाक्षीं जटिला मूर्ध्वगां यजेत् ॥ १०५ ॥
समृद्धिं च धृतिं दक्षे वामशाखागतां यजेत् ।
सरस्वतीं च गङ्गां च शुक्ल वर्ण निभे मते ॥ १०६ ॥
अन्याश्च श्यामलास्सर्वा स्सर्वाभरण भूषिताः ।
खड्गखेटक धारिण्यो द्विभुजा वा चतुर्भुजाः ॥ १०७ ॥
देवोक्तद्वार पालान्वा विमलं च सुबाहुकम् ।
कवाटयोस्समभ्यर्च्य प्रविशेद्दक्षवामयोः ॥ १०८ ॥
वास्तोष्पतिं च सम्पूज्य स्वासनस्थ उदङ्मुखः ।
शक्तिस्थं स्वं समायोज्य भूतशुद्धिं च पूर्ववत् ॥ १०९ ॥
सुधासम्प्लावनं चात्मावाहनं चामृति कृतम् ।
करन्यासं च तैर्मन्त्रैर्देहन्यासं च कारयेत् ॥ ११० ॥
अष्टत्रिंशत्कलान्यासं प्रणवेन समन्वितम् ।
पञ्चमूर्धास्ययुग्देव्याः पूजायां सम्प्रकल्पयेत् ॥ १११ ॥
एकत्रिंशत्कलान्यास मेकास्ये परिकल्पयेत् ।
शशिन्यादय एवोक्ताः केवलास्तु कला इति ॥ ११२ ॥
अथवा शिवमन्त्रैस्तु शैवमापाद्य विग्रहम् ।
देवी स्कन्द गणेशादीन् सर्वान् सम्पूजयेत्तु वा ॥ ११३ ॥
सकलीकृतदेहस्सन्नन्तर्यागं समाचरेत् ।
हृदयेऽर्चाविधानं तु ना भौ होमं प्रकल्पयेत् ॥ ११४ ॥
ललाटे चेश्वरीं ध्यायेद्वरदां सर्वतोमुखीम् ।
स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कारयेत् ॥ ११५ ॥
गन्धपुष्पाक्षतोपेतं तेन द्रव्यगणं हृदा ।
संशोध्यात्मानमभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ॥ ११६ ॥
बेरशुद्धिं ततः कुर्यात् पूजां पर्युषितामपि ।
गणाम्विकायै विद्महे महातपायै धीमहि ॥ ११७ ॥
इत्युक्त्वादौ तदन्ते तु तन्नो देवी प्रचोदयात् ।
इति मन्त्रं समुच्चार्य समभ्यर्च्य निवेदयेत् ॥ ११८ ॥
देव्यै निर्माल्य धारिण्यै त्यजेद्वा पूजकोत्तमः ।
देव्यस्त्रमुच्चरन्मन्त्री बेरशुद्धिं विधाय च ॥ ११९ ॥
बेरं चेल्लोहजं कुर्यात्स्नानं पर्वणि पर्वणि ।
सुधाचित्रादिकं चेत्तु कर्मार्चा शुद्धिरिष्यते ॥ १२० ॥
अथवा स्त्राणुनालब्ध तालवृन्तज वायुना ।
तत्रैवाम्लान माला स्याद निर्वाण प्रदीपकम् ॥ १२१ ॥
प्रत्यहं त्वर्चनं नेष्टं किन्त्वेवं वत्सरे मतम् ।
अथवोपलमूर्तिश्चेत् क्षालनं तत्र कीर्त्यते ॥ १२२ ॥
कल्पयेदासनं मध्ये शक्तिमाधाररूपिणीम् ।
अनन्त धर्म पूर्वाश्च दिक्ष्वनन्तादि संहितम् ॥ १२३ ॥
ऊर्ध्वाधश्छदने पद्मकर्णिके शक्तिमण्डलम् ।
वामाद्यं मण्डलानीकं क्रियेच्छाज्ञान शक्तिभैः ॥ १२४ ॥
ततो देव्यासनायेति पूजयेदनुपूर्वशः ।
मूर्ति तद्ब्रह्मभिः कृत्वा तत्कलाः प्राग्वदाचरेत् ॥ १२५ ॥
विद्यादेहं च सम्पाद्य पूजाबेर स्वरूपकम् ।
प्रणवाअत्तत्र देवेशी माविष्कुर्यात् प्रसादतः ॥ १२६ ॥
हृदयानुगतेनैव पुष्पपूरित सत्करः ।
आवाह्यमूलमन्त्रेण देव्यास्संस्थापयेद् धृदा ॥ १२७ ॥
सन्निधाननिरोधेन हृदा कृत्वावकुण्ठनम् ।
हृदादि न्यासतः कृत्वा महामुद्रां प्रदर्शयेत् ॥ १२८ ॥
अर्घ्यपात्रं समुत्क्षिप्य पादे पाद्यं हृदा नयेत् ।
वक्त्रेचाचमनं दद्यात् अर्घ्य मीशान मन्त्रतः ॥ १२९ ॥
पाद्याद्यं पूर्ववद्वापि पृथक् कृत्वा निवेदयेत् ।
गन्धपुष्प समोपेतं धूपं दद्याद् धृताणुना ॥ १३० ॥
पञ्चामृतादि युक्तं वा वियुक्तं स्नानमाचरेत् ।
उन्मृज्य वाससा पश्चाद्वासमा परिवेष्टयेत् ॥ १३१ ॥
गुह्येनाचमनं दद्याद्गन्धपुष्पं सधूपकम् ।
दीपं मूलाणुना दत्वा नैवेद्यं विनिवेदयेत् ॥ १३२ ॥
आमन्त्र हविषोपेतं केवलं वा द्विजोत्तमाः ।
पूजयेदावृत्तिं पश्चाद् हृदयं वह्निगोचरे ॥ १३३ ॥
शार्वे शिरश्शिखां रक्षोदिशि वायौ तदुच्छदम् ।
अस्त्रं दिक्ष्वथ सम्पूज्य वामाद्या वाथ पूर्वतः ॥ १३४ ॥
गणविद्येशलोकेशतदस्त्रान् परितो यजेत् ।
एकद्वित्रिचतुर्भिर्वावरणैस्तां समर्चयेत् ॥ १३५ ॥
पुनर्धूपं च दीपं च मन्त्र गाणाद्य मेव च ।
नैवेद्यं बलिहोमाश्च कृत्वा नित्योत्सवं नयेत् ॥ १३६ ॥
देवी तदर्थं कर्तव्या ह्येकवक्त्रा चतुर्भुजा ।
वरदाभयहस्ता च शङ्ख चक्र करा परा ॥ १३७ ॥
पद्मासनस्था तस्यान्तु यजेद्देवीं मनोन्मनीम् ।
पुष्पान्नाक्षत लिङ्गेषु मेधां प्रज्ञामुषां यजेत् ॥ १३८ ॥
पूर्वोक्त विधिना कृत्वा प्रासादस्य प्रदक्षिणम् ।
पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति ॥ १३९ ॥
नित्योत्सवाय बेराणि कल्पितानि बहूनि चेत् ।
तदर्थं कल्पयेत्तेषु यथेष्टं बेरमुत्तमम् ॥ १४० ॥
एकाकालं द्विकां वा त्रिचतुष्पञ्चकालकम् ।
षट्सप्तवसुकालं वा सर्वदा त्वर्चयेच्छिवाम् ॥ १४१ ॥
नित्योत्सवस्समादिष्ट स्सर्वाभीष्ट फलप्रदः ।
उत्सवं स्नपनं चैव दमनारोहणक्रियाम् ॥ १४२ ॥
पवित्रारोहं सम्यक् कृत्तिकादीपमेव च ।
संवत्सादिखेलां च वसन्ताख्यं तदुत्सवम् ॥ १४३ ॥
मासोत्सवं तथा मासे नव नैवेद्यकं तथा ।
विशेषात् पूरकर्मापि प्रायश्चित्तं द्विजोत्तमाः ॥ १४४ ॥
जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् ।
किं तूत्सवे ध्वजे सिंहं वृषभं वा समालिखेत् ॥ १४५ ॥
पूर्व फल्गुनी नक्षत्रे तीर्थ कर्म विशेषतः ।
शिवोत्सवेऽपि देव्यास्तु प्रत्यहं चोत्सवो मतः ॥ १४६ ॥
ध्वजहोमबलिं हित्वा केवलं यानमेव च ।
चक्रास्त्रं वा त्रिशूलं वा देव्यस्त्र परिगृह्यताम् ॥ १४७ ॥
उत्सव प्रतिमा कार्या पूर्वलक्षणलक्षिता ।
कृतकौतुक देव्यास्तु तद्ग्रामान्निर्मगो नहि ॥ १४८ ॥
यत्रैव बलिं दानं स्यात् तत्रावश्यं हि यानकम् ।
अन्यत्रापि च यानं वा धाम्नि सर्वं तु वा मतम् ॥ १४९ ॥
एकादि साल युक्तं चेत् बहिः श्रेष्ठं प्रकीर्तितम् ।
सर्व देवेषु सामान्यं विधानमिदमग्रजाः ॥ १५० ॥
धाममूर्धेष्टकास्तूपिस्थापनं पूर्ववन्नयेत् ।
दिग्देव मूर्तिसंयुक्तं मध्ये कुम्भ समन्वितम् ॥ १५१ ॥
धामसंस्थापनं कुर्यात् प्रागुक्त विधिना सह ।
अस्याः प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा ॥ १५२ ॥
देव्यनुग्रहत स्सार्वभौमत्वं नृपतेर्भवेत् ।
तस्माद्देव्यग्रतः कुर्यात् त्वभिषेकं नृपस्यतु ॥ १५३ ॥
एवं सम्यक् समाख्यातं देव्यास्संस्थापनादिकम् ॥

इति कामिकाख्ये महातन्त्रे देवी स्थापन विधिः चतुश्चत्वारिंशत्तमः
पटलः ॥

द्विभुजा वा द्विनेत्रा वा प्रलम्बितकरान्विता
पद्महस्तातिशान्ताद्य सादेवीकनकप्रभा

चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका ।
दुकूल वसनो देवी करण्टममुटान्विता ॥
वरदाभय संयुक्ता शूलपाशकरान्विता ॥

चतुर्भुजात्रिणेत्रा च सुप्रसन्नैकवक्त्रका ।
दुकूल वसना देवी करण्टमकुटान्विता ॥
वरदाभय संयुक्ता पाशाङ्कुशकरान्विता ॥

चतुर्भुजात्रिणेत्राच सुप्रसन्नैकवक्त्रका ।
दुकूल वसनादेवी करण्ट मकुटान्विता ॥
वरदा संयुक्ता पाशाङ्कुश करान्विता ॥

चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका ।
दुकूल वसनो देवी करण्टमकुटान्विता ॥
वरदाभय संयुक्ता शूलपाशकरान्विता ॥

चतुर्भुजा त्रिणेत्रा च सुप्रसन्नैक वक्त्रका ।
दुकूल वसना देवी करण्टमकुटान्विता ॥
वरदाभय संयुक्ता शूलपाशकरावपि ॥

दुकूलवसना देवी करण्डमकुटान्विता ।
वरदाभयसंयुक्ता पाशाङ्कुश करान्विता ॥
यथेष्टस्त्रापि शङ्ख चक्र हस्ता तु षड्भुजा ॥

दुकूल वसनादेवी करण्डमकुटान्विता
वददाभयसंयुक्ता शुकोत्पल करावपि ॥
यथेष्टास्त्रापि शङ्खचक्रहस्तातु षड्भुजा ॥

४५। पञ्चचत्वारिंशत्तमे पटले विघ्नेश प्रतिष्ठाविधिः

विघ्नेश स्थानं वक्ष्ये लक्षणादि पुरस्सरम् ।
पुरादावष्टदिक्ष्वन्त वान्तराले तदालयः ॥ १ ॥
शिवधाम्न्यष्टदिक्ष्विष्टस्तद्देशे मण्डपादिषु ।
चैत्यवृक्षादि देशेषु तन्मूले वाखिलालये ॥ २ ॥
आपणे वाथ रथ्यायां गृहे वा यत्र कुत्रचित् ।
यथेष्टदिशि वक्त्रं स्याद्विघ्नेशस्य हि कीर्तितम् ॥ ३ ॥
अथैकादित्रयस्त्रिंशद्धस्तविस्तार संयुतः ।
एकादि नवभूम्यन्तभूमिभाग समन्वितम् ॥ ४ ॥
विशेषाद्गजपृष्ठा भस्त्वन्यरूपयुतोऽथवा ।
दिक्षु विघ्नेश्वरोपेतः कोणे मूषिकसंयुतः ॥ ५ ॥
गणो वा स्कन्दरूपाढ्यस्त्वधमालय ईरितः ।
पूर्ववत्कृतसद्गर्भः प्रथमेष्टकयान्वितः ॥ ६ ॥
दिग्देवमूर्तिसंयुक्तो मध्यकुम्भयुतो न वा ।
धाम्नस्संस्थापनेनापि युक्तः प्रागुक्तवर्त्मना ॥ ७ ॥
प्राकारमण्टपोपेतो मण्टपाद्यैश्च मण्डितः ।
मण्टपो वालयस्तस्य कूटाद्याकार एव वा ॥ ८ ॥
परितः परिवारोक्तः प्रसङ्गात् स च कथ्यते ।
विश्वरूपं विशालाक्षमक्षयं मदविभ्रमम् ॥ ९ ॥
उन्मत्तं ललितं भीमं तीक्ष्णदंष्ट्रं यथाक्रमम् ।
अस्याष्टमूर्तीशान्वाष्टपीठानिद्राद्यधिष्ठितान् ॥ १० ॥
कल्पयेत् पूर्वत् सम्यगू द्वाराग्रे मूषिकं च वै ।
द्वारपौ कल्पयेद्द्वारि विकटं भीममेव च ॥ ११ ॥
कुम्भोदरं तथैशान्यां न्यसेन्निर्माल्यधारिणम् ।
आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा ॥ १२ ॥
अविघ्नो विघ्नराजश्च भक्ष्याशी पञ्चहस्तकः ।
एतेऽष्टमूर्तिपाः ख्यातास्त्वन्यथा च निगद्यते ॥ १३ ॥
हस्तिवक्त्रः प्रलम्बोष्ठो विघ्नेशश्च गणाधिपः ।
विनायकैकदन्तौ च भक्ष्यप्रियोऽहि मेखलः ॥ १४ ॥
विघ्नेश्वरनिभा एते विघ्नेशस्याष्टमूर्तिपाः ।
द्वारस्थौ द्वारपौ कार्यौ भूतरूपौ द्विबाहुकौ ॥ १५ ॥
हलपल्लवहस्ताढ्यौ दक्षिणे दण्डधारकौ ।
उग्रदंष्ट्रान्वितौ सिंहकन्धरस्थैकपादकौ ॥ १६ ॥
रक्तवर्णनिभौ रौद्रौ द्वारपौ विकृताननौ ।
धूम्रवर्णस्तथा चाखू रक्तनेत्रस्सुदंष्त्रवान् ॥ १७ ॥
तीक्ष्णपुच्छश्चतुष्पादः किङ्किणीदामभूषितः ।
कुम्भोदरश्चतुर्हस्तष्टङ्कशूलासिदण्डधृक् ॥ १८ ॥
रक्तवर्णो महादीप्तो भद्रपीठोपरि स्थितः ।
श्वेतवर्णा बृहत्काया उग्राश्चिराम्बरान्विताः ॥ १९ ॥
पाशाङ्कुशोरुसंसिक्तस्वदन्तयुतबाहवः ।
परिवारा इति ख्याता गणेशाभिमुखस्थिताः ॥ २० ॥
परिवारान्तरे सर्वे क्षेत्रपाः परिकीर्तिताः ।
बलिपीठं महापीठं पूर्ववत् परिकल्पयेत् ॥ २१ ॥
पीठस्याष्टदलेषूक्ता आमोदाद्यष्टमूर्तयः ।
भूतेशः कर्णिकायां च लोकपास्त्राणि बाह्यतः ॥ २२ ॥
लक्षणं तस्य सङ्क्षेपाच्छृणुध्वं विप्रसत्तमाः ।
द्रव्यैश्शिलादिभिः कुर्यात् पञ्चतालोत्तमेन तु ॥ २३ ॥
पञ्चाशद्भाजिते गर्हे पञ्चंशादेकवृद्धितः ।
त्रिंशद्भगावसानान्तं गर्भमानमुदाहृतम् ॥ २४ ॥
स्तम्भद्वारोदयादेवं मानमप्यत्र भाव्यताम् ।
प्रतिमालक्षणप्रोक्तमानं लिङ्गादिजं तु वा ॥ २५ ॥
केशादिपादपर्यन्तं चतुष्षट्यंशतो भजेत् ।
उष्णीषमेकमात्रेण तत्केशं द्वयङ्गुलेन तु ॥ २६ ॥
अर्काङ्गुलेन वक्त्रं स्याद्द्वाभ्यां कण्ठ इहेरितः ।
ततो हृदयपर्यन्तं रुद्राङ्गुलमिति स्मृतम् ॥ २७ ॥
अर्काङ्गुलं तु नाभ्यन्तं मेढ्रान्तं कौशिकाङ्गुलम् ।
तथैव तस्माज्जान्वन्तं जान्वायामं गुणाङ्गुलम् ॥ २८ ॥
जङ्घा चोरुसमा ज्ञेया तलोत्सेधं द्विमात्रकम् ।
केशान्तादक्षिसूत्रान्तं चतुरङ्गुलमिष्यते । मुच्यते ॥ २९ ॥
दन्तमूलान्तु जान्वन्तं गजहस्तस्य दैर्घ्यकम् ।
दन्तायामाचतुर्मात्रं मूलनाहं तथैव च ॥ ३० ॥
दक्षिणेऽदक्षिणे वापि दन्तमेकं प्रकल्पयेत् ।
मस्तके कुम्भविस्तारं प्रत्येकं तु गुणाङ्गुलम् ॥ ३१ ॥
नेत्रं तु कर्णमूलान्तं चतुरङ्गुलमुच्यते ।
कर्णौ च दशमात्रौ स्यात् तत्तारं नन्दमानकम् ॥ ३२ ॥
कक्षयोरन्तरं पूर्वे प्रोक्तं पञ्चदशाङ्गुलम् ।
कक्षात्तु चोर्ध्वबाह्वन्तं षडङ्गुलमिति स्मृतम् ॥ ३३ ॥
मध्यकायस्य विस्तारं मन्वङ्गुलमुदाहृतम् ।
हृदयान्नाभिसीमान्तं दशाङ्गुलमिहोच्यते ॥ ३४ ॥
नाभेरधस्तान्मेढ्रान्तं वस्वङ्गुलमुदाहृतम् ।
अष्टाङ्गुलं द्वयोरूर्वोर्जानुनी चाङ्गुलत्रये ॥ ३५ ॥
जङ्घे द्वे तलपर्यन्ते वस्वङ्गुलविनिर्मिते ।
जगवक्त्रो गणाधीशो भूतरूपो महोदरः ॥ ३६ ॥
नागयज्ञोपवीतस्तु धनपिण्डोरुजानुकः ।
नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः ॥ ३७ ॥
अवामवामावर्तेभहस्तः पद्मासनस्थितः ।
स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये ॥ ३८ ॥
लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् ।
रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् ॥ ३९ ॥
पीतकञ्चुकसछन्नं किरीटमकुटोज्ज्वलम् ।
शुक्लयज्ञोपवीतं च सर्वाभरणभूषितम् ॥ ४० ॥
स्वशङ्गं वाङ्कुशं दक्षे वामे पाशं च लड्डुक ।
स्थानकं वासनं वाथ गणेशं कारयेत्ततः ॥ ४१ ॥
त्रिभिर्विराजितं नेत्रैर्नेत्राभ्यामथवा द्विजाः ।
पद्मस्थं वापि पीठस्थं मूषिकस्थमथापि वा ॥ ४२ ॥
इष्टासनस्थितो वापि प्रभादिपरिमण्डितः ।
एवं स्यात् केवलो विघ्नराजश्शक्त्यान्वितोऽथवा ॥ ४३ ॥
गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा ।
शक्त्यैकया युतो देवो यदि तल्लक्ष्म कथ्यते ॥ ४४ ॥
आसीनमासने रत्नमकुटादिविभूषिताम् ।
श्यामवर्णां तथा शक्तिं धारयन्तं दिगम्बरम् ॥ ४५ ॥
उत्सङ्गे निहितां देवीं सर्वाभरणभूषितम् ।
दिगम्बरां सुवदनां भुजद्वय समन्विताम् ॥ ४६ ॥
विघ्नेश्वरीति विख्यातां सर्वावयवसुन्दरीम् ।
पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु ॥ ४७ ॥
स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्रनायकम् ।
चतुर्भुजं त्रिणेत्रं च पाशाङ्कुशधरं प्रभुम् ॥ ४८ ॥
इक्षुखण्डकरोपेतं वामेन देविगुह्यकम् ।
स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः ॥ ४९ ॥
एवं सम्पाद्य तन्मन्त्रैः प्रतिष्ठामारभेद्द्विजाः ।
द्वितीयस्य तृतीयं यदाद्यस्वरसमन्वितम् ॥ ५० ॥
बिन्दुनादसमायुक्तं बीजं विघ्नेश्वरस्य तु ।
त्रयोदशान्तसम्पन्नमथवा परिकल्पयेत् ॥ ५१ ॥
कवर्गस्य तृतीयं तु वह्निमाया समन्वितम् ।
हृल्लेखासम्पुटोपेतं बीजं स्यात् त्र्यक्षरं द्विजाः ॥ ५२ ॥
श्रीवाग्बीजसमायुक्तमथवा परिकल्पयेत् ।
पञ्चब्रह्मषडङ्गानि मूलमन्त्रवशान्नयेत् ॥ ५३ ॥
वक्रतुण्डाय हुं वर्णैरुद्धरेत्तु षडक्षरम् ।
नमः स्वाहा वषट्कार हुं वौषड्भिर्हृदादयः ॥ ५४ ॥
फट्कारेण च संयुक्ताः प्रोक्ताः स्युर्मुनिपुङ्गवाः ।
द्वितीयस्य तृतीयं तु षष्ठवर्गान्तमेव च ॥ ५५ ॥
सप्तमस्य तृतीयं तु तद्वर्गस्य चतुर्थयुक् ।
तस्य द्वितीयमाद्यं च सचतुर्दशवर्णकम् ॥ ५६ ॥
बिन्दुनाद समायुक्तं बीजमेतद्दशाक्षरम् ।
द्वितीयस्य तृतीयं तु ब्रह्माण्यङ्गानि चोद्धरेत् ॥ ५७ ॥
विरिशब्दं त्रिरुच्चार्य ततो गणपतिं पुनः ।
वरदं तु समुच्चार्य वरदद्वितयं वदेत् ॥ ५८ ॥
सर्वलोकवशं पश्चादानयेति पदं ततः ।
स्वाहापदं ततस्त्विष्टं मन्त्रः शक्त्यन्वितस्य हि ॥ ५९ ॥
ॐकारादिपदैर्मन्त्रैर्हृदयादय ईरिताः ।
हृल्लेखासम्पुटो मन्त्रस्त्वथ कारणकार्ययुक् ॥ ६० ॥
गणेशादिपदोपेतस्त्वेष प्राधानिको मनुः ।
इक्षूदधिस्ततः स्वर्णद्वीपं कल्पद्रुमस्ततः ॥ ६१ ॥
सिंहासनं च मन्त्रास्स्युः शक्तिविघ्नेश्वरासने ।
दक्षहस्तस्य मूलं तु नासायामूर्ध्नि विन्यसेत् ॥ ६२ ॥
कुञ्चयेदग्रमेतस्य मुद्रैषा तु गणेश्वरी ।
अपरा मूलमुद्राख्या मध्यमां तु प्रसारयेत् ॥ ६३ ॥
अनामिकामथाकुञ्च तर्जनीमपि चानयेत् ।
अङ्गुष्ठं शृङ्गवत्कृत्वा मुद्रैषा मूलसञ्ज्ञिता ॥ ६४ ॥
अनया मुद्रया सर्वं कर्म कुर्याद्गुरूत्तमः ।
ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पणपूर्विका ॥ ६५ ॥
पूर्वोक्तकाले रत्नानि न्यसेत्पीठे च नैव वा ।
पञ्च तत्सङ्ख्यहेम्नाथ हैमसूचि समन्वितम् ॥ ६६ ॥
पूर्वोदित प्रकारेण न्सेदिन्द्रादि संस्मरन् ।
कृत्वा पद्मस्य सङ्घातं नेत्रमोक्षणमाचरेत् ॥ ६७ ॥
मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां हृदाणुना ।
सुवर्णनखधान्यौधप्रच्छन्नपटकादिभिः ॥ ६८ ॥
यदि देवीयुतो विघ्नः पृथक् तस्यां च कारयेत् ।
बेरशुद्धिं ततः कृत्वा ग्रामादीनां प्रदक्षिणम् ॥ ६९ ॥
तोयेऽधिवासयेद्देवं लम्बकूर्चयुतं हृदा ।
परितोऽष्टौ न्यसेत् कुम्भानाशेशैरप्यधिष्ठितान् ॥ ७० ॥
यागार्थं मण्टपं कुर्याद्धाम्नोग्रे तस्य पार्श्वयोः ।
यमाप्येन्दुषु वा पद्मनिभकुण्डादिमण्डितम् ॥ ७१ ॥
कुण्डानि नव पञ्चैक सङ्ख्यया कथितानि तु ।
तानि वृत्तानि चाश्राणि दिगश्राणि मुनीश्वराः ॥ ७२ ॥
प्रधानकुण्डं सर्वत्र वृत्तमेव प्रकीर्तितम् ।
मण्डपं कल्पयित्वैवं प्रागुक्तेन च वर्त्मना ॥ ७३ ॥
उद्धास्य शिल्पिनं पश्चाद्द्विजान् सम्भोजयेत्ततः ।
पुण्याहप्रोक्षणं कृत्वा वास्तुहोमं तु कारयेत् ॥ ७४ ॥
भुवः परिग्रहं वापि प्रागुक्तविधिना नयेत् ।
जलादानीय विघ्नेशं स्नानवेद्यां तु विन्यसेत् ॥ ७५ ॥
मण्टपे चोत्तरस्थे च स्नपनं प्राग्वदाचरेत् ।
कौतुकं बन्धयित्वान्ते मन्त्रं सर्वात्मकं पठन् ॥ ७६ ॥
सङ्कल्प्य शयनं वेद्यां स्थण्डिलोर्ध्वेऽण्डजादिभिः ।
अवस्त्रैर्वा पञ्चभिश्शुद्धैस्तस्मिंस्तं शाययेद्धृदा ॥ ७७ ॥
आवेष्ट्य रक्तवासोभ्यां कुम्भन्यासं समाचरेत् ।
विनायकशिरोदेशे सूत्रकूर्चसमन्वितम् ॥ ७८ ॥
कुम्भं सद्वस्त्रापनस चूताश्वत्थदलान्वितम् ।
पञ्चरत्नोदकं वाथ हेममाषोदकं तु वा ॥ ७९ ॥
बीजपूरफलाद्याढ्यं परितोऽष्टौ घटान्यसेत् ।
वस्त्रहेमादि सम्युक्तान् पूजयेद्गन्धपुष्पकैः ॥ ८० ॥
सासनेन सदेहेन गणेशेनाप्यधिष्ठितम् ।
कुम्भमिष्ट्व तु पूर्वोक्तध्यानयुग्गन्धपुष्पकैः ॥ ८१ ॥
परिवारघटेष्वेवं हस्तिवक्त्रादिकं नयेत् ।
आमोदप्रमुखान्वापि नैवेद्यान्तैर्गुरुत्तमाः ॥ ८२ ॥
देवीद्वययुतं चेद्द्विपार्श्वयोर्वर्धनीद्वयम् ।
सैका चेदुत्तरे न्यस्य तत्र तामर्चयेत् पुनः ॥ ८३ ॥
शिवविद्यात्मतत्त्वानि सदेशान्तगतानि च ।
न्यस्य गन्धादिभिश्चेष्ट्वा तदीशांश्च क्रमाद्यजेत् ॥ ८४ ॥
गणेशात्मकतत्वेशं चतुर्थ्यन्तं नमोऽन्तकम् ।
उक्त्वा तेनैव मार्गेण शिवविद्येश्वरान्न्यसेत् ॥ ८५ ॥
मूर्तिमूर्तीश्वराश्चैव मूर्तयः पूर्वन्मताः ।
इन्द्राद्या हस्तिवक्त्राद्या आमोदाद्यास्तु वाधिपाः ॥ ८६ ॥
पञ्चपक्षे तु मूर्तीशाः पञ्चाष्टस्वादितो मताः ।
मूर्तिब्रह्मषडङ्गानि विद्यादेहं च मूलकम् ॥ ८७ ॥
विन्यस्य गन्धपुष्पादद्यैरिष्ट्वा होमं समाचरेत् ।
पूर्वोक्त भूषणोपेतश्शिवविप्र कुलोद्भवः ॥ ८८ ॥
गुरुमूर्तिधरैस्सार्धं होमकर्म समाचरेत् ।
वेदपाठश्चतुर्दिक्षु कोणे मूलजपो भवेत् ॥ ८९ ॥
संस्कृत्य वह्निं कुण्डं च वन्हिकार्योक्तमार्गतः ।
दिक्षु तत्पुरुषादींश्च कोणेषु हृदयाद्यणून् ॥ ९० ॥
ईशं प्रधाने सर्वैश्च मूर्तिमूर्तीश्वरैर्युतम् ।
आवाह्याभ्यर्च्य गन्धाद्यैर्द्रव्यैरेभिश्च तर्पयेत् ॥ ९१ ॥
समिद्घृतान्नलाजैश्च तिलापूपगुलैर्यवैः ।
तत्त्वतत्त्वेशहोमं च मूर्तिमूर्तीश्वरैर्नयेत् ॥ ९२ ॥
शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् ।
दर्भसंस्पर्शनं चेत्थं प्रतिभागं समाचरेत् ॥ ९३ ॥
ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः ।
उद्धृत्य विघ्नराजानं कुम्भानग्निं च तर्पयेत् ॥ ९४ ॥
प्रायश्चित्तनिमित्तं तु घोराहुतिशतं नयेत् ।
दत्वा पूर्णाहुतिं पश्चात् प्रविशेद्भवनं गुरुः ॥ ९५ ॥
मानुषे दैविके वापि प्राग्वत् संस्कृत्य विन्यसेत् ।
कशिलां पूर्वमन्त्रेण रत्नौषध्यादिगर्भिताम् ॥ ९६ ॥
अथ ब्रह्मशिलोपेतं स्थापयेच्च गणाधिपम् ।
प्राग्वन्न्यस्य गणेशानं मूलमन्त्रं समुच्चरन् ॥ ९७ ॥
सौमुहूर्ते सुलग्ने तु मन्त्रन्यासं समाचरेत् ।
चलं चेत् स्नपनवेद्यां मन्त्रन्यासो भवेद्द्विजाः ॥ ९८ ॥
द्वेग्रे तु घटान्न्यस्य कुम्भाद्बीजं तु तद्धृदि ।
विन्यसेदन्यकुम्भेभ्यः पीठस्य परितो मनून् ॥ ९९ ॥
तत्तत् कुम्भोदकैश्चैव तत्तद्देशेऽभिषेचयेत् ।
तत्त्वमूर्त्यादिविन्यासं पूर्ववत् कारयेत्ततः ॥ १०० ॥
स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं नयेत् ।
गणेशो भारती श्रीभ्यां युतो यदि मुनीश्वराः ॥ १०१ ॥
तदुक्तवत् तयोः कुर्यात् प्रतिष्ठां हि गुरुत्तमाः ।
विघ्नेश्वरीयुतश्चेद्धि तन्नाम्ना स्थापयेत्तु ताम् ॥ १०२ ॥
विन्यसेत् कुम्भपार्श्वस्थकरकान्मन्त्रमुत्तमम् ।
तासां हृदि विशेषेण ततः स्थापनमाचरेत् ॥ १०३ ॥
विघ्नेशस्थापनं ह्येवं यः कुर्याद्बुद्धिमान् स चेत् ।
आयुष्कामो लभेदार्धनार्थि चेद्धनानि च ॥ १०४ ॥
विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियम् ।
पुत्रान् सौभाग्यमारोग्यं यशोवीर्यं श्रियं शुभभम् ॥ १०५ ॥
लभेत् परत्र मोक्षं च विघ्नेशस्थापनेन तु ।
तस्यार्चनं च सङ्क्षोपाछृणुध्वं मुनिपुङ्गवाः ॥ १०६ ॥
उत्थाय प्रातरावश्यं शौचं स्नानं समाप्य च ।
सन्ध्याया वन्दनं मन्त्रतर्पणं प्राग्वदेव तु ॥ १०७ ॥
कृत्वालयं विशेत् पश्चान्निर्णिक्ताङ्ग्धकरद्वयम् ।
आचान्तस्सकलीकृत्य सामान्यार्घ्यकरो गुरुः ॥ १०८ ॥
द्वारं तदम्भसा प्रोक्ष्य विकटं भीममर्चयेत् ।
देवोक्तान्वा सुबाहुं च विमलं तल्पयोर्यजेत् ॥ १०९ ॥
प्रविश्य हेतिं देहल्यां दक्षस्थचरणेन तु ।
वास्त्वीशं च समभ्यर्च्य स्वासनस्थ उद्ङ्मुखः ॥ ११० ॥
संयोज्य शक्तावात्मानं रक्षयेद्ध्वंसितास्थितिः ।
तदुद्भूतामृतेनाद्रीङ्कृतकाय समन्वितः ॥ १११ ॥
अस्त्रेण हस्तौ संशोध्य चन्दनेनापि चर्चितौ ।
ईशास्यघोरवामाजान् करजेषु तले दृशाम् ॥ ११२ ॥
मूलं च हृच्छिरश्चूडावर्महेतीन्न्यसेत् क्रमात् ।
ज्येष्ठादिषु कराग्रेषु पुनर्मूलं च भावयेत् ॥ ११३ ॥
देहन्यासं च तन्मन्त्रैर्मूलब्रह्मान्वितैस्तु वा ।
एकत्रिंशत्कलान्यासं देववत् परिकल्पयेत् ॥ ११४ ॥
आपाद्यैवं तनुं मन्त्री लिपिन्यासान्वितां न वा ।
गणेशानवदात्मानं ध्यात्वान्तर्यजनं नयेत् ॥ ११५ ॥
अथवा शिवमन्त्रैस्तु शैवीङ्कृत्वा निजां तनुम् ।
इष्ट्वा हुत्वा गणेशानं ध्यात्वा हृन्नाभिबिन्दुषु ॥ ११६ ॥
स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यं च कल्पयेत् ।
गन्धपुष्पाक्षतोपेतं पूर्वद्रव्ययुतं न वा ॥ ११७ ॥
पाद्यमाचमनं तद्वदर्घ्यं केवलमेव वा ।
सम्प्रोक्ष्यार्घ्यजलेनैव प्रत्येकं द्रव्यसंहितम् ॥ ११८ ॥
हृदाभिमन्त्र्य स्वात्मानमिष्ट्वा सर्वात्मकं स्मरन् ।
मन्त्रशुद्धिं ततः कृत्वा बेरशुद्धिं ततो नयेत् ॥ ११९ ॥
इष्ट्वा पर्युषितां पूजां वक्रतुण्डाय विद्महे ।
इत्युक्त्वा हस्तिवक्त्राय धीमहीति पदं ततः ॥ १२० ॥
तन्नो दन्तिपदं पश्चात् पदमुक्त्वा प्रचोदयात् ।
इत्युच्चरंस्ततोऽर्घ्येण सामान्यार्घ्येण वार्चयेत् ॥ १२१ ॥
हृदापनीयातां बाह्ये दद्यान्निर्माल्यधारिणे ।
त्यजेद्वाबेरसंशुद्धिं कारयेदुक्तवर्तमना ॥ १२२ ॥
लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ।
चित्रादिकं चेत् कर्मार्चाशुद्ध्या शुद्धिर्मता द्विजाः ॥ १२३ ॥
मन्दानिलेनास्त्रलब्धतालवृन्तोत्थितेन वा ।
कृत्वेत्थमात्मभूद्रव्यमन्त्रबिम्बविशोधनम् ॥ १२४ ॥
कल्पयेदासनं मध्ये प्रणवं धर्मसम्मुखान् ।
अधर्मादीनधश्चोर्ध्वच्छदने पद्ममन्तरा ॥ १२५ ॥
प्रणवाम्भसि सम्भूतं पीतकर्णिकया युतम् ।
शक्त्यन्वितश्चेत्तस्योक्तमार्गेणासनमाचरेत् ॥ १२६ ॥
ततो गणासनायेति पूजयेदनुपूर्वशः ।
मूर्तिमावाह्य तां प्राग्वद्देहं सङ्क्ल्प्य मन्त्रकैः ॥ १२७ ॥
प्रणवात्तत्र विघ्नेशमाविष्कुर्यात् प्रसादतः ।
हृदयानुगतेनैव पुष्पापूरितसत्करः ॥ १२८ ॥
निष्ठुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् ।
हृदाद्यणुभिरस्त्रान्तैर्महामुद्रां प्रदर्शयेत् ॥ १२९ ॥
हृदा पाद्यं पदोर्दत्वा वक्त्रेणाचमनं नयेत् ।
अर्घ्यमीशं स्मरन्दत्वा गन्धपुष्पं सधूपकम् ॥ १३० ॥
हृदा पञ्चामृताढ्यं च वियुक्तं स्नापयेत्तु वा ।
उन्मृज्य वाससा पश्चाद्वाससा परिधापयेत् ॥ १३१ ॥
वक्त्रेणाचमनं दत्वा चन्दनागरुकुष्ठकान् ।
पिष्ट्वा कर्पूरसंयुक्तान् केवलं चन्दनं तु वा ॥ १३२ ॥
दत्वा कृष्णागरूपेतं धूपं दद्याद्धृदाणुना ।
लघुचन्दननिर्यासकर्पूरैर्धूपमेव वा ॥ १३३ ॥
सुरभीणि विचित्राणि सर्वर्तुप्रसवानि तु ।
तत्क्षणप्रतिबुद्धानि प्राग्वत् पुष्पाणि दापयेत् ॥ १३४ ॥
तैलाज्यदीपितान्दीपान्दापयेद्घृदयाणुना ।
नैवेद्यं दापयेत्पश्चान्मुद्गान्नादियुतं न वा ॥ १३५ ॥
गन्धादीनां प्रमाणानि पश्चिमास्यार्चनोक्तवत् ।
पूजयेदावृतिं पश्चाद्धूपदानावसानके ॥ १३६ ॥
अग्नौ च रक्षोवाय्वीशदिक्षु दिक्षु हृदाद्यणून् ।
तद्बाह्ये हस्तिवक्त्रादीनामोदप्रमुखानथ ॥ १३७ ॥
इन्द्रादींश्च तदस्त्राणि तद्बाह्ये सम्यगर्चयेत् ।
एकेन वा यजेद्द्वाभ्यां त्रिभिर्वावरणैर्गणम् ॥ १३८ ॥
पुनर्धूपं च दीपं च मन्त्रगानाद्यमेव च ।
नैवेद्यबलिहोमांश्च कारयेत् पूर्ववर्त्मना ॥ १३९ ॥
पलाशसमिदाज्यान्नलाजान् पृथुकसंयुतान् ।
मूलेन शतपञ्चाशद्दशसङ्ख्येन वा गुरुः ॥ १४० ॥
मूलाद्दशांशसङ्ख्यैस्तैरङ्गैर्होमं समाचरेत् ।
नित्योत्सवं ततः कुर्याद्गणबेरेण वर्त्मना ॥ १४१ ॥
पूर्वोक्तमानयुक्तेन तस्मिन्नभ्यर्चयेद्गणम् ।
पुष्पान्नाक्षतलिङ्गेषु गणास्त्रं हेतिना यजेत् ॥ १४२ ॥
नित्योत्सवोऽयं कर्तव्यो बेरयुक्तोऽथवा न वा ।
पूर्वोक्तविधिना कृत्वा प्रासादस्य प्रदक्षिणम् ॥ १४३ ॥
पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति ।
एककालं द्विकालम् वा त्रिचतुष्पञ्चकालकम् ॥ १४४ ॥
षट्सप्तवसुकालं वा सर्वदा वार्चयेद्गणम् ।
ज्ञात्वैवं पूजयेन्नित्यमर्चनाङ्गैर्गणेश्वरम् ॥ १४५ ॥
नित्येज्यैवं समादिष्टा भुक्तिमुक्तिफलप्रदा ।
विशेषयजनं कुर्याच्चतुर्थ्यामिष्टसिद्धये ॥ १४६ ॥
नानाभक्ष्यसमोपेतं स्नपनादिसमन्वितम् ।
स्नपनं पूर्ववत् किं तु मध्यकुम्भे गणेश्वरम् ॥ १४७ ॥
आमोदाद्यादिक दिक्षु चत्वारः पञ्चकल्पने ।
अष्टौ च नवसङ्ख्ये स्युः पञ्चविऽंसतिसङ्ख्यके ॥ १४८ ॥
लोकपा विऽस्वरूपाद्या वसुदिक्ष्वन्तरालके ।
लोकपास्त्रान् वसूनाद्यानष्टकं वास्तु संस्थितो ॥ १४९ ॥
पूर्वत्रयात्त्रयं पूज्यं त्वष्टकेषु त्रिषुक्रमात् ।
एकोनपञ्चाशत्सङ्ख्यकलशे देवता मताः ॥ १५० ॥
गण्सहस्रनामोक्तशताद्यास्स्युश्शताष्टके ।
अष्टाधिकसहस्रे तु सर्वदेवाः प्रकीर्तिताः ॥ १५१ ॥
अथ सर्वत्र विघ्नेशः पूज्यो वा मुनिपुङ्गवाः ।
वाक्श्रीयुतो गणेशश्चेद्वर्धनीद्वितयं न्यसेत् ॥ १५२ ॥
शक्त्यैकया युतश्चेत्तु वर्धनीमूत्तरे न्यसेत् ।
अनुक्तं स्नपनेयत्तु प्राग्वदेव समाचरेत् ॥ १५३ ॥
उत्सवं दमनारोहं पवित्रारोहणक्रिया ।
दीपावलि वसन्तेज्या मासे मासोत्सवं तु वा ॥ १५४ ॥
नवनैवेद्यकर्मापि प्रायश्चित्तं विशेषतः ।
जीर्णानामुद्धृतिं चान्यत् पूर्ववत् परिकल्पयेत् ॥ १५५ ॥
किन्तु तस्य ध्वजे मूषं वा समालिखेत् ।
शिवोत्स्वएऽपि नित्यं तु विघ्नेशस्योत्सवं तु वा ॥ १५६ ॥
ध्वजहोमबलीन् हित्वा केवलं यानमेव च ।
चक्रास्त्रं वा त्रिशूलास्त्रं विघ्नेशास्त्रं प्रगृह्यताम् ॥ १५७ ॥
उत्सवप्रतिमा कार्या पूर्वलक्षणलक्षिता ।
उत्सवे तु बलिद्रव्यहोमद्रव्यादयोऽपि ये ॥ १५८ ॥
अत्रानुक्तास्तु ते सर्वे शिवस्योक्तवदीरिताः ।
वश्योच्चाटनविध्वेषमारणानि च पौष्टिकम् ॥ १५९ ॥
शान्तिस्तम्भनपूर्वाणि मन्त्रेणानेन कारयेत् ।
सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन शान्तयेत् ॥ १६० ॥
अस्य प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा ।
विघ्नेशं स्थापयेद्वादौ शिवधामप्रकल्पनात् ॥ १६१ ॥

इति उत्तरकामिकाख्ये महातन्त्रे विघ्नेशप्रतिष्ठाविधिः
पञ्चचत्वारिंशत्तमः पटलः ॥

गजवक्त्रो गणाधीशो भूरूपो महोदरः ।
जागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः
नीलनीररुहाभस्तु चतुर्दोर्दण्डमण्डितः
अवामावामवर्तेभ हस्तः पद्मासनस्थितः ॥
स्वदन्तं परशुं कुर्यात् स्वदक्षिणकरद्वये ।
लड्डुकं चाक्षमालां च वामपाणावथोत्पलम् ।
स्थानकं वासनं वाथ गणेशं कारयेत्ततः ॥

रक्तवस्त्रधरं वाथ श्यामाभं कनकप्रभम् ।
पीतकञ्चुकसञ्छन्नं किरीट मकुटोज्ज्वलम् ॥
शुक्लयज्ञोपवीतञ्च सर्वाभरणभूषितम् ।
स्वशृङ्गं वाङ्कुशं दक्षे वामे पाशञ्च लड्डुकम् ॥
अवामावामवर्तेभ हस्तः पद्मासनस्थितः ।
स्थानकं वासनं वाथ गणेशं कारयेत्ततः ॥

श्याम वर्णां तथा शक्तिं धारयन्तां दिगम्बरम्
उत्सङ्गे निहितां देवीं सर्वाभरण भूषिताम्
दिगम्बरां सुवदनां भुजद्वय समन्विताम्
विघ्नेश्वरीति विध्यातां सर्वावयव सुन्दरीम्
पाशहस्तां तथा गुह्यं दक्षिणेन करेण तु
स्पृशन्तीं देवमप्येवं चिन्तयेन्मन्त्र नायकम्
चतुर्भुजं त्रिणेत्रञ्च पाशाङ्कुशधरं प्रभुम्
इक्षु खण्डकरोपेतं वामेन देवि गुह्यकम्
स्पृशन्तं पुष्करेणापि खण्डमिक्षोस्तु हे द्विजाः

गजवक्त्रो गणाधीशो भूतरूपो महोदरः
नागयज्ञोपवीतस्तु घनपिण्डोरु जानुकः
नीलनीररुहाभस्तु चतुर्दोर्दण्ड मण्डितः
अवामावामवर्तेभ हस्तः पद्मासनस्थितः
स्वशृङ्गं वाङ्कुशं दक्षे वामेपाशञ्च लड्डुकम्
स्थानकं वासनं वाथ गणेशं कारयेत्ततः
गणेशो भारती श्रीभ्यां वामेऽवामे युतोऽथवा
आसीनमासने रत्नमकुटादि विभूषितम्

४६। षट्चत्वारिंशत्तमे पटले नृत्तमूर्ति स्थापन विधिः

नृत्तमूर्ति प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् ।
चतुर्भुजास्त्रिणेत्रश्च संविकीर्ण जटायुतः ॥ १ ॥
जटामकुटसंयुक्तो वक्रनागफणावृतः ।
पृष्ठगाः पार्श्वगास्तास्स्युः पञ्चाद्यैककवृद्धितः ॥ २ ॥
त्रिंशत्सङ्ख्यावसानास्स्युः जटास्तास्सान्तरालकाः ।
धुत्तूरारग्वधार्कादि पुष्पयुक्तास्सपिङ्गलाः ॥ ३ ॥
कृत्वाञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया ।
वालचन्द्रेण संयुक्तो वामपार्श्वस्थितेन च ॥ ४ ॥
युक्तोवकुलमालाभिर्मुक्ता दामोरगादिभिः ।
व्याघ्राजिनाम्बरो दीप्तस्सर्वाभरण भूषितः ॥ ५ ॥
वामदोर्मूल मालम्बि द्वीपिचम्राम्बरान्वितः ।
दिव्याम्बरान्वितो वापि मृगाजिनयुतोपि वा ॥ ६ ॥
कस्थ ब्रह्मकपालेन नानापुष्पैरलङ्कृतः ।
धृत वाराहदन्ताग्र शार्दूलनखकच्छपैः ॥ ७ ॥
शाङ्खिकैर्मणिभिः प्रोतमालया हृदिभूषितः ।
स्थितो दक्षिणपादेन वामेनोपरिवर्तिना ॥ ८ ॥
कुञ्चितावर्तमानाङ्घ्रिः सुरसारितत्करः ।
अम्बिकामुखबिम्बाब्ज भ्रमरीकृतलोचनः ॥ ९ ॥
आबद्धकिङ्किणीयुक्तः तद्वन्नूपुरशोभितः ।
वामदक्षिणकर्णाढ्य पत्रिका नक्रकुण्डलः ॥ १० ॥
दक्षाभयकरस्थेन भुजङ्गेनोत्फणेन च ।
वामापरकरस्थेन वह्निना दक्षकेन तु ॥ ११ ॥
डिन्डिमेन समायुक्त उपवीतेन संयुतः ।
गोक्षीरधवलप्रख्य आदित्याङ्गुलभङ्गयुक् ॥ १२ ॥
नानासर्पसमायुक्तस्त्वपस्मारोपि स्थितः ।
मूर्ध्नो ललाटदक्षस्थं नासादक्षपुटस्थितम् ॥ १३ ॥
नाभेर्दक्षिणतो गुल्फे मध्येसूत्रं प्रसारयेत् ।
ललाट मध्य सूत्रात्तु द्विमात्रमितिकीर्तितम् ॥ १४ ॥
हिक्कासूत्रद्वयोर्मध्ये त्रिमात्रमिति कीर्तितम् ।
श्रोणीवामोरुसंस्पृष्टं तत्सूत्रमिहसम्मतम् ॥ १५ ॥
सूत्रगुल्फद्वयोर्मध्यम् एकाङ्गुलमिति स्मृतम् ।
सूत्राद्धि नतजान्वन्तं भानुदिग्नन्दमात्रकम् ॥ १६ ॥
तत्सूत्राद्वामपृष्ठान्तं सप्ताधिकदशाङ्गुलम् ।
तत्सूत्राद्वामजान्वके चत्वारिंशद्दशाङ्गुलम् ॥ १७ ॥
सूत्राद्दक्षिणतः कुक्षिरष्टाङ्गुल उदाहृतः ।
सूत्रात्तु सव्यकुक्षिस्तु रव्यङ्गुल उदाहृतः ॥ १८ ॥
ऊर्वोर्द्दक्षिण तत्सूत्रं सप्ताधिकदशाङ्गुलम् ।
सूत्रात्तद्वामभागेतु नवमात्रमुदीरितम् ॥ १९ ॥
सूत्रात्तु वाममण्ठस्तु पञ्चाङ्गुल उदाहृतः ।
सूत्रात्तु दक्षिणः कण्ठो भाग इत्यभिधीयते ॥ २० ॥
सूत्रात्तु वामबाह्वन्तं त्र्यङ्गुलक्षयसंयुतम् ।
अथवान्यप्रकारेण सूत्रपातोभिधीयते ॥ २१ ॥
कनीनिकान्तं तन्मूर्ध्नस्तदून्नासापुटान्ततः ।
नाभेश्च दक्षमात्रान्तं स्थिताङ्घ्रेर्गुल्फमध्यमम् ॥ २२ ॥
स्पृष्ट्वा यत्पातितं सूत्रं मध्यसूत्रमुदाहृतम् ।
सूत्राद्वामे मुखं पञ्चमात्रं कण्ठ त्रिमात्रकम् ॥ २३ ॥
बाह्वन्ते तिथिमात्रं स्यात् नवमात्रं तु कक्षगम् ।
मध्योदरेऽष्टमात्रं स्याच्छ्रोणी विश्वाङ्गुलेन च ॥ २४ ॥
कटिस्तिथ्यङ्गुलेन स्यात् अन्यत्रषष्टिमात्रकम् ।
नवमात्रं तदूरुःस्यात् र्पाष्ण्यन्तं वेदतुङ्गकम् ॥ २५ ॥
सप्ताङ्गुलं मुखेन्यत्र कण्ठः स्याद्रसमात्रकम् ।
बाह्वन्ते तु त्रिमात्रं स्यात् कक्षान्ते विश्वमात्रकम् ॥ २६ ॥
मन्वङ्गुलं भवेत् कुक्षौ श्रोण्यां स्याद्युगमात्रकम् ।
कट्यां च वेदमात्र स्याज्जानुरष्टाङ्गुलं भवेत् ॥ २७ ॥
पादाग्रेमुखमात्रंस्यात् एवं बुध्वा समाचरेत् ।
स्थितजानुसमं विद्यात् वर्तिताङ्घ्रे समुच्छ्रयः ॥ २८ ॥
तत्पार्णिजान्वोर्द्विमुखं द्व्यन्तरं परिकीर्तितम् ।
श्रोणीसमुच्छरयं वामाजानोरुद्धरणं मतम् ॥ २९ ॥
तदूरुमध्यान्नाभेश्च द्व्यन्तरं नवमात्रकम् ।
तज्जानोर्दण्डहस्तस्य मणि बन्धान्तरं मनुः ॥ ३० ॥
तस्मादभयहस्तस्य मणिबन्धो रसाङ्गुलः ।
तस्य चाङ्गुष्ठमूलान्तात् स्तनाक्षाद्द्व्यन्तरं मुखम् ॥ ३१ ॥
तद्दोस्समं तलोच्चं स्यात्तद् बाह्वोर्मध्यमात् पुनः ।
सप्तदशाङ्गुलं विद्याद्दण्डहस्तस्य कोर्परम् ॥ ३२ ॥
भुजान्तं साग्निहस्तोच्चं सोऽग्निः पञ्चाङ्गोलोच्छ्रयः ।
विस्तारः कोलकस्तस्य शिखाभिस्तिसृभिर्युतः ॥ ३३ ॥
धृतडामरुको हस्तः कर्णोच्चो वाङ्गुलाधिकः ।
धातुर्डमरुकायामो भूतैस्तु मुखविस्तृतिः ॥ ३४ ॥
कोलको मध्यविस्तारः परितस्सूत्रयन्त्रितः ।
एक जिह्वासमायुक्तो गम्भीर ध्वनि संयुतः ॥ ३५ ॥
बाह्वोस्तु मणिबन्धान्तं चतुर्स्त्रिंशत्तथापरम् ।
अपस्मारोच्छ्रयं भानुरुद्र नन्दाष्ट मात्रकम् ॥ ३६ ॥
देवस्य वक्त्रमानेन स्यादपस्मारमानकम् ।
वक्त्रद्वयं समारभ्य पञ्चवक्त्रावसानकम् ॥ ३७ ॥
वक्त्रार्ध मान बुद्ध्यातु सप्तमानमुदाहृतम् ।
चतुस्तालेन कर्तव्यमपस्मारो द्विजोत्तमाः ॥ ३८ ॥
उष्णीषात् पादपर्यन्तं षड्ष्टांशं विभाजयेत् ।
उष्णीषात् केशपर्यन्तं कोलकं चेति कीर्तितम् ॥ ३९ ॥
केशान्ताद्धनुपर्यन्तम् अष्टभागमितिस्मृतम् ।
गलमर्धाङ्गुलं प्रोक्त मध्यर्धं कर्ण उच्यते ॥ ४० ॥
षडङ्गुल इति प्रोक्तो हिक्कादि हृदयान्ततः ।
तथैव तस्मान्नाभ्यन्तं षडङ्गुलमिति स्मृतम् ॥ ४१ ॥
तस्मात्तु मेद्रमूलान्तं कौशिकाङ्गुलमुच्यते ।
ऊर्वायामं तु सप्तांशं जानूत्सेधो द्विमात्रकः ॥ ४२ ॥
जङ्घयामस्तु सप्तांशः पादोत्सेधो द्विमात्रकः ।
द्विभुजश्च द्विनेत्रश्च ऊर्ध्वकायस्त्वधोमुखः ॥ ४३ ॥
व्यालं वै वामहस्ते तु तस्यमूर्धा तु दक्षिणे ।
आवृतालङ्कृताभङ्गी सव्यपार्श्वशिरोयुतः ॥ ४४ ॥
देवस्य वक्त्रमानेन जाह्रव्यायाम उच्यते ।
द्विभुजाच त्रिणेत्रा च करण्डमकुटान्विता ॥ ४५ ॥
सर्वाभरणसंयुक्ता कृताञ्जलिपुटान्विता ।
ऊर्ध्वभागादधोभागं तोयकारेण कारयेत् ॥ ४६ ॥
गङ्गा देव्यानया देवस्संयुक्तो वा विवर्जितः ।
प्रभावकाशविस्तारो दशाधिकतशताङ्गुलम् ॥ ४७ ॥
सप्तत्रिंशच्छतायामतद्दण्डो भाग विस्तरः ।
एकादि दशपर्यन्त मात्रैरूणाधि कापि वा ॥ ४८ ॥
द्व्यङ्गुलादङ्गुलार्धात्तु बालचन्द्रस्तु सप्तधा ।
तद्वशात् पार्श्वगां देवीं कल्पयेत्तद्विधानतः ॥ ४९ ॥
कुर्याद् भृङ्गिरटिं वाथ भद्रकाली मथापि वा ।
भुजङ्गात्रास आख्यातो भुजङ्गललितस्ततः ॥ ५० ॥
भुजङ्गत्रासवत्सर्वं विशेषः कश्चिदस्ति हि ।
उद्धृतस्य तलं कुर्यात् स्थितजानुर्ध्वतः क्रमात् ॥ ५१ ॥
द्विमात्रं वा त्रिमात्रं वा चतुर्मात्रमथापि च ।
भुजङ्गललितः ख्यातस्तद्भैरव इहोच्यते ॥ ५२ ॥
भुजङ्गत्रासवत्सर्वं विशेषस्तत्र चोच्यते ।
उद्धृतं दक्षिणं पादं वामपादं तु वा नयेत् ॥ ५३ ॥
सपादो देहमध्यस्थश्चोर्ध्वपादतलान्वितः ।
चतुर्भुजोऽष्टहस्तो वा नानादिव्यास्त्रभूषितः ॥ ५४ ॥
शिलादि द्रव्यामासाद्य कुर्यादेवं नटेश्वरम् ।
इत्थं लक्षणमाख्यातं प्रतिष्ठा तत उच्यते ॥ ५५ ॥
कालोपि पूर्ववत्प्रोक्तस्तद्वदेवाङ्कुरार्पणम् ।
रत्नन्यासाक्षिमोक्षौ च पूर्ववत्सम्यगाचरेत् ॥ ५६ ॥
बेरशुद्धिं ततः कुर्यान्नगरादि प्रदक्षिणम् ।
जलाधिवासनं पश्चान्मण्डपं पूर्ववन्नयेत् ॥ ५७ ॥
कुण्ठानि परितः पश्चान्नवपञ्चैक सङ्ख्यया ।
चतुरश्राणि वृत्तानि तद्दिगश्राणि वा नयेत् ॥ ५८ ॥
मण्डपे भोजयेद्विप्रान् सहस्रान्तान्दशाधिकान् ।
पुण्याहं वाचयेत्पश्चन्मण्डापस्य विशुद्धये ॥ ५९ ॥
समरीचिपदे कुर्यात् वास्तुहोमं विधानतः ।
वास्तुहोमं विना वापि भूपरिग्रहमाचरेत् ॥ ६० ॥
पुण्याहं वाचयित्वा तु वेद्युर्ध्वे स्थण्डिलं नयेत् ।
शयनं कल्पयेदूर्ध्वे प्रतिमां शोधयत्ततः ॥ ६१ ॥
कृत्वा कौतुक बन्धं तु शाययेच्छयनोपरि ।
शिरप्रदेशे देवस्य शिवास्यं तु धटं न्यसेत् ॥ ६२ ॥
वर्धनीमुत्तरे न्यस्य तस्यां गौरीं च विन्यसेत् ।
लक्षणोदित रूपं तु ध्यात्वा गन्धादिभिर्यजेत् ॥ ६३ ॥
ध्यायेद्देवीं त्रिणेत्रां शिशिनिभवदनां
वेदहस्तान् धानां
सव्ये पद्मं वरदमपरे चाभ्यं चाक्षमालां
दिव्यैराभरणैर्विभूषिततनुं ब्रह्मादिभिः पूजितां
देवैरेव मनोन्मनीं प्रतिदिनं कामार्थदात्रीं शुभाम् ॥
अभितः कलशानष्टौ विद्येशाधिष्टितान्नयेत् ।
अर्चयेद् गन्धपुष्पाद्यैः नैवेद्यान्तं गुरुत्तमः ॥ ६४ ॥
तत्वतत्वे श्वरान्मूर्तिमूर्तीशानपि विन्यसेत् ।
होमं समारभेत् काले मूर्तिपैस्सह देशिकः ॥ ६५ ॥
कृत्वा कुण्डाग्निसंस्कारम् अग्निकार्योक्तमाचरेत् ।
समिदाज्य चरून् लाजान् सर्षपं च यवं तिलम् ॥ ६६ ॥
प्रियङ्कुशालिमुद्गांश्च जुहुयात् क्रमतो गुरुः ।
ऊदुम्बरवटाश्वत्थ प्लक्षाःपूर्वादिदिक्षु च ॥ ६७ ॥
शम्यपामार्ग बिल्वाश्च खादिरश्चाग्निकोणतः ।
प्रधानस्य पलाशस्तु समिधश्चैवमीर्तिताः ॥ ६८ ॥
ऋगाद्यध्ययनं मन्त्रजपं च विधिवन्नयेत् ।
गेयनृत्तयुतैस्तोत्र वेदघोषैर्व्यपोह्य च ॥ ६९ ॥
रात्रि शेषं ततः प्रातः स्मृत्वा शान्तं सदाशिवम् ।
समूर्तिपोगुरुःस्नातो मन्त्रसंशुद्धदेहयुक् ॥ ७० ॥
उद्धृत्य प्रतिमां पूर्वमुखां सर्वात्मना गुरुः ।
व्यपोह्य वस्त्रकूर्चादीन् पूजयेत् गन्धपुष्पकैः ॥ ७१ ॥
कुम्भांश्च कुण्डेष्वग्नींश्च तर्पयेश्च गुरूत्तमः ।
पूर्णाहुतिं ततो दद्यात् वौषडन्त शिवेन तु ॥ ७२ ॥
वस्त्रहेमाङ्गुलीयाद्यैराचार्यं पूजयेत्ततः ।
दक्षिणा पूर्ववत्प्रोक्ता ततः स्थापनमारभेत् ॥ ७३ ॥
ततो वेद्यास्समुद्धृत्य स्नानश्वभ्रे तु विन्यसेत् ।
चलं प्रासादमध्ये तु स्थापयेदचलं गुरुः ॥ ७४ ॥
ततः कुम्भान्समुद्धृत्य सर्वातोद्य समाकुलम् ।
हर्म्य प्रदक्षिणं कृत्वा प्रतिमाग्रं नयेद्बुधः ॥ ७५ ॥
कुम्भाद्बीजं समादाय महेऽसस्य हृदि न्यसेत् ।
वर्धन्या बीजमादाय तत्पीठाब्जे तु विन्यसेत् ॥ ७६ ॥
विद्येशान् पीठ पद्मेषु तत्तद्देशेऽभिषेचयेत् ।
देवीयागोक्तमार्गेण देवीं च स्थापयेद् गुरुः ॥ ७७ ॥
तदन्ते कारयेद्धिमान् कल्याणमपि देशिकः ।
उत्सवं कारयेत्पश्चात् तथा वितानुसारतः ॥ ७८ ॥
अनुक्तमत्र सामान्यस्थापनोदित माचरेत् ।
एवं यः कुरुते मर्त्यः प्रतिष्ठां भावनायुतः ॥ ७९ ॥

स यायात् पदमैशानं भुक्त्वा भोगानिहैव तु ॥ ७९१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे नृत्तमूर्ति स्थापनविधिः
षट्चत्वारिंशत्तमः पटलः ॥

चतुर्भुजस्त्रिणेत्रश्च संविकीर्ण जटायुतः ।
जटामकुट संयुक्तो वक्रनाग फणावृतः ॥
कृताञ्जलिपुटोपेत जाह्नव्या दक्षिणस्थया
बालचन्द्रेण संयुक्तो वामपार्श्व स्थिते न च
व्याघ्राजिनाम्बरो दीप्त स्सर्वाभरणभूषितः
वामदोर्मूल मालम्बि द्वीपि चर्माम्बरान्वितः
स्थितो दक्षिणपादेन वामेनोपरि वर्तिना
कुञ्चितावर्तमानाघ्रिः सुप्रसारित तत्करः
आबद्ध किङ्किनीयुक्तः तद्वन्नूपुर शोभितः
वाम दक्षिण कर्णाढ्य पत्रिका नक्र कुण्डलः
दक्षाभयकरस्थेन वह्निना दक्षके न तु
डिण्डिमेन समायुक्त उपवीतेन संयुतः
गोक्षीर धवलप्रख्य आदित्याङ्गुल भङ्गयुक्
नाना सर्पसमायुक्तस्त्वपस्मारो परिस्थितः

४७। सप्तचत्वारिंशत्तमे पटले सोमास्कन्द स्थापन विधिः

वक्ष्यामि सोमास्कन्द सुखेशस्थापनं परम् ।
तल्लक्षण समायुक्तं तच्चेदानीं प्रकथ्यते ॥ १ ॥
चतुर्भुजस्त्रिणेश्च जटामकुटमण्डितः ।
सर्वाभरण संयुक्तो वरदाभयहस्तकः ॥ २ ॥
कृष्णापरशु युक्तोर्ध्व वामेतरकरान्वितः ।
असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः ॥ ३ ॥
सोपवीतः प्रसन्नात्मा शयितासव्यपात्तलः ।
सालम्बदक्षपादेन वामेगौर्या च संयुतः ॥ ४ ॥
सर्वलक्षणसंयुक्त स्सर्वाभरणभूषितः ।
ललाट नासिकानाभिमेन्द्रपाद्गुल्पमध्यमे ॥ ५ ॥
श्रोणिस्पृक् संस्थितं सूत्रं मध्यसूत्रमितिस्मृतम् ।
मुखान्तात् पिप्पलीमूलात् ग्रीवापार्श्वात्तथैव च ॥ ६ ॥
चूचुकस्याथमध्यात्तु कटिस्थं पार्श्वगं मतम् ।
उष्णीषात्तुककुद्वम्श कण्ठस्फिक् मध्यमाद्गतम् ॥ ७ ॥
पृष्ठसूत्रमितिप्रोक्तं पार्श्वस्थात् सार्धमात्रकम् ।
हित्वापार्श्वद्वयोश्चैव ततस्स्या दूरुदैर्घ्यकम् ॥ ८ ॥
जानुः पक्षाङ्गुलं वामे लम्बितस्य गुणाङ्गुलम् ।
सूत्रात्तुवामजन्वान्तं मूर्ध्वकायार्धमानकम् ॥ ९ ॥
ऊरूमूलात्तु षण्मात्रन्नालकान्तं द्विजोत्तमाः ।
तलाग्रादूरुमध्याच्च द्वयन्तरन्तु गुणाङ्गुलम् ॥ १० ॥
सूत्राल्लम्बाङ्घ्रिर्पाष्ण्यन्तं सार्धविश्वाङ्गुलं भवेत् ।
कटकान्मणिबन्धाधोदेशे कटयग्रसीमगम् ॥ ११ ॥
नाभेस्तु मणिबन्धान्तं षोडशाङ्गुलमीरितम् ।
वरदं चेत्तु तत्पृष्ठान्नाभ्यन्तसममिष्यते ॥ १२ ॥
वामदेव्या समायुक्तस्तदध्यायप्रसिद्धया ।
ससोमस्सोम एव स्यात् सोमास्कन्त विधिर्भवेत् ॥ १३ ॥
देवोच्चदशभागैक भागेनाभद्विभागतः ।
त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ॥ १४ ॥
द्विनेत्रस्य द्विबाहुश्च करण्डमकुटान्वितः ।
कर्णयोर्नक्रपिण्डौ तु सर्वाभरणभूषितः ॥ १५ ॥
दक्षभागकरस्थाब्जः प्रसारितकरोऽपरः ।
द्विहस्तपङ्कजो वाथ वृत्तरूपयुतोऽथवा ॥ १६ ॥
देव्यूरुसंस्थितो वापि निष्पङ्कजकरोऽथवा ।
आसीनो वा स्थितो वापि स्कन्दस्त्वेवं प्रकीर्तितः ॥ १७ ॥
स्कन्दोमारहितस्त्वेष एवं स्यात्तु सुखासनः ।
सोमे च सोमास्कन्दे च सुखेशे लक्षणं मतम् ॥ १८ ॥
प्रतिष्ठैषां प्रकर्तव्या सुकालेऽङ्कुरपूर्विका ।
रत्नन्यासं ततः कुर्याद्देवदेव्योश्च वै गुहे ॥ १९ ॥
हेमाब्जं हेममायूरं देव्यां स्कन्देऽथवा न्यसेत् ।
तत्तत्प्रतिष्ठाध्यायोक्तमन्त्रैरपि समन्वितम् ॥ २० ॥
तत्तपीठाम्बुजेष्वेव सुस्निग्धान्तं गुरुर्न्यसेत् ।
दृशामुन्मोक्षणं कृत्वा बेरशुद्धिं प्रदक्षिणम् ॥ २१ ॥
जलाधिवासनं प्राग्वत् भवेन्मण्डपमाचरेत् ।
दिग"राण्याभवृत्तानि वेदाश्राणि च वानयेत् ॥ २२ ॥
कुण्डानि नवपञ्चैक सङ्ख्यया कुट्टिमाद्वहिः ।
शिल्पिनं च विसृज्याथ विप्रान् सम्भोजयेत्ततः ॥ २३ ॥
पुण्याहं प्र्क्षणं वास्तुहोमं स्थण्डिलकल्पनम् ।
शयनं कल्पयेन्मध्ये स्नपनं कारयेत्ततः ॥ २४ ॥
कौतुकत्रितयं बध्वा त्रिषु ताञ्शाययेत्ततः ।
वस्त्रैश्च पृथगावेष्ट्य कुम्भान् संस्थापयेत्ततः ॥ २५ ॥
शिवकुम्भं शिरोदेशे श्वस्य च तदुत्तरे ।
विन्यस्य वर्धनीं सोमास्कन्दश्चेद्दक्षिणेघटम् ॥ २६ ॥
स्कन्देनाधिष्ठितं न्यस्य गन्धाद्यैरर्चयोत्ततः ।
लक्षणोदितरूपाभिध्यानाधिकृतधीर्गुरुः ॥ २७ ॥
परितोऽष्टौ घटान्न्यस्य विद्येशैरप्यधिष्ठितान् ।
तत्तदध्यायमार्गेण तत्त्वमूर्त्यादिकं नयेत् ॥ २८ ॥
कृत्वा कुण्डाग्निसंस्कारं समिदाज्यान्नलाजकैः ।
तिलसस्येन्द्रमुद्गैश्च होमं च विधिना नयेत् ॥ २९ ॥
पलाशोदुम्बराश्वत्थवटादिक्षु विदिक्षु च ।
शमीखदिरमायूर श्रीवृक्षोत्था इहेरिताः ॥ ३० ॥
प्रधानेऽप्यादिमः प्रोक्तः पूर्णान्तं कर्म कारयेत् ।
षण्मुखं च देवीं प्रधाने तर्पयेद्गुरुः ॥ ३१ ॥
एते विभीन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् ।
द्वितीये देवकुम्भाग्नींस्तर्पयेत् पूर्ववर्त्मना ॥ ३२ ॥
सम्प्राप्तदशनिष्कादिदक्षिणो मूर्तिपादिभिः ।
वस्त्रहेमाङ्गुलीयादिपूजितो गुरुरादरात् ॥ ३३ ॥
कुम्भाद्बीजं महेशानहृदि न्यसेत् ।
वर्धन्यास्तत उद्धृत्य तस्य पीठे तु विन्यसेत् ॥ ३४ ॥
सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ।
गुहकुम्भाद्गुहार्णं तं गुहस्य हृदि विन्यसेत् ॥ ३५ ॥
अन्येभ्यः परितः पीठे न्यस्य तानभिषेचयेत् ।
एते विभिन्नपीठाश्चेत् पृथङ्मण्टपमाचरेत् ॥ ३६ ॥
कल्याणकर्म कर्तव्यं यथाविधि विशेषतः ।
अनुक्तमत्र यत् कुर्यात्सामान्यस्थापनोक्तवत् ॥ ३७ ॥
इत्थमेषां प्रतिष्ठां तु यः कुर्यान्नरसत्तमः ।
स यास्यति विवेनैक्यमिह सिद्धिं च सोऽश्रुते ॥ ३८ ॥

इति उत्तरकामिकाख्ये महातन्त्रे सोमास्कन्द स्थापन विधिः
सप्तचत्वारिंशत्तमः पटलः ॥

चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः ।
सर्वभरणसंयुक्तः वरदाभयहस्तकः ॥
कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।
असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ॥
सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः ।
सालम्ब दक्षपादेन एवं स्यात्तु सुखामनः ॥

चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ।
सर्वभरण संयुक्तो वरदाभयहस्तकः ।
कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ॥
असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः ।
सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः ॥
सालम्ब दक्षपादेन वामे गौर्या च संयुतः ।
सर्वलक्षण संयुक्तस्सर्वाभरण भूषितः ॥
वामे देव्या समायुक्तस्तदध्याय प्रसिद्धया ।
स सोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत् ॥

चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ।
सर्वाभरण संयुक्तो वरदाभयहस्तकः ।
कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ॥
असव्यसव्यकर्णस्थ पत्रिकानक्र कुण्डलः ।
सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः ॥
सालम्ब दक्षपादेन वामे गौर्या च संयुतः ।
देवोच्चदशभागैक भगेनाथ द्विभागतः ।
त्रिवेद भागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ॥
द्विनेत्रस्सद्विबाहुश्च करण्टमकुटान्वितः ।
कर्णयोर्नक्रपिण्डौ च सर्वाभरण भूषितः ॥
देव्यूरुसंस्थिता वापि निष्पङ्कजकरोऽथवा ॥

चतुर्भुजस्त्रिणेत्रश्च जटामकुटमण्डितः
सर्वाभरण संयुक्तो वरदाभयहस्तकः
कृष्णा परशुयुक्तोर्ध्व वामेतर करान्वितः
असव्यसव्यकर्णस्थ पत्रिकानक्रकुण्डलः
सोपवीतः प्रसन्नात्मा शयिता सव्यपात्तलः
सालम्बदक्षपादेन वामे गौर्या च संयुतः
सर्वलक्षणसंयुक्तस्सर्वाभरणभूषितः
वामे देव्या समायुक्तस्तदध्याय प्रसिद्ध्या
ससोमस्सोम एव स्यात् सोमास्कन्दविधिर्भवेत्
देवोच्चदशभागैक भागेनाथद्विभागतः
त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमेगुरुः
द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः
द्विहस्त पङ्कजोवाथ नृत्तरूपयुतोऽथवा

चतुर्भुजास्त्रिणेएश्च जटामकुटामण्डितः ।
सर्वाभरणसंयुक्तः वरदाभयहस्तकः ॥
कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।
असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ॥
सोपवीतः प्रसनात्मा शयिता सव्यपात्तलः ।
सालम्बदक्षपादेन वामे गौर्याच संयुतः ॥
देवोच्चदशभागैक भागेनाथ द्विभागतः ।
त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्यमे गुरुः ।
द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ॥
कर्णयोर्नक्र पिण्डौ च सर्वाभरण भूषितः ।
देव्यूरुसंस्थिता वापि निष्पङ्कजकरोऽथवा ॥

चतुर्भुजास्त्रिणेत्रश्च जटामकुटमण्डितः ।
सर्वाभरणसंयुक्तः वरदाभयहस्तकः ॥
कृष्णापरशुयुक्तोर्ध्व वामेतरकरान्वितः ।
असव्यसव्यकर्णस्थ पत्रिका नक्रकुण्डलः ॥
सोपवीतं प्रसन्नात्मा शयिता सव्यपात्तलः ।
सालम्बदक्षपादेन वामे गौर्या च संयुतः ॥
सर्वलक्षणसंयुक्तः सर्वाभरण भूषितः ।
देवोच्चदशभागैक भागेनाथ द्विभागतः ॥
त्रिवेदभागैर्वा कुर्यात् स्कन्दं तन्मध्ये गुरुः ।
द्विनेत्रस्सद्विबाहुश्च करण्डमकुटान्वितः ॥
कर्मयोर्नक्र पिण्डौ च सर्वाभरण भूषितः ।
दक्षभाग करस्थाब्जः प्रसारितकरोऽपरः ॥

४८। अष्टचत्वारिंशत्तमे पटले चन्रशेखर स्थापन विधिः

इन्दुमौलि प्रतिष्ठां तु वक्ष्ये लक्षण पूर्विकाम् ।
आपाद्य च शिलादीनि तैः कुर्यात् प्रतिमां गुरुः ॥ १ ॥
चतुर्भुजस्त्रिणेत्रश्च समपात स्थानके स्थितः ।
वराभय समायुक्तः पूर्वस्थ कर पल्लवः ॥ २ ॥
वरदं वाम हस्ते स्यात् अभयं दक्षिणे करे ।
वरदं यदि तं कुर्यात् अथान्यः सिंहकर्णकः ॥ ३ ॥
ऊरुस्पृष्ठकरो वापि कटको वा विधीयते ।
मृगटङ्क करावन्यौ दोस्सीमान्तं व्यवस्थितौ ॥ ४ ॥
मृगटङ्गौ तु कर्णान्तौ कर्तरी सव्यवस्थिता ।
पराङ्कुखौ सम्मुखौ चा मृगटङ्कौ समीरितौ ॥ ५ ॥
दिङ्मात्रं कर्तरी बाहु मध्यमं परिकीर्तितम् ।
हिक्कायाः कर्तरी मध्यमेक त्रिंशद्थाङ्गुलम् ॥ ६ ॥
मणिबन्धक बाह्वोस्तु मध्यमं द्वादशाङ्गुलम् ।
श्रोण्यन्तात् कूर्परा दर्वागन्तरं पूर्वहस्तयोः ॥ ७ ॥
शरैर्वा कौशिकैर्वापि सार्धाङ्गुल हसैस्तु वा ।
स्तनान्तमभयान्तोच्चं नाभ्यूर्ध्वे पुष्करोदयः ॥ ८ ॥
नाभेरभय हस्तान्तं गुणाङ्गुलमिति स्मृतम् ।
स्तनान्ता दभयाग्रान्तं द्वादशाङ्गुलमिष्यते ॥ ९ ॥
कटकाधः प्रदेशं तु मेद्र मूल समं भवेत् ।
ऊरुमूले कटकान्तं स्पृष्तं वाथ गुणान्तरम् ॥ १० ॥
सार्ध भाग द्वयेनाथ भागाभ्यां वाथ कल्पयेत् ।
ऊर्वादि मध्य मात्राणां जान्वोरप्यन्तरं क्रमात् ॥ ११ ॥
एकेनार्धेन सार्धाभ्यां त्रिभिश्च परिकल्पयेत् ।
अथवा जानुमध्यात्तु सार्धाङ्गुलमिति स्मृतम् ॥ १२ ॥
जङ्घयोर्मूल मध्याग्रं वेदभूतरसान्तकम् ।
अङ्गुष्ठेयोर्द्वयोर्मध्यं विद्येशङ्गुल मीरित्तम् ॥ १३ ॥
भागं पार्ष्णयन्तर प्रोक्तं ततसूत्राणि लम्बयेत् ।
तत्पार्ऽस्वयोस्त्रिसूत्राणि मुखकर्ण भुजावधि ॥ १४ ॥
पुरः पृष्ठे च मध्ये च नव तान्य वलम्बयेत् ।
प्रलम्बफलकामूध्नि स्थापयित्वा वलम्बयेत् ॥ १५ ॥
ललाट घ्राण हृन्नाभिमेढ्राङ्घ्रि युगमध्यमे ।
सूत्रं पुरस्थितं नासाकुक्षिस्पर्शं यथा भवेत् ॥ १६ ॥
मुखान्तपिप्पली कर्ण मूल चूचुकपात्तले ।
कर्ण कण्ठ स्तनानां तु बाह्ये श्रोणिस्पृगेव च ॥ १७ ॥
मुखान्मूलान्तरं नीत्वा दोस्स्पृश्यमपरं मतम् ।
एवं पार्श्वे त्रिसूत्राणि लम्बयेत् देशिकोत्तमः ॥ १८ ॥
कृकाटिकाककुत्कर्णस्फिक्पार्ष्णीनां तु मध्यमे ।
मस्तकाल्लम्बनीयं स्याद्यथा पृष्टककुद्गतम् ॥ १९ ॥
देहस्यान्तर्गतं मध्य सूत्रं स्यान्मुनिपुङ्गवाः ।
उष्णीष भूषणं कुर्यात् त्रिमात्रेण विशेषतः ॥ २० ॥
पार्श्वयोः पुरतः पृष्ठे चतुष्पूरि समन्वितम् ।
मध्ये मकरकूटं स्यात् सप्तकोटर संयुतम् ॥ २१ ॥
पार्ऽस्वयोः पत्रकूटं स्यात् पृष्टे स्याद्रत्न कूटकम् ।
अग्रे दशाङ्गुलं तस्य मूले तु मुखविस्तरम् ॥ २२ ॥
तत्तत् त्रिगुण नाहं तु वामेऽवामेर्ध चन्द्रकम् ।
वामे महाफणिं तस्य सर्वालङ्कार भूषितम् ॥ २३ ॥
जटाभिः पञ्चभिः ग्रन्थिं त्रिमात्रेण विशेषतः ।
एकधा तु त्रिधावृत्या शेषाभिः पार्श्वलम्बनम् ॥ २४ ॥
जटामकुटमेतद्धि सर्वालङ्कार मीरितम् ।
रत्न पत्रिकया वापि शङ्ख पत्रिकयापि वा ॥ २५ ॥
पद्म पत्रिकया वापि शोभितं वामकर्णकम् ।
सव्यं मकर सिंहाख्य पत्र कुण्डलकैर्युतम् ॥ २६ ॥
पृष्टः कर्णपर्यन्तं केशावर्ति विलम्बनम् ।
पार्श्वयोबागुमूलान्त जटाग्राणां विलम्बनम् ॥ २७ ॥
हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् ।
वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ॥ २८ ॥
सुपत्र वलयोपेतास्सर्व रत्नोपशोभिताः ।
मुक्ता दाम विलम्बाश्च तदग्रे मणिभूषणम् ॥ २९ ॥
कराग्रं कटको पेत मङ्गुल्यो मुद्रिकान्विताः ।
छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ॥ ३० ॥
समस्त रन्त पाशाढ्य कृत्रिमानन दमाभिः ।
संयुक्तकटिसूत्रोऽन्तः पादजालक संयुतः ॥ ३१ ॥
चन्द्रशेखर एवं स्यात् देव्या च सहितो न वा ।
सापीठ भिन्नपीठा वा देवेनालिङ्गिताथवा ॥ ३२ ॥
तयालिङ्गित देवो वा अन्योन्या लिङ्गितस्तु वा ।
आलिङ्गन युतो वा स्यान्निराभङ्गोऽथवा मत्रः ॥ ३३ ॥
एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते ।
कालोऽपि प्राग्वदुद्दिष्ट स्तद्वदेवाङ्कुरार्पणम् ॥ ३४ ॥
रत्नन्यासं दृशा मोक्षं बेरशुद्धिं प्रदक्षिणम् ।
जलाधिवासनं पश्चात् मण्डपं पूर्ववन्नयेत् ॥ ३५ ॥
कुण्डानि परितः कुर्यान्नवपञ्चैक सङ्ख्यया ।
तद्दिगस्त्राणि वृत्तानि कुण्डान्यश्राणि वा नयेत् ॥ ३६ ॥
विप्रान् सम्भोजयेत्पश्चात् पुण्याहं वाचयेत्ततः ।
समरीचपदे वास्तु होमः कार्यो द्विजोत्तमाः ॥ ३७ ॥
पुण्याहं वाचयित्वा तु शय्यायाः कल्पनं नयेत् ।
स्नपनं कौतुकं शय्यारोहणं पृथगाचरेत् ॥ ३८ ॥
ततः कुम्भं शिरोदेशे वर्धनी च तदुत्तरे ।
लक्षणोदित रूपं च स्मरन्नभ्यर्चयेत्तयोः ॥ ३९ ॥
परितोऽष्टौ घटान्न्यस्य विद्येशाधिष्ठिता न्यसेत् ।
न्यस्यैव तत्वमूर्त्यादीन् प्राग्वद्धोमं समाचरेत् ॥ ४० ॥
कृत्वा कुण्डानि संस्कारं समिदाज्यान्नकैस्तिलैः ।
लाजसस्येन्द्रकैश्चैव वटोदुम्बर सञ्ज्ञकौ ॥ ४१ ॥
अश्वत्थक पलाशौ च दिक्ष्वेवं समिधो मताः ।
शम्यपामार्ग श्रीवृक्ष मायूरा वह्निकोणतः ॥ ४२ ॥
प्रयेकं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः ।
प्रभाते देवकुम्भाग्नीन् अभ्यर्च्य गुरुरादरात् ॥ ४३ ॥
वस्त्रहेमाङ्गुलीयाद्यैर्मूर्तिपाद्यै स्समन्वितः ।
सम्प्राप्त दक्षिणः प्राग्वत् मन्त्रन्यासं समाचरेत् ॥ ४४ ॥
प्रतिमाग्रे घटान्न्यस्य कुम्भाद्बीजं तु विन्यसेत् ।
देवस्य हृदि तत्पीठे वर्धन्यास्तु मनुं न्यसेत् ॥ ४५ ॥
सहजा चेत्तदादेवी तस्यास्तु हृदि विन्यसेत् ।
अन्येभ्यो विन्यसेद्बीजं पीठस्य परितस्ततः ॥ ४६ ॥
विभिन्न पीठा देवी चेत् पृथङ्मण्डप माचरेत् ।
कल्याणं कारयेदन्ते स्नपनं चोत्सत्वं तथा ॥ ४७ ॥
कारयेद्भूरि नैवेद्यं दापयेत्तु नवा गुरुः ।
अत्रानुक्तं तु सङ्ग्राह्यं सामान्यस्थापनोदितम् ॥ ४८ ॥
चन्द्रमौलि प्रतिष्ठां तु कुर्यादेवं हि यो नरः ।
बब्ध्वेह सर्व कामांस्तु स चान्ते मोक्षमाप्नुयात् ॥ ४९ ॥

इति उत्तर कामिकाख्ये महातन्त्रे चन्द्रशेखर स्थापन विधिः
अष्टचत्वारिंशत्तमः पटलः ॥

चतुर्भुजस्त्रिणेश्च समपात् स्थानकेस्थितः ।
वराभय समायुक्तः पूर्वस्थ करुपल्लवः ॥
ऊरुपृष्टकरो वापि कटको वा विधीयते ।
मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ॥
मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थिता ।
पराङ्मुखौ सम्मुखौ वा मृगटङ्कौ समीरितौ ॥
तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् ।
रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपिवा ॥
हारयुग्रीवसंयुक्तं तथा कर्णिकयान्तितम् ।
वक्षस्थलं प्रकर्तव्यं भुजाः कर्णिकयान्तिकम् ।
वक्षस्थलं प्रकर्तव्यं भुजाः केयुर संयुताः ॥
सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः ।
छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ॥

चतुर्भुजस्त्रिणेत्रश्च समपात स्थानकेस्थितः ।
वराभय समायुक्तः पूर्वस्य करपल्लवः ॥
वरदं वाम हस्तस्यात् अभयं दक्षिणे करे ।
मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ ॥
मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ ।
पराङ्मुखौ सम्मुखौ वा मृगटङ्कौ समीरितौ ॥
तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम् ।
रत्नपत्रिकया वापि शङ्ख पत्रिकयाऽपि वा ॥
हारयुग्रीव संयुक्तं तथा कर्णिकयान्वितम् ।
वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः ॥
सुपत्रवलयोपेतः सर्वरत्नोपशोभिताः ।
छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः ॥
चन्द्रशेखर एवं स्याद्देव्या च सहितो न वा ॥

चतुर्भुजास्त्रिणेत्रश्च समपात् स्थानकेस्थितः
वराभय समायुक्तः पूर्वस्थकरपल्लवः
मृगटङ्ककरावन्यौ दोस्सीमान्तं व्यवस्थितौ
मृगटङ्कौतु कर्णान्तौ कर्तरी संव्यवस्थितौ
पराङ्मुखौ सम्मुखौ वा मृगटङ्कौ समीरितौ
तत्तत्रिगुणनाहं तु वामेऽवामेऽर्ध चन्द्रकम्
रत्नपत्रिकया वापि शङ्खपत्रिकयाऽपिवा
हारयुग्ग्रीव संयुक्तं तथाकर्णिकयान्वितम्
वक्षस्थलं प्रकर्तव्यं भुजाः केयूर संयुताः
सुपत्रवलयोपेतः सर्वरत्नोपशोभितः
छन्नवीरोत्तरीयोपवीतैस्सोदर बन्धनः
सापीहभिन्नपीठा वा देवेनालिङ्गताथवा

४९। एकोनपञ्चाशत्तमे पटले पुरारि स्थापन विधिः

पुरारिस्थापनं वक्ष्ये तदादौलक्षणञ्च वै ।
चतुर्भुजस्त्रिणेश्च जटामकुटसंयुतः ॥ १ ॥
समभागयुतस्सम्यक् स्थापकेन समन्वितः ।
सव्यकर्णस्थमकरकुण्डलेन समन्वितः ॥ २ ॥
कृष्णापरशुसंयुक्त परहस्तद्वयान्वितः ।
धनुर्बाणयुतोपेत वामेतरकरान्वितः ॥ ३ ॥
दोस्सीमं परहस्तोच्चं शरस्तं मेढ्रसीमकः ।
नाभेस्तुमणिबन्धान्तं मात्रमेकोनविंशतिः ॥ ४ ॥
पार्श्वमध्यमबाह्वोश्च मध्यमन्तु शराङ्गुलम् ।
दोर्मूलात्परहस्तान्तं षोडशाङ्गुल ईरितः ॥ ५ ॥
परहस्तोझितोवाथ द्विहस्तस्त्रिपुरान्तकः ।
शिरसोवामदृक् कृष्ण मण्डलस्य च दक्षिणे ॥ ६ ॥
सूत्रन्तुलम्बमयेद्वामे वामनासा पुटस्यतु ।
दक्षिणस्थितपादे च पुरस्तान्मुनि पुङ्गवाः ॥ ७ ॥
हृन्नाभिमेढ्रसव्याङ्घ्रि जानूनां सूत्रतोन्तरम् ।
सव्येग्निभागा देवं स्यात् सम भागे स्थिरानतिः ॥ ८ ॥
तत् पादाङ्गुष्ठर्पाष्ण्योश्च द्व्यन्तरं दश भागिकम् ।
कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् ॥ ९ ॥
एवं कृत्वा पुरारिन्तु प्रतिष्ठा कारयेत्ततः ।
सुमुहूर्ते सुलग्ने च कृत्त्वैवाङ्कुर कर्म च ॥ १० ॥
रत्नन्यासं दृशाम्मोक्षं बेरशुद्धिं प्रदक्षिणम् ।
तोयाधिवासनं पश्चात् स्नपनं कोतुकं नयेत् ॥ ११ ॥
मण्डपे स्थण्डिलं कृत्वा नवपञ्चैक सङ्ख्यया ।
कुण्डाण्यश्राणि वृत्तानि तद्दिगश्राणि तानि वा ॥ १२ ॥
सङ्कल्प्य शयनं तस्मात् आरोप्य च महेश्वरम् ।
देवेशस्य शिरोदेशे शिवकुम्भं च वर्धनीम् ॥ १३ ॥
लक्षणोक्तञ्चरुपन्तु ध्यात्वा तत्रैव पूजयेत् ।
अभितोष्टघटान्यस्वा विद्येशांस्तत्र पूजयेत् ॥ १४ ॥
गन्धाद्यैरपि नैवेद्य पर्यन्तैभावितो गुरुः ।
तत्वमूर्त्यादि विन्यासं कृत्वाहोमं समाचरेत् ॥ १५ ॥
संस्कृत्य कुण्डंवह्निञ्च समिदाज्यान्नकैस्तिलैः ।
पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ॥ १६ ॥
शम्यपामार्गश्रीवृक्ष मायुरावह्निकोणतः ।
प्रधानस्य पलाशस्यात् स च सर्वत्र वामतः ॥ १७ ॥
प्रत्येकं पूर्ववत् हुत्वा पूर्णाहुत्यन्तमेव च ।
ततो द्वितीय दिवसे देवकुम्भाग्नितर्पणम् ॥ १८ ॥
पूहितोमूर्तिपैस्सार्धं प्राप्तपूर्वोक्तदक्षिणम् ।
सुमुहूर्ते ततः प्राप्ते मनुन्यासं समाचरेत् ॥ १९ ॥
कुम्भात् बीजं समादाय शिवस्य हृदि विन्यसेत् ।
वर्धन्याबीजमादाय तत् पीठे विन्यसेत् गुरुः ॥ २० ॥
सहासनातु देवी चेत् तस्यास्तु हृदिविन्यसेत् ।
विभिन्नपीठा चेत्तस्याः पृथक् मण्डपमाचरेत् ॥ २१ ॥
कल्याणं कारयेत् पश्चात् तदन्ते स्नपनं नयेत् ।
उत्सवं भूरिनैवेद्यं कारयेद्वा न वा गुरुः ॥ २२ ॥
अनुक्तमत्र यत् ग्राह्यं सामान्य स्थापनोक्तवत् ।
प्रतिष्ठैवं समाख्याता पुरारेरिष्टदायिनी ॥ २३ ॥
इत्थं कारितवान्यस्तु प्रतिष्ठां भक्ति पूर्वकम् ।
सोनेक भोगान् भुक्त्वेह यायादन्ते शिवं पदम् ॥ २४ ॥

इति उत्तरकामिकाख्ये महातन्त्रे पुरारिस्थापन विधिः
एकोनपञ्चाशत्तमः पटलः ॥

चतुर्भुजस्त्रिनेत्रश्च जटामकुट संयुतः ।
सम भङ्गयुतस्सम्यक् स्थानकेन समन्वितः ॥
सव्यकर्णस्थमकर कुण्डलेन समन्वितः ।
किष्णापरशु संयुक्त परहस्त द्वयान्वितः ॥
धनुर्बाणयुतोपेत वामेतर करान्वितः ।
देस्सीम परहस्तोच्चं शरास्तन्मेद्र सीमकम् ॥
कुर्यात् सलक्षणां वाथ वामभागे तु पार्वतीम् ।
एवं कृत्वा पुरारीं तु प्रतिष्ठां कारयेत्ततः ॥

५०। पञ्चाशत्तमे पटले लिङ्गोद्भव विधिः

लिङ्गोद्भवस्य देवस्य प्रतिष्ठाद्यं निगद्यते ।
गर्भमानवशाल्लिङ्गं प्राग्वत् सम्यक् प्रकल्पयेत् ॥ १ ॥
लिङ्गोच्चे वेदपञ्चर्तु सप्तांशे शमधस्त्यजेत् ।
तत्समं वा तदर्धं वा त्यक्त्वा चोर्ध्वे तदन्तरे ॥ २ ॥
पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् ।
लिङ्गाधो शर्वजान्वन्त भागन्नेन्द्रिय गोचरम् ॥ ३ ॥
लिङ्गोर्ध्वोधः प्रदेशेतु हंससूकरमाचरेत् ।
बिम्बस्यानन मानेन कारयेत् हंसमादरात् ॥ ४ ॥
बिम्बाद्विमिखमानेन भूकृष्टास्यं तु सूकरम् ।
तल्लिङ्गरसभागैक द्वित्रिवेदशरैर्नयेत् ॥ ५ ॥
व्रह्मविष्णू द्विपार्श्वस्थौ नतौ तस्यानुकूलकौ ।
तिर्यग्गत सुपादौ तौ सर्वावयवसुन्दरौ ॥ ६ ॥
लिङ्गोद्भूतस्त्विति ख्यातो ब्रह्मविष्ण्वभिनन्दितः ।
ब्रह्मविष्णूविहीनो वा हम्स सूकर संयुतः ॥ ७ ॥
इत्थं लक्षणमादिष्टं प्रतिष्ठां विधिरुच्यते ।
कालश्च पूर्ववत् ग्राह्यः तद्वदेवाङ्कुरार्पणम् ॥ ८ ॥
पश्चान्मण्टपनिर्माणं कृत्वातत्रैव कल्पयेत् ।
कुण्दानि परितोश्राणि नव पञ्चैक सङ्ख्यया ॥ ९ ॥
दिगश्रान्यथवृत्तानि रत्नन्यासोत्रनास्ति हि ।
नयनोन्मीलनं पश्चात् बेरशुद्धिमनन्तरम् ॥ १० ॥
प्रदक्षिणं पुरादीनां जलेचैवाधिवासनम् ।
भूषणं मण्डपस्यैव वास्तुहोममतः परम् ॥ ११ ॥
भूपरिग्रहमादौ वा पूर्ववत् कारयेत् बुधः ।
वेद्यूर्ध्वे स्थण्डिलं कृत्वा शयनं कल्पयेत्ततः ॥ १२ ॥
जलादुद्धार्यदेवन्तु प्रतिमां शोधयेत्ततः ।
कृत्वा कौतुक बन्धन्तु शाययेच्छयनोपरि ॥ १३ ॥
नयनोन्मीलनाद्यं तु ब्रह्मविष्ण्वोस्तु कल्पयेत् ।
ब्रह्माणं दक्षिणे चैव विष्णुं वामे तु शाययेत् ॥ १४ ॥
वस्त्रैश्चैवतु संवेष्ट्य गन्धाद्यैरर्चयेत्ततः ।
प्रधानकुम्भं तेषां तु शिरो भागे तु विन्यसेत् ॥ १५ ॥
वर्धनीं विन्यसेत् धीमान् शिवकुम्भस्य चोत्तरे ।
अभितश्चघटानष्टौ न्यस्यविद्येश्वरात्मकान् ॥ १६ ॥
लक्षणोदित रूपन्तु ध्यायेत् स्वहृदिदेशिकः ।
रूपसंस्थान भावैस्तु पूजयित्वा यथाविधि ॥ १७ ॥
देवस्य ब्रह्मणो विष्णोस्तत्वमूर्त्यादिकं न्यसेत् ।
प्राग्वत् देवस्य तत्वाद्याः कविष्णोस्तु यथोदितम् ॥ १८ ॥
ततो होमं प्रकुर्वीत मूर्तिपैस्सहदेशिकः ।
समिदन्नाज्यलाजैश्च तिलसर्षपवैणवैः ॥ १९ ॥
पलाशोदुम्बराश्वत्थ प्लक्षाः पूर्वादि दिक्षु च ।
शम्यपामार्गश्रीवृक्ष मायूरावह्नि कोणतः ॥ २० ॥
प्रधानस्य पलाशस्तु स च सर्वत्रवामतः ।
द्रव्यैरेभिः क्रमात् हुत्वा ब्रह्माणं विष्णुमेव च ॥ २१ ॥
गुरुः प्रधानकुण्डेतु तर्पयेत् समिधादिभिः ।
रात्रिशेषं व्यपोह्याथ प्रभाते विमले ततः ॥ २२ ॥
देशिकस्सुविशुद्धात्मा मूर्तिपैस्सह तत्ववित् ।
बिम्बानुद्धृत्य सम्पूज्य कुभान् कुण्डेषु पावकान् ॥ २३ ॥
देशिकादींश्च सम्पूज्य दक्षिणां दापयेत्ततः ।
मुहूर्तनाडिकापूर्वे मन्त्रन्यासं समाचरेत् ।
वेद्याः कुम्भान् समुद्धृत्य तदग्रेस्थण्डिले न्यसेत् ॥ २४ ॥
कुम्भात् बीजं समादाय देवस्य हृदि विन्यसेत् ।
वर्धन्याबीजमादाय पाददेशोभिषेचयेत् ॥ २५ ॥
विद्येशेभ्यस्तहान्यस्य तज्जलैस्नापयेत् प्रभुम् ।
ब्रह्मविष्ण्वोस्स्वबीजन्तु तद्वन्न्यस्याभिषेचयेत् ॥ २६ ॥
स्नपनं पूजनं कुर्यात् अन्तेचोत्सव संयुतम् ।
बिम्बान् संस्थापयेत् पश्चात् ब्रह्माणन्दक्षिणे गुरुः ॥ २७ ॥
वाम भागे तु देवस्य विष्णुं संस्थापयेत् गुरुः ।
अनुक्तमत्र सामान्य प्रतिमास्थापनोक्तवत् ॥ २८ ॥
लिङ्गोद्भव प्रतिष्ठान्तु कुर्यादेवं हि योनरः ।
इहैव धनवान् धीमान् सोन्ते सायुज्यमाप्नुयात् ॥ २९ ॥

इति उत्तरकामिकाख्ये महातन्त्रे लिङ्गोद्भवप्रतिष्ठा विधिः
पञ्चाशत्तमः पटलः ॥

गर्भमानवशाल्लिङ्गं प्राग्वत् सम्यक् प्रकल्पयेत् ।
लिङ्गोच्चेवेदपञ्चर्तु सप्तांशेऽशमधस्त्यज्ते ॥
पूर्ववत् कारयेत् सम्यक् चन्द्रशेखरमूर्तिनम् ।
लिङ्गाधो शर्वजान्वन्त भागं नेन्द्रियगोचरम् ॥
लिङ्गोर्ध्वाधः प्रदेशेतु हंसं सूकरमाचरेत् ।
बिम्बस्याननमानेन कारयेद्धंसमादरात् ॥
बिम्बद्विमुखमानेन भूकृष्टास्यन्तु सूकरम् ।
ब्रह्मविष्णूद्विपार्श्वस्थौ नतौतस्यानुकूलकौ ॥

५१। एकपञ्चाशत्तमे पटले दक्षिणामूर्ति स्थापन विधिः

स्थापनं दक्षिणेशस्य शृणुध्वं विप्रसत्तमाः ।
व्याक्यान गेय योगेषु निष्ठस्य त्रिविधस्य च ॥ १ ॥
व्याख्यायुक्ज्ञानमुद्रातो गेयी वीणा समन्वितः ।
द्वाभ्यां विरहितो योगी स नानाकार भेदतः ॥ २ ॥
चतुर्भुजस्त्रिणेत्रस्तु कुन्देन्दु धवलप्रभः ।
श्वेतविद्रुमहेमाभश्श्यामाभो वा प्रकीर्तिताः ॥ ३ ॥
व्याघ्रचर्माम्बरो वापि दिव्याम्बरधरस्तु वा ।
उत्तरीय समोपेतः शुक्ल यज्ञोपवीतकः ॥ ४ ॥
विकीर्ण मूर्धजोवापि जटामकुट एव वा ।
पट्टिकाबन्धनो वापि सत्करोटिकयायुतः ॥ ५ ॥
धूर्तूरारग्वधैर्नाग पत्रैश्चन्द्रेण मण्डितः ।
पञ्चमुद्रासमोपेतो गङ्गा किङ्किणि संयुतः ॥ ६ ॥
अधस्ताद्वटवृक्षस्य शैलादूर्ध्वं श्रितः पुनः ।
व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा ॥ ७ ॥
लम्बितं दक्षिणं पादं तज्जानूपरि संस्थितम् ।
वामाङ्घ्रिनालकं कुर्यात् सव्यहस्तन्तुमुद्रया ॥ ८ ॥
सन्दर्शसञ्ज्ञयोपेता वामहस्तस्थ पुस्तकः ।
द्वात्रिन्न्नृत्तमात्रान्तं दैर्घ्यं स्यात् सतु पुस्तकः ॥ ९ ॥
अथवा नागसंयुक्तो वामहस्तस्समीरितः ।
वरदन्तं विजानीयाज्जानुस्थ मणिबन्धकम् ॥ १० ॥
दण्डहस्तो यदा स स्यात् प्रकोष्ठञ्जानुसंस्थितम् ।
विकसत् पद्मसङ्काशः अधस्ताद्विस्तृताङ्गुलिः ॥ ११ ॥
परहस्तद्वये चाक्ष माला ज्वाला समन्वितः ।
पद्मं वा चोत्पलं वापि व्यालं वा मेतु कल्पयेत् ॥ १२ ॥
कटकौतौ प्रकर्तव्यौ प्रसन्नसमलोचनः ।
नासाग्रदृष्टियुक् वामहस्तो वा स्यात्सुपुस्तकः ॥ १३ ॥
आभङ्गसहितं कुर्याद्देहमध्ये तु वामतः ।
सूत्रं वामे च हृदयं नाभेर्मेढ्रात् क्रमेण तु ॥ १४ ॥
मात्रङ्कालञ्च भागञ्च त्यक्त्वातिष्ठति मध्यतः ।
लम्बपादस्थितं मध्य सूत्रादर्धाङ्गुलान्तरे ॥ १५ ॥
अर्द्धार्धाङ्गुल वृद्ध्या तु यावत् सार्द्धयवं भवेत् ।
सदशाङ्गुष्ठ मूलोच्च स्तनाग्रावधिरेव तु ॥ १६ ॥
नयने मध्यमं विद्यात् अङ्गुष्ठस्तनयोस्ततः ।
नाभेस्तु मणिबन्धान्तः धृत्यङ्गुलमुदाहृतः ॥ १७ ॥
सपुस्तकस्य हस्तस्य चोरूर्ध्वात् भागमन्तरम् ।
नाभेस्तुमणिबन्धान्तं सस्यादेकोनविंशतिः ॥ १८ ॥
दोर्मध्यात् पार्श्वमध्याच्च द्व्यन्तरस्स्याद्रसाङ्गुलम् ।
परस्यमणिबन्धाच्च भुजमध्याद्भवाङ्गुलम् ॥ १९ ॥
द्व्यन्तरं दशमात्रं स्यात् दोर्मूलान्मध्यमाङ्गुलात् ।
हिक्कासूत्र द्विमात्राथ कटकाग्र समुच्छ्रया ॥ २० ॥
सजटामकुटादेव चूचुकास्य गलान्तकाः ।
ततत् कलासमोपेता श्शुक्ल यज्ञोपवीतिनः ॥ २१ ॥
शुक्लाद्यम्बर संयुक्ताः भस्मरुद्राक्षसंयुताः ।
कौशिकः काश्यपश्श्याम इतरः पीत वर्णकः ॥ २२ ॥
रक्तवर्णो भरद्वाजो धूम्राभावत्रिगौतमौ ।
एषामेकद्वयं वापि त्रयं वा पार्श्वयोर्न्यसेत् ॥ २३ ॥
व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः ।
ऊर्ध्वाद्वोमध्य कटकौ सव्यासव्यकरावुभौ ॥ २४ ॥
वीणातु दक्षिणेवाग्रे दक्षिणेकटकास्थितः ।
दक्षिणेकटकञ्चोरू स्थितायां विनिवेशयेत् ॥ २५ ॥
कोलकञ्चोरुबाह्येतु तन्मूलं कटकोर्ध्वतः ।
भागमग्रन्तदावामो भागाधिक चतुर्मुखः ॥ २६ ॥
विस्तारस्तुकलास्तस्याः परिणाहन्तु पूर्ववत् ।
कलावक्रास्य विस्तारा यामं वापि षडङ्गुलम् ॥ २७ ॥
तत्तुङ्गन्तु तदर्धं स्यात् एवं ज्ञात्वा समाचरेत् ।
हस्तस्यमणिबन्धान्तं हिक्कासूत्रादितः क्रमात् ॥ २८ ॥
त्रिंशदङ्गुलमित्युक्तमथान्यमणिबन्धतः ।
आनाभेरन्तरन्नालं शेषं सर्वन्तु पूर्ववत् ॥ २९ ॥
व्याख्यान सहित स्त्वेवं सन्दर्शस्य समास्ययुक् ।
तत्राक्षिपात येगेन सदाकुञ्चित लोचनः ॥ ३० ॥
प्रसृतोवामहस्तः स्यात् योगमूर्तिरयम्मतः ।
अथकुञ्चितवामाङ्घ्रि युग्मस्फिग्गतपार्ष्णिकः ॥ ३१ ॥
उद्धृतन्तस्य जान्वग्र दण्डकोर्पर कान्तयुक् ।
सन्दर्शदृष्टिपातश्च आभङ्गञ्चैव पूर्ववत् ॥ ३२ ॥
नानामृगैस्तु सङ्कीर्णं नाना व्यालैस्तु संयुतः ।
नानामुनिगणैस्सार्धं सिद्धविद्या धरैरपि ॥ ३३ ॥
भूतैश्चकिन्नरैरन्यैः पुष्पवृक्षैश्च मण्डितम् ।
शैलङ्कुर्यात्तुतत्पार्श्वे वटवृक्षस्तु शाद्वलः ॥ ३४ ॥
फलशाखोप शाखाढ्यो नानापक्षिसमायुतः ।
तन्मूले दक्षिणे छाया निष्ण्णः कृपयायुतः ॥ ३५ ॥
रत्नोपशोभिते पीठे व्याघ्रचर्मोत्तरच्छदे ।
आसीनोमुनिभिः सम्यक् कौशिकादिभिरादरात् ॥ ३६ ॥
शिवद्विजकुलस्यादि भूतैस्तु परितस्थितैः ।
आगमाहित चेतोभिः परमेशेन दीक्षितैः ॥ ३७ ॥
एवन्तु दक्षिणामूर्तेः मूर्तिभेदा उदाहृताः ।
व्याख्यायुक् ज्ञानतः प्रोक्तो गेययुक् भुक्तिदोमतः ॥ ३८ ॥
सयोगोमुक्तिदोज्ञेयः इति ज्ञात्वा समाचरेत् ।
आसीनो वा स्थितो वापि ऋषिभिः स्संवृतो न वा ॥ ३९ ॥
वटवृक्ष विहीनो वा भूताद्यावृत एव वा ।
भूतस्थलम्ब वा दक्षिणेशस्समीरितः ॥ ४० ॥
एवं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते ।
वाराद्यं पूर्ववत् ग्राह्यमङ्कुरार्पणमेव च ॥ ४१ ॥
मण्डपं पूर्ववत् कुर्यात् नवपञ्चैक सख्यया ।
कुण्डानि परितो श्राणि तद्दिगश्राणि वा भवेत् ॥ ४२ ॥
रत्नन्यासाक्षि मोक्षौ च प्रतिमाशोधनं तथा ।
ग्रामप्रदक्षिणञ्चैव जले चैवाधिवासनम् ॥ ४३ ॥
पुण्याहप्रोक्षणञ्चैव पश्चात् ब्राह्मण भोजनम् ।
पुण्याहं वास्तु होमञ्च भूपरिग्रहमेव वा ॥ ४४ ॥
कृत्वातु देव देवस्य ऋषीणां च यथार्हकम् ।
वेद्यूर्ध्वेस्थण्डिलं कृत्वा शयनं कल्पयेत् पृथक् ॥ ४५ ॥
स्नानवेद्यान्तु ऋषिभिः स्नपनं कारयेत् शिवे ।
शय्यायां शाययेद्देवं कौशिकादि ऋषीनथ ॥ ४६ ॥
दक्षिणे तु भरद्वाज प्रमुखानप्य दक्षिणे ।
शाययेद्वस्त्रकूर्चादि भूषितांस्तान् पृथक् पृथक् ॥ ४७ ॥
व्याख्यान गेय योगाना मेतत् सामान्यमीरितम् ।
स्वांस्तुकुम्भान् शिरोदेशे न्यसेद्वस्त्रादि भूषितान् ॥ ४८ ॥
वर्धनीं विन्यसेत् धीमान् शिवकुम्भस्य चोत्तरे ।
अभितोवसुकुम्भांस्तु विद्येशाधिष्ठितान्न्यसेत् ॥ ४९ ॥
रूपसंस्थान भावैस्तु पूजयित्वा यथाक्रमम् ।
तत्वमूर्त्यादि विन्यासं कृत्वा होमं समाचरेत् ॥ ५० ॥
तत्वाद्याः पूर्ववद्दत्वा मुनिष्वपि यथोदितम् ।
कृत्वाग्निकुण्डसंस्कार मुत्पाद्यशिवपावकम् ॥ ५१ ॥
समिदाज्यचरून् लाज तिलसर्षपवैणवान् ।
जुहुयात्तु महाशासु प्रधानेपि पलाशकम् ॥ ५२ ॥
बैल्वाः कोणेषु होतव्याः प्रधानेतर्पयेत् ऋषीन् ।
द्रव्यैरेभिः क्रमात् हुत्वा पूर्णाहुत्यवसानकम् ॥ ५३ ॥
रात्रिशेषं व्यपोह्यैवं प्रभाते विमले ततः ।
समूर्तिपैर्गुरुःस्नातः कृतमन्त्राधिविग्रहः ॥ ५४ ॥
सम्पूज्योद्धृत्य बिम्बांश्च कुम्भान् कुण्डेषु पावकान् ।
देशिकादींश्च सम्पूज्य दक्षिणां दापयेत् पृथक् ॥ ५५ ॥
मुहूर्तेनाडिकापूर्वे मन्त्रन्यासं समारभेत् ।
कुम्भान् बिम्बपुरोन्यस्य स्थण्डिले पूर्ववत् कृते ॥ ५६ ॥
कुम्भात् बीजं समादाय शिवस्य हृदि विन्यसेत् ।
वर्धन्याबीजमादाय तस्यपीठे तु विन्यसेत् ॥ ५७ ॥
विद्येशानान्तु बीजानि पीठे शक्रादितो न्यसेत् ।
तत्तत् कुम्भ जलैश्चैव तत्तद्देशोभिषेचयेत् ॥ ५८ ॥
ऋषीणामपि बीजानि तेषान्तु हृदि विन्यसेत् ।
तत्तत् कुम्भादकैश्चैव तेषां च स्नपनन्नयेत् ॥ ५९ ॥
श्रीकण्ठमुनिहस्तस्थ पुस्तकेष्वखिलागमम् ।
विन्यसेत् कामिकाद्यन्तु सोपभेदं गुरुत्तमः ॥ ६० ॥
देवेशं स्थापयेत् पश्चात् ऋषींस्तद्दक्षवामयोः ।
स्नपनं चोत्सवं भूरि नैवेद्यं कारयेन्नवा ॥ ६१ ॥
अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् ।
एवं यो दक्षिणामूर्तेः स्थापनं कुरुते नरः ॥ ६२ ॥
सोऽखिलानिह भुक्त्वाऽथ भोगान् स्वात्माभिवाञ्चिता ।
देहान्ते परमेशानं कर्ता यायादसंशयः ॥ ६३ ॥

इति उत्तरकामिखे महातन्त्रे दक्षिणामूर्तिस्थापन
विधिरेकपञ्चाशत्तमः पटलः ॥

व्याख्यानसहितस्त्वेवं सन्दर्शस्य समास्ययुक्
तत्राक्षिपातयोगेन सदाकुञ्चितलोचनः
प्रसृतोवाम हस्तस्स्या द्योगमूर्तिरयम्मतः
अथकुञ्चितवामाङ्घ्रियुगस्फिग्गतपार्ष्णिकः
उद्घृतं तस्य जान्वग्र दण्डकोर्परकान्तयुक्
सन्दर्श दृष्टिपातश्च आभङ्गं चैव पूर्ववत् ।

चतुर्भुजस्त्रिणेत्रश्च कुन्देधवलप्रभुः
श्वेतविद्रुमहेमाभः श्यामाभोवाप्रकीर्तितः
व्याघ्रचमाम्बरो वाऽपि दिव्याम्बर धरस्तुवा
उत्तरीय समोपेतः शुक्लयज्ञोपवीतकः
विकीर्णमूर्धजो वाऽपि जटामकुट एव वा
पट्टिकाबन्धनो वाऽपि सत्करोटि कयायुतः
धुत्तूरारग्वधैर्नागपत्रैश्चन्द्रेण मण्डितः
पश्चमुद्रा समोपेतो गङ्गाकिङ्किणि संयुतः
अधस्ताद्वटवृक्षस्य शैलादूर्ध्वश्रितः पुनः
व्याघ्रचर्मोपरिष्टात्तु स्थितो वीरासनोऽथवा
लम्बिदं दक्षिणं पादं तज्जानूपरि संस्थितम्
वामाङ्घ्रिनालकं कुर्यात्सव्यहस्तं तु मुद्रयां
सन्दर्श सञ्ज्ञयोपेतं वामहस्तस्थ पुस्तकः
अथवा नागसंयुक्तो वामहस्तस्समीरितः
परहतद्वये चाक्षमाला जालसमन्वितः
व्याख्यानमूर्तिरेवं स्यात् गेयमूर्तिस्ततोमतः

ऊर्ध्वा मध्य कटको सव्यासव्यकरावुभौ
वीणातु दक्षिणे वाग्रे दक्षिणे कटकस्थीः ॥
दक्षिणे कटकं चोरुस्थितायां विनिवेशयेत् ।
कोलकं चोरुबाह्ये तु तन्मूलं कटकोर्ध्वतः ॥

५२। द्विपञ्चाशत्तमे पटले भिक्षाटन प्रतिष्ठाविधिः

भिक्षाटनस्य वक्ष्येहं कङ्कालस्यापि लक्षणम् ।
प्रतिष्ठातु द्विजश्रेष्ठाशृणुध्वं द्विजसत्तमाः ॥ १ ॥
पादे पादकसंयुक्तं चतुर्दोर्भिस्समन्वितम् ।
स यज्ञसूत्रं शान्तं च गमनोन्मुखमीश्वरम् ॥ २ ॥
आबद्धक्षुरिकं सौम्यं कपर्द मकुटोज्वलम् ।
क्षौमाम्बरं सितं कुर्यात् सुन्दरं तं विभूषणम् ॥ ३ ॥
स शङ्ख पत्रिका वामे दक्षिणे नक्रकुण्डलम् ।
दक्षिणं कुञ्चितं पादं वामपादन्तु सुस्थितम् ॥ ४ ॥
समभङ्गयुतं वापि कान्तियुक्त निजाङ्गकम् ।
प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः ॥ ५ ॥
सव्यमध्याङ्गुलाग्रन्तु कृष्णाजिह्वाग्रगं भवेत् ।
वामकरेऽपरेपिञ्च दण्डकं काल दण्डकम् ॥ ६ ॥
उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरिस्थितम् ।
नानागणसमायुक्तं नानाभूतसमाकुलम् ॥ ७ ॥
असव्ये भूतमूर्धस्थ बलिपात्रेण संयुतम् ।
नानारूपधरैर्भूतैः अनेकैः परिवारितम् ॥ ८ ॥
भेरिका काहलाद्याढ्यैः गाननृत्तरवाकुलैः ।
योषितश्चानवद्याङ्गा मत्प्रेक्षावश्य मोहिताः ॥ ९ ॥
स्रस्तभूषणवस्त्राद्याः बलिदान समुन्मुखाः ।
आशीर्वादान्विताः काश्चित् -
काश्चिदालिङ्गनोन्मुखाः ॥ १० ॥
मूर्ध्नस्सूत्रं ललाटस्य मध्यं नीत्वाङ्गुलं नयेत् ।
सव्यनासापुटाग्रात्तु स्थितार्ङ्घ्यङ्गुष्ठमूलतः ॥ ११ ॥
दक्षिणेऽष्टयवं हित्वा हृदयाद्दक्षिणेत्रिकम् ।
नाभेर्मेढ्रात्तु वामे तु भागं सप्ताङ्गुलं भवेत् ॥ १२ ॥
पादाङ्गुष्ठद्वयोर्मध्यं स्मृतिमात्रमुदाहृतम् ।
पार्ष्णयोश्च मुनिमात्रंस्स्याज्जान्वोर्मध्यं मुखेन तु ॥ १३ ॥
सार्धविश्वाङ्गुलैर्वाऽथ तयोरन्तर मिष्यते ।
प्रहार हस्तेयोवक्रः कटकोनाभिसीमकः ॥ १४ ॥
नाभेस्तन्मणिबन्धातो भाग-इत्यभिधीयते ।
पार्श्वमध्यमबाह्योश्च मध्यमं भूतमात्रकम् ॥ १५ ॥
हरिण्यास्यगतोहस्त ऊरुमध्यसमो भवेत् ।
ऊरुमध्याच्च तस्याग्रम् एकविंशति मात्रकम् ॥ १६ ॥
अधोमुखस्सकटक स्मृतिर्वाग्र समन्वितः ।
पार्श्वमध्यमबाह्योश्च मध्यं पाताल मात्रकम् ॥ १७ ॥
कङ्कालपिञ्चधृग्घस्तः कक्षतुल्योच्छ्रयो भवेत् ।
भुजान्ता मणिबन्धाता द्व्ययन्तरं षोडशाङ्गुलम् ॥ १८ ॥
अर्कमात्रं तु वा प्रोक्तं पिञ्च दण्डस्तु हस्ततः ।
तत्समं पिञ्च्छदैर्घ्यं स्यात् देवनासाग्रमात्रकम् ॥ १९ ॥
कङ्कालदण्डमानन्तु देवस्याधो गलान्तकम् ।
दण्डाग्रेकारयेत् धीमान् कङ्कालं हि मुनीश्वराः ॥ २० ॥
योषितोदेव कन्याः स्युः स्तननाभ्यन्तसीमकाः ।
भूतरूपाणि सर्वाणि त्रिमुखेनेच्छया तथा ॥ २१ ॥
एषएवपरोदेवो नग्नः कङ्काल वर्जितः ।
विकीर्णोभय पार्ऽस्वस्थ जटालकविभूषितः ॥ २२ ॥
कटिदेशे प्रर्तव्यः फणिसूत्रेण वेष्टितः ।
सत्कपालञ्चवरदं वामहस्तन्तु कल्पयेत् ॥ २३ ॥
दिव्यढक्का समायुक्तं वामस्थमपरं करम् ।
शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरं करम् ॥ २४ ॥
व्यालः पार्श्वस्थितः कार्यः पूर्वसव्यो मृगास्यगः ।
सव्यं कोण समायुक्तम् अथवा परिकल्पयेत् ॥ २५ ॥
कपाल हस्त पृष्ठन्तु नाभिदघ्नं प्रकल्पयेत् ।
नाभेस्तं मणिबन्धान्तं षोडशागुल ईरितः ॥ २६ ॥
डमरूच्चन्तु कर्णान्तं तद्धस्तमणिबन्धनात् ।
कर्णान्तं षोडशैर्मात्रैः शेषं कङ्कालवद्भवेत् ॥ २७ ॥
भिक्षाटनो हरः प्रोक्तः पृथग्विष्णुयुतो न वा ।
स्थापनं च समासेन वक्ष्येऽहं मुनिपुङ्गवाः ॥ २८ ॥
कालः प्राग्वत् समुद्दिष्टस्तद्वदुक्ताङ्कुरक्रिया ।
रत्नन्यासं ततः कृत्वा देवे भूते यथाक्रमात् ॥ २९ ॥
जायासुचपृथक् पीठे चैकत्र च गुरूत्तमः ।
अथवा रत्नविन्यासं कृष्णादीनां विसर्जयेत् ॥ ३० ॥
नेत्राणां मोक्षणं कृत्वा बेरशुद्धिमतः परम् ।
जलाधिवासनं ग्रामप्रदक्षिण पुरस्सरम् ॥ ३१ ॥
यागमण्डपमासाद्य पूर्ववत् परिकल्पयेत् ।
तद्दिगश्राणि वृत्ताभ नवपञ्चैककुण्डकम् ॥ ३२ ॥
उद्वास्य शिल्पिनं विद्वान् भोजयेत् तद्विशुद्धये ।
पुण्याहं वास्तुहोमं च स्थण्डिलं शयनं पृथक् ॥ ३३ ॥
स्नपनं कौतुकं तेषां पृथक् कृत्वा तु शोधयेत् ।
मध्ये देवं च तद्दक्षे जाया भूतानि वामके ॥ ३४ ॥
यथावच्छाययेत् सर्वान् पृथक्वस्त्रादि भूषितान् ।
पृथक् कङ्काल दण्डश्चेत् शिरोदेशेतु शाययेत् ॥ ३५ ॥
शक्रशाङ्करयोर्मध्ये न्यसेत् कुम्भञ्च वर्धनीम् ।
अन्येषां च शिरोदेशे घटं जाया सुवर्धनीम् ॥ ३६ ॥
विन्यस्य गन्धपुष्पाद्यैः पूजयेत् स्वस्वमन्त्रयुक् ।
वीरेशाय नमश्चेति भूतकुम्भे यजेत् गुरुः ॥ ३७ ॥
नन्दनायै नमश्चेति तद्वर्धन्यां यजेत् हृदा ।
कङ्कालकुम्भे कङ्कालं न्यस्त्वा तत्वादिकान्न्यसेत् ॥ ३८ ॥
तत्वादयः शिवे प्राग्वत् वीरेशे पुनरुच्यते ।
मूर्तयः प्राग्वदेवस्युः प्रमुखोदुर्मुखस्तथा ॥ ३९ ॥
प्रमोदश्चतदामोदो विघ्नराडिति मूर्तिपाः ।
विष्नूक्तवत् स्यात् कङ्काले तथाहोमं समाचरेत् ॥ ४० ॥
कुण्डाग्निसंस्कृतिं कृत्वा समिदाज्यान्नलाजकैः ।
तिलैः सस्येन्द्रकैस्सार्धं साक्षतैर्होममाचरेत् ॥ ४१ ॥
पलाशखादिराश्वत्थोदुम्बरो दिक्षु सम्मताः ।
शमी च वटश्रीवृक्ष मायूरावह्नि कोणतः ॥ ४२ ॥
प्रधानेपि पलाशस्यात् स च सर्वत्र वामतः ।
देशिकेन्द्रः प्रधाने तु देवानावाह्य तर्पयेत् ॥ ४३ ॥
ततो द्वितीयदिवसे देवकुम्भाग्नि तर्पणम् ।
पूजितो वस्त्र हेमाद्यैः मूर्तिपैः प्राप्त दक्षिणाः ॥ ४४ ॥
मन्त्रन्यासं ततः कुर्यात् न्यस्त्वाबिम्बपुरो घटान् ।
कुम्भाम्मनुं समादाय देवस्य हृदि विन्यसेत् ॥ ४५ ॥
वर्धन्यामनुमादाय तस्य पीठाम्बुजे न्यसेत् ।
अन्येभ्यो बीजमादाय तेषां च हृदि विन्यसेत् ॥ ४६ ॥
तत्तत् कुम्भजलैः स्नाप्य स्नपनञ्चोत्सवं महत् ।
नैवेद्यं च प्रतिष्ठान्ते देशिकेन्द्रस्तु कारयेत् ॥ ४७ ॥
अनुक्तमत्रसङ्ग्राह्यं सामान्यं स्थापनोक्तवत् ।
एवं यः कुरुतेमर्त्यः स पुण्याङ्गतिमाप्नुयात् ॥ ४८ ॥
मध्य सूत्रादि सूत्राणां द्व्यङ्गुल द्व्यङ्गुलञ्च यत् ।
अङ्गानामपि सर्वेषां तेषां वै सन्निवेशनम् ॥ ४९ ॥
हस्तानामपि सङ्ख्या च वस्त्राण्याभरणानि च ।
मुद्राश्वेतादि वर्णं च देवानां संस्थिति स्थिताः ॥ ५० ॥
आचार्यशिल्पिकर्तृणां यथा शोभञ्च वाञ्च्छया ।
भवेत् सामान्यमेतत् हि सर्वदेवेषु च द्विजाः ॥ ५१ ॥
एषां प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा ।
भिक्षाटने च कङ्काले प्रतिष्ठैवं समीरिता ॥ ५२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे भिक्षाटन प्रतिष्ठा विधिः
द्विपञ्चाशत्तमः पटलः ॥

पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम्
सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम्
आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्जवलम्
समभङ्गयुतं वापि कान्तियुक्तनिजाङ्गकम्
नानागण् समायुक्तं नानाभूतसमाकुलम्
असव्य भूतमूर्धस्थ बलिपात्रेण संयुतम्
एष एव परोदेवः नग्नः कङ्कालवर्जितः
विकीर्णोभय पार्श्वस्थ जटालकविभूषितः
कटिप्रदेशे प्रकर्तव्यः फणिसूत्रेण वेष्टितः
सत्कपालं च वरदं वाम हस्तं तु कल्पयेत्
दिव्यढक्का समायुक्तं वामस्थमपरङ्करम्
शिखिपिञ्छधरं कुर्यात् सव्यस्थमपरङ्करम्
व्यालपार्श्वस्हितः कार्यः पूर्वसव्योमृगास्यगः
सव्यं कोण समायुक्तम् अथवा परिकल्पयेत्

पादे पादुकया युक्तं चतुर्दोर्भिस्समन्वितम्
सयज्ञ सूत्रं शान्तं च गमनोन्मुखमीश्वरम्
आबद्ध क्षुरिकं सौम्यं कपर्द मकुटोज्ज्वलम्
क्षौमाम्बरं स्थितं कुर्यात् सुन्दरं तं विभूषितम्
सशङ्ख पत्रिका वामे दक्षिणे नक्र कुण्डलम्
दक्षिणं कुञ्चितं पादं वामपादं तु सुस्थितम्
प्रहारं दक्षिणे हस्ते ढक्कां वामे तु पूर्वयोः
सव्य मध्याङ्गुलाग्रं तु कृष्ण जिह्वाग्रगं भवेत्
वामेकरेऽपरे पिञ्छदण्डकं कालदण्डकम्
उभयोर्दण्डयोर्मूलं स्कन्धमूलोपरि स्थितम्
नानागण समायुक्तं नानाभूतसमाकुलम्
असव्यभूतमूर्धस्थ बलिप्रात्रेण संयुतम्
कङ्कालपिञ्छधृग्धस्तः कक्षतुल्योच्छ्रयो भवेत्

५३। त्रिपञ्चाशत्तमे पटले बलिभर्तुः प्रतिष्ठा विधिः

बलिर्भर्तुः प्रतिष्ठान्तु वक्ष्ये तल्लक्षणन्तुवै ।
नित्योत्सवे तु कथितं सूत्राद्यञ्चेन्दुमलिवत् ॥ १ ॥
प्रायश्चितादिके वाथ सर्वकाम प्रसिद्धये ।
नित्योत्सवेपि तत् श्रेढन्तन्मन्त्रैश्च विशेषतः ॥ २ ॥
प्रतिष्ठाञ्च समासेन प्रवक्ष्यामि मुनीश्वराः ।
काल्ॐकुरक्रियारत्नन्यासो वै दृष्टिमोचनम् ॥ ३ ॥
शुद्धिः प्रदक्षिणं ग्राम प्रभृतीनां जलस्थितिः ।
पूर्वमेवोदितं यस्मात् तद्वत् सर्व समाचरेत् ॥ ४ ॥
मण्डपं कारयेत् तत्र नवपञ्चैककुण्डकम् ।
कुण्डानि वृत्तान्यश्राणि तद्दिगश्राणि वा भवेत् ॥ ५ ॥
कुण्डं वृत्तं प्रधानंस्यात्रिषु पक्षेषु वै द्विजाः ।
पश्चात् शिल्पिनम् उद्वास्य ब्राह्मणांस्तत्र भोजयेत् ॥ ६ ॥
पुण्याह प्रोक्षणं कृत्वा वास्तुहोमन्तु कारयेत् ।
जलादुत्तीर्य बिम्बन्तु मृदाद्यैस्नपनं नयेत् ॥ ७ ॥
गन्धादिना ततोभ्यर्च्य कौतुकं बन्धयेत् ततः ।
शयनं कल्पयेत् पश्चात् तस्यां स्थण्डिलं पूर्वकम् ॥ ८ ॥
शयनेशाययेद्देवं रक्तवस्त्रादि भूषितम् ।
पूर्ववत् स्हापयेत् कुम्भान् परितश्शिवकुम्भकम् ॥ ९ ॥
सुवस्त्राढ्यं शिरोदेशे सर्वे वस्त्रादि भूषिताः ।
शिवङ्कुम्भे यजेदस्त्रन्देवं पाशुपताह्वयम् ॥ १० ॥
तल्लक्षणोक्तरूपन्तु ध्यात्वागन्धादिभिस्तदा ।
हुं फट् इति मन्त्रेण चतुर्थ्यन्तेन नामतः ॥ ११ ॥
दीपंश्लीं पशुपूर्वञ्च हुं च फण्णम इत्यपि ।
मन्त्रेण वाथ सम्पूर्णन्देवं पाशुपताह्वयम् ॥ १२ ॥
अकाराद्यौकारान्ताश्च स्वरास्सद्यादयो मताः ।
ॐकाराद्याफडन्ताश्च मन्त्रास्स्युहृदयादयः ॥ १३ ॥
मन्त्रेण विधिवत् भिन्ना ॐकाराद्याहृदादयः ।
हृदयादि समोपेता हुम्फडन्ताः नमोन्तकाः ॥ १४ ॥
हृत्पुटाजात मूर्त्या च विद्यादेहाणुनापि वा ।
हुङ्कारकल्पितेनैव ह्रदासम्पुरितेन च ॥ १५ ॥
वज्रादीनायुधान्यष्टौ परितोभ्यर्चयेत् गुरुः ।
तत्त्व तत्त्वेश्वरान्यस्त्वा न्यसेन्मूर्तीश्च पूर्ववत् ॥ १६ ॥
मूर्तीशांश्च न्यसेद्धीमान् वज्रादीन् देशिकोत्तमः ।
कृत्वा कुण्डेषु संस्कारं सम्पाद्य च शिवानलम् ॥ १७ ॥
समित् घृतान्नसस्येन्द्र तिललाज समन्वितम् ।
पूर्वोक्तमूलब्रह्माङ्गैर्होमं पूर्वोक्तसङ्ख्यया ॥ १८ ॥
तत्वमूर्त्यादिमन्त्रैश्च सार्धं कुर्यात् गरूत्तमः ।
पलाशोदुम्बराश्वत्थ वटा इन्द्रापि दिक्षु च ॥ १९ ॥
शमीखादिरश्रीवृक्ष पिप्पला अग्निकोणतः ।
प्रधानेऽपि पलाशस्यात् द्वितीयेह्वयेमाचरेत् ॥ २० ॥
सम्पूज्यदेशिकाकादींश्च दक्षिणान्दापयेत् ततः ।
प्रतिमाग्रेघटान्यस्वा तत् कुम्भात्तुमनुं हृदि ॥ २१ ॥
न्यसेत् पीठाम्बुजेतस्य परिवारमनुन्यसेत् ।
स्नपनं चोत्सवं भूरिनैवेद्यं कारयेन्नवा ॥ २२ ॥
अनुक्तमत्रसामान्य स्थापनोक्तवदाचरेत् ।
एवमस्त्रप्रतिष्ठान्तु यः कुर्यादस्त्रमूर्तिनः ॥ २३ ॥
यात्त्येव च सुखं मोक्षमिहापि च परत्र च ॥ २३१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे बलिभर्तुः प्रतिष्ठा विधिः
त्रिपञ्चाशत्तमः पटलः ॥

५४। चतुष्पञ्चाशत्तमे पटले शरभेश्वर प्रतिष्ठाविधिः

शरभेशप्रतिष्ठान्तु वक्ष्ये लक्षणपूर्विकाम् ।
पक्ष्याकारं सुवर्णाभं पक्षद्वय समन्वितम् ॥ १ ॥
उर्ध्वपक्षसमायुक्तं रक्तनेत्रद्वयान्वितम् ।
पादैस्सिंहपदाकारैश्चचुतुर्भिश्च समन्वितम् ॥ २ ॥
सुतीक्ष्णनखसंयुक्तैः ऊर्ध्वस्थैर्वेद पादकैः ।
दिव्यलाङ्गूलसंयुक्तं सुविकीर्ण जटान्वितम् ॥ ३ ॥
कन्धरोर्ध्वन्नराकारं दिव्यमौकि समायुतम् ।
सिंहास्यं भीमदंष्ट्रञ्च भीमविक्रमसंयुतम् ॥ ४ ॥
हरन्तं नरसिंहन्तु जगत् संहरणोद्धतम् ।
कृताञ्जलिपुटोपेतं निश्चेष्टित महातनुम् ॥ ५ ॥
नम्रदेहन्तदुर्ध्वास्यं विष्णुं पद्मदलेक्षणम् ।
पादाभ्यामम्बरस्थाभ्यां कुक्षिस्थाभ्याञ्च तस्य तु ॥ ६ ॥
गगनाभिमुखं देवं कारयेत् शरभेश्वरम् ।
एवं लक्षणमादिष्टन्तस्य मन्त्रश्च कथ्यते ॥ ७ ॥
अष्टवर्गादिमम्बीजं चतुर्दशविभूषितम् ।
षष्ठस्वरसमोपेतं बिन्दुनाद समन्वितम् ॥ ८ ॥
शारम्भं बीजमत्युक्तं शरभेश्वर इत्यपि ।
ततो हरिहरस्त्वेवं चतुर्थ्यन्तं पदद्वयम् ॥ ९ ॥
आदौ प्रणवसंयुक्तन्नमस्कारान्तसंयुतम् ।
योजयेच्छरभेशार्थं पूजादिष्विष्टसिद्धये ॥ १० ॥
कल्पयेदाद्यवर्णेन ब्रह्माण्यङ्गानि देशिकः ।
वज्रदेहो भवेदाद्यः खादकश्च वियोजकः ॥ ११ ॥
मारणोदीर्घहस्तस्तु तीक्ष्णदंष्ट्रो जटाधरः ।
बलिप्रियेण चाष्टौस्युः प्राग्दिगारभ्य संस्थिताः ॥ १२ ॥
पूजायाञ्च प्रतिष्ठादौ क्रमेण परितस्थिताः ।
स्वनामाद्यक्षरेणैषां मन्त्राणामुध्दृतिर्भवेत् ॥ १३ ॥
कुर्याश्छिलादिविष्टेन द्रव्येण शरभेश्वरम् ।
प्रतिष्ठां च ततः कुर्यात् शुभलग्नोदयेऽहनि ॥ १४ ॥
अङ्कुरार्पणकार्यन्तु तद्विधानेन कारयेत् ।
नेत्राणाअमपिरत्नानाम्मोक्षणं न्यासमाचरेत् ॥ १५ ॥
मृदादिशोधनं ग्रामप्रभृतीनां प्रदक्षिणम् ।
जलाधिवासनं प्राग्वत् पृथक् कुर्यात् हरेहरौ ॥ १६ ॥
मण्डपं पूर्ववत् कृत्वा वेदाश्रन्नवकुण्डकम् ।
पञ्चाग्न्यायतनोपेत मेकाग्न्यायतनेन वा ॥ १७ ॥
स्थपत्युद्वासनं पुण्य तोयसेचनमाचरेत् ।
विप्रभुक्तिन्तदुच्छिष्टोद्वासनं मार्जनं पुनः ॥ १८ ॥
पुण्याहं वास्तु पूजाग्निकार्यं स्थण्डिल कल्पनम् ।
शयनं स्नपनं प्राग्वत् बन्धनं कौतुकस्य च ॥ १९ ॥
पृथक् द्वयोस्समादिष्टं शयनारोहणन्नयेत् ।
उकक् पादं यथादेवं पूर्वदिङ्मस्तकं यथा ॥ २० ॥
भिन्नपीठो हरिस्तर्हि वामेतं शाययेत् प्रभो ।
रक्तवस्त्रेण संवेष्ट्य कुम्भस्थापनमारभेत् ॥ २१ ॥
विन्यसेत् शिवकुम्भं च विष्णुकुम्भं च विन्यसेत् ।
स सूत्रसापिधानञ्च सवस्त्राद्यं शिरोन्तिके ॥ २२ ॥
परितोष्टौघटान्यस्त्वा स्वर्ण वस्त्रादि संयुतान् ।
ससूत्रान् सोदकान्वज्रदेहाद्यैरप्यधिष्टितान् ॥ २३ ॥
प्रागुक्ताणु स्वरूपज्ञो गन्धाद्यैरर्चयेत् गुरुः ।
हृत्पुटाजातमूर्त्यातानावाह्य सकलीकृतम् ॥ २४ ॥
विधाय हृत् पुटेनैव मूलेनावाह्यतन्मनुम् ।
शरभेशमनुन्यस्त्वा यजेत् विष्णौ सदुक्तवत् ॥ २५ ॥
मूर्तिमूर्तीश्व न्यासं कारयेत् प्राग्देव हि ।
मूर्तयो वज्रदेहाद्यास्तदीशाना इति स्मृतः ॥ २६ ॥
ततो होमं प्रकुर्वीत कृत्वा कुण्डाग्नि संस्कृतिम् ।
समिद्भिरपिपालाशैः घृतेन चरुणापि च ॥ २७ ॥
तिलैर्लाजैश्च सस्येन्द्रैः मूर्तीशान्यणुभिर्युतम् ।
पूर्णांहुत्वा द्वितीयेह्नि वह्निकुम्भामरार्चनम् ॥ २८ ॥
सम्प्राप्तदक्षिणस्तुष्टो गुरुस्सम्पूजितस्सह ।
मूर्तिपाद्यर्यथायोग्यं मन्त्रन्यासं समारभेत् ॥ २९ ॥
देवेशाग्रेघटान्यस्वा सङ्कल्प्य स्थण्डिलं गुरुः ।
कुम्भात् बीजं समादाय शरभेश हृदि न्यसेत् ॥ ३० ॥
विष्णुबीजं समादाय नरसिम्ह हृदिन्यसेत् ।
अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् ॥ ३१ ॥
तत्तत् कुम्भोदकैश्चैव स्नापयेत्परमेश्वरम् ।
स्नपनं कारयित्वा तु नैवेद्यं चोत्सवं नयेत् ॥ ३२ ॥
एवं देवं प्रतिष्ठाप्य प्रत्यहं तं समर्चयेत् ।
अर्चनं प्राग्वदेव स्यत् किन्तु मन्त्रैस्तु शारभः ॥ ३३ ॥
स्नपनोत्सव कर्माद्यं तदर्थं विधिना चरेत् ।
देशिकश्चास्य मन्त्रैस्तान्नाशयेत् शत्रु वर्गिनः ॥ ३४ ॥
सर्वव्याधिसमुत्पत्तौ मन्त्रेणानेन नाशयेत् ।
वश्याकर्षण विद्वेषमनेन विधिना नयेत् ॥ ३५ ॥
अनुक्तमत्रसङ्ग्राह्यं सामान्यस्थापनोक्तवत् ।
कुर्यादेवं स्थापनं तु योनरश्शरभेश्वरे ॥ ३६ ॥
भक्त्या भावनया सार्धं तस्यैवं कलये द्विजाः ।
इयत्ता पुण्य सङ्घस्य भोगान् भुक्त्वेह जन्मनि ॥ ३७ ॥
वाञ्छितांस्तान् परत्रापि प्राप्नोति पदमैश्वरम् ॥

इति उत्तरकामिकाख्ये महातन्त्रे शरभेश्वर प्रतिष्ठाविधिः
चतुष्पञ्चाशत्तमः पटलः ॥

पक्ष्याकारं सुवर्णाभं पक्षद्वयसमन्वितम् ।
ऊर्ध्व पक्ष समायुक्तं रक्तनेत्रत्रयान्वितम् ॥
पादैस्सिम्ह पदाकारैः चतुर्भुजश्च समन्वितम् ।
सुदीक्ष्ण नवसंयुक्तैः ऊर्ध्वस्थैः वेदपादकैः ॥
दिव्यलाङ्गूल संयुक्तं सुविकीर्णं जटान्वितम् ।
कन्धरोर्ध्व नराकारं दिव्यमौलि समायुतम् ॥
सिंहास्यं भीमदंष्ट्रं च भीमविक्रम संयुतम् ।
हरन्तं नरसिंहन्तु जगत्संहरणोद्घतम् ॥
कृताञ्जलि पुटोपेतं निश्चेष्टित महातनुम् ।
नम्रदेहं तदूर्ध्वास्यं विष्णुं पद्मदलेक्षणम् ॥
पादाभ्याम् अम्बरस्थाभ्यां कुक्षिस्थाभ्यां च तस्य तु ।
गगनाभिमुखं देवं कारयेत् शरभेश्वरम् ॥

५५। पञ्चपञ्चाशत्तमे पटले चण्डेशाद्यनुग्रह विधिः

अथ चण्डेश नन्दीशं विष्ण्वनुग्रहकृत् प्रभोः ।
प्रतिष्ठां सम्प्रवक्ष्यामि तल्लक्षण पुरस्सरम् ॥ १ ॥
उमया सहितस्याऽथ चन्द्रशेखर मूर्तिनः ।
वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ॥ २ ॥
एवं जानुरुनाभ्य्न्त स्तनवक्षो गलास्यगम् ।
सुखासीनं स्थितंवापि कृताञ्जलि पुटान्वितम् ॥ ३ ॥
देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् ।
सर्वाङ्गसुन्दरं कुर्यात् कनिष्ठदशतालतः ॥ ४ ॥
मालाग्रं देववरदे कटकेनेतरेण तु ।
देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ॥ ५ ॥
नन्दीश्वर प्रसादे तु विशेषः कश्चिदिष्यते ।
द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ॥ ६ ॥
सुविकीर्ण जटोपेतं जटामकुटकान्वितम् ।
आभङ्गसहितं कुर्यादागम शवणोन्मुखम् ॥ ७ ॥
नन्दीश्वर प्रसन्नन्तं कारयेत् पूर्व मानतः ।
नन्दीश्वरानुग्रहस्त्वेवं तद्वद्विष्णुप्रसादकृत् ॥ ८ ॥
हित्वानन्दीश्वरन्तस्मिन् विष्णुं तल्लक्षणान्वितम् ।
सचक्राञ्जलि हस्तञ्च शङ्खाब्जापरहस्तकम् ॥ ९ ॥
कारटेद्देव एषस्या च्चक्रदो विष्णुमूर्तिनः ।
कारयेदेव मेवान्य प्रसादाभिमुखं शिवम् ॥ १० ॥
इत्थं लक्षणमादिष्टं प्रतिष्ठाविधिरुच्यते ।
वाराद्यम्मङ्कुरं रत्नविन्यासमुभयत्र च ॥ ११ ॥
नेत्रमोक्षं तथाशुद्धिं पुरादीनां प्रदक्षिणम् ।
तोमाधिवासनं यागमण्डपस्य प्रकल्पनम् ॥ १२ ॥
कुण्डानामथवृत्ताश्र दिगश्राणान्तु कल्पनम् ।
नवपञ्चैक सङ्ख्यानां लक्षणैः पूर्ववत् द्विजाः ॥ १३ ॥
तक्षकोद्वासनं विप्र भिक्तिं पुण्योदसेचनम् ।
वास्तुहोमन्तु वेद्यान्तु स्थण्डिलं शयनं पृथक् ॥ १४ ॥
स्नपनं कौतुकं चैव देवानां पूर्ववत् पृथक् ।
आरोहणं च शय्यायाः तस्याञ्च शयनं नयेत् ॥ १५ ॥
देवास्त्वनुग्रहीताये भिन्नपीठ स्थिता यदि ।
देवेश पादमूलेतु तेषां च शयनं नयेत् ॥ १६ ॥
देवोत्तमाङ्गदेशेतु शिवकुम्भञ्चवर्धनीम् ।
अनुग्रहीतदेवानां तत्तन्मूर्त्यष्टकं मतम् ॥ १७ ॥
तत्तदध्याय संसिद्धिं सङ्ग्राह्यं मुनि पुङ्गवाः ।
कृत्वाकुण्डाग्निसंस्कारं द्रव्यैर्होमं समारभेत् ॥ १८ ॥
समिदाज्यान्नलाजैश्च तिलशाल्यक्षतैः क्रमात् ।
सत् पलाशवटप्लक्षो दुम्बराः पूर्वतो भवेत् ॥ १९ ॥
शमीखादिर श्रीवृक्षा अश्वत्थावह्निकोणतः ।
प्रधानस्य पलाशस्स्यात् स च सर्वत्र वामतः ॥ २० ॥
चण्डनन्दीश विष्णूश्च प्रधाने तर्पयेत् गुरुः ।
निष्कृतौ पूर्णयोपेतं होमकर्म पृथक् नयेत् ॥ २१ ॥
द्वितीयेतु ततः श्शुद्धो मूर्तिपैः तत्वविद्गुरुः ।
सम्पूज्योद्धृत्य देवांस्तु कुम्भान् कुण्डेषु पावकान् ॥ २२ ॥
सुमुहूर्तेऽठ सम्प्राप्ते सन्त्रन्यासं समाचरेत् ।
वस्त्रहोमागुलीयादि पूजितोमूर्तिपादिभिः ॥ २३ ॥
सम्प्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ।
कृतस्थण्डिलका धारा बिम्बाग्रेतु घटा न्यसेत् ॥ २४ ॥
कुम्भान्मनुं समादाय शिवस्य हृदि विन्यसेत् ।
वर्धन्यामनुमादाय तत् पीठोपरि विन्यसेत् ॥ २५ ॥
देवी सहासनाचेत्तु तस्याहृदि मनुन्यसेत् ।
अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् ॥ २६ ॥
चण्डेशादिषु देवेषु तत्तत् कुम्भान् मनुं न्यसेत् ।
तत्तत् घटोदकः स्तत्तत् द्देवमप्यभिषिञ्चयेत् ॥ २७ ॥
स्नपनञ्ञ्चोत्सवं भूरिनैवेद्यं कारयेन्नवा ।
देवी विभिन्नपीठा चेत् कल्याणं कारयेद्गुरुः ॥ २८ ॥
एवं च कुरुतेमर्त्यः सोन्ते मोक्षमवाप्नुयात् ॥ २८१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे चण्डेशाद्यनुग्रह विधिः
पञ्चपञ्चाशत्तमः पटलः ॥

उमया सहितस्याथ चन्द्रशेखरमूर्तिनः ।
वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ॥
एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् ।
सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ॥
हित्वा नन्दीश्वरं तस्मिन् विष्णुं तल्लक्षणान्वितम् ।
सचक्राञ्चलिहस्तं च शङ्खब्जापरहस्तम् ।
कारयेद्देवे-एषस्याच्चक्रदोविष्णुमूर्तिनः

उमया सहितस्याथ चन्द्रशेखमूर्तिनः ।
वामे वा दक्षिणे वापि कारयेद्देशिकोत्तमः ॥
एवं जानूरुनाभ्यन्तस्तनवक्षोगकास्यगम् ।
सुखासीनं स्थितं वाऽपि कृताञ्जलि पुटान्वितम् ॥
देवेक्षणसमोपेतं मद्भक्तं चण्डनायकम् ।
सर्वाङ्गसुन्दरं कुर्यात् कनिष्ठदशतालतः ॥
मालाग्रं देववरदे कटकेनेतरेण तु ।
देवश्शिरसि चण्डस्य मालया परिवेष्टयेत् ॥

नन्दीश्वरप्रसादे तु विशेषः कश्चिदिष्यते ।
द्विनेत्रं द्विभुजं शान्तं कृताञ्जलि पुटान्वितम् ॥
सुविकीर्ण जटोपेतं जटामकुटकान्वितम् ।
आभङ्गसहितं कुर्यात् आगमश्रवणोन्मुखम् ॥
नन्दीश्वरं प्रसन्नं तं कारयेत्पूर्वमानतः ॥

५६। षट्पञ्चाशत्तमे पटले भक्तानुग्रहदेवस्थापन विधिः

भक्तानुग्रहदेवस्य तल्लक्षण पुरस्सरम् ।
स्थापनं सम्प्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ॥ १ ॥
सदाशिवादेयो देवाः प्रागेव प्रतिपादिताः ।
त एवानुग्रपराः भक्तानुग्राहकामताः ॥ २ ॥
देवदानव गन्धर्व मुनयो मनुजातयः ।
पिपीलिका गजाद्यन्ताः जङ्गमास्थावराश्चये ॥ ३ ॥
तेऽनुग्राह्या स्मृताश्शास्त्रेऽनुग्रहो बहुधामतः ।
दीक्षा व्याख्यानं संस्पर्शाऽवलोकोक्ति मुखोद्विजाः ॥ ४ ॥
शिवाधिष्टित देहस्तु मरणं याति यो नरः ।
सनरश्शिव एव स्यात् सर्वपाप बहिष्कृतः ॥ ५ ॥
तस्मादुत्क्रान्तिकालेतु स्वेष्टलिङ्गन्तु संस्पृशन् ।
प्राणमोक्षं च कुर्याद्यः स शिवोनाऽत्र संशयः ॥ ५ ॥
सुसंस्पृष्टोक्त गोत्रादि देहं कृत्वातु साकृतिम् ।
आसीनां वा स्थितां वापि शयितां शुभलक्षणाम् ॥ ६ ॥
कृताञ्जलि पुटोपेतां प्रतिमां लोहपूर्वकैः ।
द्रव्यैस्सदाशिवाद्यान्तु कृत्वा संस्थापयेत्सुधीः ॥ ८ ॥
तत्पीठानथ तद्देवाकृतिं कुर्यात् गुरुस्सुधीः ।
भक्तानुग्रह देवस्य लक्षणं त्वेवमीर्तितम् ॥ ९ ॥
संस्थापनमथोवक्ष्ये श्रूयतां द्विजसत्तमाः ।
कालः प्राग्वत् समुद्दिष्ट स्तथैवाङ्कुरकर्म च ॥ १० ॥
रत्नन्यासं तथैवाक्षिमोचनं बेर शोधनम् ।
ग्रामप्रदक्षिणं मध्यमे त्वधिवासनम् ॥ ११ ॥
प्रतिष्ठामण्डापाख्यं यत् पूर्वोक्त विधिना चरेत् ।
कुण्डानिकारयेत्तत्र नवपञ्चैक सख्यया ॥ १२ ॥
चतुरश्राणि कार्याणि प्रधानं वृत्तमेव वा ।
तक्षकोद्वासनं विप्रभुक्तिं पुण्योद सेचनम् ॥ १३ ॥
स्थैण्डिलं शयनं स्नानं तद्वत् कौतुकबन्धनम् ।
शयनारोहणं कुम्भस्थापनं पूर्ववन्नयेत् ॥ १४ ॥
तत्पादेभक्तकुम्भन्तु तत्तद्ध्यान समन्वितम् ।
आत्ममन्त्र समोपेतं विद्येश्वर घटान्वितम् ॥ १५ ॥
तद्वन्मूर्त्यादिविन्यासं प्रागुक्तविधिना नयेत् ।
अग्निकुण्डादिसंस्कारं कृत्वा होमं समाचरेत् ॥ १६ ॥
समिदाज्यान्नलाजैश्च तिलैर्वेणुयवैर्द्विजाः ।
पलाशोदुम्बराश्वत्थ न्यग्रोधाः प्राग्दिगादितः ॥ १७ ॥
शम्यपामार्गश्रीवृक्ष प्लक्षाश्चाग्नेयगोचराः ।
प्रधानेतु पलाशस्यात् यस्या भावस्स एव हि ॥ १८ ॥
ततो द्वितीयदिवसे कृतकुम्भाग्नि पूजितः ।
पूजितोवस्त्रहेमाद्यैर्मूर्तिपाद्यैस्समन्विताः ॥ १९ ॥
सम्प्राप्तदशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ।
मन्त्रन्यासन्ततः कुर्यात् न्यस्त्वाबिम्बपुरोघटान् ॥ २० ॥
कुम्भान्मन्त्रं समादाय देवस्य हृदये न्यसेत् ।
देव्या देवस्समायुक्तो यदि देवी मनुं गुरुः ॥ २१ ॥
विन्यसेत् हृदये देव्या ने चेत् पीठेतु विन्यसेत् ।
ततः कुम्भाजलेनाथऽथ तौ च संस्नापयेत् सदा ॥ २२ ॥
भक्तकुम्भस्य बीजन्तु तत भक्त हृदयेन्यसेत् ।
आदायबीजान्यन्येभ्यः पीठस्य परितो न्यसेत् ॥ २३ ॥
तत् कुम्भस्थ जलेनापि स्नापयेत् पीठमादरात् ।
स्नपनं कारयेदन्ते नैवेद्यन्दापयेत् ततः ॥ २४ ॥
उत्सवन्तु तदन्ते स्यात् एतत् सामान्यमीरितम् ।
विशेषस्त्रिपुरघ्नादि प्रतिष्ठाविधि चोदितः ॥ २५ ॥
तथा भक्तप्रतिष्ठोक्त विधिना च समन्विताः ।
एवं यः मर्त्यः स पुण्याङ्गतिमाप्नुयात् ॥ २६ ॥
पुत्रार्थि लभते पुत्रान् धनार्थि धनमाप्नुयात् ।
देवार्थी देवमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ॥ २७ ॥
यान्यान् कामयते भोगान् तान्सर्वानाप्नुयान्नरः ।
मृतमुद्दीश्य यः कुर्यात् तत् पुत्रः पौत्र एव वा ॥ २८ ॥
जीवन्नेवाथवा कुर्यात् आत्मानं शिवसञ्ज्ञितम् ॥ २८१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे भक्तानुग्रहदेवस्थापन विधिः
षठपञ्चाशत्तमः पटलः ॥

सुसंस्पृटोक्त गोत्रादि देहं कृत्वा तु साकृतिम् ।
आसीनां स्थितां वापि शयितां शुभलक्षणाम् ॥
कृताञ्जलिपुटोपेतां प्रतिमां लोह पूर्वकैः ।
द्रव्यै स्सदाशिवाद्यां तु कृत्वा संस्थापयेत् सुधीः ॥

५७। सप्तपञ्चाशत्तमे पटले कालारिकामान्तक प्रतिष्ठाविधिः

वक्ष्ये कालारि कामघ्न प्रतिष्ठां लक्षणान्विताम् ।
चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः ॥ १ ॥
कुञ्चितासव्यपादस्तु व्याघ्र चर्माम्बरान्वितः ।
ततोद्धृत सदक्षाङ्घ्रिस्तीक्ष्णदंष्ट्रोग्रनासिकः ॥ २ ॥
दक्षहस्तथ शूलोवा वामहस्तस्थ सूचिकः ।
दक्षहस्तस्थ परशुर्नागपाशोऽथ वामगः ॥ ३ ॥
कटाक्षदृष्टिदेवस्य कालदेवे व्यवस्थितः ।
शूलंह्यधोमुखं प्रोक्तं कालकुण्डस्थमेव वा ॥ ४ ॥
सूचिमुद्रासमोपेत करोच्चन्नाभिसीमकम् ।
तद्धस्तमणिबन्धाच्च पार्श्वमध्यं कलाङ्गुलम् ॥ ५ ॥
कर्णान्तं शूलहस्ताग्रं तद्धस्तमणिबन्धकात् ।
कर्णाग्रन्तद्वितालं स्यात् दोस्समं परहस्तकम् ॥ ६ ॥
कर्णाग्रमणिबन्धान्तं यवञ्चेति प्रकीर्तितम् ।
मूर्ध्नोदक्षकरीनित्यं वामनासापुटादयः ॥ ७ ॥
नाभेस्सव्ये च वामाङ्घ्रेरग्रे सूत्रं पुरो भवेत् ।
तत् सूत्रान्मेद्रमूलस्य वामभागोन्तरोमतः ॥ ८ ॥
स्थितजान्वन्तरं सूत्रद्वामे सूत्रमूदीरितम् ।
अधोद्धृताङ्घ्रि जानूच्चं कट्यग्र सममेव हि ॥ ९ ॥
जङ्घमध्यात् समोच्चन्तत् तलाग्रान्तमिति स्मृतम् ।
दक्षपादस्य पार्ष्णाग्रं तिथिस्स्यात् सूत्रदक्षिणे ॥ १० ॥
परहस्तौ च कटकौ शूलहस्तस्थैव च ।
तत् सूत्रन्दक्षिणेनाभि विद्येश्वर यवं भवेत् ॥ ११ ॥
सूत्रादन्वित जान्वन्तो गुणवह्ण्यङ्गुलो भवेत् ।
उद्धृतस्य तलस्याग्र जङ्घायास्मृति मात्रकम् ॥ १२ ॥
कालन्तु पतितं कुर्यात् तत् प्लुताक्षन्तु मूर्च्छितम् ।
उद्गिरद्रक्तवस्त्रं च तथालोहितमूर्धजम् ॥ १३ ॥
शूलपाशकरञ्चैव विकीर्ण चरणान्वितम् ।
दंष्ट्राकरालवदनं रक्तभ्रूरक्तलोचनम् ॥ १४ ॥
देवस्थन्नाभिमानेन नवतालेन कारयेत् ।
कृताञ्जलिपुटं वापि कारयेत् कालमादरात् ॥ १५ ॥
अथवाथहराल्लिङ्गात् निर्गतात् पतितन्नयेत् ।
कालान्तलिङ्गमानाद्यं लिङ्गोद्भूतोक्तवन्नयेत् ॥ १६ ॥
त्रिभङ्गेनस्थितश्चान्योऽधिमुखो भस्मविग्रहः ।
बद्धपुष्पाञ्जलिः पार्श्वे मार्कण्डेयस्थितोवरः ॥ १७ ॥
कर्तव्यः कालतोभीत स्सन्तुष्टो नु हरेण तु ।
मार्कण्डेयोनुमानेन युक्तो वा वर्जितस्तुवा ॥ १८ ॥
अपस्मारशरीरस्थ चरणेन युतो न वा ।
कालाग्निरेवमाख्यातो मन्मथान्तक उच्यते ॥ १९ ॥
अग्रेतुदक्षिणामूर्तेर्योगनिष्ठस्य मन्मथम् ।
कुर्यात्तु पतितं दृष्टिपातादेव च तत्क्षणात् ॥ २० ॥
भक्त्वा दशांशन्देवोच्चमेकाद्या सप्तभागिकम् ।
मन्मथोत्सेधमुद्दिष्टं स तु हेम विभूषितः ॥ २१ ॥
शुद्धजाम्बूनदः प्रख्यः पुष्पपञ्चेषु संयुतम् ।
मीनकेतुस्तथैवेक्षु कार्मुका कृतिसंयुतः ॥ २२ ॥
देवभागवसन्ताख्य मित्रयुक्तोऽपि सुन्दरः ।
लम्भिनी तापिनी चैव वेदिनी द्राविणी तथा ॥ २३ ॥
मारिणी तु शराख्यास्युर्धनुर्वामे शराः परे ।
मन्मथो मित्रयुक्तो वाऽयुतोवैक शरेण तु ॥ २४ ॥
इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते ।
वाराद्यम् अङ्कुरं यागमण्टपं पूर्ववन्नयेत् ॥ २५ ॥
कुण्डानि मण्डपे कुर्यात् ग्रहभूतैक सङ्ख्यया ।
दिग्गताश्राणि वृत्तानि चतुरश्राणि वा द्विजाः ॥ २६ ॥
रत्नन्यासाक्षिमोक्षे च बेरशुद्धिमनन्तरम् ।
ग्रामप्रदक्षिणं तोयाधिवासं पूर्ववत् गुरुः ॥ २७ ॥
देवे च काले कामे च कारयेत्तु पृथक् पृथक् ।
वेद्यूर्ध्वे स्थण्डिले चैव शयनं स्नपनं पृथक् ॥ २८ ॥
देवस्य पाददेशेतु शय्यास्यात् काल कामयोः ।
कौतुकं शयनारोहं पूर्ववत् पृथागाचरेत् ॥ २९ ॥
ईशकुम्भं शिरोदेशे वर्धनीं तस्य चोत्तरे ।
कालकुम्भं च तन्मूर्ध्नः प्रदेशे तन्मनुंस्मरन् ॥ ३० ॥
कामश्चेत्तच्छिरोदेशे वस्त्राद्याढ्यं घटन्यसेत् ।
मित्राभ्यां संयुतश्चेत्तु तयोश्चकलशद्वयम् ॥ ३१ ॥
कामस्य पार्श्वयोः कॢप्त शय्याशयितयोरपि ।
देवभाग वसन्ताख्य युक्तयोर्मित्रयोर्गुरुः ॥ ३२ ॥
विन्यसेद्वस्त्रहेमाढ्यं पूर्ववत् परितोप्पटान् ।
विद्येश्वरात्मकान्यस्य यजेत् गन्धादिभिस्ततः ॥ ३३ ॥
तत्वेशरादिविन्यासं कृत्वा होमं समाचरेत् ।
तत्वाद्याः पूर्ववद्देव कामेतस्य यथोदितम् ॥ ३४ ॥
कालस्य पञ्चमूर्तेस्तु मूर्तीशानपि विन्यसेत् ।
आत्मविद्याशिवाख्यानां तत्वानां व्याप्तिरिष्यते ॥ ३५ ॥
शब्दप्रभृतिकालान्तं तदीशानान्तथैव हि ।
मूर्तयः प्राग्वदुद्दिष्टा वसन्तोग्रीष्म सज्ञकः ॥ ३६ ॥
प्रावृट् शरश्चेहेमन्त इति मूर्तीश्वरामताः ।
कृत्वा कुण्डाग्नि संस्कारं समित् घृत चरूंस्तिलान् ॥ ३७ ॥
अक्षतं च लुलं लाजं सर्षपं चहुनेत् क्रमात् ।
पलाशो ढुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ॥ ३८ ॥
शमीखादिरमायूर श्रीवृक्षावह्निकोणतः ।
पलाशस्तु प्रधाने स्यात् स च सर्वत्रवामतः ॥ ३९ ॥
कालं मामं प्रधाने तु कल्पयेद्देशिकस्सुधीः ।
नीत्वेवं रात्रिशेषन्तु प्रभाते विमले ततः ॥ ४० ॥
देशिकस्सुविशुद्धात्मा सम्पूज्योद्धृत बिम्बकः ।
कुम्भान् कुण्डस्थवह्निञ्च मन्त्र न्यासं गुरूत्तमः ॥ ४१ ॥
वस्त्रहेमाङ्गुलीयाद्यैः पूजितो मूर्तिपादिभिः ।
सम्प्राप्त दक्षिणः पश्चात् सुमुहूर्ते सुलग्नके ॥ ४२ ॥
कुम्भान् बिम्बपुरो न्यस्य शिवकुम्भमनुस्मरन् ।
शिवस्य चादरान्यस्य तत् पीठे करकन्यसेत् ॥ ४३ ॥
वैद्येशकुम्भबीजानि तत् पीठे परितो न्यसेत् ।
अन्येभ्यो मनुमादाय तेषान्तेषां हृदि न्यसेत् ॥ ४४ ॥
स्नपनं भूरिनैवेद्यं चोत्सवं कारयेन्नवा ।
अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ॥ ४५ ॥
एवं यः कुरुते मर्त्यः भोगान् भुक्त्वास्ववाञ्छितान् ।
देहान्ते पुनरीशानं प्राप्नोत्यत्र न संशयः ॥ ४६ ॥

इति उत्तरकामिकाख्ये महातन्त्रे कालारिकामान्तक प्रतिष्ठाविधिः
सप्तपञ्चाशत्तमः पटलः ॥

चतुर्भुजस्त्रिणेत्रश्च कपर्दमकुटान्वितः ।
कुञ्चितासव्यपादस्तु व्याघ्रचर्माम्बरान्वितः ॥
ततस्तूतद्धृतदक्षाघ्रिः कीक्ष्णदंष्ट्रोग्रनासिकः ।
दक्षहस्तस्थशूलो वा वामहस्तस्थ सूचिकः ॥
दक्षहस्तस्थ परशुः नागपाश्ऽथवाङ्गः ।
कटाक्षदृष्टिः देवस्य कालदेव व्यवस्थिता ॥
शूलंह्यधोमुखं प्रोक्तं कालकण्ठस्थमेववा ।
शूचिमुद्रासमोपेतं करोच्चं नाभिसीमकम् ॥
उद्धृतस्यतलस्याग्राज्जङ्घायाः स्मृतिमात्रकम् ।
कालं तु पतितं कुर्यात् तं पॢताक्षं तु मूर्च्छितम् ॥
देवस्यनाभिमानेन नवतालेनकारयेत् ।
कृताञ्जलिपुटं वापि कारयेत्कालमादरात् ॥
अथवाथ हराल्लिङ्गात् निर्गतान् पतितं नयेत् ।
कालान्तलिङ्गमानाद्यं लिङ्गोद्भूतोक्तवन्नयेत् ॥
बद्धपुष्पाञ्जलिः पार्श्वे मार्गण्डेयःस्थितो वरः ॥
कर्तव्यः कालतो भीतः सन्तुष्टोनुहरेण तु ।
मार्गण्डेयोनुमाने युक्तो वा वर्जितस्तु वा ॥

५८। अष्टपञ्चाशत्तमे पटले कल्याणमूर्ते प्रतिष्ठ विधिः

वक्ष्ये कल्याणमूर्तेस्तु प्रतिष्ठां लक्षणान्वितम् ।
जटामकुट संयुक्तश्चन्द्रार्धकृतशेखरः ॥ १ ॥
त्रिदृक् चतुर्भुजश्चैव नवयौवनगर्वितः ।
समभङ्गयुतो देव स्थानकस्थ प्रकीर्तितः ॥ २ ॥
सकुञ्चात् सव्यसत्पाद स्थितसव्येतराङ्घ्रिकः ।
इन्दुशेखरहस्ताभ परहस्त द्वयान्वितः ॥ ३ ॥
जल सङ्ग्रहणे योग्य वरवाम करान्विताः ।
स्वदक्षिणग्रहीतो वा दक्षहस्तप्रसन्नधीः ॥ ४ ॥
आसाग्र लम्बयेत् सूत्रं स्तनमध्यात्तु दक्षिणे ।
नाभिमध्यात्तु वामे च दक्षिणे बहिरेव च ॥ ५ ॥
एकैकमङ्गुलन्नीत्वा नाभिसूत्र समं भवेत् ।
वरहस्तस्य पृष्ठोच्चं तन्नाह मणिबन्धयोः ॥ ६ ॥
अन्तरं स्यात्तथैकोन विंशतिर्बाहुमध्यमात् ।
पार्श्वान्तं रस मात्रं स्यात् अन्तरं मुनिपुङ्गवाः ॥ ७ ॥
मेद्रमूलसमन्दक्ष कटकस्यास्य लम्बनम् ।
नाभेस्तं मणिबन्धान्तं स्मृत्यङ्गुलमितीरितम् ॥ ८ ॥
तद्बाहुमध्यात् पार्श्वान्तं शराङ्गुलमितिस्मतम् ।
पादाङ्गुष्ठद्वयोर्मध्यं मुखपार्ष्णिद्वयान्तरम् ॥ ९ ॥
सुत्रास्तु जानुनोमध्यं कलया परिकीर्तितम् ।
अर्धेन्दुमलिवश्चान्य हस्तयेरन्तरं मतम् ॥ १० ॥
पूर्ववत् कथितन्देव्या मानं विप्रोत्तमास्विह ।
देवीदृगास्य चिबुक कक्ष चूचुकमानता ॥ ११ ॥
तद्देव्यपरभागस्था श्रीदेवी सर्व लक्षणैः ।
युक्तादेवीकटिस्पृष्ट कराभ्यामपि संयुता ॥ १२ ॥
श्रीदेवी मध्यमर्कांशैः तद्वन्नाभि भुजान्तरम् ।
पादाङ्गुष्ठद्वयोर्मध्यं भवेदष्टदशाङ्गुलम् ॥ १३ ॥
रसाङ्गुलान्तरे पार्ष्ण्योः श्रीदेव्येवं प्रकीर्तिता ।
देवोच्चदशभागैक भागादेकादशावधि ॥ १४ ॥
भागमानयुतः श्यामः किरीटमकुटान्वितः ।
गृहीत शङ्ख चक्रश्च हस्ताभ्यां धृतयापि च ॥ १५ ॥
तोयकुण्डिकयोपेतो विष्णुरेष उदाहृतः ।
नासाग्रात् स्थितपाद्यस्य चाङ्गुष्ठान्तं विलम्बयेत् ॥ १६ ॥
तत्सूत्रान्नाभिमध्यन्तु वेदमात्रमितिस्मृतम् ।
कुण्डिकोत्सेधविस्तारो तालसूत्राङ्गुलौ मतौ ॥ १७ ॥
तद्गलोत्सेधविस्तारो कलयाकोलकेन च ।
आस्यम्पञ्चाङ्गुलं प्रोक्तं नासिकोच्चन्तु कोलकम् ॥ १८ ॥
तन्मूलन्तुकलाचाग्रं तस्यवक्त्रा कृतिर्भवेत् ।
एकाङ्गुलं तत् पदोच्चं तन्मूलाग्रततिस्त्रिभिः ॥ १९ ॥
पञ्चभिश्चहरेर्वाम करपल्लव संस्थिता ।
तदूर्ध्वे दक्षिणंहस्तन्धारापाताय कल्पयेत् ॥ २० ॥
कुण्डिका मूलहस्तोच्चं नाभिसूत्रं समं भवेत् ।
नाभेस्तुमणिबन्धान्तं धातुमात्रमितिस्मृतम् ॥ २१ ॥
तदन्यमणिबन्धात्तु सप्तभिश्चुलुकान्तकम् ।
वरदः कटकौ स्यातां वामेतर करावुभौ ॥ २२ ॥
हरेरुक्त प्रमाणेन ब्रह्माणमपिकारयेत् ।
चतुर्मुखश्चतुर्बाहुः जटामकुटमण्डितम् ॥ २३ ॥
होमोन्मुख्ं प्रसन्नन्तं किङ्कुमक्षोदसन्निभम् ।
मौञ्जीमेखलयोपेतं सोपवीतोत्तरीयकम् ॥ २४ ॥
वामेतरकरादूर्ध्वौ कमण्डलवक्षधारकौ ।
वराभयकरौ पूर्वौस्यातान्तौ दक्षिणेतरौ ॥ २५ ॥
स्रुवपातक्रियोपेता वन्यौ तु कटकामुखौ ।
सूत्रंललटनासाग्र मध्यमे नाभिगुल्फयोः ॥ २६ ॥
विलम्बितान्ततो नाभे र्द्वयन्तरन्तु दशांशकम् ।
तत्पादाङ्गुष्ठ मूलान्तान्नाभेर्वसुदशाङ्गुलम् ॥ २७ ॥
अभयँचूचुकान्तंस्यात् नाभ्यन्तं मणिबन्धकम् ।
तन्मध्ये विश्वमात्रस्यात् बाहुपार्श्वान्तकं रसैः ॥ २८ ॥
ऊर्ध्वकाय समञ्जान्वोः अन्तरं समुदाहृतम् ।
ब्रह्मरूपमितिख्यात न्तथापद्मासनस्थितम् ॥ २९ ॥
देवस्याङ्गुलमानेन द्विविंशत्यङ्गुलो भवेत् ।
अग्निकुण्डस्यविष्कम्भस्त्रिमेखल युतस्य च ॥ ३० ॥
मेखलैकाङ्गुलाप्रोक्ता प्रत्येकं मुनिपुङ्गवाः ।
द्वादशाङ्गुलविस्तार दैर्घ्या सा सप्तजिह्वकः ॥ ३१ ॥
पञ्चभुजिह्वायुतोवाग्निः कुण्डमध्यस्थितस्त्वयम् ।
शिवादिहस्तसूत्राणां प्रमाणन्द्व्यन्तरन्तु यत् ॥ ३२ ॥
उद्धृतिर्हस्त पादानामन्याङ्गाना मिहोच्यते ।
एषामेवनतिश्चापि सङ्कोचो निर्गमोऽपि वा ॥ ३३ ॥
शरचापादि शास्त्राणां सङ्ग्रहे संस्थितिस्त्वियम् ।
अस्त्राणान्नियमश्चापि सर्वशास्त्र प्रचोदितः ॥ ३४ ॥
दृष्ट्वान्तमात्र तत्सर्व शास्त्रेषु प्रतिपादिताः ।
भूषणानाञ्च सर्वेषां वां दक्षिण भेदतः ॥ ३५ ॥
दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः ।
देवीनामेवमेवस्यान्नरादीनां विशेषतः ॥ ३६ ॥
इत्थं लक्षणमाख्यातं प्रतिष्ठाविधिरुच्यते ।
सम्भाव्य पूर्ववत् कालं प्राग्वत् कृत्वाङ्कुरार्पणम् ॥ ३७ ॥
देवस्यसव्ये ब्रह्माणम् उत्तरे विष्णुमेव च ।
गौर्या च दक्षिणे लक्ष्मीं विन्सेद्देशिकोत्तमः ॥ ३८ ॥
नवरत्नन्यसेत् पश्चात् देवेशे च हरावपि ।
शिष्टानां ब्रह्मगौरी श्रीदेवीनां कनकन्यसेत् ॥ ३९ ॥
दृक्मोक्षऽं ततः कृत्वा तदध्यायोक्तवर्त्मना ।
बेरशुद्धिपुरग्राम प्रभृतीनां प्रदक्षिणम् ॥ ४० ॥
तोयेधिवासयेद्देवं मध्येतद्दक्षवामयोः ।
ब्रह्मविष्णु कृतौ ब्रह्म पार्श्वयोरम्बिकां श्रियम् ॥ ४१ ॥
यागमण्टपमासाद्य पूर्ववत् परिकल्पितम् ।
पूर्वाशोत्तर काष्ठासु स्नानवेदि त्रयान्वितम् ॥ ४२ ॥
अस्य पूर्वयमाप्येन्दु स्थाने ष्विष्टस्तुमण्टपः ।
योन्याभनवपञ्चैक कुण्डैरपि समन्वितः ॥ ४३ ॥
स्नानश्च भ्रात्रयोपेता देव्याः पूर्ववदीरितः ।
देवस्यमण्डपे चापि कुण्डानि नव सङ्ख्यया ॥ ४४ ॥
पञ्चैक सङ्ख्ययावपि चतुरश्रनिभानि वा ।
दिगश्रान्यथ वृत्तानि कल्पयेत् कल्पवित्तमः ॥ ४५ ॥
उद्वास्यशिल्पिनं पश्चात् विप्रान् सम्भोजयेत्ततः ।
पुण्याहं वास्तोहोमश्च स्थण्डिलं शयनं तथा ॥ ४६ ॥
स्नपनं केशगौरी श्रीदेवीनां कौतुकम् पृथक् ।
शयने शाययेद्देवन्तस्य वामे च दक्षिणे ॥ ४७ ॥
कृष्णञ्चैवाथभिन्न शय्यायां शाययेत् गुरुः ।
देव्यास्तु मण्डपे देवीं शाययेद्दक्षिणे श्रियम् ॥ ४८ ॥
उत्तरे शाययेद्वह्निं सङ्कल्प्य शयनं पृथक् ।
रक्तेन वासमा देवं देविं पीतेन केशवम् ॥ ४९ ॥
कृष्णेन पद्मां शुभ्रेण तद्वर्णेन पितामहम् ।
आचार्या स्सङ्ग्रहीतव्याः प्रतिमण्टपमुत्तमाः ॥ ५० ॥
गुरवः प्रतिदेवं वा सङ्ग्राह्यामुनिपुङ्गवाः ।
देवोत्तमाङ्ग देशेतु शिवकुम्भञ्च वर्धनीम् ॥ ५१ ॥
ब्रह्मविष्ण्वोश्शिरोदेशे विन्यसेत्तु घटद्वयम् ।
परितोटौ घटान्यस्व विद्येशाधिष्ठिता न्यसेत् ॥ ५२ ॥
देवी श्री पावकानान्तु शिरोदेशे घटत्रयम् ।
वामाद्याधिष्ठितानष्ट कुम्भाश्च परितो न्यसेत् ॥ ५३ ॥
तल्लक्षणोदिताकारं ध्यानयुक्तस्वतन्त्रयुक् ।
यजेत् गन्धादिभिर्देवा नैवेद्यान्तैः पृथक् पृथक् ॥ ५४ ॥
तत्वमूर्त्यादिविन्यासं कारयेत् पूर्ववत् प्रभोः ।
अन्येषां स्तत्तदध्याय प्रोक्तांस्तत्वादिकान्यसेत् ॥ ५५ ॥
ततो होमः प्रकर्तव्यः कृत्वा कुण्डाग्नि संस्कृतम् ।
समिदाज्यान्नलाजैश्च तिलसर्षपमुद्रकैः ॥ ५६ ॥
पलाशोदुम्बराश्वत्थ वटाः पूर्वादि दिक्षु च ।
शम्यपामार्ग श्रीवृक्ष मायूरावह्निकोणतः ॥ ५७ ॥
प्रधाने तु पलाशस्यात् सर्वत्रैव च वामतः ।
प्रत्येहं पूर्ववत् हुत्वा पूर्णान्ते देशिकोत्तमः ॥ ५८ ॥
स्वगृहेतत् प्रदेशे वा स्वपेतायास शान्तये ।
प्रभाते कृतनित्यन्तु कर्ता सम्पूजयेत् गुरुम् ॥ ५९ ॥
वस्त्रहेमाङ्गुलीयाद्यैः मूर्तिपाद्यैस्समन्वितम् ।
तदन्ते दक्षिणान्दत्वा पञ्चनिष्कादि सम्मिताम् ॥ ६० ॥
प्रतिमाग्रे घटन्न्यस्त्वा कुम्भान् बीजन्तु विन्यसेत् ।
वर्धन्याबीजमादाय देवीहृदय मध्यमे ॥ ६१ ॥
सहजा चेदुमादेवी भिन्ना चेत् पीठमध्यमे ।
भिन्नपीठाथवा देवी तद्गतं वा मनुं न्यसेत् ॥ ६२ ॥
अन्येभ्यो बीजमादाय पीठस्यपरितो न्यसेत् ।
सम्पूज्य स्नपनं कुर्यादर्चनोक्तवदर्चयेत् ॥ ६३ ॥
दत्वा नैवेद्यमन्तेतु प्रतिष्ठोत्सवमाचरेत् ।
कश्चिदस्मिन्विशेषोस्ति श्रूयतां द्विजसत्तमाः ॥ ६४ ॥
सदाशिवादि देवानां देवीयस्य यथा मता ।
तथा विध्येया सा देवी स्वतन्त्रे देव पद्मनि ॥ ६५ ॥
प्रासाद मण्टपादीनां बाह्ये संस्थापिता यदा ।
तेषां हस्तादिविन्यास स्वस्वपूर्वादि देशतः ॥ ६६ ॥
यथा वा लभते शोभा बलन्तेषां यथा भवेत् ।
तेषां देव्यश्वतत्पार्श्वे कर्तव्या वा न वामताः ॥ ६७ ॥
सवतन्त्रे सर्वथाकार्या वृषवाहनकादिषु ।
दक्षिणेशादि देवानान्देव्यो नक्वापिसम्मताः ॥ ६८ ॥
प्रासादभित्तिदेवानां प्रतिष्ठाभिन्नगानवा ।
एवं मर्त्योऽपि यः कुर्यात् वाञ्चितं फलमाप्नुयात् ॥ ६९ ॥

इति उत्तरकामिकाख्ये महातन्त्रे कल्याणमूर्तेः प्रतिष्ठा विधिः
अष्टापञ्चाशत्तमः पटलः ॥

जटामकुट संयुक्तः चन्द्रार्धकृतशेखरः ।
त्रिदृक् चतुर्भुजश्चैव नवयौवन गर्वितः ॥
समभङ्गयुतो देवः स्थानकः सम्प्रकीर्तितः ।
कुञ्चितः सव्यपादस्तु स्थितसव्येतरान्ध्रिकः ॥
इन्दुशेखर हस्ताभ परहस्त द्वयान्वितः ।
जलसङ्ग्रहणे योग्य वरवामकरान्वितः ॥
स्वदक्षिणगृहीतो वा दक्षहस्तः प्रसन्नधीः ।
पूर्ववत् कथितं देव्या मानं विप्रोत्तमास्त्विह
देवी दृगास्य चिबुक कक्षनूचुक मानका
तद्देव्यपर भागस्था श्रीदेवी सर्वलक्षणैः
यक्ता देवी मध्यमर्कां शस्तद्वन्नाभिजान्तरम्
देवोच्च दशभागैक भागादेक दशावधि
भागमानयुतः श्यामः किरीट मकुटान्वितः
गृहीत शङ्खचक्रश्च हस्ताभ्यां धृतयापि च
तोयकुण्डिकयोपेतो विष्णुरेव उदाहृतः
हरेरक्त प्रमाणेन ब्रह्माणमपि कारयेत्
चतुर्मुखं चतुर्बाहुं जटामकुटमण्डितम्
होमोन्मुखं प्रसन्नं तं कुङ्गुकुमक्षोदसन्निभम्
मौञ्जीमेकलोपेतं सोपवीतोत्तरीयकम्
वामेतरकरावूर्ध्वौ कमण्डल्वक्षधारकौ
वराभयाकरौ पूर्वौ स्यातां तौ दक्षिणेतरौ
स्रुवपात क्रियोपेतौन्योतु कटकामुखौ
भूषणानां च सर्वेषां वामदक्षिण भेदतः
दर्शनं सर्वबेराणां सर्वेषां द्विजसत्तमाः

५९। एकोनषष्टितमे पटले कल्याण कर्म विधिः

वक्ष्ये कल्याण कर्मापि सर्वदेवे सनातने ।
पूर्वोक्ते सुमुहूर्ते तु तद्दिने वा परे दिने ॥ १ ॥
तृतीयेऽह्नि चतुर्थे वा दिवाकालेऽर्धरात्रके ।
प्रपायां मण्डपे वेष्टदेशे गोमयलेपिते ॥ २ ॥
स्तण्डिलं तत्र सङ्क्ल्प्य सितवस्त्रोत्तरच्छदम् ।
स्तापयेत्तत्र देवेशं भूषितं भूषणार्हकैः ॥ ३ ॥
गेयपञ्चमहाशब्दं छत्र चामर दर्पणैः ।
अनेक धूपैः सद्दिपैः आनीतं शिबिकादिभिः ॥ ४ ॥
प्राङ्मुखं तत् पुरः स्थण्डिलं सिकतादिभिः ।
देवस्थण्डिलयोर्मध्ये स्थापयेद्वह्नि मूर्तिनम् ॥ ५ ॥
तस्यैव वामभागेऽजं सौम्यास्यं दक्षिणाननम् ।
विष्णुं तत्सव्य भागे तु वस्त्राभरण भूषितम् ॥ ६ ॥
पाद्याचमनं सदशं चाम्बरद्वयम् ।
आच्छादनोत्तरीयार्थं गुरुर्दद्यात् प्रभोर्ह्रदा ॥ ७ ॥
स्थण्डिलेऽग्निं विनिक्ष्प्य पञ्चसंस्कार माचरेत् ।
सषडङ्गं शिवं चेष्ट्वा समिदाज्यानकैस्सह ॥ ८ ॥
पूर्णाहुतिं तदा दत्वा सर्वभरण संयुताम् ।
गौरी मीश्वर सव्ये तु हृद संस्थाप्य देशिकः ॥ ९ ॥
पाद्या चमनं चार्घ्यं दद्यात्तेनैव मन्त्रतः ।
देव्यामङ्गल सूत्रं तु दद्याद् धृदयमन्त्रतः ॥ १० ॥
आच्छादनोत्तरीयार्थं वस्त्रयुग्मं च दापयेत् ।
अथ पार्श्वेन्यसेल्लक्ष्मीं देव्यास्सर्वाङ्ग सुन्दरीम् ॥ ११ ॥
कौतुकं बन्धयेद्देव देव्योस्सर्वात्मना गुरुः ।
शिवाद्विज कुलोद्भूत स्समधीत शिवागमः ॥ १२ ॥
सोष्णीषस्सोत्तरीयश्च धृतपञ्चाङ्ग भूषणः ।
अनेन गुरुणा दिष्टो गुरुरन्यः प्रसन्नधीः ॥ १३ ॥
वस्त्रद्वयाङ्गुलीयस्सन् निजदेहं तु विष्णुवत् ।
ध्यात्वोदकं हृदा दद्यात् कराभ्यां करकेण च ॥ १४ ॥
शैवेऽपरे करे भस्म पश्चाद्द्दद्याद्वयोरपि ।
पुण्याहं वाचयेत्पश्चात् सूक्त वेदधनीनपि ॥ १५ ॥
समिधः षोडशैवाग्नौ शिवेनाङ्गैश्च तर्पयेत् ।
गुडदुग्धाज्य सम्मिश्रं मधुपर्कं हृदा प्रभोः ॥ १६ ॥
दद्याद्वक्त्रेण चाचान्तं पुनराज्येन वै हृदा ।
हुत्वा षोडश सङ्ख्यातं ततस्त्वाज्येन षोडश ॥ १७ ॥
नैवेद्यं चोपदंशं तु दत्वा शान्तिं च वै हृदा ।
ताम्बूलमपि तेनैव स्तुत्वा परमकारणम् ॥१८ ॥
त्रिंशद्दर्भमितं कृत्वा ग्रन्थियुक्तं द्वितालकम् ।
शिवहस्तमिति ध्यात्वा गौर्या हृदि हृदा न्यसेत् ॥ १९ ॥
तस्माद्दक्षिण कर्णे तु बीजमुख्यं जपेद् गुरुः ।
ततो वामेऽश्म संस्थाप्य शालिस्थण्डिलकोपरि ॥ २० ॥
पूर्वोक्त शिवहस्तेन देव्या दक्षिणपात्तलम् ।
सङ्गृह्य विन्यसेत् तस्मिन्नश्मन्येव हृदा गुरुः ॥ २१ ॥
उष्णीषाद्यैस्ततो विष्णुं तोषयेदीश्वराज्ञया ।
प्राग्वद्दर्भस्य हस्तस्य कृत्वैवाथ चतुष्टयम् ॥ २२ ॥
शिवहस्तद्वयं देव्या हस्तद्वयमिति स्मरेत् ।
तत शिवाग्निं प्रज्वाल्य हस्तैस्तैस्तु विनिक्षिपेत् ॥ २३ ॥
अतीवधवलान् लाजान् शुद्धानस्त्रेण शोधितान् ।
देशिकस्य तथान्यस्य सङ्गुलीय करेण च ॥ २४ ॥
प्रदद्यात् हृदयेनैव तस्मिन्नाग्नौ शिवानुणा ।
अग्नेः प्रदक्षिणं कृत्वा संस्पृस्याश्म ततो गुरुः ॥ २५ ॥
द्वीइयं लाजदानं च प्रदक्षिण मनुव्रजेत् ।
कृत्वैव मपरं चापि व्यहृतिं जुहुयात्ततः ॥ २६ ॥
शतमष्टोत्तरं कृत्वा पूर्णां चान्ते शिवेन तु ।
विसृज्य पावकस्थं तं शिवं साङ्गं तु पूर्ववत् ॥ २७ ॥
शिवाग्निं च विसृज्याथ तद् भस्म च विसर्जयेत् ।
सम्पूज्य पुष्कलैः गन्धपुष्प स्रगादिभिः ॥ २८ ॥
ततश्चतुर्थदिवसे चतुर्थं कर्म कारयेत् ।
तद्दिने वापरे वापि दिवाकालेऽर्धरात्रके ॥ २९ ॥
समिदाज्यानकैरग्नो पञ्च संस्कार संस्कृते ।
शिवेनैव शतं शाङ्गैः प्रत्येकं दशकं हुनेत् ॥ ३० ॥
अधोरास्त्रं शतं हुत्वा पूर्णां दद्याच्छिवाणुना ।
शयनं चर्मजाद्यैर्वा पञ्च वस्त्रस्तु वानयेत् ॥ ३१ ॥
वर्मणा तच्च सम्पूय नवखट्गोपरि स्थितम् ।
दम्पती तत्र विन्यस्य चापूपाद्यैस्तु तोषयेत् ॥ ३२ ॥
स्नपनं कारयेन्नोवा तदन्ते तु शिवोत्सवम् ।
चलं चेदचलं चेत्तु स्थापयेत्तु सहासने ॥ ३३ ॥
देवं द्वीश्रीयं विद्वान् वह्निं तत्पुरतो नयेत् ।
वह्नेर्वामेऽप्य वामेऽजं हरिं वा विपरीततः ॥ ३४ ॥
एवमेवान्यदेवानां कर्म वैवाह्यमाचरेत् ।
भिन्नपीठाम्बिकानां तु मूललिङ्गस्य च द्विजाः ॥ ३५ ॥
किन्तु श्री हरिबेरायां ब्रह्मबेरेण वोञ्झितम् ।
गन्धाद्यैः स्थण्डिलं तत्र तानभ्यर्चैव कारयेत् ॥ ३६ ॥
मूललिङ्गस्य चोद्बाह्ये गर्भागारात्तु मण्डपे ।
विन्यस्य स्थण्डिले देवीं कर्मवैवाहिकं नयेत् ॥ ३७ ॥
प्रतिष्ठा कर्म यः कुर्यादेवं कल्याणमूर्तिनः ।
स्वबन्धुजन वर्गैस्तु सर्वैरेतैरतन्द्रितः ॥ ३८ ॥
आयुः श्रीकीर्ति संयुक्तः पुत्तपौत्रादि संयुतः ।
इहलोके सुखं प्राप्य नृपणामपि दुर्लभम् ॥ ३९ ॥
गच्छत्स्वदेह पादान्ते शैवं स्थान मनुत्तमम् ।
यत्दग्वा निवर्तन्ते मम भक्ता द्विजोत्तमाः ॥ ४० ॥

इति उत्तर कामिकाख्ये महातन्त्रे कल्याण कर्म विधिरेकोनषष्टितमः
पटलः ॥

६०। षष्ठितमे पटले विष्णूमार्ध प्रतिष्ठा विधिः

विष्णूमार्ध प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्वितम् ।
द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमां तु विशेषतः ॥ १ ॥
उमार्धं दक्ष शश्यर्धाङ्कितमग्रजाः ॥ २ ॥
करमकुटं वाममलकेन समन्वितम् ।
ललाट दक्षिणे भागे नयनार्धेन संयुतम् ॥ ३ ॥
पत्रं तु वामकर्णे स्याद्वालिकेनापि संयुतम् ।
सनक्र कुण्डलं तं विनावाथ कारयेत् ॥ ४ ॥
सव्ये टङ्काभयौ हस्ते उत्पलं वामगे करे ।
देव्यध्यायोदि तास्त्रं वा दर्पणासक्त लोचनम् ॥ ५ ॥
दर्पणं मुख वृत्तं स्यात्तन्मुष्टिस्स्यातदर्धतः ।
तत्पुच्छं मुकुलाकारं पादे शोभाविराजितम् ॥ ६ ॥
उमाभागं स्तनपेतं चित्रवस्त्रपरिच्छदम् ।
व्याघ्राजिनाम्बरं सव्यपादं कुञ्चितमिष्यते ॥ ७ ॥
सुस्थितं वामचरणं नूपुरेणाप्यलङ्कृतम् ।
आभङ्ग सहितं तच्च कोलकाङ्गुलकैर्नतिः ॥ ८ ॥
वामं मरकताभं स्यात् दक्षिणं मणिसन्निभम् ।
नाभिहृन्मेढ्रदेशोभ्यो वामे दक्षे च वामके ॥ ९ ॥
चन्द्रे तु भागान् हित्वाग्रे स्थिर्ताङ्घ्रेमध्यमे नयेत् ।
सूत्रमुत्पल हस्तोच्चं चूचुकां तदनन्तरम् ॥ १० ॥
द्वादशाङ्गुलमित्युक्तं विश्वाङ्गुलमथापि वा ।
पार्श्वमध्यम बाह्वोस्तु मध्यमं तु षडङ्गुलम् ॥ ११ ॥
अङ्गुष्ठापार्ष्णि मध्यं तु तिथिभूताङ्गुलं भवेत् ।
चन्द्रशेखर वच्छेषं कर्तव्यं हिं मुनीश्वराः ॥ १२ ॥
अर्धनादीश्वरोह्येवं हर्यर्धं श्रुणुतद्विजः ।
प्राग्वत्कृत्वा महेशार्धं विष्ण्वर्धमितरत्र च ॥ १३ ॥
भुजद्वययुतं शङ्ख कटकस्तत्र सम्मतः ।
पीताम्बर समोपेतं सर्वाभरण संयुतम् ॥ १४ ॥
चन्द्रशेखर वच्छेषं सूत्र पातादिकं भवेत् ।
हर्यर्धमेवं ब्रह्मादि भागं चैवं समाचरेत् ॥ १५ ॥
बेरमेवं समापाद्य प्रतिष्ठां कारयेत्ततः ।
तां प्रतिष्ठां च विप्रेन्द्राः शृणुध्वं हि समासतः ॥ १६ ॥
कालः पूर्व समादिष्टस्तद्वदेवाङ्कुरार्पणम् ।
रत्नन्यासाक्षिमोक्षौ च मृदाद्यैर्बेरशोधनम् ॥ १७ ॥
प्रदक्षिणं पुरादीना मुदके चाधिवासनम् ।
सामान्यस्थापन प्रोक्त मार्गेणैव समाचरेत् ॥ १८ ॥
किं त्वर्धभागं देवाणु संयुक्तं कारटेद् गुरुः ।
मुख वास ग्रहेष्वेक कुण्डं तु परिकल्पयेत् ॥ १९ ॥
प्राच्यैश दक्षे वेदाश्रं कुण्डमेकं तु कल्पयेत् ।
शिल्पिनं तु विसृज्याथ विप्रान् सम्भोजयेत्ततः ॥ २० ॥
पुण्योदसेचनं कृत्वा स्थण्डिलं च ततो नयेत् ।
शयनं कल्पयेत्तस्मिन् स्नपनं कौतुकं पृथक् ॥ २१ ॥
बन्धयेद्देशिकां धीमानुभयोः पूर्वहस्तयोः ।
शयनारोहणं कृत्वा शाययेद्देवमादरात् ॥ २२ ॥
शिरः प्रदेशे देवस्य शिवकुम्भं तु विन्यसेत् ।
उमोत्तमाङ्गेदेशे तु वर्धनीं विन्यसेत् गुरुः ॥ २३ ॥
विष्णुश्चेत्तच्छिरोदेशे विष्णु कुम्भं तु विन्यसेत् ।
तत्तत् कायार्धभागं तु तत्र ध्यात्वा यजेत् गुरुः ॥ २४ ॥
परितोष्टघटान् न्न्यस्त्वा विद्येशाधिष्टितान्नयेत् ।
गन्धस्त्रग्धूप नैवेद्य प्रमुखैर्देशिकोत्तमः ॥ २५ ॥
तत्वतत्वेश्वरन्यासं कृत्वा व्याप्तिं च भावयेत् ।
क्ष्मामूर्त्यष्टकं न्यस्त्वा मूर्तीशनपि विन्यसेत् ॥ २६ ॥
मूर्तीशानां तु विन्यासे विशेषः कश्चिदिष्यते ।
शर्वं च पशुपत्युग्ररुद्रांश्चेताम्बलोत्कटान् ॥ २७ ॥
धात्रीं विभ्वीमथेन्द्रादि काष्ठादि क्रमशो न्यसेत् ।
विष्ण्वर्ध स्थापने शर्व पशुपत्युग्ररुद्रकान् ॥ २८ ॥
पुरुष्टुतं च विष्णुं च गोविन्दं वित्तनाथकम् ।
पञ्चमूर्त्यात्मकेन्यासे मूर्तयः पूर्ववर्त्मना ॥ २९ ॥
ब्रह्माणं केश्वं ज्ञानी मीच्छां तु पश्चिमात् ।
न्यसेद् गौर्यर्ध पक्षे तु ब्रह्माविष्णू च रुद्रकम् ॥ ३० ॥
जनार्दनं ततस्सम्यक् पुरुष्टुतमथाप्यथ ।
न्यसेत् विष्ण्वर्ध पक्षे तु पञ्चमूर्तीश्वरानपि ॥ ३१ ॥
शिवांशे शिवमन्त्रं न्यसेदन्यत्र तन्मनुम् ।
ईशादि संहिता मन्त्रान् देवस्यार्धे तु विन्यसेत् ॥ ३२ ॥
तत्रैव योजयेदन्य देवोक्ते शाद्यणून्मनून् ।
एवमेवान्य मन्त्रांश्च युक्त्या ज्ञात्वैव विन्यसेत् ॥ ३३ ॥
संस्कृत्य कुण्डमन्ते तु जनयेत्तत्र पावकम् ।
अवाह्य मूर्तिमूर्तीशांस्तत्तद्दिक्षु व्यवस्थितान् ॥ ३४ ॥
समिदाज्यान्नलाजैश्च तिल वेणुयवैरपि ।
होमयेत् सर्वमन्त्रैश्च प्रधाने पूर्ववद् गुरुः ॥ ३५ ॥
पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ।
शम्यपामार्ग श्रीवृक्षमायूरा वह्निकोणतः ॥ ३६ ॥
प्रधानेऽपि पलाशः स्यात् विशेषः कश्चिदिष्यते ।
विष्ण्वर्ध पक्षे तुलसी पलाशश्च प्रधानके ॥ ३७ ॥
ततो द्वितीये दिवसे देवान् कुम्भाश्च पावकान् ।
यजेद् गन्धादिभिश्चैवं वस्त्र हेमाङ्गुलीयकैः ॥ ३८ ॥
मूर्तिपाद्यैर्गुरुं चेष्ट्वा दक्षिणां दापयेत्ततः ।
शुभे महूर्ते सम्प्राप्ते मन्त्रन्यासं समाचरेत् ॥ ३९ ॥
कुम्भान्मनूंश्च वर्धन्या शिवोमांशे क्रमान्यसेत् ।
विष्ण्वर्धपक्षे वर्धन्या मनुं पीठे तु विन्यसेत् ॥ ४० ॥
कृष्णस्य कुम्भात् कृष्णस्य बीजं कृष्णहृदि न्यसेत् ।
अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत् ॥ ४१ ॥
उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा ।
अनुक्तमत्र सङ्ग्राह्यं तद्देव स्थापनोदितम् ॥ ४२ ॥

विष्णूमार्ध प्रतिष्ठा तु कथिता भुक्ति मुक्तितदा ॥ ४२१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे विष्णूमार्ध प्रतिष्ठाविधिः
षष्ठितमः पटलः ॥

उमार्ध वाम भागन्तु हरार्धं दक्षिणं वपुः
सजटामकुटं दक्ष शश्यर्धाङ्कितमग्रजाः
करण्ट मकुटं वामं मलकेन समन्वितम्
ललाट दक्षिणे भागे नयनार्धेन संयुतम्
पत्रं तु वामकर्णेस्यात् वालिकेनापि संयुतम्
सनक्र कुण्डलं सव्ये तं विना वाथ कारयेत्
संव्ये टङ्काभयौ हस्ते उत्पलं वामगे करे
उमा भागं स्तनोपेतं चित्रवस्त्र परिच्छदम्
व्याघ्राजिनाम्बरं सव्यपादं कुञ्चितमिष्यते
सुस्थितं वामचरणं नूपुरेणाप्यलङ्कृतम्
आभङ्गसहितं तच्च कोलकाङ्गुलकैर्नतिः
चन्द्रशेखरवत् शेषं कर्तव्यं हि मुनीश्वराः

प्राग्वत् कृत्वा महोशार्ध विष्ण्वर्ध इतरत्र हि ।
भुजद्वयुतं शङ्खं कटकस्तत्र सम्मतः ॥
पीताम्बर समोपेतं सर्वाभरण संयुतम् ।
चन्द्रशेखरवत् शेषं सूत्रपातादिकं भवेत् ॥

६१। एकषष्ठितमे पटले त्रिमूर्ति स्थापन विधिः

त्रिमूर्ति स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
रक्तवर्णस्त्रिणेत्रश्च वरदाभय हस्तकः ॥ १ ॥
कृष्णा परशु संयुक्तो जटामकुटमण्डितः ।
ऋज्वागतस्तथैकेन पादेनापि समन्वितः ॥ २ ॥
दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि ।
कटि प्रदेशादूर्ध्वे तु ब्रह्मविष्ण्वर्ध काययुक् ॥ ३ ॥
स्त्रीमान वत्योर्मानं ब्रह्मविष्ण्वोस्तु कल्पयेत् ।
कृताञ्जलिपुटौ एकपादयुक्तौ च वा मतौ ॥ ४ ॥
अथवा शिवलिङ्गस्य पार्श्वयोः नतगतौ तु तौ ।
अथवा तौ पृथक् स्थाप्या वेकविष्टरमस्थितौ ॥ ५ ॥
अथवा मध्यमे लिङ्गं पृथगालय संस्थितम् ।
तस्यसव्येपि असव्ये च ब्रह्म विष्णू तथा मतौ ॥ ६ ॥
पृथग्धामस्थिता वा एकधामस्था वा त्रिमूर्तयः ।
संश्लिष्ट धामयुक्ता वा ब्रह्मविष्णुशिवा मता ॥ ७ ॥
पूर्वास्याः पश्चिमास्या वा परिवारादि संयुताः ।
भिन्नप्रकारगा वापि एक प्राकारसंस्थिताः ॥ ८ ॥
नृत्तमूर्त्यादि देवा वा स्थापनीयास्तु मध्यमे ।
एवं लक्षणमादिष्टं प्रतिष्ठा विधिरुच्यते ॥ ९ ॥
शिवलिङ्ग प्रतिष्ठा च ब्रह्मणः केशवस्य च ।
तत्तदध्याय संसिद्धाः कर्तव्या मुनि पुङ्गवाः ॥ १० ॥
इदानीमेकपादस्य प्रतिष्ठा विधिरुच्यते ।
पूर्ववत् काल इत्युक्त स्तद्वेदेवाङ्कुरार्पणम् ॥ ११ ॥
रत्नन्यासं च दृङ्मिक्षं बेरशुद्धिं पृथङ्नयेत् ।
प्रक्षिणं जलावासं मण्डपं पूर्वन्नयेत् ॥ १२ ॥
कुण्डानि कारयेत्तत्र नवपञ्चैक सङ्ख्यया ।
दिगश्राण्यथ वृत्तानि चतुरश्राणि तानि वा ॥ १३ ॥
तक्षकोद्वासनं विप्रभुक्तिं पुण्योदसेचनम् ।
स्थण्डिलं शयनं स्नानं कौतुकानां च बन्धनम् ॥ १४ ॥
ब्रह्मविष्णु हराणां च दक्षहस्ते तु वै पृथक् ।
शयनारोहं कुम्भ स्थापनं पूर्वन्नयेत् ॥ १५ ॥
देवस्य ब्रह्माणेः विष्णोः शिरोदेशे घटत्रयम् ।
न्यस्त्वा तु शिवकुम्भस्य उत्तरे वर्धनीं न्यसेत् ॥ १६ ॥
तत्तद्रूपं तु तत्रैव ध्यात्वा गन्धादिभिर्यजेत् ।
तत्वमूर्त्यादि विन्यासं तेषां कुर्याद्यथोदितम् ॥ १७ ॥
अग्निकुण्डादि संस्कारं कृत्वा होमं तु कारयेत् ।
तिलसर्षप मुद्गांश्च माषशिम्बाद वैणवैः ॥ १८ ॥
पलाशोदुम्बराश्वत्थ न्यग्रोधाः प्राग्दिगादितः ।
शम्यमामार्ग श्रीवृक्ष प्लक्षा श्वाग्नेयकोणतः ॥ १९ ॥
प्रधाने तु पलाशस्यात् स च सर्वत्र वा मतः ।
ततो द्वितीय दिवसे देव कुम्भाग्नि तर्पणम् ॥ २० ॥
पूजितो वस्त्र हेमाद्यैः मूर्तिपाद्यैस्समन्वितः ।
सम्प्राप्त दशनिष्कादि दक्षिणस्तुष्टधीर्गुरुः ॥ २१ ॥
मन्त्रन्यासं ततः कुर्यान्न्यस्त्वा बिम्ब पुरो घटान् ।
कुम्भान्मनुं समादाय देवस्य हृदि विन्यसेत् ॥ २२ ॥
वर्धन्या बीजमादाय तस्य पीठे तु विन्यसेत् ।
ब्रह्म विष्णु घटाद्बीजं तद्धृदि विन्यसेत् ॥ २३ ॥
आदाय बीजमन्येभ्यः पीठस्य परितो न्यसेत् ।
तत्तत् कुम्भजलैश्चैव तत्तद्देशेऽभिषेचयेत् ॥ २४ ॥
स्नपनं चोत्सव कुर्याद् भूरि नैवेद्यमेव च ।
अनुक्त मत्र सङ्ग्राह्यं तत्त दध्याय चोदितम् ॥ २५ ॥
प्रतिष्ठेयं कृतायेन त्रिमूर्तीनां नरेण तु ।
इह लोके सुखं प्राप्ते याति सोऽन्ते परं शिवम् ॥ २६ ॥

इति उत्तरकामिकाख्ये महातन्त्रे कृतायेन त्रिमूर्ति स्थापन विधिर्नाम
एकष्टितमः पटलः ॥

रक्तवर्णः त्रिणेत्रश्च वरदाभय हस्तकः ।
कृष्णापरशु संयुक्तः जटामकुटमण्डितः ॥
ऋज्वागतस्तथैकेन पादेनापि समन्वितः ।
दक्षिणोत्तरयोश्चैव पार्श्वयोरुभयोरपि ।
कटिप्रदेशदूर्ध्वेतु ब्रह्मविष्वर्धकाययुक् ॥
सतीमानवत्तयोर्मानं ब्रह्मविष्णोस्तुकल्पयेत् ।
कृताञ्जलिपुटावेक पादयुक्तौ च वामतौ ॥

६२। द्विष्ठितमे पटले वृषभारूढ प्रतिष्ठा विधिः

वृषारूढ प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् ।
चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः ॥ १ ॥
परशुर्दक्षिणे हस्ते वामहस्ते मृगेओ भवेत् ।
पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् ॥ २ ॥
अस्य सव्य प्रकोष्ठं तु विन्यसेद् वृषमस्तके ।
स हस्तो हम्स पक्षो वा पताकाधोमुखस्तु वा ॥ ३ ॥
तन्मध्यां गुलाग्रेण नाभि सूत्रं समं भवेत् ।
तदग्रान्नाभिसूत्रान्तं पञ्चाधिक दशाङ्गुलम् ॥ ४ ॥
तद्धस्त मणि बन्धाच्च पार्श्वतो द्वयङ्गुलं भवेत् ।
प्रकोष्ठमूलाद् धृन्मध्यात् पञ्चाङ्गुलं भवेत् ॥ ५ ॥
हस्तस्य मणिबन्धाधो मेढ्र मूल समो भवेत् ।
एकोन विंशन्मात्रं स्यात् पार्श्वतो मणि बन्धकम् ॥ ६ ॥
पार्श्व मध्यम बाह्वोश्च मध्ये सप्ताङ्गुलो भवेत् ।
समभङ्गयुतो देवः स्थानकेनापि संयुतः ॥ ७ ॥
ललाट ध्राणमध्याच्च दक्षिणे स्थितपादके ।
गुल्फमध्ये स्थितं सूत्रं शिवसूत्रिमिति स्मृतम् ॥ ८ ॥
सूत्रं हृन्मध्यगं प्रोक्तं गुणाङ्गुलमिति स्मृतम् ।
सूत्रं नाभ्यन्तरं मात्रं चतुर्भिर्मेढ्र सूत्रयोः ॥ ९ ॥
सूत्र दक्षिण जान्वोस्तु मध्यमं हि गुणाङ्गुलम् ।
शराङ्गुलोऽन्तरे पार्ष्ण्योर्दक्ष्पादस्य वक्रताः ॥ १० ॥
द्व्यङ्गुलेन तु शेषं तु चन्द्रशेखर वद्भवेत् ।
तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम् ॥ ११ ॥
अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया ।
आयुधव्यतिरिक्तैःस्वै रङ्गैस्तु विपरीतकैः ॥ १२ ॥
संयुक्तो वा वृषारूढस्त्वेवं मुक्तिप्रदो भवेत् ।
पृष्ठस्थो वृषभो देवजानूरुकोच्छ्रयः ॥ १३ ॥
मेढ्रान्तो नाभि सीमान्तश्शेषं सर्वं तु पूर्ववत् ।
एवं देवं समापाद्य शिलाद्यैः स्थापनं नयेत् ॥ १५ ॥
कालेऽङ्कुरार्पणं रत्नन्यासं सम्प्रोक्षणं नयेत् ।
वृषस्य नेत्रमोक्षं तु शुद्धिं ग्रामप्रदक्षिणम् ॥ १५ ॥
जलाधिवासनं कृत्वा मण्डपं पूर्ववन्नयेत् ।
कुण्डानि नवपञ्चैक सङ्ख्यया तत्र कारयेत् ॥ १६ ॥
चतुरश्राणि वृत्तानि तद्दिगश्राणि तानि वा ।
पश्चाच्छिल्पिनमुद्वास्य तस्मिन्विप्रांस्तु भोजयेत् ॥ १७ ॥
पुण्याह प्रोक्षणं कृत्वा स्थण्डिलं शयनं न्यसेत् ।
स्नपनं कौतुं कुर्यात् वृषेऽपि च यथोदितम् ॥ १८ ॥
आरोप्य शयने पश्चात् कुम्भान् संस्थापयेत्तमः ।
शिवस्य च शिरोदेशे शिवकुम्भं च वर्धनीम् ॥ १९ ॥
यदि भिन्नो वृषो देवपादमूले तु शाययेत् ।
दक्ष मस्तक संयुक्तां शय्यां सङ्कल्प्य व पृथक् ॥ २० ॥
वृषमस्तकदेशे तु वृषकुम्भं तु विन्यसेत् ।
परितोष्ट घटान्न्यस्त्वा विद्येशांस्तत्र पूजयेत् ॥ २१ ॥
गन्धपुष्पादिभिर्धीमान् नैवेद्यान्तैर्गुरूत्तमः ।
तत्वमूर्त्यादि विन्यासं कृत्वा देवे वृषेऽपि च ॥ २२ ॥
अग्निकुण्डादि संस्कार कृत्वा होमं समाचरेत् ।
समिदाज्यान्नलाजादि तिलसर्षप माषकैः ॥ २३ ॥
पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ।
शम्यपामार्ग श्री वृक्ष मायुरोत्था भवन्ति हि ॥ २४ ॥
प्रधानेऽपि पलाशस्यात् तर्पयेत्तत्र वै वृषम् ।
ततो द्वितीये सन्तर्प्य देवान् कुम्भांश्च पावकान् ॥ २५ ॥
समूर्तिपो गुरुस्सम्यग् वस्त्र हेमादि पूजितः ।
सम्प्राप्त दक्षिणः पश्चान्मन्त्रन्यासं समाचरेत् ॥ २६ ॥
घटान्न्यस्त्वा तु देवाग्रे स्थण्डिले तु गुरुः क्रमात् ।
कुम्भाद्बीजं समादाय देवस्य हृदि विन्यसेत् ॥ २७ ॥
वर्धन्याः मनुमादाय तस्य पीठे तु विन्यसेत् ।
सहजा यदि सा देवी तस्यास्तु हृदि विन्यसेत् ॥ २८ ॥
वृष कुम्भान् मनुं स्मृत्वा वृषभस्य हृदि न्यसेत् ।
अन्येभ्यो बीजमादाय पीठस्य परितो न्यसेत् ॥ २९ ॥
विभीन्न पीठा देवी चेत् प्रतिष्ठां पृथगाचरेत् ।
कल्याणं कारयेत्पश्चात् तद्विधानेन देशिकः ॥ ३० ॥
उत्सवं स्नपनं भूरि नैवेद्यं कारयेन्नवा ।
अनुक्तमत्र सङ्ग्राह्यं सामान्य स्थापनोदितम् ॥ ३१ ॥
इत्याख्याता प्रतिष्ठेयं वृषवाहनमूर्तिनः ।
घनो वाप्य घनो वापि वृषभस्य च सम्मतः ॥ ३२ ॥
प्रतिष्ठानुष्ठिता येअ भक्त्या भावनया सह ।
लभेते स पदं शैवं भुक्त्वा भोगान्यथेच्छया ॥ ३३ ॥

इति उत्तरकामिकाख्ये महातन्त्रे वृषभारूढ प्रतिष्ठा विधिः
द्विषष्ठितमः पटलः ॥

वृषभारुधः

चतुर्भुजस्त्रिणेत्रश्च जटामकुट संयुतः ।
परशुर्दक्षिणे हस्ते वामहस्ते मृगो भवेत् ॥
पूर्वदक्षिण हस्तस्तु कटको वक्रदण्डयुक् ।
अस्य सव्य प्रकोष्ठं तु विन्यसेत् वृषमस्तके
सहस्तो हंसपक्षोवा पताकाधोमुखस्तु वा
तन्मध्यमाङ्गुलाग्रेण नाभिसूत्रं समं भवेत्
समभङ्गयुतो देवण् स्थानकेनापि संयुतः
तस्यैव दक्षिणे देवीं कारयेल्लक्षणान्विताम्
अथ स्वदक्षिणे देव्या युक्तो वा मूर्त्यपेक्षया
आयुधर्व्यतिरिक्तैः स्वैरङ्गः तु विपरीतकैः
संयुक्तो वा वृषारूढः त्वेवं भुक्तिप्रदो भवेत्
पृष्ठस्थो वृषभः कार्यः देवजानूरुकोच्छ्रयः
मेद्रान्तो नाभिसीमान्तः शेषं सर्वं तु पूर्ववत् ॥

६३। त्रिषष्ठितमे पटले गङ्गाधर प्रतिष्ठा विधिः

गङ्गाधर प्रतिष्ठां तु वक्ष्ये तल्लक्षणान्विताम् ।
चतुर्भुजस्त्रिणेत्रश्च जटामकुट मण्डितः ॥ १ ॥
दक्षिणाभय हस्त स्थोऽप्यन्यत्र कटकामुखः ।
तेन हस्त्ने धृत्वैकां जटां गङ्गासमन्विताम् ॥ २ ॥
संस्थितस्तु प्रसन्नात्मा कृष्णापरशु संयुतः ।
जटायुक्त करोच्चं तु कर्णस्योर्ध्व समं भवेत् ॥ ३ ॥
तदन्तरं तु द्विमुख माभङ्गेन समन्वितम् ।
स्थानकस्तु तदुष्णीष नासापाद् दक्षमध्यमे ॥ ४ ॥
सूत्रं वामे तु हृदयाद्दक्षे वै नाभिमढ्रयोः ।
हिक्का सूत्राच्चतुर्मात्रं सव्यजानोर्गुणाङ्गुलम् ॥ ५ ॥
पादाङ्गुष्ठद्वयोः पार्ष्ण्यन्तरं तिथि बाणकम् ।
वाम पादस्य वक्त्रं तु सूत्राद्वामे गुणाङ्गुलम् ॥ ६ ॥
इन्दुशेखर वच्छेषं कर्तव्यं मुनिपुङ्गवाः ।
देवस्य वामभागे तु देवीं कुर्यात्सलक्षणाम् ॥ ७ ॥
कुर्याद् भगीरथं देवनाभ्यन्तस्तनसीमगम् ।
गलान्तं वाष्टतालेन विलम्बितं जटान्वितम् ॥ ८ ॥
वल्कलाम्बरं संयुक्तं हृन्मस्तक कृताञ्जलिम् ।
द्विनेत्रं च द्विबाहुं तमेवं गङ्गादधरो भवेत् ॥ ९ ॥
कालेऽङ्कुरार्पणं रत्नन्यासो वै नेत्रमोक्षणम् ।
रत्नन्यासो न गङ्गायाः करव्यो नेत्रमोक्षणम् ॥ १० ॥
तथा भगीरथस्यापि रत्नन्यासस्तु पञ्चभिः ।
प्रतिमाशोधनं ग्राम पुरादीनां प्रदक्षिणम् ॥ ११ ॥
तोयाधिवासो यागार्ह मण्डपः पूर्ववर्त्मनः ।
चतुरश्राणि कुण्डानि नवपञ्चैक सङ्ख्यया ॥ १२ ॥
मोचनं शिल्पिनः कृत्वा कुर्याद् भूसुर भोजनम् ।
पुण्याहोदेन संसिच्य वास्तु होमं ततो नयेत् ॥ १३ ॥
स्थण्डिलं शयनं बिम्ब स्नपनं कौतुकम् ।
भगीरथस्य गङ्गायाः देवस्यापि नयेत् गुरुः ॥ १४ ॥
शयनं भिन्नपीठस्थो यदि स्यात्तु भगीरथः ।
देवस्य पाददेशे तु शयनं तत्र कल्पयेत् ॥ १५ ॥
देवेशस्य शिरः पार्श्वे शिवकुम्भं च वर्धनीम् ।
भगीरथ शिरोदेशे घटं वस्त्रादि भूषितम् ॥ १६ ॥
हैरण्य पङ्क्जाढ्यं वा गङ्गायाश्चैव माचरेत् ।
परितोष्टौ घटान्न्यस्तवा विद्येशस्तैसधिष्टितान् ॥ १७ ॥
पूर्वक्त रूप संस्थान् ध्यान युक्तो गुरुत्तमः ।
गन्धपुष्पादिभिः सर्वान्देवान् अभ्यर्चयेत् क्रमात् ॥ १८ ॥
तत्व मूर्त्यादि विन्यासं प्रकुर्यात्पूर्ववत्प्रभोः ।
भगीरथस्य मूर्तीशैः पञ्चभिश्च समन्वितान् ॥ १९ ॥
पञ्चमूर्तीन्यसेधीमान् मूर्तयः पूर्ववर्त्मना ।
मूर्तीशास्युर्भकारो त्थास्सद्यो जातादयोऽणवा ॥ २० ॥
बान्तं चतुर्दशं षष्टं बिन्दुनादौ नियोजयेत् ।
चतुर्थ्यन्तं स्वनामान्ते चेति मूलाणुरेष वै ॥ २१ ॥
भगीरथाक्षरेणैव हृदादीनां समुद्धृतिः ।
गङ्गायास्तद्विधानोक्त मार्गेणैव समाचरेत् ॥ २२ ॥
कृत्वा कुण्डाग्नि संस्कारं समिदाज्यान्नलाजकैः ।
तिलैश्च जुहुयात्पश्चात् वस्त्र हेमाङ्गुलीयकैः ॥ २३ ॥
दक्षिणां दापयेत्तेषां मन्त्रन्यासं ततो नयेत् ।
तत्तद्देव पुरस्तत्तत् कुम्भान् न्यस्त्वा गुरूत्तमः ॥ २४ ॥
शिव कुम्भमनुं ज्ञात्वा शिवस्य हृदि विन्यसेत् ।
वर्धन्या मनुमादाय तस्य पीठे तु विन्यसेत् ॥ २५ ॥
अन्येभ्यो बीजमादाय पीठाब्जे परितो न्यसेत् ।
गङ्गाया बीजमादाय तस्यास्तु हृदि विन्यसेत् ॥ २६ ॥
भगीरथघटाद् बीजं स्मृत्वा तस्य हृदि न्यसेत् ।
तत्तत् कुम्भ जलेनैव स्नापयेत्तत् प्रदेशके ॥ २७ ॥
सहासना तु देवी चेद् वर्धन्यास्तद्धृदि न्यसेत् ।
विभिन्न पीठा देवी चेद् प्रतिष्ठां पृथगाचरेत् ॥ २८ ॥
कल्यां कारयेदन्ते स्नपनं चोत्सवं ततः ।
कारयेद् भूमिनैवेद्यं कर्तुरिच्छावशेन तु ॥ २९ ॥
अनुक्तमत्र सङ्ग्राह्यं सामान्य स्थापनोक्तवत् ।
भगीरथ युतो वायं वियुक्तो वा महेश्वरः ॥ ३० ॥
जाह्नवीश प्रतिष्ठां तु भक्त्या यः कुरुते नरः ।
इहलोके सुखं प्राप्य स्वबन्धुजन संयुतः ॥ ३१ ॥
यायात् स्वदेह पादान्ते शैवं स्नानं तु दुर्लभम् ! ॥ ३११।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे गङ्गाधर प्रतिष्ठा विधिर्नाम
त्रिषष्टितमः पटलः ॥

६४। चतुष्षष्ठितमे पटले गुह स्थापन विधिः

गुहस्य स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
पुरादे र्मध्यमे वाग्नौ यमे वा मध्यमे तयो ॥ १ ॥
नै-ऋते वरुणे वायौ सोमे शर्वेऽथवा भवेत् ।
अन्तरालेऽथवा तेषां शिवधाम्नि एवमेव वा ॥ २ ॥
अन्येदेवालयेऽप्येवमथवा पर्वतोपरि ।
पर्वतस्यान्तिके वापि नद्युद्यानादिकेऽथवा ॥ ३ ॥
राजधान्यादिके वाथ पुण्यक्षेत्रे हृहेषु वा ।
प्रासाद मण्डपादीनां देशे पुण्यतरुष्वथ ॥ ४ ॥
कुमारालय इष्टस्यात् धाम लक्षण लक्षितः ।
अथैकादि त्रयस्त्रिंशद्धस्त विस्तार संयुतः ॥ ५ ॥
त्रयस्त्रिंशत्करादूर्ध्वं विस्तारो नेष्यते द्विजाः ।
दिङ्न्यस्त स्कन्दरूपाढ्यः केवलो वा तदालयः ॥ ६ ॥
रुद्रोमाविघ्न रूपाढ्यः अथवा हंसकोनयुक् ।
गणकोणोऽथवा सस्यात् केवलो वा गुहालयः ॥ ७ ॥
एकभूम्यादि सप्तान्त तलेष्विष्ट तलान्वितः ।
शिवोक्त मार्ग सङ्कॢप्त गर्भाद्येष्ट कयान्वितः ॥ ८ ॥
तद्वन्मूर्धेष्टकास्थूपि प्रतिष्ठाभ्यां समायुतः ।
दिङ्न्यस्त देव विन्यस्त मध्यकुम्भ युतेन च ॥ ९ ॥
धाम्न संस्थापनेनाढ्यः प्रागुक्त विधिना सह ।
प्रागुक्त मण्डपाद्यैश्च प्राकाराद्यैश्च मण्डितः ॥ १० ॥
पूर्वास्यः पश्चिमास्यो वा दक्षोत्तरमुखस्तु वा ।
परिवारामरैर्युक्तः कथ्यन्ते ते प्रसङ्गतः ॥ ११ ॥
यक्षेन्द्रो राक्षसेन्द्रश्च पिशाचेन्द्रश्च भूतराट् ।
गन्धर्वः किन्नरो दैत्य नायको दानवाधिपः ॥ १२ ॥
क्रमात्पूर्वादि शर्वान्तस्थिता एते चतुर्भुजाः ।
वरदाभय संयुक्ताः खड्ग खेट समन्विताः ॥ १३ ॥
खड्गखेट समायुक्ता द्विभूजा वाञ्जनप्रभाः ।
भीमरूपास्सुशान्ता वा बद्ध केशास्तु वा मताः ॥ १४ ॥
शकुनी पूतना चैव रेवती चार्धपूतना ।
वक्त्रमण्डी शकारी च निशान्ता मेषदेवता ॥ १५ ॥
षण्मुखश्शक्ति पाणिश्च कार्तिकेयो गुहस्ततः ।
स्कन्दो मयूर वाहस्स्यात् सेनानी शक्तिहस्तवान् ॥ १६ ॥
एते वा मूर्तिपास्तस्य कृताञ्जली पुटान्विताः ।
वज्र पद्मधरास्सर्वे स्कन्दोक्ताक्षर संयुताः ॥ १७ ॥
चतुर्भुजा द्विहस्ता वा षड्वक्त्राश्चैक वक्त्रकाः ।
एते वा परितः स्थाप्याः क्रमात् पूर्वादि योगतः ॥ १८ ॥
इन्द्रादीन्वाष्ट पीठं वा मयूरं वाग्रजे गजम् ।
विघ्नेशं क्षेत्रपं भानुं महापीठं प्रकल्पयेत् ॥ १९ ॥
बलिपीठं च शर्वोक्तान् परिवारांस्तु वा न्यसेत् ।
बलिपीठ दलेष्विन्द्र पूर्वान्मध्ये ग्रहेश्वराः ॥ २० ॥
द्वारपौ कल्पयेद् द्वारे श्यामरत्ननिभौ क्रमात् ।
दक्ष वाम गतौ द्वारे द्विभुजौ वा चतुर्भुजौ ॥ २१ ॥
खड्गखेटधरौ सूचिमुद्रा विस्मय संयुतौ ।
श्यामाभौ रक्तवर्णौ वा सितकृष्णौ भयङ्करौ ॥ २२ ॥
जयाख्य विजयाख्यौ द्वौ द्वारपौ विकृताननौ ।
ईशाने कल्पयेत् स्कन्द चण्डं वेदकरं वरम् ॥ २३ ॥
अभयं वज्रपद्मे च वरदं द्विभुजं तु वा ।
शाकल्य सञ्ज्ञया ख्यातं तदर्थं पीठमेव वा ॥ २४ ॥
लक्षणं तस्य सङ्क्षेपाच्छ्रुणुध्वं विप्रसत्तमाः ।
द्रव्यैश्शिलादिभिः कुर्यात् प्रतिमालक्षणोदितैः ॥ २५ ॥
प्रतिमालक्षण प्रोक्तं विश्वमानं गुहस्य तु ।
योजनीयं द्विजाः गर्भद्वारस्तम्भादिसंयुतम् ॥ २६ ॥
द्विभुजश्च द्विनेत्रश्च सुब्रह्मस्सुसुन्दरः ।
पद्म धृक् सव्यसत्पाणि र्लम्बितेतरसत्करः ॥ २७ ॥
बालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये ।
द्विहस्तो यज्ञसूत्राढ्यः सशिवखस्स त्रिमेखलः ॥ २८ ॥
कौपीनदण्डधृक् सव्य पाणिःकट्याश्रितोऽपरः ।
स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु ॥ २९ ॥
चतुर्भुजस्त्रिणेश्च कर्णयोः पत्रपिण्डयुक् ।
नक्र कुण्डल युक्तो वा ह्यक्षशक्तिकरद्वयः ॥ ३० ॥
वरदाभय संयुक्तः शक्तिद्वययुतो न वा ।
शत्तयैकया युतो वा स्यात् तयोर्लक्षणमुच्यते ॥ ३१ ॥
द्विनेत्रे द्विभुजे शान्ते पद्मोत्पलकरद्वये ।
श्यामरक्तनिभे सव्य वामपार्श्वे व्यवस्थिते ॥ ३२ ॥
गौरी लक्षण संयुक्ते कल्पयेत्तु शुभानने ।
गजेति गजवल्लीति नाम्नाख्यातेऽति सुन्दरे ॥ ३३ ॥
इत्थं लक्षणयुक् स्थाप्यः पुरे वा नगरेऽपि वा ।
षडाननश्च षड्बाहुरर्क श्रोत्रे क्षणान्वितः ॥ ३४ ॥
षट्कण्ठस्त्वेक कण्ठो वा षड्भिर्मौलिभिरन्वितः ।
स शक्तिस्साभयस्सासिस्साक्षमालस्सकुक्कुटः ॥ ३५ ॥
सखेटकस्त्वयं स्थाप्यो वृद्धये राजधानिके ।
रक्ताम्बर समायुक्तो बालचन्द्र समप्रभः ॥ ३६ ॥
करण्ड मकुटोपेतो नेत्रत्रय समन्वितः ।
शक्तिं च मसुलं खड्गं चक्रं पाशाभये वहन् ॥ ३७ ॥
दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा ।
समयूरध्वजं चैवमङ्कुशं वरदं वहन् ॥ ३८ ॥
सोपवीतोः मयूरस्थोः शक्तितद्वय समायुतः ।
ग्रामादौ स्थापनीयोऽयं प्रासादादै च सिद्धये ॥ ३९ ॥
एवं पञ्चविधस्कन्दो विभागस्थानभेदतः ।
द्वापरे स्यान्नवान्यत्र सर्वे सर्वत्र वा मताः ॥ ४० ॥
एवं सम्पाद्य तन्मन्त्रैः प्रतिष्ठामरभेत्ततः ।
शवर्वस्य तृतीयं तु षष्ठस्वर समन्वितम् ॥ ४१ ॥
चतुर्दश स्वरोपेतं बिन्दुनादविभूषितम् ।
सुब्रह्मण्यं चतुर्थ्यन्तं नमोऽन्तं प्रणवादिकम् ॥ ४२ ॥
मूलबीजमिति ख्यतं तस्मिन् ब्रह्माङ्ग कल्पना ।
शान्तान्तं दीर्घह्रस्वार्णैर्जात्यन्तैर्वा नमोन्तकैः ॥ ४३ ॥
ईशानादि पदोपेतैर्ब्रह्माङ्गानि समुद्धरेत् ।
महासेनाय संयुक्तं विद्महे पद संयुतम् ॥ ४४ ॥
षडाननाय संयुक्तं धीमहीति पदं ततः ।
तन्नः स्कन्द पदोपेतमन्ते युक्तं प्रचोदयात् ॥ ४५ ॥
गायत्री बीजमेतत्स्याद्दिपपूर्वं प्रयोजयेत् ।
हृत्पुटाजातमूलाणू मूर्तिविद्यामनू स्मृतौ ॥ ४६ ॥
गजाया गजवल्याश्च मन्त्रास्तन्नामकल्पिताः ।
ततः प्रतिष्ठा कर्तव्या प्राग्वत्कृत्वाङ्कुरार्पणम् ॥ ४७ ॥
शुभे पूर्वोदिते काले पञ्चरत्नानि विन्यसेत् ।
देव्योश्च हृदयेनैव पञ्चहेमाब्जमेव वा ॥ ४८ ॥
कृत्वा पद्मस्य सङ्घातं नेत्रमोक्षणमाचरेत् ।
मध्वाज्याभ्यां सहेमाभ्यां पात्रस्थाभ्यां प्रकल्पयेत् ॥ ४९ ॥
हृदा स्वर्णं नखन्यासं धान्यगो विप्रदर्शनम् ।
कुर्यात् प्रच्छन्न वस्त्रेण सह सर्वात्मना गुरुः ॥ ५० ॥
यदि देवीयुतः स्कन्दः पृथक् तस्याश्च कारयेत् ।
प्राग्वच्छुद्धिं प्रकल्प्यास्मै ग्रामादीनां प्रदक्षिणम् ॥ ५१ ॥
जलेऽधिवासयेत् स्कन्दं लम्बकूर्चयुतं हृदा ।
परितः कलशान्मन्त्री न्यसेदिन्द्राद्यधिष्टितान् ॥ ५२ ॥
प्रासादस्य चतुर्दिक्षु वह्नावीशेऽथ मण्डपम् ।
पद्माभनवपञ्चैक सङ्ख्या कुण्ड प्रकल्पनम् ॥ ५३ ॥
पूर्वोत्तरेशसङ्कॢप्त स्नान वेदिकयान्वितम् ।
तक्षकोद्वासनं विप्र भुक्तिं गोमयालेपनम् ॥ ५४ ॥
पुण्योद शेचनं वास्तु देव तैज्याग्नि तर्पणे ।
स्थण्डिलं शयनं प्राग्वच्चर्म जाद्यैस्तु वाम्बरैः ॥ ५५ ॥
जलादानीय तं स्कन्दं स्नपनं प्राग्वदाचरेत् ।
गन्धापिष्पादिनाभ्यर्च्य बन्धयेत् कौतुकं हृदा ॥ ५६ ॥
आरोप्य शयने स्कन्दं शाययेत् प्राक्शिरो यथा ।
वस्त्रैरावेष्ट्य सम्पूज्य सासनं मूर्तिः संयुतम् ॥ ५७ ॥
सदेह मूलमन्त्राढ्यं साङ्गं गन्धादिभिर्गुहम् ।
शिरः प्रदेशे सूत्राढ्यं कुम्भं वस्त्रादिभिर्युतम् ॥ ५८ ॥
न्यस्त्वा तस्मिन्यथा बेरे तथा स्कन्दं प्रपूजयेत् ।
देवियुतं चेत् विन्यस्य वर्धनीं तत्र तां यजेत् ॥ ५९ ॥
परितोष्टौ घटान्यस्त्वा गुहविद्येश्वरान्यजेत् ।
सूत्र वस्त्र सुवर्णादि युक्तास्सर्वे घटा मताः ॥ ६० ॥
आत्मविद्या शिवाख्यं च जानुकण्ठ शिरोवधि ।
न्यस्त्वा तत्वत्रयं सेशं मूर्तिमूर्तींश्वरान्य्सेत् ॥ ६१ ॥
मूर्तयः क्ष्मादयो लोकपाला मूर्तीश्वरा मताः ।
प्रागुक्ता वा तदीशानास्तओ होमं समाचरेत् ॥ ६२ ॥
गुरुः पूर्वोक्त पञ्चाङ्ग भूषणस्सोत्तरीयकः ।
सोष्णीषस्साम्बरस्स्नातः श्शिवः द्विजकुलोद्भवः ॥ ६३ ॥
मूर्तिपैरीदृशैर्युक्तः कृत्वा कुण्डाग्नि संस्कृतिम् ।
प्रधाने स्कन्दमावाह्य सब्रह्माङ्गं सलोचनम् ॥ ६४ ॥
तत्वत्रयं सनाथं च मूर्तिमूर्तीश्वरान्वितम् ।
गजां च गजवल्लीं च तर्पयेत्सम्भवे तयोः ॥ ६५ ॥
सहस्रं वा तदर्धं वा शतं मूलाहुतिर्गुरोः ।
ब्रह्माङ्गानां दशांशः स्यान्मूलार्धं मूर्तिपहूतिः ॥ ६६ ॥
मूर्तिपा जुहुयाद्दिक्षु विधिक्ष्वीशहृदाद्यणून् ।
तत्तदिङ्मूर्तिमूर्तीशानपि शान्ति घटान्वितम् ॥ ६७ ॥
समिद्घृतान्नसस्येन्द्र तिलसलाज तण्डुलाः ।
पलाशो दुम्बराश्वत्थवटा दिक्षु विदिक्ष्वथ ॥ ६८ ॥
शम्यपामार्गश्रीवृक्षा होम्या पिप्पल पश्चिमाः ।
पलाशस्स्यात् प्रधानेऽपि स च सर्वत्र वा भवेत् ॥ ६९ ॥
वेदपाठश्चतुर्दिक्षु कोणेष्वत्र जपो भवेत् ।
शान्त्यम्भः प्रोक्षणं स्वस्व मन्त्राणां च जपक्रियाम् ॥ ७० ॥
दर्भ संस्पर्शनं चेत्थं प्रतिभागं समाचरेत् ।
ततः प्रभाते संशुद्धो मूर्तिपैस्सह देशिकः ॥ ७१ ॥
उद्धृत्य षण्मुखं तं च कुम्भाग्नींश्च सु तर्पयेत् ।
प्रायश्चित्त निमित्तं तु दक्षिणेन शताहुतिम् ॥ ७२ ॥
दत्वा पूर्णाहुतिं प्रविशेद्धाम देशिकः ।
मानुषे दविके वापि प्राग्वत् संस्कार संयुताम् ॥ ७३ ॥
कशिलां हृदयेनैव रत्नधान्यादिगर्भिताम् ।
विन्यस्य स्थापयेत्तस्यां षण्मुखं मूलमुच्चरन् ॥ ७४ ॥
सुलग्ने सुमूहूर्ते तु तथा द्वारस्य सम्मुखम् ।
अथ ब्रह्मशिलोपेतं स्थापयेद्वा षडाननम् ॥ ७५ ॥
देवाग्रे तु घटान्यस्त्वा मन्त्रन्यासं समाचरेत् ।
कुम्भाद्बीजं समादाय षण्मुखस्य हृदिन्यसेत् ॥ ७६ ॥
यदि देवी सती तस्यां वर्धन्यां विन्यसेन्मनुम् ।
पीठस्य परितश्चान्य कुम्भेभ्यो विन्यसेन्मनून् ॥ ७७ ॥
तत्तद् घटस्थिताद्भिस्त मभिषिञ्चेत् षडाननम् ।
तत्वमूर्त्यादि विन्यासं कारयेत्पूर्ववत्ततः ॥ ७८ ॥
स्नपनं कारयेदन्ते नैवेद्यं चोत्सवं चले ।
गुरुं च मूर्तिपादींश्च वस्त्राद्यैर्दक्षिणायुतम् ॥ ७९ ॥
इष्ट्वा हेमाङ्गिलीयैश्च प्रतिमास्थापनोक्तवत् ।
सनातन प्रतिष्ठोक्तं यदनुक्तं समाचरेत् ॥ ८० ॥
एवं यः स्थापनं कुर्यात् षण्मुखस्य द्विजोत्तमाः ।
आयुः लब्ध्वा परत्रापि मोक्षं च लभते नरः ॥ ८१ ॥
सौभाग्यं महतीं लक्ष्मी नीरोगत्वं यशस्सुखम् ।
शुभं लब्ध्वा परत्रापि मोक्षं च लभते नरः ॥ ८२ ॥
तस्यार्चनं च सङ्क्षेपात् शृणुध्वं विप्रसत्तमाः ।
अथ प्रातः कृता वश्यश्शौचस्नाने विधाय च ॥ ८३ ॥
सन्ध्यो पस्थापनं मन्त्रतर्पणं प्राग्वदाचरेत् ।
गत्वा धाम प्रविश्यान्तर्निर्णिक्ताङ्घ्रिकरद्वयः ॥ ८४ ॥
आचान्तस्सकलीकृत्य स्कन्देशान हृदादिभिः ।
सनातनं विधायार्ध्यमस्त्र मन्त्रेण तज्जलैः ॥ ८५ ॥
द्वारं सम्प्रोक्ष्य सम्पूज्य जयं च विजयं तथा ।
स्वनाम्नो दुम्बरे हेति प्रविश्यान्तस्समर्चयेत् ॥ ८६ ॥
वास्तु नाथ मुदग्ववक्त्रः स्वासनस्थोऽणु विग्रहः ।
शक्तिस्थं स्वं समायोज्य रक्षायै ध्वंसित स्थितिः ॥ ८७ ॥
शक्त्युद्भूत सुधौघेन कृत पूतमहातनुः ।
अस्त्रमन्त्रं सुसंशुद्धं चन्दनार्पित सत्करः ॥ ८८ ॥
न्यस्तेशान नराघोर वामजाङ्गुष्ठकादिकः ।
तलद्वयनिविष्टाक्षि देहमूलाणु संयुतः ॥ ८९ ॥
कनिष्ठद्यङ्गुलिन्यस्त हृच्छिरऽस्चूलिकाद्यणुः ।
भूयस्तल कृतन्यास मूलमन्त्र परान्वितः ॥ ९० ॥
देहन्यासं च तैर्मन्त्रैः माला ब्रह्मान्वितैर्न वा ।
सैकत्रिंशत् कला मन्त्रन्यासं प्राग्वन्नयेन्नवा ॥ ९१ ॥
आपाद्यैवं तनुं मन्त्री गुहवत्तामनुस्मरन् ।
इष्ट्वा हुत्वा विभाव्य अन्तर्गुहं हृन्नाभिबिन्दुषु ॥ ९२ ॥
शिवाणुभिस्तनुं शैवीमथापाद्यगुहं यजेत् ।
अवकुण्ठनदिग्बन्ध प्राकारैः स्थानशोधनम् ॥ ९३ ॥
विशेषार्घ्यं च सङ्कल्प्य गन्धपुष्पाक्षतैर्हृदा ।
अर्चनाङ्गोदितैर्वाथ पाद्यमाचमनं तथा ॥ ९४ ॥
अर्घ्यं वा केवलं तेन सम्प्रोक्ष्य द्रव्यसंहतिम् ।
हृदाभिमन्त्र्य स्वं चेष्ट्वा शुध्यै मन्त्रान् समुच्चरन् ॥ ९५ ॥
इष्ट्वा पर्युषितां पूजां गायत्र्यार्घ्यं सनातनम् ।
दत्वा मुर्ध्नि हृदा तां च दद्यान्निर्माल्य धारिणे ॥ ९६ ॥
त्यजेद्वा बेरसंशुद्धिं नयेत् प्रागुक्त वर्त्मना ।
लोहजं यदि तद्बेरं स्नानं पर्वणि पर्वणि ॥ ९७ ॥
चित्रादिजं चेत् कर्मार्चा शुद्ध्या शुद्धर्मता द्विजाः ।
इत्थमात्मधाराद्रव्य मन्त्रबिम्ब विशोधनम् ॥ ९८ ॥
कृत्वासनं गुहस्यैवं कल्पयेत् प्रणवादिभिः ।
प्रणवं मध्यमे धर्माधर्मादीन् कल्पयेत्पुनः ॥ ९९ ॥
अधश्चोर्ध्वच्छदे पद्मकर्णिकेऽन्ते गुहासनम् ।
सङ्क्ल्प्य चासनं मूर्तिमावाह्यास्मिन् हृदाद्यणून् ॥ १०० ॥
ईशानादीन्न्यसेन्माला ब्रह्माण्यर्णांस्तु वाखिलान् ।
विद्यादेहं च सङ्क्ल्प्य तस्मिन्मूलेन षण्मुखम् ॥ १०१ ॥
हृदयानुगतेनैव पुष्पसम्पूर्णसत्करः ।
आवाह्य बिम्बे तद्बिन्द्रो रानीय स्थापयेद्धृदा ॥ १०२ ॥
निष्टुरां सन्निधानाद्यं हृदा कृत्वावकुण्ठयेत् ।
हृदादि नेत्र पर्यन्तं मन्त्रन्यासोऽवकुण्ठनम् ॥ १०३ ॥
महामुद्रां च मूलेन कल्पयेद्वामृती कृतिम् ।
पाद्यं पादे हृदाच्चान्ति मुखेर्घ्यं शिरसि क्रमात् ॥ १०४ ॥
नमः स्वाहा स्वधा वौषट् जात्यन्तेन गुहस्य तु ।
गन्धं पुष्पं च धूपं दत्वा पञ्चामृतादिभिः ॥ १०५ ॥
विभूतौ स्नापयेत् पिष्टामलकादि समन्वितम् ।
वाससोन्मृज्य वक्त्रेण दत्वा चान्तिं गुहस्य तु ॥ १०६ ॥
चन्दनागरु कर्पूर कुष्ठान् पूर्वप्रमाणजान् ।
पिष्टवालिप्य हृदा स्कन्दं केवलं चन्दनं तु वा ॥ १०७ ॥
कृष्णागरु कृतं धूपं दद्याद् धृदयमन्त्रतः ।
लघु चन्दन निर्यासं भस्मजं वा पुरोहितम् ॥ १०८ ॥
सुरभीणि विचित्राणि सर्वर्तु प्रसवानि तु ।
तत्क्षण प्रति बुद्धानि प्राग्वत् पुष्पाणि दापयेत् ॥ १०९ ॥
हृदा तैलाद्य सङ्कॢप्तिं दद्यात् प्राग्वद् धृदाणुना ।
आमन्त्रण हबिर्दद्यात् प्रागुक्त विधिना न वा ॥ ११० ॥
गन्धादीनां प्रमाणं तु पश्चिमास्यार्चनोक्तवत् ।
पूजयेदावृतिं पश्चात् धूपदाना वसानके ॥ १११ ॥
वह्नीशरक्षोवातेश दिग्विदिक्षु हृदाद्यणून् ।
तद्बहिर्वसुमूर्तीश्च बहिरिन्द्रादि देवताः ॥ ११२ ॥
ततोस्त्राणि यजे देवं त्रिभिर्वावरणैर्गुहम् ।
द्वाभ्यां वैकेन भूयोऽपि धूपदीपं प्रदापयेत् ॥ ११३ ॥
गानयेन्मन्त्रगानाद्यं जपं कृत्वा निवेदयेत् ।
नैवेद्यं च बलिं दत्वा कुण्डे शैवेऽनले गुहम् ॥ ११४ ॥
आवाह्य साङ्गं चर्वन्तं पलाश समिदाज्ययुक् ।
मूलेन शतपञ्चाशत् पञ्चविंशति सङ्ख्यया ॥ ११५ ॥
जुहुयात्त दृशांशेन षडङ्गाहुतिमाचरेत् ।
दत्वा पूर्णाहुतिं पश्चात् नित्योत्सवमथाचरेत् ॥ ११६ ॥
तदन्ते ताण्डवं कुर्यात् प्रागुक्त विधिना सह ।
एका हादि नवाहान्तं कुर्यात्संवत्सरोत्सवम् ॥ ११७ ॥
ध्वजे मयूर मालिख ध्वजारोहणमाचरेत् ।
तद्दिन त्रिगुणे वाथ द्विगुणे वाथ तद्दिने ॥ ११८ ॥
अङ्कुरार्पण पूर्वं तु भेरी ताडन पूर्वकम् ।
ध्वजारोहणपूर्वं वा कारयेदुत्सवं बुधः ॥ ११९ ॥
शकुनी रेवती चैव पूतना मण्डपूतना ।
वक्त्रमण्डी ततः प्रोक्ता निशान्तामेषदेवता ॥ १२० ॥
शकारीति परि ज्ञेयाः सुब्रह्मण्यस्य सुव्रताः ।
षट् कुमारास्तु विज्ञेयास्तेषां नामानि च द्विजाः ॥ १२१ ॥
सेनापतिस्सुरेशश्च हरसूनुस्सुराग्रजः ।
सुब्रह्मण्यः कुमारश्च षट्कुमाराः प्रकीर्तिताः ॥ १२२ ॥
कुण्डं षडश्रमिष्टं स्यादीशाने वाथ पावके ।
वज्रं रूपं भवेदस्त्रं पुष्पे वा तण्डुले यजेत् ॥ १२३ ॥
द्विनेत्रं द्विभूजं रौद्रं शिखाकोटि समुज्वलम् ।
तीक्ष्ण वज्रधरं सव्ये वामहस्ते तु चित्रके ॥ १२४ ॥
शुकुन्यादि कुमारान्ता दिनानामधिपा मताः ॥ १२४१।२ ॥

इति उत्तर कामिकाख्ये महातन्त्रे गुहस्थापनविधिर्नाम चतुष्षष्टितमः
पटलः ॥

द्विभुजश्च द्विनेत्रश्च सुब्रह्मण्यस्सुसुन्दरः ।
पद्मधृक् सव्यतस्पाणिः लम्बितेतरसत्करः ॥
वालरूपी प्रतिष्ठाप्यो ग्रामस्यैवाभिवृद्धये ॥

द्विहस्तो यञासूत्राढ्यः सशिखः सत्रिमेखलः
कौपीन दण्डधृक् सव्यपाणिः कट्याश्रितः अपरः
स्थाप्योऽयं ज्ञानदः स्कन्दः पर्वतेषु वनादिषु ।

चतुर्भुजः त्रिणेत्रश्च कर्णयोः पत्रपिण्डयुक् ।
नक्रकुण्डलयुक्तोवा ह्यक्षशक्तिकरद्वयः
वरदाभय संयुक्तः शक्तिद्वययुतो न वा

षडननश्च षड्बाहुः अर्कश्रोत्रेक्षणान्वितः ।
पट्कण्ठस्त्वेककण्ठकण्ठो वा षड्भिमौलिभिरन्वितः ॥
सशक्तिः साभयः सासि साक्षमालः सकुक्कुटः ।
सखेटकः त्वयं स्थाप्यः वृद्धये राजधानिके ॥

रक्ताम्बर समायुक्तः बालचन्द्र समप्रभैः ।
करण्ड मकुटोपेतो नेत्रत्रय समन्वितः ॥
शक्तिं च मुसलं खड्खं चक्रं पाशाभये वहन् ।
दक्षिणेऽदक्षिणे वज्रं कार्मुकं खेटकं तथा ॥
समयूर ध्वजं चैवम् अङ्कुशं वरदं वहन् ।
सोपवीतो मयूरस्थो शक्तिद्वय समायुतः ॥
ग्रामादौ स्थापनीयोऽयं प्रासादादौ च सिद्धये ।

६५। पञ्चषष्टितमे पटले चण्डेश स्थापन विधिः

चण्डेश स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
परस्वतन्त्र भेदेन द्विविधं तच्च सम्मतम् ॥ १ ॥
पुरादौ मध्यमे वाष्टदिक्षु चण्डेश्वरालयः ।
वामेशानेऽथ सौम्ये वा सोमेशेन्द्रान्तरेऽथवा ॥ २ ॥
अन्तर्मण्डल देशेऽन्तर्हारायां वेष्टशालके ।
अथैकादि त्रस्त्रिंशद्धस्त विस्तार संयुतः ॥ ३ ॥
धामलक्षण संसिद्धायामेनापि समन्वितः ।
एकादि सप्तभूम्यन्तं भूमिभाग समन्वितः ॥ ४ ॥
धामोक्ताकार संयुक्तो दिक्षु चण्डेश्वरान्वितः ।
इष्टदेवान्वितो वा स्यात् केवलो वा वृषान्वितः ॥ ५ ॥
प्रागुक्त विधिना नीतगर्भाद्येष्टकया युतः ।
मूर्धेष्टका समायुक्तः स्थूपिस्थापन संयुतः ॥ ६ ॥
दक्षिण द्वार संयुक्तं पराङ्गं चेन्मुनीश्वराः ।
स्वतन्त्र स्थापने दक्ष पूर्व पश्चिमादिङ्कुखः ॥ ७ ॥
दिङ्न्यास्तामर विन्यस्त मध्यकुम्भयुतेन च ।
धाम संस्थापने नाढ्यः प्रागुक्त विधिना सह ॥ ८ ॥
प्रागुक्त गर्भमानाद्यं सर्वमत्र प्रयोज्यताम् ।
प्राकार मण्डपोपेतः परितः परिवारः युक् ॥ ९ ॥
रुद्र भक्त स्ततो रुद्रः चण्डश्चण्डप एव च ।
महाबलस्तथा विप्राष्टङ्क पाणीश सेवकौ ॥ १० ॥
रुद्रकोपज इत्यष्ट मूर्तयः परिवारगाः ।
एते श्वेता महाकाया कृताञ्जलिपुटान्विताः ॥ ११ ॥
सटङ्कास्तद्विहीना वा वीराद्यासन संस्थिता ।
कृत्तिवासोऽन्विता वाथ चण्डरूपधरास्तु वा ॥ १२ ॥
इन्द्राद्या वा तदर्थं तु पीठं वा पूर्वतो वृषः ।
बलिपीठादि पीठान्तं पूर्ववत् कल्पयेत्तु वा ॥ १३ ॥
द्वारस्थौ द्वापरौ कार्यौ द्विकरौ दण्डधारकौ ।
चण्डानुगः चण्डमान्यो नेष्टौ वा देशिकाग्रजाः ॥ १४ ॥
बलिपीठे बलिर्देयो यथादेशं बलिर्हितः ।
देवोक्त परिवारान्वा विघ्नक्षेत्रेश् भानुभिः ॥ १५ ॥
द्रव्यैश्शिलादिभिः कार्यः पूर्ववल्लक्षणान्वितः ।
मध्येन दशतालेन दशतालाधमेन वा ॥ १६ ॥
प्रतिमा लक्षण प्रोक्तमानेनायादि संयुतः ।
बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः ॥ १७ ॥
व्यालयज्ञोपवीती च मुखोद्गीर्ण महानलः ।
करालकज्जलाभासो जटिलश्चन्द्रशेखरः ॥ १८ ॥
चतुर्वक्त्रश्चतुर्बाहुश्चाक्षमालात्रिशूलवान् ।
टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ॥ १९ ॥
अथवा शङ्ख वर्णाभश्चतुर्बाहुस्त्रिलोचनः ।
चन्द्रार्ध मण्डितः कृत्तिवासा वीरासनस्थितः ॥ २० ॥
पिनाका मोघ बाणाभ्यां व्यग्रपाणितलद्वयः ।
वराभय प्रदानाभ्यामन्यत्र परिमण्डितः ॥ २१ ॥
अथवा द्विभुजश्शुक्ल वस्त्रस्त्र्यक्षोऽजनप्रभः ।
जटामकुट युक्तो वा धवली कृत मूर्धजः ॥ २२ ॥
स्थानको वासनस्थो वा शयिता सव्यवात्तलः ।
सलम्ब सव्य पादस्तु वामहस्त भुजानुगः ॥ २३ ॥
वरहस्तोऽथवा स स्यादिरष्टङ्क संयुतः ।
वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथवा ॥ २४ ॥
शङ्करेक्षण सम्पन्नश्शोकनम्र शिरास्तु वा ।
उत्कुटा सन युक् शान्तो जटिलष्टं धृक्करः ॥ २५ ॥
एवं वा चण्डनाथस्तु कार्यस्त्विष्टासनान्वितः ।
अथवा भयटङ्काभ्यां पाशशूलद्वयेन तु ॥ २६ ॥
चतुर्भुजस्तु वा कार्यश्शङ्कराज्ञानुपालकः ।
विशेषस्सिंहले देशे कश्चिदत्राभिधीयते ॥ २७ ॥
कृतायामष्टहस्तस्यात् त्रेतायां षड्भुजो मतः ।
द्वापरे च चतुर्हस्तः कलौतु द्विकरो मतः ॥ २८ ॥
अन्यदेशे तु सर्वत्र विभागो नायमीर्तितः ।
अथवा चण्डनाथस्तु देव्या तु सहितो न वा ॥ २९ ॥
सा देवी श्यामला हस्त द्वयाखिलविभूषिता ।
धर्मनीत्याख्यया ख्याता धृतनीलोत्पला वरा ॥ ३० ॥
एवमापाद्य बेरं मनुभिंस्थापनं नयेत् ।
चण्डासनं चतुर्थ्यन्तं नत्यन्तं मनुरासने ॥ ३१ ॥
चण्डमूर्ति पदं दीप पूर्वं नत्यन्तमेव च ।
चतुर्थ्यन्तमिदं मूर्ति मन्त्रमित्यभिधीयते ॥ ३२ ॥
ध्वनि चण्डेश्वरायेति हुफट् स्वाहा पदेन च ।
मूलमन्त्रस्समादिष्टस्तदग्रे दीपसंयुतः ॥ ३३ ॥
ईशानादीनि दण्डस्य चकोरेणोद्धरेद् गुरुः ।
ॐ चण्ड पूर्वको हुफण्णमोन्तः स्याद् धृदादिकाः ॥ ३४ ॥
तन्नान्मा हुफडन्तेन मूर्तिनामपरो मनुः ।
अथवान्य प्रकारेण मन्त्रश्चण्डाय कल्पते ॥ ३५ ॥
ज्ञानशक्ति पदैर्मन्त्रैः र्हुण्ट्कार समन्वितैः ।
चण्डायेति पदोपेतैश्चण्डमन्त्रोऽयमीरितः ॥ ३६ ॥
विद्याङ्गैरावृतो वाथ चण्डनाथस्समीरितः ।
ततः प्रतिष्ठा कर्तव्या चाङ्कुरार्पण पूर्विका ॥ ३७ ॥
कालः पूर्ववदेवाक्ते रत्नन्यासश्च पूर्ववत् ।
सौवर्णबेरे रत्नादि विन्यासो नात्र कथ्यते ॥ ३८ ॥
कृत्वा पद्मस्य सङ्घातं नेत्रमोक्षणमाचरेत् ।
मध्वाजयाभ्यां सहेमाभ्यां पात्रस्थाप्यां हृदाणुना ॥ ३९ ॥
सौवर्ण नख विन्यासः प्रच्छन्नपटकादिभिः ।
बेर शुद्धिं पुरादेश्च प्रदक्षिणमथाचरेत् ॥ ४० ॥
तोयाधिवासयेद्देवमिन्द्राद्यष्ट घटावृतम् ।
यागार्थ मण्डपं कुर्यात् धाम्नोऽग्रे तस्य पार्श्वयोः ॥ ४१ ॥
याम्याप्यैन्द्रेषु वार्धेन्दुनिभकुण्डानि कल्पयेत् ।
नवपञ्चैक सङ्ख्यानि वृत्तान्यश्राणि वा द्विजाः ॥ ४२ ॥
मण्डपं कल्पयित्वैवं पूर्वोक्त विधिना सह ।
उद्वास्य शिल्पिनं पश्चात् शैवान् भक्तांश्च भोजयेत् ॥ ४३ ॥
पुण्याह प्रोक्षणं कृत्वा वास्तु होमं समाचरेत् ।
जलादानीय चण्डेशं प्राग्वत् स्नपनमाचरेत् ॥ ४४ ॥
कौतुकं बन्धयित्वान्ते सर्वात्मानं समुच्चरन् ।
कल्पयेच्छयनं वेद्यमण्डजाद्यैरनुक्रात् ॥ ४५ ॥
पञ्चभिर्वाम्बरैश्शुद्धैश्शाययेत् हृदयेन तु ।
वासोभ्यां वेष्टयित्वा तु कुम्भन्यासं समाचरेत् ॥ ४६ ॥
चण्डोत्तमाङ्ग देशे तु सूत्रकूर्चाम्बरान्वितम् ।
सहैमटङ्कतोयढ्यं विन्यसेत्तु सपल्लवम् ॥ ४७ ॥
तथा विधघटानष्टौ विन्यसेत् परितो बहिः ।
चण्डेशो देवियुक्तश्चेत् वर्धनीमूत्तरे न्यसेत् ॥ ४८ ॥
सासनेन सदेहेन चण्डेशेनाप्यधिष्टितान् ।
कुम्भमिष्ट्वा तु पूर्वोक्त ध्यान युक् चन्दनादिभिः ॥ ४९ ॥
हृच्छिरश्चूलिकावर्म शस्त्राणि परितो बहिः ।
घटेषु पूजयेन्मन्त्री ईशानादुत्तरा वधि ॥ ५० ॥
लोकपालास्तु वा तेषु चण्डमूर्त्यष्टकं तु वा ।
गन्ध पुष्पादिभिश्चेष्ट्वा तत्वमूर्त्यादिकं न्यसेत् ॥ ५१ ॥
आत्म विद्या शिवाख्यं च ब्रह्मादींश्च तदीश्वरान् ।
क्ष्मामूर्तितदीऽसानान् लोकपानपि विन्यसेत् ॥ ५२ ॥
प्रागुक्त मूर्त्यो वाथ रुद्रभक्तादयोऽथवा ।
सासनं मूर्तियुक् चण्डं ब्रह्माङ्ग सहितं यजेत् ॥ ५३ ॥
मूर्ति भृद्भिर्गुरुस्सार्धं होमार्थं कुण्डमाशयेत् ।
संस्कृत्य वह्निं कुण्डं च दिक्षु तत्पुरुषाद्यणून् ॥ ५४ ॥
कोणेषु हृदयादींश्च सब्रह्माङ्गं तु चण्डपम् ।
प्रधाने तर्पयेन्मन्त्री समिदाज्यान्नसत्तिलैः ॥ ५५ ॥
लाजसक्तु यवैस्सार्धं पलाशोदुम्बरौ वटः ।
प्लक्षश्च समिधो दिक्षु प्रधानेऽपि पलाशकः ॥ ५६ ॥
शमी खादिर मायुर श्रीवृक्षा वह्निकोणतः ।
तत्वमूर्ति तदीशांश्च क्रमशस्तर्पयेत् पृथक् ॥ ५७ ॥
शान्त्यम्भः प्रोक्षणं स्वस्वमन्त्राणां च जपक्रियाम् ।
दर्भ संस्पर्शनं चैव प्रतिभागं समाचरेत् ॥ ५८ ॥
ततः प्रभाते शुद्धस्तु मूर्तिपैस्सह देशिकः ।
उद्धृत्य चण्ड बिम्बं तु कुम्भानग्नींश्च तर्पयेत् ॥ ५९ ॥
पार्यश्चित्तं च पूर्णां च गुरुः कृत्वा समूर्तिपः ।
वस्त्रस्वर्णाङ्गुलीयाद्यैः पूजितः प्राप्त दक्षिणः ॥ ६० ॥
अधमा निष्का तु द्विगुणा मध्यमा भवेत् ।
त्रिगुणा चोत्तमा प्रोक्ता चान्येषां पूर्ववद् भवेत् ॥ ६१ ॥
प्रतिष्टा कशिलादीनां कार्या द्विजोत्तमाः ।
सुमुहूर्ते प्रतिष्टाप्य धाम्नि मन्त्रांस्तु विन्यसेत् ॥ ६२ ॥
देवाग्रस्थण्डिलस्तेभ्यः कुम्भेभ्यो देशिकोत्तमः ।
तत्तत् कुम्भगतैस्तोयैः स्नापयेच्चण्ड विग्रहम् ॥ ६३ ॥
स्नप्नं भूरि नैवेद्यमुत्सवं चचलं यदि ।
कारयेद्देवियुक्तं तस्याश्च स्थापनं नयेत् ॥ ६४ ॥
चण्डेश्वर प्रतिष्ठेयं बालस्थानान्विता न वा ।
चण्डेश स्थापनं ह्येवं यः कुर्यान्नर पुङ्गवः ॥ ६५ ॥
आयुष्कामो लभेदायुर्धनार्धी चेद्वसूनि च ।
विद्याकामोऽमलां विद्यां प्त्रार्थिं चेत्सुतं लभेत् ॥ ६६ ॥
लक्ष्मीकामो महालक्ष्मीं रतिकामो वरस्त्रियः ।
चण्डेश्वरं प्रपन्ना येन तेषां भवकारणम् ॥ ६७ ॥
चण्डेश स्थापनं ख्यातं तस्य पूजा च कथ्यते ।
स्नानाद्यं पूर्ववत्कृत्वा सकलीकृत विग्रहः ॥ ६८ ॥
चण्डेशानस्य हृत्पूर्वं सामान्यर्घ्यं च हेतिना ।
द्वारपौ तेन गन्धाद्यै रिष्ट्वास्त्र द्वरमध्यमे ॥ ६९ ॥
आलयस्य प्रविश्यान्तर्भूतशुद्धिं विधाय च ।
सकलीकृत देहस्तु कृत्वान्तश्चण्ड पूजनम् ॥ ७० ॥
अस्त्रप्राकार दिग्बन्धैः स्थानशुद्धिं विधाय च ।
पाद्यमाचमनं दत्वा हृदार्घ्यं संहितणुभिः ॥ ७१ ॥
अर्घ्यं वा केवलं तेन प्रोक्ष्य द्रव्यं हृदालभेत् ।
स्वस्वमिष्ट्वा हृदा मन्त्रानुच्चरेन्मन्त्रशुद्धये ॥ ७२ ॥
पूर्वपूजां समभ्यर्च्य चण्डेशानाय विद्महे ।
इत्युक्त्वा टङ्कहस्ताय धीमहीति पदं ततः ॥ ७३ ॥
तन्नश्चण्ड पदं पश्चात् पदमुक्त्वा प्रचोदयात् ।
दत्वा सामान्यमर्घ्यं च निर्माल्यमपनीय च ॥ ७४ ॥
संशोध्य चण्डमस्त्रेण सामान्यार्घ्योदकेन च ।
चण्डासनं च मूर्तिं च सङ्क्ल्प्येशाद्यणून् क्रमात् ॥ ७५ ॥
हृदादींश्च यथा स्थानं न्यस्य मूलेन चण्डपम् ।
बिन्दोरावाह्य संस्थाप्य हृदा सन्निधिरोधनम् ॥ ७६ ॥
न्यासं च हृदयादीनामप्यङ्गा भेदभावनम् ।
पाद्यमाचमनं चार्घ्यं दत्वा हृदय मन्त्रतः ॥ ७७ ॥
अभ्यङ्गोद्वर्तनाद्यैश्च पञ्चगव्यामृतैरपि ।
इष्ट्वा चण्डेश्वरं शक्तौ वस्त्रं गन्धं च पुष्पयुक् ॥ ७८ ॥
धूपं दीपं हृदा दद्यादर्चाङ्ग विधानतः ।
हृदादीन् रुद्रभक्तादीन् सास्त्रानाशापतीनपि ॥ ७९ ॥
परितश्चण्डनाथस्य तानिष्ट्वावार्घ्योपचारतः ।
नैवेद्यः तद्विधानोक्तं दत्वा ताम्बूल संयुतम् ॥ ८० ॥
पराङ्गं चेच्छिवेनोपभुक्तं चापि निवेदयेत् ।
जपं कृत्वा निवेद्यास्मै परिवारे बलिं नयेत् ॥ ८१ ॥
पलाशसमिदाज्यान्नैर्होमं च विभवे सति ।
मूलेन तद्दशांशेन तदङ्गैर्होममाचरेत् ॥ ८२ ॥
नित्योत्सवं ततश्चण्ड बेरस्यान्येन कारयेत् ।
पुष्पान्नाक्षत लिङ्गैश्च चण्डेशास्त्रेण पूजितैः ॥ ८३ ॥
प्रातर्मध्याह्नारात्रेषु चण्डबेरोझितैस्तु वा ।
पादुकाराधनोपेतं प्रविशेदालयं प्रति ॥ ८४ ॥
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्ट विभेदिषु ।
कालेष्विष्टेषु चण्डेशं यजेत्प्रत्यहमादरात् ॥ ८५ ॥
पराङ्ग चण्डनाथस्य विशेषः कथ्यतेऽर्चने ।
आदौ पर्युषितां पूजां पीठकादौ हृदाणुना ॥ ८६ ॥
चण्डेशायेति सङ्क्ल्प्य यच्छिवाय निवेदितम् ।
नैवेद्याद्यं च पूजान्ते चण्डेशस्यार्चकोत्तमाः ॥ ८७ ॥
गत्वातदालयं शुद्धतोयगन्धस्त्रगादिभिः ।
सम्पूज्य शिवनिर्माल्यमपि पश्चान्निवेदयेत् ॥ ८८ ॥
आत्मार्थे च परर्थे च सामान्यमिदमीरितम् ।
नित्येज्यैवं समादिष्टा भिक्ति मुक्ति फलप्रदा ॥ ८९ ॥
आयु।ः प्रज्ञां सौभाग्यमतुलां श्रियम् ।
अन्यञ्च लभते नित्यं चण्डेशस्यार्चनेन तु ॥ ९० ॥
विशेषयजनं कुर्यात् स्नपनेनेष्टसिद्धये ।
स्नपनं पूर्ववत् किन्तु मध्ये चण्डेश्वरं घटे ॥ ९१ ॥
देव्या युतस्स चेन्न्यस्त्वा वर्धनीं तत्र तां यजेत् ।
अष्टमूर्तिषु पूर्वादि दिक्स्थाः पञ्च प्रकल्पने ॥ ९२ ॥
रुद्रभक्तादयोऽष्टौस्युर्नवकुम्भाभिषेचने ।
इन्द्राद्या वज्रपूर्वाः स्युस्तद्बाह्ये पञ्च विंशतौ ॥ ९३ ॥
पञ्चाशत् स्नपने बाह्ये चण्डेशास्त्रं तु केवलम् ।
शतस्थाने तु तद्बाह्ये हृदयं केवलं यजेत् ॥ ९४ ॥
उत्सवं दमनारोहं पवित्रारोहं नयेत् ।
दीपावलीं वसन्तेज्यां मासे मासोत्सवक्रियाम् ॥ ९५ ॥
नवनैवेद्यकर्माणि जीर्णोद्धारं च निष्कृतिम् ।
किं तूत्सवे ध्वजे टङ्कं वृषं वा केवलं लिखेत् ॥ ९६ ॥
शिवोत्सत्वेऽपि कर्तव्यश्चण्डनाथोत्सवस्त्विह ।
धजहोम बलिं हित्वा केवलं यानमेव वा ॥ ९७ ॥
प्रतिमां चण्डवत् कुर्यात् तत्र टङ्का कृतिर्भवेत् ।
प्रतिष्टोत्सव कर्मादावनुक्तं कर्म यद् द्विजाः ॥ ९८ ॥
तत्सर्वं पूर्ववत् ग्राह्यं चण्डेशाणु समन्वितम् ! ॥ १८१।२ ॥

इति उत्तर कामिकाख्ये महातन्त्रे चण्डेश प्रतिष्ठाविधिः
पञ्चषष्ठितमः पटलः ॥

अथवा द्विभुजः शक्ल वस्त्रः त्र्यक्षोञ्चन प्रभः ।
जटामकुट युक्तो वा धवलीकृत मूर्धजः ॥
स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ॥
सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ॥
वामेतरकरष्टङ्क युक्तोऽञ्जलीहस्त भुजानुगः
शङ्करेक्षण सम्पन्नः शोकनम्र शिरस्तु वा ॥

अथवा शङ्खवर्णाभः चतुर्बाहुः त्रिलोचनः ।
चन्द्रार्धमण्डितः कृत्तिवासा वीरासनस्थितः ॥
पिनाकामोघ बाणाभ्यां व्यग्रपाणितल द्वयः ।
वराभय प्रदानभ्याम् अन्यत्र परिमण्डितः ॥

अथवा द्विभुजः शुक्ल वस्त्रः त्र्क्षोञ्चन प्रभुः ।
जटामकुट युक्तो वा धवलीकृत मूर्धजः ॥
स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ॥
सलम्ब सव्यपादस्तु वामहस्त भुजानुगः ॥
वरहस्तोऽथवा स स्यात् इतरष्टक संयुतः ।
सङ्करेक्षण सम्पन्नः शोकनम्र शिरस्तु वा ॥

अथवा द्विभुजः शुक्लवस्त्रः त्र्यक्षोञ्जन प्रभुः ।
जटामकुट युक्तो वा धवली कृत मूर्धजः ॥
स्थानको वा आसनस्थो वा शयिता सव्यपात्तलः ।
सालम्ब सव्य पादस्तु वामहस्त भुजानुगः । (वामहस्तन्तुजानुकः)
वामेतरकरष्टङ्क युक्तोऽञ्जलि पुटोऽथ वा ॥
सङ्करेक्षण सम्पन्नः शोकनम्र शिरस्तु वा ॥

जटामकुट युक्तो वा धवलीकृत मूर्धजः ।
स्थानको वा सासनस्थो वा शयिता सव्यपात्तलः ॥
सङ्करेक्षण सम्पन्नः शोकनम्र शिरो तु वा ।
अथवा भयटङ्काभ्यां पाश शूल द्वयेन तु ॥
चतुर्भुजस्तु वा कार्यः शङ्कराज्ञानु पालकः ।

बद्ध पद्मासनश्चण्डनाथो दुर्दर्श भीषणः ।
व्यालयज्ञोपतीती च मुखोद्गीर्ण महानलः ॥
करालकज्जका भासो जटिलश्चन्द्रशेखरः ।
चतुर्वक्त्रः चतुर्बाहुः चाक्षमालात्रिशूलवान् ॥
टङ्कं कमण्डलुं वामे भानुरक्तार्क लोचनः ॥

६६। षट्षष्ठितमे पटले शिवभक्त प्रतिष्ठा विधिः

वक्ष्यामि शिवभक्तानां प्रतिष्ठां भोगमोक्षदाम् ।
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्रा वा ह्यन्तरालजाः ॥ १ ॥
स्त्रियो वा गुरवश्चैषा मभिषिक्तो नृपोऽथवा ।
शिवभक्ति समोपेता जीवान्तो वा मृतास्तु वा ॥ २ ॥
तेषां प्रतिकृतिं कृत्वा प्रतिष्ठाय समर्चयेत् ।
शैवाः पाशुपताश्चैव महाव्रत धराश्रये ॥ ३ ॥
लकुला भैरवाद्याश्च येन मार्गेण दीक्षिताः ।
तेषां तेनैव मार्गेण स्थापनाद्यं विधीयताम् ॥ ४ ॥
शिव सिद्धान्त मार्गेण सर्वेषां स्थापनं परम् ।
स्वप्रधानं पराङ्गं च द्विविधं स्थापनं मतम् ॥ ५ ॥
ग्रामादौ वा नदी तीरे पुष्करिण्यास्तटेऽपि वा ।
वने चोपवने वापि पर्वते वा मनोरमे ॥ ६ ॥
स्थानेऽन्यत्र च कर्तव्यं स्वप्राधानस्य मन्दिरम् ।
देवालयान्तस्सालादौ तत्र कल्पित मन्दिरे ॥ ७ ॥
परिवार समोपेतं स्वप्रधानं प्रकीर्तितम् ।
देवालयादौ सर्वत्र मालिका मण्डपादिषु ॥ ८ ॥
परिवार विहीनं यत् कल्पितं त्वङ्गमिष्यते ।
त्रिहस्तं तु समारभ्य द्विद्विहस्त विवर्धनात् ॥ ९ ॥
एक विंशति हस्तान्तो विमान व्यास इष्यते ।
आयामोत्सेध गर्भाद्यं मण्डपाद्यं तथापरम् ॥ १० ॥
सालं च गोपुरं पुण्यमायादीनां निरीक्षणम् ।
आद्येष्टका विधानं च गर्भ संस्थापनं तथा ॥ ११ ॥
मूर्धेष्टका विधानं च प्राग्देव समीरितम् ।
तदर्थं शिवलिङ्गं वा प्रतिमा वा शिवस्य तु ॥ १२ ॥
स्कन्द नन्द्यादि रूपं वा मृतप्रतिकृतिं तु वा ।
कुर्यादायादि संयुक्तं शिलाद्यैरुक्त वस्तुभिः ॥ १३ ॥
शैलं लोहं तथा वार्क्षं मृण्मयं मणिजं तु वा ।
अर्ध चित्रमथा भासं पटादि परिकल्पितम् ॥ १४ ॥
लिङ्गं चेत् प्रतिमा चेद्वा लिङ्ग बेरोक्त वर्त्मना ।
मानं तयोश्च सङ्ग्राह्या हर्म्याद् गर्भगृहादथ ॥ १५ ॥
द्वारात् पादोच्च मानाद्वा मानाङ्गुलवशेन तु ।
षड्यवादि प्रभेदेन कर्तुर्मात्राङ्गुलेन वा ॥ १६ ॥
हर्म्यादिमाने नवधा कृते स्यादुत्तमादिकम् ।
त्र्यङ्गुलाढ्व्द्यङ्गुल द्धर्यातु षण्णवत्यङ्गुलान्तकम् ॥ १७ ॥
मानमेतत्समाख्यातं जात्यायाम्श समन्वितम् ।
वसुनन्द गुणार्द्ध्या तु भानु नाड्यष्टभिर्हतम् ॥ १८ ॥
आयो व्ययोऽथ योनिस्स्यादष्टघ्नं भैर्हतं दिनम् ।
नववेदहृदं सप्त नवसङ्ख्याहृतं तु यत् ॥ १९ ॥
वारोह्यंशस्समाख्यातो यजमानानुकूलितम् ।
मृतनामाक्षरेणानुकूलितं च विधीयताम् ॥ २० ॥
लिङ्गं चेत्तद्विधानोक्त्या प्रतिमा च तथैव च ।
तदुक्त तालभेदेन कर्तव्यं स्याद् द्विजोत्तमाः ॥ २१ ॥
मृत प्रतिकृतिं चोक्तामष्ट तालेन कारयेत् ।
आसीनं स्नानकं वापि वाहनारूढमेव वा ॥ २२ ॥
आसने स्थानके वाथ पद्मसिंहासनं तु वा ।
अधस्तात् कल्पयेद्विद्वानुभयं वा विधीयताम् ॥ २३ ॥
यथेष्टासनयुक्तं वा समाश्रं वा यथाक्रमात् ।
आसनोन्मान विस्तारायामं तद्वदलङ्कृतिम् ॥ २४ ॥
प्रतिमोक्त प्रकारेण प्रागुक्त विधिना नयेत् ।
शिखी वा बद्धकेशी वा मुण्डितो जटिलोथवा ॥ २५ ॥
अभिषिक्तो नृपश्चेत्तु किरीट मकुटान्वितः ।
यथेष्टायुधयुक्तो वा नमस्कारयुतोऽथवा ॥ २६ ॥
सर्वलक्षण सम्पन्न स्सर्वाभरण भूषितः ।
गायकाः नृत्तयुक्ता वा पूजका वा यथेष्टकम् ॥ २७ ॥
स्त्रियश्चेत्स्वानुरूपेण भूषणैरुपभूषिताः ।
एवं लक्षणमाख्यातं प्रतिष्ठाद्यं निगद्यते ॥ २८ ॥
मधूच्छिष्ट क्रियात्रापि प्रतिमोक्त प्रकारतः ।
ततोऽङ्कुरार्पणं कुर्यात् प्रतिष्ठार्थं ततः पुरा ॥ २९ ॥
रत्नन्यासं ततः कृत्वा नेत्रोन्मीलनमाचरेत् ।
स्थण्डिलं पूर्ववत्कृत्वा तदूर्ध्वं विन्यसेत्पटम् ॥ ३० ॥
सङ्कल्प्य प्रणवं पीठं तदूर्ध्वे प्रतिमां न्यसेत् ।
हेम सूचि प्रहाराभिः कृष्णमण्डलमालिखेत् ॥ ३१ ॥
ज्योतिर्मण्डलमालिख्य दृष्टिं यूकप्रमाणिकाम् ।
नेत्र मन्त्रं समुचार्य क्रियामेतां समाचरेत् ॥ ३२ ॥
तर्पयेन्मधुसर्पिभ्यां विद्वान् सौवर्णदूर्वया ।
मध्वाज्य पूरितं पात्रद्वयं तस्य प्रदर्शयेत् ॥ ३३ ॥
सौवर्णेन नखेनैव नेत्रमन्त्रेण संस्पृशेत् ।
धान्यानि गां सवत्सां च कन्यकां ब्रह्मणनापि ॥ ३४ ॥
दर्शयित्वा पटं हित्वा बेरशुद्धिमथाचरेत् ।
सर्वालङ्कार संयुक्तं ग्रामादौ भ्रमणं नयेत् ॥ ३५ ॥
जलाधिवासयेद्बिबं लोकपाल घटान्वितम् ।
यागार्थं मण्डपं कुर्यात् नामेनाग्रेऽस्य पार्श्वयोः ॥ ३६ ॥
नव पञ्चैक सङ्ख्यानि तत्र कुण्डानि कल्पयेत् ।
उद्वास्य शिल्पिनं पश्चात् विप्रभोजनमाचरेत् ॥ ३७ ॥
वेद्यूर्ध्वे स्थण्डिलं कृत्वा शालिभिः पूर्वमानतः ।
प्राग्वद् शुद्धिं प्रकल्प्याथ ग्रामादीनां प्रदक्षिणम् ॥ ३८ ॥
जलाधिवासनं चैव मण्डपे कुण्डकल्पनम् ।
शाल्यादि स्थण्डिलं पञ्चशयनं चर्मजादिकम् ॥ ३९ ॥
आधाराख्य मनन्तं च धर्माद्यं च चतुष्टयम् ।
सङ्कल्प्य मानुषं पीठं प्रणवेन प्रकल्पयेत् ॥ ४० ॥
स्नान वेदीं नयेद्बिम्बं शिलाद्यैरपि निर्मिते ।
पीठे संस्थाप्य बेरं तु प्रागुक्त विधिना गुरुः ॥ ४१ ॥
वस्त्रैरावेष्ट्य गन्धाद्यैः मालाद्यरूप भूषयेत् ।
बद्ध प्रतिसरं बेरं शयनोपरि विन्यसेत् ॥ ४२ ॥
उपधानं न्यसेत्प्राच्यां तत्र बिम्बं शिरो भवेत् ।
शिरसश्चोत्तरे भागे कुम्भं प्राधानिकं न्यसेत् ॥ ४३ ॥
अभितोऽष्टौ घटान्वस्त्रहेम सूत्र विभूषितान् ।
चन्दनोदक सम्पूर्णान् फा पल्लव संयुतान् ॥ ४४ ॥
तन्मध्यमे न्यसेन्मन्त्रांस्तद्विधान मिहोच्यते ।
सान्तमाद्यस्वरोपेतं बिन्दुयुक्तं यथा भवेत् ॥ ४५ ॥
आत्ममन्त्र स्समाख्यातो हंसशब्दोऽथवामतः ।
सान्तेनैव वर्णे ब्रह्माङ्गानि प्रकल्पयेत् ॥ ४६ ॥
विद्याङ्गानि च वा तस्य स्वाख्यायुक्तस्य वा मनुः ।
ह्रीङ्कारः स्त्रीप्रतिष्ठायां तेन ब्रह्माङ्ग कल्पना ॥ ४७ ॥
स्वपत्नी सहिता यत्र प्रतिष्ठा प्रविधीयते ।
प्रधनघट सौम्ये तद्भार्यार्थं करकं न्यसेत् ॥ ४८ ॥
पत्नीद्वयं चेद्याम्येऽपि वर्धनीमपरां न्यसेत् ।
वह्व्यश्चेत् करका ग्राह्या बहवः पार्श्वयोर्वयोः ॥ ४९ ॥
स्त्री प्रतिष्ठासु सर्वासु वर्धन्यस्सम्प्रकीर्तिताः ।
पृथिव्यादीनि भूतानि मनोऽहङ्कार बुद्ध्यः ॥ ५० ॥
परिवार घटे पूज्या अष्टौ वा वसवो मताः ।
स्त्रीणां दिशस्तु पूर्वस्माद्देवताः प्रैकीर्तिताः ॥ ५१ ॥
पुरुषे लोकपला वा पूर्वाद्यष्टघटेषु च ।
सम्पूज्य गन्धपुष्पाद्यैः तत्वतत्वेश्वरान्यसेत् ॥ ५२ ॥
आत्मविद्या शिवाख्यं च तत्वत्रयमुदीरितम् ।
आत्मानमन्तरात्मानं परमात्मानमेव च ॥ ५३ ॥
तत्वतत्वाधिपत्वेन क्रमेण विनिवेशयेत् ।
स्त्रीणामप्येव मेवं स्यात् क्ष्मादयो मूर्तयो मताः ॥ ५४ ॥
अष्टौस्युः पञ्चपक्षे तु क्ष्मादयः पञ्च एव हि ।
इन्द्राद्या मूर्तिपाः पक्षे निवृत्याद्यास्तु मूर्तिपाः ॥ ५५ ॥
तत्तद्ब्रह्माणि विन्यस्य तत्तन्मूर्ति हृदि न्यसेत् ।
अकारादि क्षकारान्तं न्यस्त्वा मूर्धादिषु क्रमात् ॥ ५६ ॥
जीवन्यासं स्वमन्त्रेण न्यस्त्वाङ्गानि च विन्यसेत् ।
सम्पूज्य गन्धपुष्पाद्यैः वस्त्रेणाच्छाद्य वर्मणा ॥ ५७ ॥
ततः कुण्डान्तिकं गत्वा होमकर्म समारभेत् ।
प्राग्वच्च कुण्ड संस्कारं शिवाग्न्याधानमेव वा ॥ ५८ ॥
तन्मध्ये भक्तमावाह्य साङ्गं सम्पूज्य तर्पयेत् ।
समिदाज्य चरूल्लाजां तिलैर्द्रव्यैस्तु मूर्तिपैः ॥ ५९ ॥
पलाशोदुम्बराश्वत्थवटाः प्रागादिषु क्रमात् ।
शमीखादिर मायूर श्रीवृक्षस्त्वग्नि कोणतः ॥ ६० ॥
प्रधानेऽपि पलाशस्यात् शतं वार्धं तदर्धकम् ।
हुत्वा पूर्णां ततो दत्वा तत्वतत्वेश्वरान् प्रति ॥ ६१ ॥
मूर्तिमूर्तीश्वरोपेतं प्रत्येकं चाहुतित्रयम् ।
कृत्वा घोराणुना होमं निश्छिद्रार्थं शतं द्विजाः ॥ ६२ ॥
स्पृष्ट्वा मूर्धादिपादान्तं शान्तितोयेन सेचयेत् ।
ततश्चान्तर्बलिं बाह्य बलिं दत्वा शुचिर्गुरुः ॥ ६३ ॥
रात्रिशेषं व्यपोह्याथ प्रभाते मूर्तिपैः सह ।
स्नात्वा समाप्य सन्ध्यां तु कृतकृत्यो गुरूत्तमः ॥ ६४ ॥
पञ्च गोचर सञ्जात स्सोष्णीषस्सोत्तरीयकः ।
पञ्चाङ्ग भूषणोपेतो दक्षिणातुष्टमानसः ॥ ६५ ॥
तद्वत् सम्पूजितैर्मूर्ति धारकैरणुजापिभिः ।
अध्येत्रृभिश्च दैवज्ञैश्शिल्पिभिस्तोषितैर्युतः ॥ ६६ ॥
द्वारद्वाराधिपानिष्ट्वा कृतकुम्भार्चनो गुरुः ।
सम्पूज्य वह्निं कुण्डस्थं पूर्णां दत्वा यथा क्रमात् ॥ ६७ ॥
उत्थाप्य शयनाद्बिम्बं यानमारोप्य युक्तिततः ।
प्रसादादौ नयेद्बिम्बं स्नानश्वभ्रेऽथवा नयेत् ॥ ६८ ॥
रत्नन्यासं यथापूर्वं स्थापने परिकल्पयेत् ।
आसनं प्रणवं कृत्वा मूर्तिस्थाणु प्रकल्पिताम् ॥ ६९ ॥
मातृकां च ततो न्यस्त्वा जीवन्यासं समाचरेत् ।
संस्नाप्य कुम्भपानीयैः परितः स्थापितैरपि ॥ ७० ॥
वस्त्रगन्धैश्च पुष्पैश्च धूपदीपैर्निवेद्यकैः ।
उपचारैस्तथा चान्यैः शिवभक्तं समर्चयेत् ॥ ७१ ॥
उत्सवं कारयेदन्ते यथा विभव विस्तरम् ।
ततः प्रभृति तं भक्तं प्रत्यहं पूजयेन्नरः ॥ ७२ ॥
आदिशैवकुलोद्भूतः पञ्चगोचर सम्भवः ।
आवश्यकं तथा शौचस्नान सन्ध्यादि वन्दनम् ॥ ७३ ॥
कृत्वा प्रविश्य अर्घ्यं तु सामान्यार्घ्यकरो गुरुः ।
पुरुषं प्रकृतिं चैव सम्पूज्य द्वारपार्श्वयोः ॥ ७४ ॥
प्रविस्य गर्भगेहं तु परमात्मानमव्ययम् ।
वास्तु मध्ये समभ्यर्च्य भूतशुद्धिं विधाय च ॥ ७५ ॥
कृतमन्त्र तनुः पश्चात् स्थानशुद्धिं विधाय च ।
परिकल्प्य विशेषार्घ्यं कुसुमाक्षत तोययुक् ॥ ७६ ॥
प्रोक्षयेद् द्रव्यजालं तु प्रागुक्तविधिना नरः ।
प्रणवाद्यान् पठेन्मन्त्रान् नमोन्तान्मन्त्र शुद्धये ॥ ७७ ॥
अस्त्रतोयेन बेराद्यं स्नापयेद् बेरशुद्धये ।
षडुत्थमासनं कृत्वा पूर्वोक्तेन विधानतः ॥ ७८ ॥
तन्मध्ये कल्पयेन्मूर्तिं मूर्तिमन्त्रेण पूजितम् ।
तत्तद्रूपं समोपेतं तत्तन्मूलाणुना बुधः ॥ ७९ ॥
जीवन्यासं ततः कृत्वा हृदयादि यथा न्यसेत् ।
पाद्याचमनं चार्घ्यं हृदयेन निवेदयेत् ॥ ८० ॥
संस्नाप्य शुद्धतोयेन पञ्चगव्यादिभिस्तु वा ।
सम्मृज्य वाससा वस्त्रं गन्धं स धूमकम् ॥ ८१ ॥
दीपेन सहितं दद्यान्नैवेद्यं सोपदंसकम् ।
ताम्बूलं च त्रिसन्ध्यासु दद्यात्सन्ध्याद्वयेऽपि वा ॥ ८२ ॥
अथवा त्वेक सन्ध्यायां बल्युत्सवयुतं न वा ।
दीपान्तं वा निवेद्यान्तं यजेच्छक्त्यनुरूपतः ॥ ८३ ॥
अयने विषुवे चैव सङ्क्रान्तौ ग्रहणादिषु ।
स्नपनं विधिना कार्यं प्रागुक्तेन क्रमेण तु ॥ ८४ ॥
मध्य कुम्भे तु भक्तः स्यात् क्ष्मादयः प्रथमावृतौ ।
स्वराष्षोडश तद्बाह्ये तद् बाह्ये कादयो मताः ॥ ८५ ॥
एवमुत्तम कल्पस्यात् आवृतिद्वययुक् समम् ।
एकावरण संयुक्तमधमं त्विति कीर्तितम् ॥ ८६ ॥
प्रतिमासं ततः कुर्यात् उत्सवं विभवे सति ।
भक्त जन्मदिने वापि कर्तुर्जन्मदिनेऽपि वा ॥ ८७ ॥
संवत्सरोत्सवः कार्यः प्रत्यशब्दं च विवाहकम् ।
नवाहं वाथ सप्ताहं पञ्चाहं त्रिदिनं तु वा ॥ ८८ ॥
अथवैकदिनं वापि बलिहोम समन्वितम् ।
ध्वजारोहण पूर्वादि कर्तव्यं कर्तुरिच्छया ॥ ८९ ॥
धजे तु वृषभः कार्यः सर्वेषामुत्सवादिषु ।
स्वस्व जाति वशेनोक्त मङ्गलाष्टक संयुतम् ॥ ९० ॥
भेरी सन्ताडनं रात्रौ भक्तास्त्रेण समन्वितम् ।
इन्द्रादीनां बलिं दद्यात् गन्धं पुष्पादि संयुतम् ॥ ९१ ॥
यागाधिवासनं कुर्यात् उत्सवस्यादिरात्रके ।
यागशालां विधानेन कृत्वा वेदि समन्विताम् ॥ ९२ ॥
पूर्वादि कुण्ड संयुक्तं पञ्चकुण्डयुतं तु वा ।
सर्वमङ्गल संयुक्तं मङ्गलाङ्कुरमाचरेत् ॥ ९३ ॥
बल्यर्थमुत्सवार्थं च भक्त प्रतिकृतिं द्विजाः ।
अल्पां च महतीं कृत्वा प्रतिष्ठाप्य विधानतः ॥ ९४ ॥
तत्र प्रतिसरं बध्वा वेदिमध्ये विधानतः ।
स्थण्डिलं शालि पूर्वैश्च कृत्वा संस्थापयेत्घटान् ॥ ९५ ॥
प्रतिष्ठावित्तथा तेन तत्रोक्तानेव तानयजेत् ।
प्रत्यहं पूजयेद्देवान् सायं प्रार्गुरूत्तमः ॥ ९६ ॥
गन्ध पुष्पादि संयुतमन्ते होअं समाचरेत् ।
द्रव्याण्यत्रापि विप्रेदाः प्रतिष्ठोक्त प्रकारतः ॥ ९७ ॥
सायं प्रातर्बलि र्दद्यात् क्षुद्र बिम्बसमन्वितम् ।
बल्यन्ते चोत्सवं कुर्यात् सर्वालङ्कार संयुतम् ॥ ९८ ॥
परिवेष क्रमं कुर्यात् गेयनृत्तादिसंयुतम् ।
अन्ते चूर्णोच्सवं कृत्वा तीर्थ कर्म समाचरेत् ॥ ९९ ॥
प्रत्यहं मूलूबेरस्य पूजा वैशेषिकी भवेत् ।
शुद्धस्नपनमन्ते च मूले बेरादिके नयेत् ॥ १०० ॥
धजोत्थान विहीनं वा बलिहोमोझितं तु वा ।
केवलं तूत्सवं कुर्यादशक्तश्चेन्मुन्मुनीश्वराः ॥ १०१ ॥
शिवभक्त प्रतिष्ठां तु यः कुर्यान्नर सत्तमः ।
आयुरारोग्य विजय श्रीकीर्तिफलमाप्नुयात् ॥ १०२ ॥
अन्ते सायुज्यमाप्नोति नात्र कार्या विचरणा ॥ १०२१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे शिवभक्त प्रतिष्ठा विधिः षट्ष्टितमः
पटलः ॥

६७। सप्तष्टितमे पटले विद्यापीठ प्रतिष्ठा विधिः

विद्यापीठ प्रतिष्ठां तु प्रवक्ष्यामि समासतः ।
सा विद्या द्विविधा प्रोक्ता संस्कृतान्यात्मिकेति च ॥ १ ॥
प्रासादादौ चतुर्दिक्षु तद्विदिक्ष्वन्तरालके ।
भक्तोक्त स्थानके वापि विद्यास्थानं प्रकल्पयेत् ॥ २ ॥
अङ्गुलत्रयमारभ्य व्योमाङ्गुलं विवृद्धितः ।
पञ्च विंश्ति मात्रान्तं भवेत् पुस्तक दैर्घ्यकम् ॥ ३ ॥
व्योमाङ्गुलात्पाद वृद्ध्या रविमात्रावसानकम् ।
प्रमाऽं तु विशाले स्यात् पञ्चपट्टीयुतं तु वा ॥ ४ ॥
भूर्जत्वक्कुलसम्भूतं शीतालीदलमेव वा ।
तालसम्भूतपत्रं वा सुवर्णादि विनिर्मितम् ॥ ५ ॥
शैलदारुकृतं वापि लेखये दक्षरैः शुभः ।
मष्या वा कुङ्कुमाद्यै र्वा पुष्पाद्यैर्निर्मितेन वा ॥ ६ ॥
लिखेत् तूलिकया वापि देशिकः शिष्य एव वा ।
शुभवारर्क्षयोगादावारभेदनुकूलभे ॥ ७ ॥
पशुना लेखयेन्नैतच्छिवज्ञानं प्रयत्नतः ।
न समीपे पशूनां तु कुर्यादध्ययनं बुधः ॥ ८ ॥
नानादेऽस समुद्भूतैरक्षरैः कान्ति संयुतैः ।
लेखयेदृजुपङ्क्या तं पत्रप्रान्ते न लेखयेत् ॥ ९ ॥
गन्धाद्यैः शिवमभ्यर्च्य मातृकां शिवरूपिणीम् ।
वस्त्राद्यैर्देशिकश्चेष्ट्वा पत्रिकामपि पूजयेत् ॥ १० ॥
गोमयालिप्त भूभागे रङ्गलेख समन्विते ।
प्रकीर्ण पुष्प प्रकरे सधुपेन च धूपिते ॥ ११ ॥
ज्वलद्दीपसमोपेते शुद्धशैव समावृते ।
लिखेद्वा श्रुणुयाद्वापि पठेद्वादौ शुचिर्नरः ॥ १२ ॥
नाशुद्धं लेखयेद्विद्वान्यथालिखित पाठकैः ।
शिवज्ञानस्य कालेन प्रणष्टस्य प्रमाणतः ॥ १३ ॥
ऊनानितिरिक्त वर्णस्य लिखितस्य प्रमादिभिः ।
प्रमादीकृत पाठस्य नाशितस्याल्प बुद्धिभिः ॥ १४ ॥
अल्पज्ञान समोपेतैराचार्यैः शोधितस्य च ।
व्यर्थैः पदैरुपेतस्य पुनरुक्ततस्य चार्थतः ॥ १५ ॥
पूर्वोत्तर विरुद्धस्य स्वसिद्धान्त विरोधिनः ।
छन्दसातीव नष्टस्य शब्दार्थ रहितस्य च ॥ १६ ॥
इत्येवमादिभिर्दोषैरुपेतस्य क्वचित् क्वचित् ।
यः करोति पुमान् सम्यक् संस्कारं देशिकः सुधीः ॥ १७ ॥
शिवतत्वार्थ विद्वान्यः स विद्या पारमेश्वराः ।
अध्यापयेच्छनैश्शिष्याः शिवभक्तान् ॥ १८ ॥
शिवविद्यानुसारेण विद्यादानं तदुच्यते ।
संस्कृतैर्द्रामिडैर्वाक्यैर्देशभाषा प्रकारकैः ॥ १९ ॥
प्राकृत प्रभवैः शब्दैविशुद्धैः संस्कृतैरपि ।
अत्र लौकिक शब्दैश्च यश्शिष्य मनुरूपतः ॥ २० ॥
देशभाषाद्युपायैश्च तथा भूतागमैरपि ।
प्रदेशवर्तिभिस्सर्व देशथं बोधयेद्यथा ॥ २१ ॥
यथा शिवस्य नैवान्तस्सम्पूर्णस्य महात्मनः ।
तथा विद्याप्रधानस्य नान्तस्सर्व गुणात्मनः ॥ २२ ॥
शिवान्तगुणमैश्वर्य विद्यादानस्य तत्फलम् ।
इहकीर्तिः श्रियो ब्राह्मी प्रज्ञा कान्तिर्धनं सुखम् ॥ २३ ॥
योऽशुद्धमात्मनाधीत्य ज्ञानमध्यापयेत्परम् ।
स याति नरकं घोरं पापीयाञ्ज्ञान नाशकः ॥ २४ ॥
शिववत् पूजयेद्भक्त्या शिवज्ञानप्रकाशकम् ।
प्रत्यहं लेखयोद्विद्वान् यथा शक्ति सुबुद्धिमान् ॥ २५ ॥
यावदक्षरं सङ्ख्यास्युः शिवज्ञानस्य पुस्तके ।
तावद्युतसहस्राणि दाता शिवपुरे नरः ॥ २६ ॥
दर्श पूर्वान् समुद्धृत्या दश वंश्यांश्च बुद्धिमान् ।
मातृः पितृन्धर्मपत्नीस्तैस्स्वर्गं समवाप्य च ॥ २७ ॥
स्वर्गे संस्थाप्य तान् सर्वान् स्वयं शिवपुरं व्रजेत् ।
अपि श्लोकं तदर्धं वा शिवज्ञानस्य यः पठेत् ॥ २८ ॥
वाचयेच्चिन्तयेद्वापि लिखेद्वा लेखयेत्तुवा ।
श्रुणुयादेकचित्तस्तु तदर्थं च विचारयेत् ॥ २९ ॥
अन्येभ्यः श्रावयेद्यस्तु तस्य पुण्य फलं महत् ।
शिवज्ञानाभियुक्तस्य भोजनाच्छादनादिभिः ॥ ३० ॥
आसमाप्तेस्तु संरक्षेद्विद्यादानफलं लभेत् ।
मूल्येन कारयेद्वाथ तदेव फलमश्नुते ॥ ३१ ॥
यस्य राष्ट्रे शिवज्ञान व्याख्यानं वर्तते द्विजाः ।
स राजा वर्धते स राजाधिप ऊर्जितः ॥ ३२ ॥
राज्ये राजगुरुत्वेऽपि सेनापत्येन्यकर्मणि ।
पुरोहितत्वे सर्वेषां राजकार्येऽन्यदर्शने ॥ ३३ ॥
शुद्धशैवो भवेद्योग्यस्स चेत्सान्तानिको वरः ।
यत्सिद्धान्ता विरोधेन वेदं वेदाङ्गमेव च ॥ ३४ ॥
तथा पाशुपतादीनि गारूडादीन्येनकधा ।
निश्चिनोति च शास्त्रार्थं स धर्मं वेत्ति नेतरः ॥ ३५ ॥
निश्चिनोतिच शास्त्रार्थं शुद्धशैव विरोधतः ।
बुद्धिस्यात्तामसीत्स्य स च धर्म बहिष्कृतः ॥ ३६ ॥
तस्मात्सिद्धान्त शैवेन शुद्ध शैव विदाररात् ।
शान्तिकं पौष्टिकं कर्म ज्ञेयं राज्ञा विशेषतः ॥ ३७ ॥
अन्येषामपि सर्वेषा माभिचारादिकम् तु वा ।
विधेयं धर्मनिष्टेन सान्तानिक वरेण तु ॥ ३८ ॥
तेनैवानुष्टितं कर्म फलदं सर्वदा नृणाम् ।
एवं विद्या प्रभावस्यात् स्थापनं वक्ष्यतेऽधुना ॥ ३९ ॥
त्रिहस्तं तु समारभ्य त्रस्त्रिंशत्करान्तिकम् ।
विद्याशाला विशालस्यात् प्रसादो वाथ मण्डपः ॥ ४० ॥
एक शालादि भेदेन शाला वा लक्षणान्विताः ।
विद्यापीठस्य विस्तार सप्ताङ्गुल विशालतः ॥ ४१ ॥
द्विव्द्यङ्गुल विवृद्ध्या तु स्यादेकत्रिंशदङ्गुलः ।
तेनायामस्समाख्यातः पञ्चाशत्करजान्तकः ॥ ४२ ॥
चतुरश्रस्समो वा स्यात् आयताश्रस्तु वा भवेत् ।
अन्यदासन विध्युक्त मार्गेण सकलं नयेत् ॥ ४३ ॥
संस्कारांश्च ततो विद्यात् प्रोक्षयेत्पञ्चगव्यतः ।
मण्डपे स्थण्डिलं कृत्वा वस्त्रोर्ध्वे तां निवेशयेत् ॥ ४४ ॥
आसनाद्यं शिवे यद्वन्मूर्तिमूर्तीश संयुतम् ।
शिवभेदे शिवः पूज्यो रुद्रभेदे स एव हि ॥ ४५ ॥
मध्यमे शिव कुम्भं तु पार्श्वयोर्वर्धनीद्वयम् ।
द्वयोरेकैव पूजास्यात् विद्येशान् बहिरावृतान् ॥ ४६ ॥
सम्पूज्य गन्धपुष्पाद्यैः होमं प्राग्वत्समाचरेत् ।
समिदाज्यतिलोपेतं हविषा च समन्वितम् ॥ ४७ ॥
यवेनाष्टोत्तरशतं हुत्वा पूर्णां समाचरेत् ।
सम्प्राप्त दक्षितणः कुर्यान्मन्त्रन्यासं गुरूत्तमः ॥ ४८ ॥
मध्यमेतु शिवं न्यस्त्वा देवीं पट्टिकयोर्न्यसेत् ॥ ४८१।२ ॥

इति उत्तरकामकाख्ये महातन्त्रे विद्यापीठ विधिर्नाम सप्तषष्टितमः
पटलः ॥

६८। अष्टषष्टितमे पटले दशायुध प्रतिष्ठा विधिः

दशायुध प्रतिष्ठां तु वक्ष्ये लक्षण पूर्वकम् ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ॥ १ ॥
गदा त्रिशूलं पद्मं च चक्रं चेति दशायुधम् ।
एक वक्त्रं द्विनेत्रं च करण्डमकुटान्वितम् ॥ २ ॥
कृताञ्जलिपुटोपेतं द्विबाहुं सर्वलक्षणम् ।
प्रतिमालक्षण प्रोक्तमानेनैव समाचरेत् ॥ ३ ॥
जाये शक्तिगदे ज्ञेये चक्रपद्मे नपुंसके ।
शेषाः पुमांसो विज्ञेयास्त्वष्टतालविनिर्मिताः ॥ ४ ॥
स्वर्मूध्न्यायुध संयुक्ताः स्वकीयादेकतालतः ।
तालाष्टाम्श विवृद्ध्या तु चतुस्तालावसनकम् ॥ ५ ॥
कल्पयेदायुधं विद्वान् अस्त्र वर्गोक्तमार्गतः ।
तेषां र्मूध्न्यायुधं कार्यमथवा मकुटोपरि ॥ ६ ॥
हस्तयोरन्तरे वापि वामेतरकरेऽपि वा ।
परित्यज्याङ्कुशं यद्वा तत्स्थाने कल्पयेध्वजम् ॥ ७ ॥
ततः प्रतिष्ठा कर्तव्या तद्विधानमिहोच्यते ।
रत्नन्यासं पुरा कुर्यान्नेत्र मोक्षणकं ततः ॥ ८ ॥
तर्पणं नेत्रयोर्धान्यदर्शनं मधु सर्पिषा ।
गव्याभिषेचितं शस्त्र मलङ्कृत्य नयेत्ततः ॥ ९ ॥
ग्रामप्रदक्षिणं नीत्वा शाययेज्जल मध्यमे ।
प्रागुक्त मण्डपं कृत्वा चतुर्द्वार समन्वितम् ॥ १० ॥
एक वेदि समोपेतं पृथग्वेदियुतं तु वा ।
मण्डपं दशसङ्ख्यातं प्रपा कुण्डसमन्वितम् ॥ ११ ॥
पूर्वस्मिन् स्व स्व दिक् कुण्ड संस्थानैरन्वितं यथा ।
एकस्मिन् मण्डपे त्वष्टदिक्कुण्डं परितो भवेत् ॥ १२ ॥
इन्द्रेशानान्तरे वृत्तं पितृ वारुण मध्यमे ।
वृत्त कुण्डं भवेदेवं कुण्डानि दश सङ्ख्यया ॥ १३ ॥
ब्राह्मणान् भोजयेद्वास्तुहोमं प्रत्येकमेव वा ।
पुण्याह प्रोक्षणान्ते तु स्थण्डिलं लक्षणान्वितम् ॥ १४ ॥
शयनं कल्पयेद्वस्त्रैरनेकैरेकतोऽपि वा ।
आसनं प्रणवं कृत्वा दर्भैः पुष्पैः परिस्तरेत् ॥ १५ ॥
जलानीतं च सुस्नातं पूजितं कृतकौतुकम् ।
शयने शाययेद् बिम्बं प्रदक्षिण शिरोन्वितम् ॥ १६ ॥
वस्त्रैराच्छादयेत्सर्वान् कुम्भान् संस्थापयेद् गुरुः ।
परितोष्ट घटान्वापि कलशान् प्राग्दिगादितः ॥ १७ ॥
स्वस्ववर्णैश्च मूलाणुं ब्रह्माण्यङ्गानि कल्पयेत् ।
मध्य कुम्भे च मूलाणुं दिक्षु ब्रह्माणि पूजयेत् ॥ १८ ॥
विदिक्ष्वङ्गानि सम्पूज्य वाप्तिं पुरुष गोचरम् ।
स्मृत्वा होमं स्वमन्त्रैश्च समिदाज्यतिलान्वितम् ॥ १९ ॥
हविषा पूर्णया युक्तं स्वाग्नौ स्व होममाचरेत् ।
पलाशोदुम्बराश्वत्थ वटा दिक्षु विदिक्षु च ॥ २० ॥
शमीखादिर मायूर श्रीवृक्षास्सम्प्रकीर्तिताः ।
पलाशो ब्रह्मणो विष्णोश्श्रीवृक्षसमिधोमताः ॥ २१ ॥
प्रातः पूर्णाहुतिं हुत्वा मन्त्रन्यासं समारभेत् ।
सम्पूज्य गन्धपुष्पाद्यैः नवेद्य सहितं यथा ॥ २२ ॥
स्नपनं कारयेन्नो वा तद्वदुत्सव एव हि ।
एवं यः कारयेन्मर्त्यः सर्वारिष्टैर्विमुच्यते ॥ २३ ॥

इति उत्तरकामिकाख्ये महातन्त्रे दशायुध प्रतिष्ठा विधिः
अष्टषष्टितमः पटलः ॥

६९। एकोनसप्ततितमे पटले त्रिशूल स्थापन विधिः

त्रिसूल स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
हैमराजत ताम्रैर्वायसेनाश्मादिभिस्तु वा ॥ १ ॥
गर्भगेहे नवांशेतु त्रिभागान्तं नवांशतः ।
महतामेक भागं तु शूलानां मानमिष्यते ॥ २ ॥
प्रत्येकमष्टधा भक्त्वानेकधा मानमेव च ।
द्वारस्तम्भो दया देव मानं वा परिभाव्यताम् ॥ ३ ॥
द्विहस्तादेकमात्रद्धर्या चतुर्हस्तान्तमेव वा ।
जात्यंशं पूर्ववन्नीत्वा कल्पयेद्देशिकोत्तमः ॥ ४ ॥
यल्लब्धं त्रिंशदंशादि शतान्तादनु भाजयेत् ।
भामेकं प्रयुञ्जीयाच्छुभायादि प्रसिद्धये ॥ ५ ॥
लौकिकं यौगिकं चेति द्विविधं शूलमिष्यते ।
यजमाननृपग्रामानुकूलं लौकिकं मतम् ॥ ६ ॥
जात्यायांशोझितं रुद्राक्षानुकूल समन्वितम् ।
अङ्गुलैर्निर्मितं यत्तु यौगिकं शूलमिष्यते ॥ ७ ॥
लौकिकं चान्यधामस्थ बेर साधारणं मतम् ।
युगिकं चान्यनगर स्थानकर्तृनुरूपि यत् ॥ ८ ॥
तदन्यत्रापि योज्यं वा प्रतिमास्वेवमेव वा ।
उत्सेधं दशधा कृत्वा व्योमद्वित्रिभ्रेव वा ॥ ९ ॥
तन्मध्याष्टंशमानं वा मध्य पत्रोच्चमानकम् ।
पादमान युतं वाथ तन्मानं च पृथक् पृथक् ॥ १० ॥
तत् त्रिंशदंशं कृत्वैव द्वित्रिवेदशरांशकैः ।
रससप्ताष्टनवभिः मध्यपत्रस्य विस्तरः ॥ ११ ॥
सङ्ग्राह्या पत्रमानं तु चतुरश्रं समं नयेत् ।
पत्रमानं विसृज्याथ पार्श्वयोरुभयोरपि ॥ १२ ॥
वृत्तकारं नयेत्तत्र पत्रमानेन वोभयोः ।
मध्यपत्र ततिर्यद्वत् पार्श्व पत्रततिस्तथा ॥ १३ ॥
चतुष्पञ्चषडंशोन वृद्धिर्वा तारमिष्यते ।
मध्यपत्राद् बहिश्चान्तर्मध्यसूर समाश्रयात् ॥ १४ ॥
पार्श्वपत्रे प्रकर्तव्ये कृशमूलाग्र संयुते ।
पत्रमूलबलार्धं च मूलाधारं विवर्धयेत् ॥ १५ ॥
अर्धपत्रं च पत्राग्रं तु कृशं भवेत् ।
पत्रतारेण चाग्रे तु तदर्धे नाथ पादतः ॥ १६ ॥
अधिकं वाथ तत्पार्श्व पत्राग्राभ्यां मनीश्वराः ।
पत्राग्र मध्यमं तद्वद्वशिष्टं वा प्रकल्पयेत् ॥ १७ ॥
तद्वन्मूलान्तं प्रोक्तं पार्श्व पत्र द्वयोरपि ।
पत्रतारं चतुष्पञ्चरस सप्ताष्ट भागतः ॥ १८ ॥
नवांशांशेन वा प्रोक्तं धनं पत्रेषु वान्यथा ।
यवार्धं तु समारभ्य यवपाद विवर्धनात् ॥ १९ ॥
अङ्गुलान्त प्रमाणं वा मध्य देशे धनं भवेत् ।
मध्य पत्रस्य मध्यात्तु हीनं तत्पत्रं पार्श्वकम् ॥ २० ॥
मध्यपत्रस्य मूलेऽग्रे मध्ये पार्श्वद्वयोरपि ।
एक द्वित्रियवैर्वापि निर्गतं मुकुलं नयेत् ॥ २१ ॥
पत्रायामं त्रिपञ्चांशं कृत्वैव द्वित्रिभागतः ।
पादायामस्तु मूले स्यात्तदर्धं पार्श्वपत्रयोः ॥ २२ ॥
तदर्ध विस्तरस्तस्य पादो वा परिकीर्तितः ।
द्विगुणो मध्यपादस्य विस्तारः पार्श्वपादतः ॥ २३ ॥
पत्राणां पादमूले तु कुर्याद्वा चित्रमण्डनम् ।
तस्याधः पालिका कार्या पत्रायामार्ध भागतः ॥ २४ ॥
हीनावैकेन रुद्रांशी द्विरिभिर्वर्धिताथवा ।
फलका विस्तृतिं भक्त्वा नवधैकेन वार्धतः ॥ २५ ॥
पादेन वा त्रिपादेन धनं चाधो द्विपङ्कजम् ।
एकेन कर्ण विस्तार इष्टाशेन मतो द्विजाः ॥ २६ ॥
पालिकार्धो घटाकार उत्सेधः स्यात् त्रिपादतः ।
तदर्धं च गलं प्राग्वत् कर्तव्यं मुनिपुङ्गवाः ॥ २७ ॥
पादोन कुम्भतारेण वार्धेनास्यं परकल्पितम् ।
घटवन्नाडिकामानं युघधा विभजेत्त तत् ॥ २८ ॥
एक भागान्तरं कुर्यात् तत्प्रमाणेन हीरिका ।
हीरिकाधः प्रकर्तव्यो दण्डस्तु विधिना द्विजाः ॥ २९ ॥
आस्यातारचतुर्भाग त्रिभागो दण्ड विस्तरः ।
तदर्धं लोहदण्डश्चेद् यथा शोभांशतोऽथवा ॥ ३० ॥
दण्डमूले तु पद्मं वा मध्यपत्रसमं तु वा ।
तदर्धं वान्तरेऽष्टांशे नवधा मानमेव वा ॥ ३१ ॥
विस्तारस्तत्समं तूच्चं त्रिपादं वार्धमेव वा ।
पादं वान्तर मानं वा तदुच्चे दशधा कृते ॥ ३२ ॥
पट्टिकेका त्रिभिर्द्वाभ्यां वांशैः कुशेशयम् ।
वृत्तं वा चतुरश्रं वा द्विमिश्रं वा प्रकल्पयेत् ॥ ३३ ॥
हीरिका सममानेन तस्योर्ध्वे पट्टिकाथ वा ।
मध्यपत्रस्य मध्येतु लिखेद्वाब्जं तु तन्मुखम् ॥ ३४ ॥
अथवा मध्य पत्रस्य मूले वृषभवाहनम् ।
पत्रोच्चनवभागैकद्वित्रिवेदशरोच्चकम् ॥ ३५ ॥
देव्या समायुतं वाथ वृषभेण युतं न वा ।
देवान्तरं वा लोकेशानस्त्रान्वेष्ट प्रमाणतः ॥ ३६ ॥
अथवा पालिकायास्तु विदिक्ष्वश्वत्थपत्रवत् ।
माला चतुष्टयं कुर्याद् तद्विहीनं तु वा द्विजाः ॥ ३७ ॥
टङ्कास्य युक्तं दण्डाग्रमथवा परिकल्पयेत् ।
पालिकोपरि कोणेषु कारयेद्वा वृषेश्वरम् ॥ ३८ ॥
शैलजे मृण्मये शूले विशेषः कश्चिदुच्यते ।
मध्यपत्र समायातं त्रिपादेनार्धतोऽपि वा ॥ ३९ ॥
पादेन मध्यमेऽष्टाम्श मानाद्वा दण्ड विस्तरः ।
विस्तारोच्च् समं तद्वद्विस्तार सममेव वा ॥ ४० ॥
यथा दण्डधनं प्रोक्तं प्रत्राणां वा धनं तथा ।
पादभूषण मण्ड्यादि पत्राधो वा प्रकल्पयेत् ॥ ४१ ॥
चतुरश्रिशिलायां तु शूलाकारं तु वा लिखेत् ।
त्रिशूलापरभागे तु वृषभं वा समालिखेत् ॥ ४२ ॥
अथवा दण्डमानेन पुरुषं जटिलं तु वा ।
पूर्वभागे परे दण्डं तदूर्ध्वे शूलमाचरेत् ॥ ४३ ॥
वृषाग्रे वृषपृष्ठे वा बलिपीठाग्र एव वा ।
सुदृढं स्थापयेच्छूलं तत्प्रतिष्ठा निगद्यते ॥ ४४ ॥
तदर्थमाहरेद् वृक्षाच्छूलार्थं ये प्रशंसिताः ।
प्रोक्तकालर्क्ष वाराद्यं तद्वदेवाङ्कुरार्पणम् ॥ ४५ ॥
सङ्घातमष्टबन्धाद्यैः कुर्याद्दण्डेन बुद्धिमान् ।
पद्मसङ्घात मार्गेण चोर्ध्वाधः खण्डयोरपि ॥ ४६ ॥
रत्नन्यासो न कर्तव्य स्तथा नयनमोक्षणम् ।
अचल स्थापनं चेत्तु रत्नन्यासं तु कारयेत् ॥ ४७ ॥
विद्यते प्रतिमाद्यं चेत् तस्य दृङ्मोक्षणं नयेत् ।
शुद्धिं कृत्वा मृदाद्यैस्तु पुरादीनां प्रदक्षिणम् ॥ ४८ ॥
जलाधि वासनं कृत्वा ततो मण्डपमाश्रयेत् ।
पूर्वोक्तमानं भूतेकग्रहकुण्ड समन्वितम् ॥ ४९ ॥
सन्त्यक्त तक्षकोपेतं विप्रभुक्त्या च पावनम् ।
वास्तु होमसमायुक्तं वेद्यां स्थण्डिल संयुतम् ॥ ५० ॥
शयनेनापि संयुक्तं पञ्चकेनाण्डजादिना ।
ततो बिम्बं समानीय स्नापयेत्पूर्ववर्त्मना ॥ ५१ ॥
कौतुकं बन्धयेत्पश्चात् पद्मपत्रेषु वा त्रिषु ।
बेरे च वृषभे चैव बन्धयेत् कौतुकं गुरुः ॥ ५२ ॥
शयने शाययेत् पश्चात् प्राक्शिरश्चोर्ध्व वक्त्रकम् ।
आच्छाद्य श्वेत रक्ताभ्यां वासोभ्यामस्त्रमुच्चरन् ॥ ५३ ॥
त्रिशूलस्य शिरोदेशे वस्त्रहेमकजान्वितम् ।
शिवास्त्रं संयजेत्तत्र चतुर्बाह्विन्दु भूषितम् ॥ ५४ ॥
चतुर्वक्त्रं ज्वलत्केशं त्रिणेत्रपरिमण्डितम् ।
स्वास्ये दंष्ट्रान्वितं शक्ति शूलाभयवरान्वितम् ॥ ५५ ॥
विद्युत्पञ्चनिभं भीममशनिध्वनि संयुतम् ।
द्विरष्ट वर्षेणोपेतं सुभासं स्वस्तिकान्वितम् ॥ ५६ ॥
यद्यस्ति प्रतिमा शर्वे शिवकुम्भं च वर्धनीम् ।
वृषो यद्यस्ति तत्कुम्भं तेषु तानर्चयेत्क्रमात् ॥ ५७ ॥
वज्रादीन् वसुकुम्भेषु परितः संस्थितेषु च ।
तत्व तत्वेश्वरोपेतं मूर्तिमूर्तीश्वरान्न्यसेत् ॥ ५८ ॥
पूर्ववत् प्रतिमायां च वृषे च गुरु पुङ्गवाः ।
दण्डमध्याग्र पत्रान्तं तत्वतत्वेश्वरान्यसेत् ॥ ५९ ॥
शूलस्य मूर्तयः प्राग्वत् वज्राद्या मूर्तिपा मताः ।
न्यस्त्वैवं मूर्ति मूर्तीशाञ्छिवास्त्रं विन्यसेद् गुरुः ॥ ६० ॥
ततस्तद्व्यापकत्वेन सर्वान्देवमनून्न्यसेत् ।
मध्य पत्रे न्यसेद्रुदं ब्रह्माणं दक्षपत्रके ॥ ६१ ॥
वामे विष्णुं समावाह्य पालिकायां तु पार्वतीम् ।
षण्मुखं कुम्भदेशे तु कुम्भस्यास्ये विनायकम् ॥ ६२ ॥
दण्डस्याग्रे तु शास्तार मादित्यान्दण्ड मध्यमे ।
तन्मूले चण्डाराजं च लक्ष्मीं पूर्वदलाग्रके ॥ ६३ ॥
दक्षिणे मातरः सप्त ज्येष्ठां पश्चिमदिग्दले ।
दुर्गा वै सौम्यदेशे तु रुद्रानर्कान्वसूनपि ॥ ६४ ॥
दण्डमूलेऽश्विनौ चैव अष्टादशगणांस्तथा ।
होमं कुर्यत्तदन्ते तु कृत्वा कुण्डाग्नि संस्कृतिम् ॥ ६५ ॥
समिदाज्यान्नलाजैश्च तिलसस्येन्द्र संयुतम् ।
पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिक्षु च ॥ ६६ ॥
पलाशस्त्वन्य कुण्डेषु स च सर्वत्र वा मतः ।
प्रधाने तर्पयेद्धीमान् शिवं साङ्गं गुरुत्तमः ॥ ६७ ॥
पूर्वस्मिन्पार्वतीं दक्षे ब्रह्माणं विष्णुमुत्तरे ।
सेनानीं पश्चिमे कुण्डे रवीनग्निदिशि स्थितौ ॥ ६८ ॥
विघ्नेशं नै-ऋते वायौ मदनं चण्डरुद्रकम् ।
ईशान कुण्डे पूर्वस्मिन् लक्ष्मीं दक्षे तु मातरः ॥ ६९ ॥
ज्येष्ठां तु पश्चिमे कुण्डे दुर्गामुत्तरतो दिशि ।
तद्दिङ्मूर्त्यादि संयुक्तं पूर्व सङ्ख्या समन्वितम् ॥ ७० ॥
रुद्रार्क वसवोऽश्विन्यौ अष्टादश गणा अपि ।
एकैकाहुति दानेन तर्प्याः कुण्डे प्रधानके ॥ ७१ ॥
वृषारूढादि देवांश्च पूर्ववत् तर्पयेत् गुरुः ।
वज्रादीन् पङ्कजे सर्वान् देवान् प्राग्वन्निवेशयेत् ॥ ७२ ॥
तत्तत् कुम्भजलैश्चैव स्नापयेच्छूलमादरात् ।
स्नपनं भूरि नैवेद्यमुत्सवं कारयेच्चले ॥ ७३ ॥
अनुक्तमत्र सङ्ग्राह्यं सामान्यस्थापनोदितम् ।
त्रिशूल स्थापनं ह्येवं कुर्याद्यो नर सत्तमः ॥ ७४ ॥
भुक्त्वा भोगानिहैवान्ते मोक्षं चैव समाप्नुयात् ॥ ७४१।२ ॥

इति उत्तर कामिकाख्ये महातन्त्रे त्रिशूलस्थापन विधिर्नाम एकोन
सप्ततितमः पटलः ॥

७०। सप्ततितमे पटले सिंहासन प्रतिष्ठा विधिः

सिंहासन विधिं वक्ष्ये श्रूयतां द्विजसत्तमाः ।
देवादीनां जृपादीनां मर्त्यानां च महात्मनाम् ॥ १ ॥
देवाद्याः शिवपूर्वाःस्युः नृपाद्या बहवो मताः ।
चक्रवर्ती भवेदाद्यस्त्वधिराजो द्वितीयकः ॥ २ ॥
तृतीयः स्यान्नरेन्द्रस्तु तेषां लक्षणमुच्यते ।
चतुःसमुद्रपर्यन्तं पृघ्वीं यः परिपालयेत् ॥ ३ ॥
चक्रवर्ती समाख्यातः सप्तराज्यं प्रपालयेत् ।
अधिराज्स्समाख्यातस्त्रिराज्यं यस्तु पालयेत् ॥ ४ ॥
नरेन्द्रः सति विज्ञेयस्त्वन्येऽपि बहवो मताः ।
पार्णेय प्रमुखास्तेषाम् आसनानि बहून्यपि ॥ ५ ॥
द्वारोत्सेध त्रिभागेन उत्तमं हीनमर्धतः ।
व्द्यन्तरं त्वष्टधा कृत्वा नवोत्सेधाः प्रकीर्तिताः ॥ ६ ॥
द्वारोदयसमं वाष्ट नवभागोनमेव वा ।
नरेन्द्र सदृशं तस्य बाहूरुनाभिदघ्नजम् ॥ ७ ॥
प्रदेशमानमेतत् स्यान्नृपाणामेव कीर्तितम् ।
तिथ्यङ्गुलं समारभ्य द्विव्द्यङ्गुल विवर्धनात् ॥ ८ ॥
पञ्चपञ्चाशदंशान्तं तुङ्गानि कथितानि तु ।
उत्सेध सदृशो वाथ त्रिपादोऽर्धस्तु वा मतः ॥ ९ ॥
विस्तारो व्द्यन्तरं कृत्वा चतुर्धा नवमानकम् ।
हीनानां हीनमानं स्याच्छ्रेष्ठानं सर्वमिष्यते ॥ १० ॥
चतुरश्रायताश्रं वा सिंहपीठं विधीयताम् ।
चतुरश्रं समं वृत्तं द्युसदां चक्रवर्तिनाम् ॥ ११ ॥
अष्टमांशं समारभ्य तद्वृद्धया द्विगुणाधिकम् ।
सिंहासनायतं कुर्याद् अङ्गुलैवथकारयेत् ॥ १२ ॥
अङ्गुल द्वयमारभ्य द्विव्द्यङ्गुल विवर्धनात् ।
द्विगुणान्तंविधेयं स्यादायामेऽप्येवमीर्तम् ॥ १३ ॥
पाद बाह्यं तु देवानां तन्मध्ये चक्रवर्तिनाम् ।
अन्येषामपि सर्वेषां पादान्तं मानमिष्यते ॥ १४ ॥
सर्वं सर्वेषु वा ग्रायं पादविस्तार उच्यते ।
सार्धाङ्गुलं समारभ्य वर्धयेदर्ध मात्रतः ॥ १५ ॥
पञ्चाङ्गुलान्तं तद्भित्तेः पाद वेदाम्श निर्गमात् ।
यथा बलं यथा शोभं भित्तिस्तत्र विधीयताम् ॥ १६ ॥
एकत्रिपञ्चमुनयो विस्तारे भक्त्यो मताः ।
दैर्घ्यैर्नवाधिकाः प्रोक्ताः पूर्वोक्ताः भक्तयो द्विजाः ॥ १७ ॥
पादानामन्तरे पादा भवेयुरुपपीठके ।
पादे पादान्तरेऽन्यत्र सिंहरूपाणि कारयेत् ॥ १८ ॥
मकरैर्नक्रकैः पत्रैर्नानाचित्रैर्विचित्रयेत् ।
सिंहासन त्रिभागेन चतुर्भागे न वा त्वधः ॥ १९ ॥
एकद्वित्रिचतुर्मात्रिः विस्तारादधिकं ततः ।
उपपीठं विधेयं स्यात् तद्रूपमिह कथ्यते ॥ २० ॥
स्थावरं जङ्घमं चैव द्विविधं तदुदाहृदम् ।
मृत्पाषाण कुजैर्दन्तैल्लोहैर्वा सुधयाथ वा ॥ २१ ॥
शैलं नेष्टं नराणां स्यात् सर्वं देवेषु योग्यकम् ।
दन्त वृक्ष कृतं यच्च स्वर्ण रत्नैर्विचित्रितम् ॥ २२ ॥
राज्ञां सिंहासनं श्रेष्ठं तल्लक्षणमिहोच्यते ।
त्रिनवांशे तदुत्सेधे क्षेपणं पङ्कजं लगलम् ॥ २३ ॥
वेत्रं तलं च पद्मं च कुमुदं पद्मपट्टिके ।
वेत्रं कर्णं च वेत्रं च कम्पं पत्रं कपोतकम् ॥ २४ ॥
वेत्रं कर्णं च निद्रा च मसूराधार पट्टिका ।
सप्तैकार्धांशकार्धैर्वा व्योम वेदांशकार्धकः ॥ २५ ॥
अर्धांशार्धार्धपादैश्च अर्धार्धधैश्च सार्धकैः ।
अर्धेनैकोनविंशाऽंसं भद्रकं परिकीर्तितम् ॥ २६ ॥
त्रिंशदंशे तदुत्सेधे वेदार्धे द्वन्द्व सार्धके ।
सार्धार्द्धाम्श विभागार्धैरेकार्धाष्टाम्श सार्धकैः ॥ २७ ॥
अर्धार्धव्द्यर्धकार्धैश्च व्योमार्धैरनुपूर्वशः ।
पद्मं कम्पं च कर्णं च कम्पं च वाजनम् ॥ २८ ॥
पद्मं कम्पं च कर्णं च कण्ठं निद्रा च पट्टिका ।
अङ्घ्रिरुत्तर पट्टी च निद्रा पद्मं कपोतकम् ॥ २९ ॥
आलिङ्गान्तरिते चैव प्रतिवाजन मूर्ध्वतः ।
एतत्सौम्यं समाख्यातं त्रिसप्ताङ्गै स्समायुतम् ॥ ३० ॥
एत देव मुखे पृष्टे सौभद्रं संयुतम् ।
पार्श्वयोर्भद्रयुग्मं चेच्छ्रीवहं परिकीर्तितम् ॥ ३१ ॥
पञ्चा नामासनानां तु विजिः पृष्ठे विधीयताम् ।
आसन व्यासतुङ्गाढ्या मसूराधार वेशिनी ॥ ३२ ॥
यथेष्टोन्नत विस्तारा विधेया वा द्विजोत्तमाः ।
तद्विस्तार विभागेन मध्ये मकर तोरणम् ॥ ३३ ॥
पद्माभिषेक सम्पन्ना कार्या तोरण मध्यमे ।
तोरणाङ्घ्रिः स्वविस्तार निर्गता नक्रपट्टिका ॥ ३४ ॥
मुष्टि बन्धोपरिक्षिप्त व्यालमस्तक संस्थिता ।
कम्प क्षेपकपोताद्यैर्बहुभिर्भूषयेत् द्विजाः ॥ ३५ ॥
मकरैर्नक्रकाद्यैश्च नानाचित्रैविचित्रयेत् ।
अयोमयांस्तु नाराचान् कीलान् पट्टांश्च योजयेत् ॥ ३६ ॥
स्वर्णनिर्मितं पट्टाद्यैः रत्नैर्वाथ विचित्रयेत् ।
कुर्यात्तोरण पृष्टे तु कल्प वृक्षं सुवर्णजम् ॥ ३७ ॥
नानारत्नसमोपेत मनन्तफण संयुतम् ।
विजिं हि त्वाथवा कुर्यात् कल्पवृक्षं तु केवलम् ॥ ३८ ॥
वितोरणा विजिर्वाथ आसनं केवलं तु वा ।
पञ्चाङ्गमुपपीठं यत् पद्मकाधो नियोजयेत् ॥ ३९ ॥
पद्मकादि चतुर्णां स्यात् द्वादशाङ्ग मुपासनम् ।
उपपीठ दशांशे तु वेदांशैः कण्ठ उच्यते ॥ ४० ॥
क्षुद्रकम्पौ तदूर्ध्वाधोभागेन द्व्यंशमानतः ।
महाकम्पौ विधातव्यौ पञ्चाङ्गमुपपीठकम् ॥ ४१ ॥
चतुर्शांशके तुङ्गे द्व्येकार्धार्ध चतुष्ट्यैः ।
अर्धार्धकैर्द्विचन्द्रैश्च अर्धार्धाभ्यामनुक्रमात् ॥ ४२ ॥
पादुकं पङ्कजं वेत्रं कम्पं कण्ठं च वेत्रकम् ।
वेत्राब्ज वाजनं पद्मं कम्पं वेत्रमनुक्रमात् ॥ ४३ ॥
द्वादशाङ्गमिदं कुर्याद् उपपीठं मनोहरम् ।
चतुःसप्तांशके तुङ्गे जगती पङ्कजम् गलम् ॥ ४४ ॥
वेत्रं गलं च पद्मं च कुमुदं पद्म कम्पके ।
वेत्रं गलं च वेत्रं च कम्पं निद्रा कपोतकम् ॥ ४५ ॥
आलिङ्गान्तरिते चोर्ध्वे प्रतिवाजनमेव च ।
ऊर्ध्वे मसूरकाधार पट्टिका मूलतः क्रमात् ॥ ४६ ॥
सार्धांशकैस्तथकेन अर्धकार्धार्धकार्धकैः ।
द्व्यर्धार्धार्धक सप्तांशैः अर्धार्धार्धत्रिभागतः ॥ ४७ ॥
अर्धार्धैकार्धकैश्चैव श्रीकान्तमितिकीर्तितम् ।
एत देव गलाधस्तान्नेत्रार्धैकार्ध भागतः ॥ ४८ ॥
कर्णं च वाजनं निद्रा वेदिका पद्मकम्पकम् ।
योजयेद् वृत्तकान्तं स्याद् द्वात्रिंशद्भागनिर्मितम् ॥ ४९ ॥
उच्चे नवदशांशेऽर्धे सार्धैर्वेदार्ध कार्धकैः ।
त्रिभागार्धार्ध वेदार्धैरर्धद्व्यर्धार्ध कांशकैः ॥ ५० ॥
पादुकं पङ्कजं दृक् च पङ्कजं कुमुदपङ्कजम् ।
वाजनं पद्मवेत्रं च पङ्कजं वाजनं कजम् ॥ ५१ ॥
वेत्र च वाजनं मूलाद् द्विसप्ताङ्गमुदाहृदम् ।
श्रीकान्तादि चतुर्णां स्याद् अष्टाङ्गमुपपीठकम् ॥ ५२ ॥
नेत्रैकार्ह चतुर्भागैः अर्धार्धनयनार्धकैः ।
पादुकं पङ्कजं वेत्रं पद्मवेत्रं च वाजनम् ॥ ५३ ॥
पट्टिका वाजनं चैव तत्तुङ्गे रुद्रभाजिते ।
अष्टाङ्गमुपपीठं स्यात् सर्व सर्वत्र वा मतम् ॥ ५४ ॥
प्रासाद लक्षणे पूर्वं कथितानि बहूनि च ।
अधिष्टानि सर्वाणि सोपपीठानि यानि च ॥ ५५ ॥
सङ्ग्राह्याणि च तानीह देशिकैर्नियमावृते ।
अवलम्बित पादस्याद् देवादीनां विशेषतः ॥ ५६ ॥
सिंहासनाङ्ग संश्लिष्टं पादपीठं विधीयताम् ।
सिंहासन विशालोच्च चतुर्थाम्श प्रमाणतः ॥ ५७ ॥
कण्ठोर्ध्वाशः कृतः कम्पपद्म कम्पैर्विचित्रकम् ।
यथा शोभांशमानेन सप्ताङ्गैर्वृत्त सन्निभम् ॥ ५८ ॥
यवादारभ्य मात्रान्तं वृद्धिर्हानिर्विधीयताम् ।
आसनानि च सर्वाणि सभद्राण्यथवा नयेत् ॥ ५९ ॥
पादमर्थं त्रिपादं व समं तस्याङ्ग निर्गमम् ।
प्रवेशं च तथा कुर्याच्छो भाबलवशेन वा ॥ ६० ॥
आसनानां च सर्वेषामायादि विधिरुच्यते ।
परिधिं विपुलं दैर्घ्यं तुङ्गं सकलमेव च ॥ ६१ ॥
बन्धवेदचतुर्बन्ध ग्रहैश्च गुणयेत् क्रमात् ।
सप्तभूतर्क्षमूर्त्यब्धि सङ्ख्यैर्भागान् हरेद् गुरुः ॥ ६२ ॥
आयो व्ययश्च नक्षत्रं योनिर्वारो विशेषतः ।
शाकस्सालश्च पनसः शिंशुपश्चन्दनासने ॥ ६३ ॥
तिन्दुकोऽर्जुनतालौ च निम्बश्च सुरभुरुहः ।
लिकुचस्सहकारश्च कुटजः कट्फलस्तथा ॥ ६४ ॥
श्री पर्णी जाति वृक्षा ये क्षीर वृक्षाश्चतुर्विधाः ।
जम्बूश्चैव मधूकश्च वैकङ्कत समाह्वयः ॥ ६५ ॥
आसनार्थं च सङ्ग्राह्या द्रव्यग्रहणमार्गतः ।
एवं सिंहासनं कृत्वा संस्कुर्यात् तदनरम् ॥ ६६ ॥
कालश्च पूर्ववत् प्रोक्तो यजमानानुकूलतः ।
शिल्पिनं च विसृज्याथ पुण्याहप्रोक्षणान्तरम् ॥ ६७ ॥
पञ्च गव्येन सम्प्रोक्ष्य हृन्मन्त्रं समुदीरयन् ।
अष्टमृत्सलिले नैव क्षालयेत् कुश वारिणा ॥ ६८ ॥
शुद्धोदकेन संस्नाप्य ब्रह्मपञ्चकमुच्चरन् ।
पुनर्गन्धोदकेनैव स्नापयेत्तदनन्तरम् ॥ ६९ ॥
स्थण्डिलोर्ध्वे च तन्न्यस्त्वा वस्त्रैराच्छादयेत्कुशैः ।
गन्धैः पुष्पैश्च धूपैश्च तन्मत्रेण समर्चयेत् ॥ ७० ॥
सिंहासन पदं चोक्त्वा चतुर्थ्यन्त सदीपकम् ।
नमस्कार समोपेतं स्वबीजेन समन्वितम् ॥ ७१ ॥
मन्त्रमेवं समुचार्य पूजयेद्देशिकोत्तमः ।
तस्याग्रे स्थण्डिलं कृत्वा जुहुयात्समिदादिभिः ॥ ७२ ॥
समिदाज्यचरूंश्चैव तिललाज समन्वितम् ।
शतमष्टोत्तरं हुत्वा तन्मन्त्रं समुदीरयन् ॥ ७३ ॥
पूर्णाहुतिं ततः कृत्वा शान्तिकुम्भाम्भसा गुरुः ।
सिंहासनं समुभ्युक्ष्य गन्धाद्यैः पूजयेत्पुनः ॥ ७४ ॥
स्नातं शुक्लाम्बरधरं मकुटेन विभूषितम् ।
सर्वाभरण संयुक्तं छत्र चामर संयुतम् ॥ ७५ ॥
सुमुहूर्ते सुलग्ने च राजानमधिरोपयेत् ।
नरेन्द्रासन संस्कारस्त्वेवं देवे विशिष्यते ॥ ७६ ॥
मूर्तिमूर्तीशविन्यासं तत्वत्वेस्वरान्वितम् ।
तद्देव होम संयुक्तमासनाणुभिरन्वितम् ॥ ७७ ॥
आधारशक्ति पूर्वैस्तु शिवासन पदान्तकैः ।
अष्टदिक्वष्ट कुम्भांश्च मध्यमे शक्रशर्वयोः ॥ ७८ ॥
प्रधान कुम्भं संस्थाप्य स्वर्णवस्तादिभिर्युतम् ।
शिवासनाणु मध्ये च लोकपान् परितो यजेत् ॥ ७९ ॥
एवमादौ च सम्पूज्य ततो होमं समारभेत् ।
सन्तर्प्यासन मन्त्रास्तु पूर्णान्ते देशिकोत्तमः ॥ ८० ॥
सर्वानासन मन्त्रांस्तु न्यस्त्वा सिंहासने गुरुः ।
शिवासनाणुं तन्मध्ये कुम्भस्थं विनिवेशयेत् ॥ ८१ ॥
संस्थाप्य कुम्भतोयैश्च लोकपान्परितो न्यसेत् ।
सम्पूज्य गन्ध पुष्पाद्यैस्तैर्मन्त्रैश्च गुरूत्तमः ॥ ८२ ॥
संस्नाप्य देवदेवेशं विशेषार्चन संयुतम् ।
सुमुहूर्ते सुलग्ने तु देवेशमधिरोपयेत् ॥ ८३ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ।
दक्षिणां च यथाशक्ति दापयेद् गुरुमूर्तये ॥ ८४ ॥
अन्येषामासनानां च प्रमाणमभिधीयते ।
सुवर्णं रजतं ताम्रमारकूटं च कांस्यकम् ॥ ८५ ॥
मिश्रलोह शिलावृक्षमृत्सुधारत्न सम्भवम् ।
दन्तजं क्षुद्रसिद्ध्यर्थं त्रपुसीसायसादिकम् ॥ ८६ ॥
पीठार्थं द्रव्यमुद्दिष्टमेवं चेत्तद्वशेन तु ।
द्वित्र्यङ्गुलं समारभ्य चैकाङ्गुल विवर्धनात् ॥ ८७ ॥
पञ्चाशनमानजातं तु विस्तारे मानमीरितम् ।
सपादं सार्धमष्टांशाधिकं पादत्रयादिकम् ॥ ८८ ॥
द्व्यङ्गुलं वाङ्गुलर्द्ध्या तु शताङ्गुल समावधि ।
आयामे मानमुद्दिष्टं पादानं मानमुच्यते ॥ ८९ ॥
एकमात्रं समारभ्य व्योममात्र विवृद्धितः ।
पञ्चाशत्करजान्तं तु पादायामः प्रकीर्तितः ॥ ९० ॥
अर्धाङ्गुलं समारभ्यं पादाङ्गुल विवृद्धितः ।
विस्तारे विश्वमात्रान्तः पादायामः प्रकीर्तितः ॥ ९१ ॥
पादाश्च ऋजवो येस्युस्सिंहव्याल वृषात्मकाः ।
भूताभाः खरपादाभास्सचक्रा स्स्हजा न वा ॥ ९२ ॥
पक्ष्याभा मनुजाभावा शेषसत्वाकृतिस्तु वा ।
ते च सिंहासनाः कार्याः पद्मपीठोपरि स्थिताः ॥ ९३ ॥
केवला वाथवा कार्या स्वशिरः पादसंयुताः ।
अन्तर्वक्त्रा बहिर्वक्त्राः पादभूषायुता न वा ॥ ९४ ॥
नाना पट्टैश्व न्वेत्रैश्च वाजनैर्हिरिकादिभिः ।
पत्रैः पद्मदलैश्चैव रत्नाद्यैरूपशोभिताः ॥ ९५ ॥
तदाननेलिकां वाथ फलकां वाथ योजयेत् ।
तत्पादैश्छेद संयुक्तैरुर्ध्वाधः स्थोच्चसंयुतैः ॥ ९६ ॥
पादोर्ध्व फलका वाथ योजनीया यथेष्टतः ।
यवाद्यवार्ध वृद्ध्या तु रुद्रमात्र समावधि ॥ ९७ ॥
फलकासनमाख्यातं स्वर्णादीनां यथार्हकम्
वाजनैः पद्मपत्रश्च क्षेपणैर्हीरिकादिभिः ॥ ९८ ॥
रत्नबन्ध सरोजैश्च नानावेत्रदलैरपि ।
फलकां भूषयेद्वाथ केवला फलकाथवा ॥ ९९ ॥
तदूर्ध्वे गुलिकापादान् नानाकम्प समन्वितान् ।
नाना नाटक संयुक्तानयः कीलसमन्वितान् ॥ १०० ॥
नानापट्टैश्च पुष्पैश्च योजयेत्सदृढं न वा ।
चतुरश्रं सुवृत्तं वा तत्दायतमेव वा ॥ १०१ ॥
अष्टाश्रं षोडशाश्रं वा त्रिपञ्चाश्रादि सन्निभम् ।
आसनं सुविधेयं स्यात् तत्पादाश्चापि तादृशः ॥ १०२ ॥
त्रिचतुष्पञ्चापादाद्या योजनीया यथेष्टतः ।
चतुष्पादशिरः पुच्छयुक्त कूर्मो यथा भवेत् ॥ १०३ ॥
तथा कूर्मासनं कुर्यात् अन्यदप्येवमूह्यताम् ।
स्वर्णैश्शार्दूल चर्माद्यैः समन्ताच्छादयेन्न वा ॥ १०४ ॥
सिंहासनोक्तमार्गेण भवेदायादि लक्षणम् ।
फलकान्तं भवेन्मानं परित्यक्तोर्ध्वकर्मणाम् ॥ १०५ ॥
तद्युक्तानां तु तद्बाह्ये पाद्बाह्यानां तु मानकम् ।
एतेषामासनानां तु संस्कारः प्रागुदीरितः ॥ १०६ ॥

पूर्वोक्त विधिना कुर्यात् आयादीनां च लक्षणम् ॥ १०६१।२ ॥

इति उत्तर कामिकाख्ये महातन्त्रे सिंहासन प्रतिष्ठा विधिः सप्ततितमः
पटलः ॥

७१। एकसप्ततितमे पटले रथादि स्थापन विधिः

रथादि स्थापनं वक्ष्ये तल्लक्षण पुरस्सरम् ।
रथोऽनेकविधः प्रोक्तस्सच चक्र विभेदतः ॥ १ ॥
त्रिचक्रोवा चतुश्चक्रो पञ्च षट्सप्त चक्रयुक् ।
नवाष्ट चक्र युक्तो वा द्विचक्रश्शकटाह्वयः ॥ २ ॥
त्रिचतुः पञ्चषट्सप्त वसुग्रह वितस्तयः ।
भारवाह्य विशालं स्यात् तदायामश्च कथ्यते ॥ ३ ॥
अक्षोन्तरं समाख्यातम् उपधानं द्विजोत्तमाः ।
पोतिकाकरवत् ख्यातं भारतारघनान्वितम् ॥ ४ ॥
भाअरबाह्य विशालार्ध दैर्घ्यं पादाधिकन्तुवा ।
पादहिनोपयुक्तंवा तदन्तर्मान षट्कयुक् ॥ ५ ॥
इदमक्षोत्तरं कार्यं भाराधो द्विजसत्तमाः ।
यत्र यत्र च भाराक्षं संयोगस्तत्र कथ्यते ॥ ६ ॥
अयः पट्टैश्च कीलैश्च स्वाग्रकीलैः महत्तरैः ।
बन्धयेत् स्व स्व रक्षार्थं यथा दृढतरं भवेत् ॥ ७ ॥
तदधस्त्वक्षरक्षार्थं स्व स्व मध्यम पार्श्वयोः ।
स्वस्वतारसमाः कार्या शिखास्तारार्ध वाहलाः ॥ ८ ॥
अक्षवधि विलम्बिन्य स्त्वयः पट्टैर्दृढीकृताः ।
प्रतिचक्रं विधेयास्स्युस्समा वा विषमास्तु वा ॥ ९ ॥
शिखां विधाय वास्त्वाध स्वल्पच्छेदसमन्वितम् ।
अक्षोर्ध सम्प्रवेशार्थ मुपाधानन्तु वा नयेत् ॥ १० ॥
अक्षेस्वप्युपधानार्थं प्रवेशार्थन्तु ह्रासयेत् ।
भारबाह्य विशालन्तु षष्टिभागं विभाजयेत् ॥ ११ ॥
तत्समं वाधिकं षष्ट्या व्योम भाग विवर्धयेत् ।
पादोन द्विगुणं दैर्घ्यं मूल मेतदुदाहृतम् ॥ १२ ॥
तदग्रपृष्ट भागार्धं वसुभागाद्विवर्धयेत् ।
भागैकेन त्रिपादार्धमायामे परिकल्पयेत् ॥ १३ ॥
समोप भद्रे कर्तव्ये तदग्रे वाथ वाश्रिते ।
तयोरपि प्रमाणन्तु पादोक्त विधिनामतम् ॥ १४ ॥
अधिकं वाग्र भद्रन्तु पृष्ठ भद्रात् शिवाग्रजाः ।
केवलं भद्रमिष्टंवा भद्राग्रेष्विष्टमानतः ॥ १५ ॥
ब्रह्मासनं विधेयं वा रहितं वा समाचरेत् ।
भद्रोपभद्रयोर्मानं समं वाप्यधिकन्तुवा ॥ १६ ॥
रथ भद्रोप भद्राणां मानं यन्मीलितं भवेत् ।
तत्सर्वं भारदैर्घ्यं स्यात् भारे सन्धिर्नकारयेत् ॥ १७ ॥
त्रिचौतुःपञ्चषट्सप्तभाग बाहुल्य संयुताः ।
द्वित्रिवेद महाभूत भाग विस्तार संयुताः ॥ १८ ॥
द्विसङ्ख्यादि नवान्ताश्च भारास्त्वक्षोत्तरोपरि ।
त्रिचतुःपञ्चषट्सप्त विस्तारानर्धनीव्रकान् ॥ १९ ॥
योजयेदन्तरे चैषामन्यान्विष्टान् बलार्थकान् ।
भारेषुयोजयेद्विष्टानग्रे पृष्ठेऽन्तरे यदि ॥ २० ॥
प्रत्यक्षमूर्ध्व स्वच्छिद्र बन्धपञ्चक संयुतान् ।
चतुर्भागं समारभ्य भागस्याष्ट दशावधि ॥ २१ ॥
विस्तारं बहुलं कुर्याद्दक्षाणां भारवाहिनाम् ।
चक्रेनेम्यन्तरं व्योम भागात् भाग विवृद्धितः ॥ २२ ॥
दशभागा वशानन्तु चक्रनेमि घनञ्चयत् ।
तत बहिश्च शिखामानं भारनेम्यन्तरं समम् ॥ २३ ॥
एतत् सर्वञ्च दैर्घ्यंस्यादक्षाणां गुरुसत्तमाः ।
वृत्तान्यश्राणिवाकुर्या दक्षाणि गुरुसत्तमाः ॥ २४ ॥
पञ्चग्राहि समाविद्धिस्वमध्य मयुतानिवा ।
पञ्चाङ्गमिति कार्याणि दारुणा वायसादिभिः ॥ २५ ॥
यथाबलं विशालानि तथा विधधनानिच ।
चक्राणान्तु प्रमाणन्तु बाह्यं भारान्तरं मतम् ॥ २६ ॥
एकद्वित्रिचतुष्पञ्च षट् भागोनन्तुवाधिकम् ।
द्विगाभाद्वसुभागान्तञ्चक्राणां धनमीर्तितम् ॥ २७ ॥
एकद्वित्र्यङ्गुलान्धिक्यन्नाभिदेशे भवेत् द्विजाः ।
तथैव बाह्येनम्याश्च तयोर्मध्येऽरकानि च ॥ २८ ॥
मूलाग्र कृशयुक्तानि व्योम द्वित्र्यंशकानि च ।
त्रिरष्टभ्योष्ट वृध्यातु चतुष्षष्ट्यन्तकानि च ॥ २९ ॥
सारथिः षण्मुखो वास्यादथ नन्दीशरोथवा ।
ब्रह्मा रथाङ्ग पाणिर्वा शक्रो वा मुनिपुङ्गवाः ॥ ३० ॥
भारोर्ध्वमुपपीठं स्यात्तन्मानमिह कथ्यते ।
एकभागा द्विकारान्त मेकभाग विवर्धनात् ॥ ३१ ॥
तदुपानाद्विनिष्क्रान्ति भार बाह्यादथांशतः ।
भारबाह्य विवृध्यातु रसभागावसानकाः ॥ ३२ ॥
एकोन त्रिंशदंशं वा तदुच्चं विभजेत् गुरुः ।
गुण चन्द्र महाभूत व्योमनन्द वियद्गुणैः ॥ ३३ ॥
त्रिभागे नैक भागेन मूलादारभ्य कारयेत् ।
उपान पद्मकम्पानि कम्पं कर्णञ्च कपकम् ॥ ३४ ॥
पद्मञ्च वाजनं कम्पं दृष्टान्तार्थ मुदाहृतम् ।
पादोनार्धेन भागेन त्रिभागेन द्विभागतः ॥ ३५ ॥
त्रिभागेन चतुर्भागैरूनं वाप्यधिकन्नयेत् ।
एषां प्रवेशो निष्क्रान्तिः शोभाबलवशात् भवेत् ॥ ३६ ॥
धामोक्तमुपपीठंयत् सर्वमत्र विधीयताम् ।
चतुष्कोणेषु मध्येषु तथा भद्रोप भद्रयोः ॥ ३७ ॥
गुलिका पाद पादैश्च नाटकैः भूषयेत् गलम् ।
उपपीठोच्छ्रयान्तम् वा कर्तव्यमुप भद्रकम् ॥ ३८ ॥
उप भद्रोर्ध्वतः कुर्यात् फलकाच्छादनं दृढम् ।
फलका भार मध्यन्तु पादाद्यैः परिभूषयेत् ॥ ३९ ॥
फलका मध्य भारान्तं योजयेत् पद्मकुङ्मलम् ।
सनालन्नालमानन्तु द्विसप्तत्र्यङ्गुलोर्ध्वतः ॥ ४० ॥
शताऽंसान्तं समुद्दिष्टं तन्मूलं वेद भागतः ।
वस्वं शान्त धनोपेतं वृत्तावाष्टाश्रमेववा ॥ ४१ ॥
षडर्कभागपर्यन्त हीनाग्रं तत्र वक्रयुक् ।
कुम्भ मण्डि संयुक्तं युक्तं वा गण्डिकाद्वयोः ॥ ४२ ॥
पद्मं फलकयायुक्तं तदूर्ध्वं पद्मकुड्मलम् ।
तच्च वेदांशमारभ्य व्योमभाग विवृद्धितः ॥ ४३ ॥
वस्वं शान्ताय संयुक्तं तद्विस्तारोदरान्वितम् ।
तत्रिपाद विशालं वा तदन्तस्सममानकम् ॥ ४४ ॥
कृशाग्रं वृत्तमष्टाश्रं फूल्ल वाह्य दलन्तु वा ।
बहिः करणमेवं स्यादत्रान्तं करणं द्विजाः ॥ ४५ ॥
भारोर्ध्वे वाजनं कुर्यादल्पनिर्गमनान्वितम् ।
यथेष्टबहुलोपेतं तदूर्ध्वे वाजनान्तरम् ॥ ४६ ॥
तद्विनिर्गमनोपेत मुपपीठं गलावधि ।
द्वाभ्यामेकेन वा कुर्याद्दारुभ्यान्दारुणाद्विजाः ॥ ४७ ॥
तत्सम्बन्धे विधातव्येष्टिकेक्षोर्ध्व देशतः ।
पञ्चग्राहि निबन्धेद्वे विधातव्ये विचक्षणैः ॥ ४८ ॥
यथेष्ट घन विस्तारे तत्सम्बन्धे परेपि वा ।
भरमूले तदग्रे च समभदे तथानयेत् ॥ ४९ ॥
अन्तर्वाजनकोर्ध्वे स्यादुपपीठ गलावाधि ।
तत्रपादा विधेयास्स्युः उपपीठावसानके ॥ ५० ॥
फलके द्वे विधातव्ये तत्पादोपरि संस्थिते ।
तत्र सन्नद्ध विष्टे द्वे पञ्चग्राही गते च ते ॥ ५१ ॥
भराग्रयोस्तथाकार्ये त्वेवमन्तरुदाहृतम् ।
उपपीठोर्ध्वतः कुर्यादधिष्ठानन्तदुच्यते ॥ ५२ ॥
उपपीठसमं वास्यात्तदर्धं वाथ सार्धकम् ।
तमध्ये षट्कमानं यत् पूर्ववत् परिगृह्यताम् ॥ ५३ ॥
अष्टविंशति भागान्तु तदुच्चन्तु समं भवेत् ।
पङ्कित्नेत्रैक सप्तैक व्योम द्व्येकैक लोचनैः ॥ ५४ ॥
पद्मं कर्णञ्च पद्मं च कुमुदं पद्म वाजने ।
सदन्त गलकम्पौच महा वाजन माचरेत् ॥ ५५ ॥
उपपीठोक्तरीत्यैतत् ऊनाधिक्ये समाचरेत् ।
प्रवेश निर्गमौवापि तद्वदेव समाचरेत् ॥ ५६ ॥
एतदन्तर्विधेयं चोपभद्रं भद्रमेव वा ।
अधिष्ठानोर्ध्वतः कार्यः पादवर्गो द्विजोत्तमाः ॥ ५७ ॥
अधिष्ठान समोवास्यात् द्विगुणो वा समीर्तितः ।
तदन्तर्नवमानेवा पादाष्टांशोन्वितोथवा ॥ ५८ ॥
गुलिकापाद पादैश्च नाटकै र्व्यालराजिभिः ।
सिम्ह भूत गजैः पादैर्वर्गं सर्वत्र भूषयेत् ॥ ५९ ॥
तदन्तः क्षुद्रपादैश्च नाराचैस्सुदृढन्नयेत् ।
प्रस्तरः पादवर्गोर्ध्वे मानञ्चास्यनिगद्यते ॥ ६० ॥
त्रिभागन्तु समारभ्य भागभाग विवर्धनात् ।
नवभागावसानं स्यादलङ्गारश्च कथ्यते ॥ ६१ ॥
तदुच्चे षोडशांशेतु गुणैक नयनाब्धिभिः ।
व्योमैक चन्द्र चन्द्रांशैरुत्तरं वाजिनन्ततः ॥ ६२ ॥
निद्रा कपोत मालिङ्गं वाजनं प्रतिवाजनम् ।
प्रवेशो निर्गमञ्चैषां धामोक्तन्यायतो भवेत् ॥ ६३ ॥
एतदाद्यतलं प्रोक्तं भद्रमेतत् समोदयम् ।
पादान्तं वाथ भद्रान्तं ह्रास युक्तं च मूलतः ॥ ६४ ॥
एकादि रसभागान्तं पार्श्वयोरुभयोरपि ।
प्रवेश रहितं वा स्यात् एव मेवोप भद्रकम् ॥ ६५ ॥
रथस्त्वेकतलः प्रोक्तो द्वितलाद्यन्वितोनवा ।
षडादि त्रिंशदंशान्तं समं वा मूलपादतः ॥ ६६ ॥
प्रस्तरोच्चं भवेन्मानं द्वितलाङ्घ्रि कपोतयोः ।
अनेनैव प्रकारेण कारयेत् त्रितलादिकम् ॥ ६७ ॥
छादयेत् फलकैरूर्ध्व तलं सारतरूद्भवैः ।
एकाङ्गुल घनैरिष्ट घनैर्वा सुदृढं यथा ॥ ६८ ॥
भद्रञ्चवोप भद्रञ्च छादयेदेव मेवसु ।
न्यायेनानेन कर्तव्यः प्रवेशो निर्गमोपिवा ॥ ६९ ॥
पादानां कार्यः प्रस्तराणाञ्च मञ्चतः ।
प्रवेश निर्गमौ हित्वा कुर्याद्वारज्जु सूत्रकम् ॥ ७० ॥
अनेकतलयुक्तं चेद्विशेषः कश्चिदिष्यते ।
रथस्यारोहणार्थन्तु सोपानाकृति सन्निभम् ॥ ७१ ॥
भद्रोक्तायाम विस्तारं मुखे पृष्ठ द्वयोस्तुवा ।
प्रतिभौमण् प्रवेशस्यात् भद्रस्य मुनिपुङ्गवाः ॥ ७२ ॥
सोपानं वा प्रकर्तव्यं तद्विधान समन्वितम् ।
उपभद्र विहीनं वा भद्रं भारान्तमेव वा ॥ ७३ ॥
एतत् सर्वं विहायाथ केवलान्तूपपीठकम् ।
भारोपरि विधातव्यं तदूर्ध्वे देवसंस्थितिः ॥ ७४ ॥
उपपीठं विहायास्मिन् केवलवामसूरकम् ।
बहिः करणमेवस्या दन्तरत्र निगद्यते ॥ ७५ ॥
पादवर्गेन्तरे क्षुद्रपादाः कम्पोपरिस्थिताः ।
ऊर्ध्वकम्प निबद्धाश्च विधातव्या विचक्षणैः ॥ ७६ ॥
तदूर्ध्व प्रस्ताराग्रस्ताः पञ्चग्राहियुतानवा ।
विष्टराबहवः कार्यास्थलं प्रत्येकमाचरेत् ॥ ७७ ॥
तुलामुखानुगाः कार्या ओजायुग्मा यथेष्टतः ।
अयन्त्यस्युस्तदूर्ध्वेतु तदूर्ध्वेच्छादनं मतम् ॥ ७८ ॥
तदूर्ध्वे च विजिः कार्या यथेष्ट धनतुङ्गतः ।
नाना कीलक पट्टैश्च पञ्चग्राहिभिरेव च ॥ ७९ ॥
नाराचैः क्षुद्र कीलैश्च ग्राहकैः पुलकादिभिः ।
कोटिकैर्वक्रपट्टैश्व बन्धयेत् सुदृढं यथा ॥ ८० ॥
एतद्रङ्गं समाख्यातं तोरणेन युतन्नवा ।
पादाकूटयुतं तच्चेद्रथस्तन्मान मुच्यते ॥ ८१ ॥
वेदतालं समारभ्य तालार्धेन निवर्धयेत् ।
यावदष्टसवं पाददैर्घ्यमग्न्यङ्गुलादिकम् ॥ ८२ ॥
पाद पाद विवृध्यातु तत्वाङ्गुल समावधि ।
पाद विस्तार आखातो धाम पादा कृतिर्यथा ॥ ८३ ॥
अग्रमूल शिखोपेतः पादाः कुम्भादि संयुताः ।
बहुनीव्र समायुक्ताः फलकासु निवेशिताः ॥ ८४ ॥
तालाधस्संस्थितैः विष्टैः पादमूलञ्च बन्धयेत् ।
तथैवायसनालैश्च धारस्सुदृधं यथा ॥ ८५ ॥
पादोर्ध्वे प्रस्तरं कुर्यात् लुपारोहण योग्यकम् ।
शिखाकरणमार्गेण लुपारोहण क्रियान्विता ॥ ८६ ॥
सौवर्णैस्तारजैर्लोष्टैस्ताम्रजैः वृक्षकैः दृधम् ।
छादयेदन्य देशञ्च ओजस्तूपि समन्वितम् ॥ ८७ ॥
रथस्त्वेवं समादिष्टश्शुभायादि समन्वितम् ।
कथ्यते सचलेशेन विस्तारादायतोपिवा ॥ ८८ ॥
उभाभ्यां सकलस्याथ नाहेनोत्तुङ्गतोथवा ।
वर्धयेत् द्वित्रिवेदैश्च गुणितेक्रमशोहृते ॥ ८९ ॥
सप्त भूतर्क्ष पातालैरायोन्यस्तारवारकौ ।
तिथिस्स्यात् त्रिगुणं त्रिंशद्ध्स्तमेतद्रथेमतम् ॥ ९० ॥
शकटे शिबिकादौच शुभेशुभ मुदाहृतम् ।
रथस्य स्थापनं यश्च कथ्यते विप्रपुङ्गवाः ॥ ९१ ॥
उद्वास्य तक्षकं शुद्ध तोयेन क्षालयेत् दृढम् ।
गोमूत्र गोमयाम्भोभिः कुशोदैस्तज्जलैरपि ॥ ९२ ॥
गव्येन प्रोक्ष्य पुण्याहं तोयसेचन माचरेत् ।
अस्त्रोदेनापि सम्प्रोक्षय गन्ध पुष्पादिभिः यजेत् ॥ ९३ ॥
कौतुकं बन्धयेत् पद्ममुकुले हृदयेन तु ।
वस्त्रेणाच्छाद्य धामोक्त्या तत्वतत्वेश्वरान्वितम् ॥ ९४ ॥
मूर्तिमूर्तीश्चरोपेतं चक्रेष्विन्दु दिवाकरौ ।
दक्षिणोत्तर संस्थेषु क्रमशः परिकल्पयेत् ॥ ९५ ॥
हरिमक्षेषु भारेषु यजेदाधार सञ्ज्ञिताम् ।
उपपीठे वृषं यष्ट्वा धारेऽनन्तं प्रपूजयेत् ॥ ९६ ॥
धर्मादींश्चरणेष्वेव मधर्मादींस्तदूर्ध्वत्ः ।
अधश्चोर्ध्वच्छदेविद्वान् क्रमेण विनिवेशयेत् ॥ ९७ ॥
फलका प्रस्तरस्याधश्चोर्ध्वं तत्रैव पङ्कजम् ।
कर्णिकान्नवशक्तींश्च शिवासनम् अनुस्मरेत् ॥ ९८ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चरथाधिपाः ।
शिखरेच सदेशानश्शिवस्यात् स्तूपिनायकः ॥ ९९ ॥
पद्म कुड्मलकेनन्तो व्याप्तिं प्रासाद वर्त्मना ।
तदग्रे स्थण्डिलं कृत्वा तस्मिन् सूत्राम्बरान्वितान् ॥ १०० ॥
हेम कूर्चादि संयुक्तान्नव कुम्भान्निवेशयेत् ।
तत्र मध्ये शिवं पूर्वेभानुम् इन्दुं तथानले ॥ १०१ ॥
दक्षिणे हिमाधार शक्तिन्नि-ऋते घटे ।
वारुणे वृषभं वायावनन्तं विनिवेशयेत् ॥ १०२ ॥
धर्माद्यमुत्तरे कुम्भे शेषमीशान गोचरे ।
गन्धाद्यैरर्चयित्वातु होमकर्म समाचरेत् ॥ १०३ ॥
संस्थापित घटानांवा समन्ता द्वारथस्यतु ।
नववा पञ्चकुण्डानि एकं वा पूर्वतस्थितम् ॥ १०४ ॥
आवाह्य स्थण्डिलं वाथ कृत्वा कुण्डानि संस्कृतिम् ।
शिवं साङ्गं प्रधानेतु तर्पयेच्छत सङ्ख्यया ॥ १०५ ॥
भान्वादीन् स्व स्वदिक्कुण्डे पञ्चकल्पेद्वयं द्वयम् ।
एक कल्पे गुरुस्वस्मिन् कुण्डे सर्वञ्च तर्पयेत् ॥ १०६ ॥
समिदाज्यान्नलाजैश्च तिलैर्होमं समाचरेत् ।
तत्वमूर्ति तदीशैश्च गुरुर्होमं माचरेत् ॥ १०७ ॥
पलाशोदुम्बराश्वत्थ वटाः प्रागादि दिङ्मताः ।
शम्यापामर्ग श्रीवृक्ष पिप्पलास्युर्विदग्गताः ॥ १०८ ॥
पलाशश्च प्रधानस्य समिधस्सम्प्रकीर्तिताः ।
पूर्णान्दत्वा द्वितीयेह्नि कृत कुम्भाग्नि पूजनः ॥ १०९ ॥
सम्प्राप्त दक्षिणो मूर्ति धारदैवज्ञ शिल्पिभिः ।
मुहूर्ते समनुप्राप्ते मन्त्रन्यासं समाचरेत् ॥ ११० ॥
तत्तत् कुम्भस्थ पानीयैस्तत्तद्देशं सुसेचयेत् ।
अनुक्तमत्र सामान्य स्थापनोक्तवदाचरेत् ॥ १११ ॥
एवं रथं समापद्य यः कुर्यात् प्रोक्षणं नरः ।
इहैव धनवाञ्च्छ्रीमान् वाञ्छितं फलमाप्नुयात् ॥ ११२ ॥
रथमेवं सुसङ्कृत्य रथयात्रां समाचरेत् ।
पैठीच शेखरीमण्डी त्रिविधा परिकीर्तिता ॥ ११३ ॥
तिथ्यङ्गुलं समारभ्य व्योममात्र विवृद्धितः ।
षण्णवत्यम्श कान्तस्तु शिबिका विस्तरोमतः ॥ ११४ ॥
त्रिस्सप्ताङ्गुलमारभ्य वर्धये देकमात्रतः ।
एकोन् द्विशतं याव दायामं परिकल्पयेत् ॥ ११५ ॥
ईषिका बाह्यमाध्यमाध्यान्तर्मान मेतदुदाहृतम् ।
पादबाह्यन्तु देवानां राज्ञामपि विशिष्यते ॥ ११६ ॥
पादमध्यस्तु सामान्यो व्यासायामावधिर्मतः ।
एव मेवेषिका बाह्या मध्यमं परिकीर्तितम् ॥ ११७ ॥
पादेषिकान्तर्मानं यत् सर्वेषां परिकीर्तितम् ।
त्रिचतुर्भूत षट् सप्त नवभिर्वत्सरो भवेत् ॥ ११८ ॥
दैर्घ्यन्तेवच मन्वन्तवितस्तिरितिकीर्तिम् ।
वित्स्तिरङ्गुलिर्वापि ज्ञेय मायादि शोभनम् ॥ ११९ ॥
विस्तारेणाथवादैर्घ्यात् सकलेवाथवा नयेत् ।
अष्टत्रित्रिवसुघ्नञ्च सूर्यैश्च मनुभिर्भजेत् ॥ १२० ॥
वसुभिश्चोडुभिः स्त्रिघ्नः पर्यन्तम् केवलन्तु तत् ।
त्रिंशद्भिः मुनिभिः विप्राः क्रमादायादयोमताः ॥ १२१ ॥
आयोव्ययश्च योनिश्च नक्षत्रन्तिथिवारकौ ।
विस्तारेणाथवायस्यादायामेनव्ययो भवेत् ॥ १२२ ॥
योनिस्तेनैवनक्षत्रं विशालेन प्रकीर्तितम् ।
विस्तारायाम संयोगात्तिथिर्वारस्तु तुङ्गताः ॥ १२३ ॥
त्रिमात्र मेकमात्राभ्यां स्वव्यासार्धान्तमीरितम् ।
हस्तान्तन्तुङ्गमानं स्यादलङ्कारस्तु कथ्यते ॥ १२४ ॥
त्रिमात्रन्तु समारभ्य पादमात्र विवृद्धितः ।
त्रिषडङ्गुल पर्यन्तमिषिकाविस्तरो मतः ॥ १२५ ॥
व्योममात्रं समारभ्य पादमात्र विवृद्धितः ।
सप्त मात्रान्तमुद्दिष्टमिषिका बहुलं द्विजाः ॥ १२६ ॥
व्योममात्रात्तु पादर्द्धया सप्तमात्र समावधि ।
हस्तमानं सुमुद्दिष्टं वृत्तं वाचतुरश्रकम् ॥ १२७ ॥
वृत्ताश्रमायताश्रंवा हस्तरूपं प्रकीर्तितम् ।
अष्टांशादम्श वृध्यातु स्वन्न्यास द्विगुणावधि ॥ १२८ ॥
इष्टिका हस्तयोः कर्ण निर्गमः परिकीर्तितः ।
किन्तु हस्ते विशेषोयं स्वव्यासाष्ट गुणावधि ॥ १२९ ॥
पादमात्रात्तु पार्दद्ध्या चतुर्मात्र समावधि ।
पट्टिका घन विस्तारो यथायोग्यं विधीयते ॥ १३० ॥
व्यालैस्सिंहैः गजैरश्वैर्नरैर्विद्याधरादिभिः ।
गुलिका पाद पादैश्च पट्टैर्हीनैश्च वाजनैः ॥ १३१ ॥
क्षुद्रकम्पैश्च वल्लीभिर्नाराचैः कोणबन्धनैः ।
यथा शोभांशमानैश्च कपोत प्रतिवाजनैः ॥ १३२ ॥
झषैश्च वलयैः क्षुद्रगुलिकापाद बन्धनैः ।
स्वर्णादितार ताम्रोर्थैः जन्तजैर्वृक्षजैस्तु वा ॥ १३३ ॥
शिबिकालङ्कृतिं कुर्याद्यथा शोभं यथाबलम् ।
एषा पैठी समाख्याता शेखरी शिखरान्विता ॥ १३४ ॥
पादैर्मञ्चैश्च मौण्डीचेत् मण्डपाकार शोभिता ।
शूकः कालश्च तिमिरः पनसो निम्बकार्जुनौ ॥ १३५ ॥
मधूकः खदिरो योऽन्ये सार वृक्षास्समीरिताः ।
वृक्षेरेतैः प्रकर्तव्या शिबिका लक्षणान्विता ॥ १३६ ॥
अस्याश्च प्रोक्षणं कार्यं सिंहासन विधानतः ।
वक्ष्ये पर्यङ्कमानश्च शिबिका विस्तरो यथा ॥ १३७ ॥
तद्वद्विस्तार संयुक्तं त्रिगुणान्तर संयुतम् ।
चतुष्पदादि संयुक्तं पादमानञ्च कथ्यते ॥ १३८ ॥
त्र्यङ्गुलादङ्गुलद्धर्यातु पञ्चाशत् करजावधि ।
पाद दैर्घ्यं समाख्यातं द्वयङ्गुलात् पादवृद्धितः ॥ १३९ ॥
तिथि मात्र विशालं स्यात् पादमूले द्विजोत्तमाः ।
अनेक गण्दिकोपेतन्नाना हीर समन्वितम् ॥ १४० ॥
अनेक कर्ण सयुक्तं त्रिगुणान्तायसायुतम् ।
तत् पार्श्वे त्विषिकां कुर्यात् फलकां वा द्विजोत्तमाः ॥ १४१ ॥
फलकानाञ्च बाहुल्यं यथाशोभं यथाबलम् ।
नानापट्ट समायुक्तन्नानावेत्र समायुतम् ॥ १४२ ॥
नाना नाराच सम्बन्धं पुलकाद्यैश्च शोभितम् ।
लोहजन्दन्तजं वाथ दारुजं मिश्रमेववा ॥ १४३ ॥
शिबिकायद्वदायाद्यैः संयुक्तं सम्पदेभवेत् ।
पर्यङ्कमे तत् कथितं बाल पर्यङ्कमप्यथ ॥ १४४ ॥
प्रोच्यते शिबिकायाद्वत् कर्ण निर्गम वर्जितम् ।
खट्वा पाद समायुक्तं पट्टिकाम् एक संयुतम् ॥ १४५ ॥
पाद मूल विनिक्षिप्तः क्षुद्र चक्र समन्वितम् ।
निम्बादि तरु संसिद्धं बाल पर्यङ्गमीरितम् ॥ १४६ ॥

इति उत्तरकामिक महातन्त्रे रथादि स्थापन विधिः एकसप्ततितमः पटलः ॥

७२। द्विसप्ततितमे पटले करणलक्षण विधिः

लक्षण करणानां च वक्ष्ये सङ्क्षेपतः क्रमात् ।
याज्ञीयवृक्षजाश्शस्तास्समिधोद्वादशङ्गुलाः ॥ १ ॥
सत्वचस्तास्समच्छेदा वक्रग्रन्थ्यादिवर्जिताः ।
त्रिंशद्दर्भदलैर्गाधं ग्रथिता बाहुमात्रकाः ॥ २ ॥
वेणिका वर्तुला वापि विष्टरा दर्भनिर्मिताः ।
तन्माना ऋजवस्साग्रास्तत्कुण्डसमिदुद्भवाः ॥ ३ ॥
निर्व्रणाश्च समच्छेदाः प्रोक्ताः परिधयस्समाः ।
चत्वारो विष्टरास्तद्वन्मताः परिधयोऽपि च ॥ ४ ॥
दर्भत्रयं समारभ्य व्योमदर्भविवृद्धितः ।
षट्त्रिंशद्दर्भपर्यन्तं कूर्चार्थं दर्भमाहरेत् ॥ ५ ॥
तत्सङ्ख्यामात्रदैर्घ्यं स्यात् किञ्चैकादशमात्रतः ।
ग्रन्थिरर्धाङ्गुलात्पादवृद्धया स्याद् द्यङ्गुगावधि ॥ ६ ॥
ग्रन्थेः प्रदक्षिणावर्तशिखामानं द्विमात्रतः ।
वृद्ध्यैकमात्रया प्रोक्तं नवमात्रावसानकम् ॥ ७ ॥
ग्रन्थ्यग्ररहिता वाथ कूर्चास्स्युस्त्वितरे मताः ।
ब्रह्मविष्ण्वीश्वराः कूर्चमूलमध्यग्रगा मताः ॥ ८ ॥
उत्कूर्चन्यासपक्षोऽयमधः कूर्चे विलोमगाः ।
उत्कूर्चश्शान्तिदः प्रोक्तस्त्वधः कूर्चस्तु पुष्टिदः ॥ ९ ॥
अन्तः कूर्चो न कर्तव्यः स विधेयोऽभिचारके ।
द्वित्रिवेदशरैर्दर्भैर्मूलाग्रसहितैस्तु वा ॥ १० ॥
पवितं दक्षिणावर्तग्रथितं तद्विवर्जितम् ।
अनामिकाङ्गुलीयोगयोग्यरन्ध्र समन्वितम् ॥ ११ ॥
प्रागुक्त ग्रन्धिशिखरं पवित्रमतिसुन्दरम् ।
ईश्वराधिष्ठितं प्राग्वद्दक्षिणे चोभयत्र च ॥ १२ ॥
करे संयोजनीयं स्यात् काले देवार्चनादिके ।
अङ्गुलीयकमिष्टं स्यात्तदर्थं स्वर्णनिर्मितम् ॥ १३ ॥
त्रयोविंशतिसङ्ख्यातदर्भैस्स्यान्निर्मितेन च ।
अर्कमात्रादिषट्त्रिंशदङ्गुलावनतेन च ॥ १४ ॥
यथेष्टान्तरयुक्तेन लम्बनेन समन्विता ।
दर्भमाला विधेया स्यात् कनिष्ठाङ्गुलिनाहया ॥ १५ ॥
रज्ज्वा चैव विधेया स्यात् साश्वत्थदलरञ्जिता ।
आरभ्य हस्तत्रितयं त्र्ङ्गुलेन विवर्धनात् ॥ १६ ॥
तिथिहस्तान्तदैर्घ्यं स्यात्तदर्धा विस्तृतिर्भवेत् ।
सदृशे वान्तरेऽष्टांशे नवमानं प्रकीर्तितम् ॥ १७ ॥
द्वारमानोच्चतत् प्रोक्तविस्ताराद्दैर्घ्यतोऽपि वा ।
स्तम्भयोर्विष्टरस्यापि प्रमाणं त्र्ङ्गुलादितः ॥ १८ ॥
पादाङ्गुलविवृद्ध्या तु त्रिंशन्मात्रान्तमीर्तितम् ।
याज्ञिकैस्तरुभिः कुर्यात् प्रतिष्ठादौ च तोरणम् ॥ १९ ॥
शिलयेष्टकयाऽन्यत्र दारुभिस्तोणं नयेत् ।
इष्टमानेन खातं स्याच्छिखामानं तथैव च ॥ २० ॥
विष्टरोर्ध्वे त्रिशूलानि नवशूलानि पञ्च वा ।
सप्ताङ्गुलं समारभ्य व्योममात्रविवृद्धितः ॥ २१ ॥
पक्षमात्रावसानं तुशूलदरिघ्यं प्रकल्पयेत् ।
विस्तारात् पादवृद्ध्या तु द्व्यङ्गुलादर्कमात्रकम् ॥ २२ ॥
यावत्तावद् घनं तेषामिष्टमानेन कारयेत् ।
एवं तोरणमाख्यातं मङ्गलाष्टकमुच्यते ॥ २३ ॥
नवाङ्गुलं समारभ्य वृद्ध्या व्योमाङ्गुलेन च ।
षट्त्रिशन्मात्रपर्यन्तं दैर्घ्यं तेषु प्रकल्पयेत् ॥ २४ ॥
पादमर्धं त्रिपादं वा विशालं तेषु कल्पितम् ।
अन्तरेष्टविभागे तु नवमानमुदाहृतम् ॥ २५ ॥
घनमेकाङ्गुलात्पादवृद्ध्या सप्ताङ्गुलावधि ।
याज्ञीयवृक्षैलोहैर्वा मङ्गलाष्टकमाचरेत् ॥ २६ ॥
दर्पणं पूर्णकुम्भं च वृषभो युग्मचामरम् ।
श्रीवत्सं स्वस्तिकं शङ्खो दीपश्शैवाष्टमङ्गलम् ॥ २७ ॥
अन्येषामपि देवानां देवीनां चाष्टमङ्गले ।
वृषं त्यक्त्वा तदर्थं तु स्वस्ववाहनमाचरेत् ॥ २८ ॥
शैवाष्टमङ्गलं कुर्याद्देवानां वाथ वर्णिनाम् ।
ग्रामादौ स्वगृहे वापि यजमानानुरूपतः ॥ २९ ॥
विलिखेद्दर्पणादीनि तन्मानमधुनोच्यते ।
पञ्चाङ्गुलं समारभ्य व्योमाङ्गुल विवृद्धितः ॥ ३० ॥
पञ्चविंशतिमात्रान्तं तेषां दैर्घ्यं समाचरेत् ।
विस्तारस्तद्वशाज्ज्ञेयस्सपादं वाथ दर्पणम् ॥ ३१ ॥
पादोनार्घेन वा तस्मिन् पादं तस्य प्रकल्पयेत् ।
तथैव पूर्णकुम्भे तु पादमानं प्रकीर्तितम् ॥ ३२ ॥
स्वास्यतिर्यग्लतोपेतं लतामानं ततो बहिः ।
तथिव पादमुक्षे स्यात् स्थितो वा शयितोऽथवा ॥ ३३ ॥
पादपद्मसमायुक्तं तूर्ध्वे छत्रसमायुतम् ।
श्रीवत्सस्तु यथोद्दिष्टः स्वस्तिको ग्रामवेशने ॥ ३४ ॥
शङ्खश्चोर्ध्वमुखो ज्ञेयस्सृष्टौ मुक्तौ विपर्ययात् ।
श्रीवत्से पादपद्मं च छत्रं च विनिवेशयेत् ॥ ३५ ॥
स्त्रीणां मूर्धनि वा कुर्याद्देवताः शृणुत द्विजाः ।
दर्पणे पूजयेत्सूर्यं पूर्णकुम्भे जलेश्वरम् ॥ ३६ ॥
चामरे मातरिश्वानं स्वस्तिके तु सरस्वतीम् ।
शङ्खे तु विमलं दीपे पूजयेद्धव्यवाहनम् ॥ ३७ ॥
लक्-ष्म्यां लक्ष्मी वृषं चोक्षे विन्यसेत्स्वाणुना गुरुः ।
पूर्वस्मिन् पश्चिमे भागे चामरद्वितयं न्यसेत् ॥ ३८ ॥
एकैकं दक्षिणे वामे वेदिकायं च विन्यसेत् ।
हित्वाष्टमङ्ग्लं वाथ तत्स्थाने तान् प्रपूजयेत् ॥ ३९ ॥
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाङ्कुशम् ।
ध्वजं वाथ गदां पद्मं चक्रं च कारयेत् ॥ ४० ॥
ध्वजाङ्कुशौ वा कर्तव्यौ दण्डं हित्वा द्विजोत्तमाः ।
लोहैर्वा याज्ञिकैर्वृक्षैर्लोहश्चेद् बेरमानतः ॥ ४१ ॥
देवान् कृत्वा तु हस्ताभ्यां कृताञ्जलिपुटान्वितान् ।
जाये शक्ति गदे ज्ञेय शेषाः पुरुषलक्षणाः ॥ ४२ ॥
नवतालप्रमाणेन तेषां लक्षणमुच्यते ।
तन्मूर्ध्निकुटोर्ध्वे वा हस्ते वज्रादिकान्न्यसेत् ॥ ४३ ॥
देहलब्धेन तेषां तु प्रमाणं प्रविधीयते ।
षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ॥ ४४ ॥
तिथ्यङ्गुलं समारभ्य द्विद्यङ्गुलविवर्धनात् ।
मात्रैरेकोनपञ्चाशत् पर्यन्तैर्दीर्धमुच्यते ॥ ४५ ॥
लोहजं यदि दारूत्थं नयेन्मात्राङ्गुलेन तु ।
इष्टमानेन चैतेषां विस्तार इह कथ्यते ॥ ४६ ॥
स्रुक्स्रुवौ विधिना कार्यौ तद्विधानमिहोच्यते ।
तत्पार्श्वे वान्तरे वापि तद्बिलं विधिनाचरेत् ॥ ४७ ॥
षट्त्रिंशदङ्गुलं पञ्चत्रिंशन्मात्रमथापि वा ।
दैर्घ्यं तस्य रसाङ्गेषुवेदिकाङ्गुष्ठकर्णिका ॥ ४८ ॥
त्रिगम्भीरा चतुष्पञ्चषट्कृतावटमण्डला ।
सप्ताङ्गुलार्धविच्छिन्नचतुस्संवर्तितानना ॥ ४९ ॥
कनिष्ठप्रथुनिर्यासा पुरोनिम्नाज्यनिर्गमा ।
कलशोद्गतषण्णाहदण्डाग्रश्रुतिवेदिका ॥ ५० ॥
यथेष्टं कलशे मानं व्द्यङ्गुला वेदिका यदि ।
नानावाजनवेत्रैश्च पद्मपत्रैर्विचित्रिता ॥ ५१ ॥
शुभा या स्रुक् शरावस्य यथापृष्ठाकृतिर्भवेत् ।
कर्णपार्श्वैकमात्रोनशरावादामुखावधः ॥ ५२ ॥
कनिष्ठानाहसंयुक्ततिर्यग्वेत्रयुता च स्रुक् ।
अथवा त्रिंशदायाममष्टाङ्गुल सुविस्तरम् ॥ ५३ ॥
तर्दर्धं तु घनं प्रोक्तमास्यं कौशिकमात्रकम् ।
आस्यं त्रिकोणवत्कार्यं मध्ये बिलसमन्वितम् ॥ ५४ ॥
कर्णे द्व्यङ्गुल इष्टस्स्याद्वेदिकाष्टाङ्गुला मता ।
तदधो गण्डिका कार्या मात्रार्धादर्धवृद्धितः ॥ ५५ ॥
दण्डो नवाङ्गुलः प्रोक्तस्तन्नाहस्स्यात् षडङ्गुलः ।
मुष्ट्यष्।आङ्गुलमानेन तन्नाहोऽष्टाङ्गुलेन च ॥ ५६ ॥
अथवान्यप्रकारेण स्रुङ्मानामिह कथ्यते ।
द्वात्रिंशदङ्गुलायामं सप्ताङ्गुलसुविस्तरम् ॥ ५७ ॥
तद्घनं तु चतुर्मात्रमास्यायामः षडङ्गुलः ।
कर्णः पक्षाङ्गुलायामो विस्तारश्शरमात्रकः ॥ ५८ ॥
सप्ता"गुलायता वेदी पद्मं पक्षाङ्गुलं भवेत् ।
गण्डिकैकाङ्गुला प्रोक्ता तन्नाहश्चाब्धिमात्रकः ॥ ५९ ॥
रव्यङ्गुलेन दण्डस्सयान्नाहं भागार्धतो भवेत् ।
तन्मूले कलशाकारो व्द्यङ्गुलो दशनाहकः ॥ ६० ॥
पादं कलशमूले स्यादन्यथा वा निगद्यते ।
षट्त्रिंशदङ्गुलायाममष्टाङ्गुलसुविस्तरम् ॥ ६१ ॥
विस्तारार्धघनोपेतमास्यं सप्ताङ्गुलं भवेत् ।
विस्तारेण च दैर्घ्येण सूकराननसन्निभम् ॥ ६२ ॥
त्रिभागेन भवेदग्रं कृत्वा शेषं परित्यजेत् ।
कर्णदैर्घ्यं द्विमात्रं स्याद्विस्तारं चतुरङ्गुलम् ॥ ६३ ॥
वेदिकाष्टाङ्गुलायामा विस्तारस्सदृशो भवेत् ।
त्रिमात्रं वा चतुर्मात्रं तन्मध्ये बिलमुच्यते ॥ ६४ ॥
दण्डः षडङ्गुलः कार्यस्तन्मध्ये गण्डिकात्रयम् ।
अर्धार्धाङ्गुलवृद्ध्या तु कर्तव्यं चतुरङ्गुलम् ॥ ६५ ॥
त्रयोदशाङ्गुलो दण्डस्तन्मूले पूर्ववद्घटः ।
स्रुक् स्यात् स्रुवेऽपि तद्योनिस्तन्मानं तस्ततो भवेत् ॥ ६६ ॥
एकाद्वित्र्यङ्गुलैर्हीनं दीर्घं वा परिकल्पयेत् ।
षडङ्गुलपशीणाहो दण्डमूले च पुष्करे ॥ ६७ ॥
तदर्धमानकण्ठस्स्यात् क्रमेणैव कृशो भवेत् ।
गोपुराकारवत् कार्यमाज्यस्थानं तदग्रके ॥ ६८ ॥
पृष्ठे कुम्भद्वयोपेतं कर्षापूरस्य पुष्करः ।
नूतनं करणं श्रेष्ठं पुराणं तदभावतः ॥ ६९ ॥
पुराकरणं ग्राह्यं वित्तं दत्त्वा गुरोर्द्विजाः ।
तदाज्ञापूर्वकं स स्यात्तद्भोग्यकरणं ततः ॥ ७० ॥
सहस्राघोररजापस्यात् पुराणकरणग्रहे ।
येन शास्त्रेण यत्स्थाने क्रिया पूर्वं प्रवर्तते ॥ ७१ ॥
तत्र तच्छास्त्रसंसिद्धं करणं विहितं बुधाः ।
अनुक्तमन्यतो गाह्यमुत्सवादिषु कर्मसु ॥ ७२ ॥
अस्त्रं वा प्रतिमा वापि देवोपकरणादिकम् ।
श्रेष्ठस्तद्धामसंसिद्धो न ग्राह्योऽन्यालयस्थितः ॥ ७३ ॥
तल्लिङ्गादेर्विरुद्धत्वादायाद्यैरशुभैर्युतः ।
तल्लिङ्गाद्यनुकूलं चेद्बेराद्यं यत् प्रतिष्ठितम् ॥ ७४ ॥
तेनैवोत्सवकर्माद्यं विहितं मुनिपुङ्गवाः ।
स्थानात् स्थानान्तरप्राप्तिदोषशुद्ध्यर्थमाचरेत् ॥ ७५ ॥
समिदाज्यान्नकैश्शान्तिहोमं दशशतेन च ।
ह्रस्वप्रासादमन्त्रेण प्रभूतयजनान्वितम् ॥ ७६ ॥
तोरणानि पयोवृक्षजातिलक्षणवन्ति च ।
पञ्चषट्सप्तहस्तानि कन्यसानां समुच्छ्रयः ॥ ७७ ॥
वसुवेदाङ्गुलाग्राणि परेषां परिकल्पयेत् ।
तेषु हस्तात् परः ख्यातः स्ववृद्ध्यर्होपलक्षितः ॥ ७८ ॥
शाखयोरन्तरं तुल्यमुच्छ्रायेणान्यथा क्षयेत् ।
शल्यवस्वङ्गुलान्वाथ परेषां षोडशाङ्गुलम् ॥ ७९ ॥
एकादिवेदहस्तान्ततोरणे क्षुद्रमानके ।
उदयार्धप्रमाणं वा यादादौ परिपठ्यते ॥ ८० ॥

इति उत्तरकामिकाखे महातन्त्रे करणलक्षणविधिर्द्विसप्ततितमः पटलः ॥

७३। त्रिसप्ततितमे पटले सौख्य कर्म विधिः

प्रतिष्ठोत्सवकर्मादावन्ते नित्योत्सवस्य च ।
सौख्यकर्म प्रकर्तव्यं यथावच्छृणुत द्विजाः ॥ १ ॥
सौख्यं च रुद्रकन्याभिः कर्तव्यं तद् द्विधा मतम् ।
ससर्जाप्सरसो रुद्रः कौशिक प्रीतिकारणात् ॥ २ ॥
तासां चिरन्तने वंशे तद्रुद्रगणिकाकुलम् ।
अस्पृश्यं प्रतिलोमाद्यैः अजायत सनातनम् ॥ ३ ॥
ता एव रुद्रकन्यास्स्युः कथ्यन्तेऽन्यैर्द्विजोत्तमाः ।
देवतारुवने पूर्व विनोदार्थं मया पुरा ॥ ४ ॥
कल्याणं वपुरास्थाय प्रविष्टं द्विजसत्तमाः ।
तत्रस्था मुनिपत्न्यो मां दृष्ट्वा सादरमक्षमाः ॥ ५ ॥
विश्लिष्टकेशवस्त्राधा जायन्ते मदनातुराः ।
तथा विधाश्च तास्सर्वा दृष्टाः खलुमयादरात् ॥ ६ ॥
मदालोकन मात्रेण दधते गर्भमक्षयम् ।
तत्तद्गर्भभवा याश्च ता रुद्रगणिका मताः ॥ ७ ॥
तास्सर्वास्तत्र सम्पूज्य कानो वृत्तिर्भविष्यति ।
एवं पृष्टो ब्रवीम्येवं शृणुध्वं यन्मयोदितम् ॥ ८ ॥
मदर्चनं तु यच्छ्रेष्टं तत् सौख्यसहितं यदि ।
तदेव शुद्ध नृत्तं तु लक्षणं भरतोदितम् ॥ ९ ॥
तत् पूजायां नियोज्यं तन्मत्प्रीत्यर्थं दिने दिने ।
स्त्रीभिस्तद्वम्श जाताभिः पञ्चाचार्य समन्वितम् ॥ १० ॥
इत्येवं तु क्रमेणोक्ते प्रणेमुस्ते महीतले ।
मया तुष्टेन तास्सर्वा दीक्षिता दीक्षया खलुः ॥ ११ ॥
आहूय नन्दिनं चादाय करमध्यगम् ।
वेत्रं तस्माच्छिरांस्यासां स्पृष्टानि द्विजसत्तमाः ॥ १२ ॥
ततः प्रभृति वर्तन्ते भुवि नन्दाव्य सञ्ज्ञया ।
यतो दण्डेन संस्पृष्टं शिरो दण्डिन्य इत्यपि ॥ १३ ॥
विख्यातास्तत्कुलोत्याभिः श्शुद्धनृत्तं प्रवर्त्यताम् ।
नर्तको मर्दकश्चैव गायको वांशिकस्तथा ॥ १४ ॥
तथा मौर विकश्चैव पञ्चाचार्याः प्रकीर्तिताः ।
चतुर्वर्णानुलोमात्था नाट्यवेद कृतश्रमाः ॥ १५ ॥
भावना गेयनृत्तज्ञा वाद्यज्ञान विशारदाः ।
नव नाट्य रसज्ञाश्च मद्भक्ता वीत कल्मषाः ॥ १६ ॥
तेषु श्रैष्ठ इति प्रोक्तो नर्तको नृत्तशास्त्रवित् ।
नर्तने च स्वयं शक्तो मात्रागणन तत्परः ॥ १७ ॥
मर्दको मल्ल विद्यायां सम्यक् कृतपरिश्रमः ।
प्रवृत्ते शुद्धनृत्ते तु तदङ्गेक्षण तत्परः ॥ १८ ॥
गायको गान विद्याज्ञस्सप्तस्वर विशारदः ।
सप्त स्वर विभेदेन गायको गान नायकः ॥ १९ ॥
वाऽंसिकस्तद्वदेव स्यात् किन्तु वंशकृतश्रमः ।
सौख्ये तु वादयेद्वम्श मुदात्तादि विभेदतः ॥ २० ॥
वादयेन्मुखं सौख्य काले मौर विको मतः ।
नर्तको मर्दकोऽन्यश्च दक्षिणे तु व्यवस्थितौ ॥ २१ ॥
गायको वाम्शिकाख्यश्च वामभागे व्यवस्थितौ ।
अग्रे मौरविकस्सौख्ये वादयेन्मुखं तथा ॥ २२ ॥
ताः पूर्वसंस्कृतास्सर्वाः यद्यप्यासां पुनर्भवात् ।
पुनर्दीक्षा विध्येया स्यात् सा च लेशान्निगद्यते ॥ २३ ॥
अनुकूल दिने स्वस्याः पञ्चसंवत्सराधिकाः ।
पञ्चाशद्वत्सरान्तास्ता योग्या नैवेतराः क्वचित् ॥ २४ ॥
मण्डपं सौख्य नृत्तार्थं कारयेल्लक्षणान्वितम् ।
त्रस्त्रिंशत् कराद् द्विद्वि हस्ताभ्यां ह्वासयेद् द्विजाः ॥ २५ ॥
देवादि शूलं पर्यन्तं श्रष्ट मध्याधम क्रमात् ।
प्रत्येकं त्रित्रिमानानि तेष्विष्टं परिगृह्यताम् ॥ २६ ॥
युग्मेष्वेवं परिग्रायं देवादिप्रक्रमादिदम् ।
अथवा सर्व सामान्या मण्डपाः प्राग्विनिर्मिताः ॥ २७ ॥
पङ्क्तिहस्तादि भेदेन तेन ग्राह्यास्तु नर्तन ।
सर्वे च मण्डपाः कार्याः निवृत्त्यादि कलामयाः ॥ २८ ॥
तन्मध्ये च विधातव्यं शुद्धनृत्तं यथाविधि ।
नटेशं मण्डपेभ्यर्च्य साङ्गं गन्धादिभिस्ततः ॥ २९ ॥
आहूय रुद्र गणिकाः प्रोक्सयेत् शङ्खवारिणा ।
पञ्चाक्षरादि जप्तेन द्वाग्रे लेपिते पुनः ॥ ३० ॥
आसनं प्रणवं तत्र कल्पयेत्तस्य मध्यमे ।
क्षालितं वेत्रमादाय हेतितो येन देशिकः ॥ ३१ ॥
संस्थाप्य वेत्रं पूर्वाग्रम् उत्तराग्रमथापि वा ।
नन्दिनं तत्र सम्पूज्य गन्धपुष्पादिभ्र्गुरुः ॥ ३२ ॥
नववस्त्रस्त्रगुष्णीषस्सोत्तरीयस्सुमाल्यकैः ।
श्वेतचन्दन लिप्ताङ्गः आदिशैवोऽङ्गुलीयकैः ॥ ३३ ॥
सम्प्राप्त दक्षिणः पञ्च निष्काद्या दक्षिणा अपि ।
तच्छिष्यो वा तदादाय मूर्धादि क्रमशो न्यसेत् ॥ ३४ ॥
शिवायनम इत्येवं समस्तं शिरसि न्यसेत् ।
गन्धादिना समभ्यर्च्य प्राग्वद् वेत्रं पुनर्न्यसेत् ॥ ३५ ॥
नामोक्त्वा नन्दपूर्वं तु सम्बुध्यन्तं यथा भवेत् ।
नामान्तरं च दास्यामि दण्डिन्यस्तं महत्तरम् ॥ ३६ ॥
मदीयोत्सव कालादौ तव नृत्तानुकूलतः ।
एवं प्रशास्य तद्धस्ते प्रक्षिपेत् पुष्पसंहतिम् ॥ ३७ ॥
तामादाय तदा दद्याद् गुरवेऽञ्जलिसंयुतम् ।
पुनरादाय पुष्पाणि शिवाय विनिवेदयेत् ॥ ३८ ॥
ततः पञ्चपदीत्यादि नृत्तं यद् भरतोदितम् ।
शिव प्रीतिकरम् सौख्यं कारयेच्छिव सन्निधौ ॥ ३९ ॥
एवं स्त्रीणां तु दीक्षा स्यात् पञ्चाचार्येषु कथ्यते ।
देशिकस्य गृहे वाथ स्वगृहे वा मनोरमे ॥ ४० ॥
देवेशं मध्यमे भागे समभ्यर्च्याङ्ग संयुतम् ।
विन्यस्य तत्पुरः कुम्भं स्वर्णवस्त्रादि संयुतम् ॥ ४१ ॥
पञ्चाक्षरेण जप्तेन तत्तोयमभिमन्त्रयेत् ।
पञ्चाचार्यान् कृतस्नाताञ्शुक्लवस्तादिभिर्युतान् ॥ ४२ ॥
तदम्भसा तु सम्प्रोक्ष्य शिरः कूर्चेन संस्पृशेत् ।
पञ्चाक्षर समोपेतं तदा कर्माधि कारिता ॥ ४३ ॥
प्रवेशो रुद्रकन्यानामादौ सङ्क्षिप्य कथ्यते ।
निर्दिष्ट दिवसात् पूर्वं मङ्गलाङ्कुर माचरेत् ॥ ४४ ॥
प्रासादस्य चतुर्दिक्षु पूर्वास्यं मण्डपद्वयम् ।
विधाय मण्डपे पीठं बलिपीठ वशान्नयेत् ॥ ४५ ॥
सर्वस्मिन्मण्डपे कुण्डं स्थण्डिलं वा तदग्रतः ।
निष्पाद्य देवदेवेशं पूर्वेद्युस्सम्प्रपूजयेत् ॥ ४६ ॥
गन्धाद्यैर्युग सङ्ख्याता रुद्रकन्या उपोषिताः ।
धौतदन्ताश्च सुस्नातास्सर्वावयव शोभिताः ॥ ४७ ॥
सर्वमङ्गल संयुक्ताः पञ्चाचार्या स्तथाविधाः ।
कृतशर्वनताः शान्ता बद्धप्रतिसरान्विताः ॥ ४८ ॥
अधिवास्य च पूर्वेद्युः प्रातरेनां क्रियां नयेत् ।
संस्थाप्य देव देवेशं सहस्रकलशादिभिः ॥ ४९ ॥
सम्पूज्य गन्धपुष्पाद्यैः प्रभूतहविषान्वितम् ।
मण्डपाच्छिल्पिनं सम्यग् विसृज्यालिप्य गोमयैः ॥ ५० ॥
पुण्योद प्रोक्षणं कृत्वा ब्राह्मणान् भोजयेत्ततः ।
मध्यपीठस्य मध्ये तु यजेद्देवं सदाशिवम् ॥ ५१ ॥
नटेश्वरं देव्या च सासनं ब्रह्मविग्रहम् ।
साङ्गं चावरणोपेत मावृतिस्त्वधुनोच्यते ॥ ५२ ॥
नन्दिनं पूर्वदेशेतु ब्रह्माणं दक्षिणे यजेत् ।
स्कन्दं च पश्चिमे देशे विष्णुं सौम्ये समर्चयेत् ॥ ५३ ॥
तत्बहिर्ल्लोकपालांश्च शस्त्रजालं बहिर्यजेत् ।
पूर्वास्यां रुद्रमभ्यर्च्य गौरीदेव्या समन्वितम् ॥ ५४ ॥
प्राग्वदावरणोपेतं ब्रह्माणं दक्षिणे यजेत् ।
सरस्वत्या समोपेतं लोकपालादि संयुतम् ॥ ५५ ॥
पश्चिमे मण्डपे स्कन्दं लोकपालादि संयुतम् ।
उद्ग् विष्णुं यजेत् धीमान् लोकपालावृतिं बहिः ॥ ५६ ॥
संस्कृत्य वह्निं कुण्डं च स्वस्ववह्नौ स्वदेवताम् ।
आवाह्याभ्यर्च्य गन्धायैर्नाडी सन्धान पूर्वकम् ॥ ५७ ॥
होमयेच्छत सङ्ख्यातामावृतिं दशसङ्ख्यया ।
समिदाज्यान्न लाजैश्च तिलैः पूर्णां समाचरेत् ॥ ५८ ॥
देवं सम्पूज्य रङ्गे तु शुद्धनृत्तं च कारयेत् ।
प्रागुक्त विधिना पूर्वं संस्कृताश्चेद् द्विजोत्तमाः ॥ ५९ ॥
तद्धीनाश्चेत्तु संस्कारं कृत्वा नृत्तं च कारयेत् ।
नृत्तारम्भे च पूजा स्याद् देशिकस्य विशेषतः ॥ ६० ॥
पञ्चाचार्येषु कन्यासु वस्त्राद्यैर्भूषणादिभिः ।
भृतिं दद्यात्ततस्तासां यथा स्यात् प्रेम तुद्विजाः ॥ ६१ ॥
नित्योत्सवान्ते कर्तव्यं सौख्यं तद्रुद्रकन्यया ।
कृतस्नानाङ्ग भूषाढ्य शुक्लमाल्यादि युक्तया ॥ ६२ ॥
पञ्चाचार्य समोपेतं रङ्गेशं प्राग्वदावृतिम् ।
समभ्यर्च्य तदग्रेतु नव नाट्य रसान्वितम् ॥ ६३ ॥
श्लोकार्थ भावनोपेतं शुद्धनृत्तं समाचरेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च सन्ध्यात्रयाधिपाः स्मृताः ॥ ६४ ॥
प्रातर्मध्याह्वसायेषु क्रमाच्छ्लोकत्रयं पटेत् ।
मन्दार पुष्प परिकीर्ण विचित्रगन्ध मत्तालिबृन्दमधुरध्वनि-
गीतयुक्तः ।
नानाविधाङ्ग करणै रभिवर्धमानः पुष्पाञ्जलिर्भवतु मे
कमलासनाय ॥ ६५ ॥
भावानु बन्धेन रसोत्तरेण नृत्तेन नृत्तागम सम्भवेन ।
आमोद मत्तरलिभिर्रिकूजत् पुष्पाञ्जलिस्यात् पुरुषोत्तमाय ॥ ६६ ॥
सान्तानिकादि शिव संस्कृत रुद्रकन्या ।
नानाविधाभिनयकै रभिवर्धमानः ।
नाना प्रसून निच्यै र्नृपराष्ट्र वद्ध्यै ।
पुष्पाञ्जलिर्भवतु मे परमेश्वराय ॥ ६७ ॥
स्थापने प्रोक्षणेन्यत्र प्रायश्चित्तेऽद्भुतादिए ।
उत्सवे स्नपने मासपूजायां होमकर्मणि ॥ ६८ ॥
धजारोहण कलादौ काम्यादौ च विशिष्यते ॥ ६८१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे सौख्यकर्मविधिस्त्रिसप्ततितमः पटलः ॥

७४। चतुस्सप्ततितमे पटले वैशिष्य विधान विधिः

विधीयतेथ वैशिष्यं सर्वेषां सर्व कर्मसु ।
आचार्यः साधकोन्यश्च पुत्रक स्समयीति च ॥ १ ॥
महेश्वरेण पञ्चैते पुर्व पूर्व गुणाधिकाः ।
संस्कारेण विशेषोऽयञ्जात्या वैशि।य मुच्यते ॥ २ ॥
ब्रह्मणाद्याश्चतुर्वर्णास्त्वनुलोमाष्षडेवहि ।
प्राग्वदेव गुणोत्कृष्टा जात्या वैशिष्य मीर्तितम् ॥ ३ ॥
वयसा विद्ययाचैच भक्त्या वेराग्यतोऽपि वा ।
योगेन क्रियया वाथ चर्ययापि विशिष्यते ॥ ४ ॥
आदौ राजगुरू राजा तत्पत्नी तत्पुरोहितः ।
तपुत्रा मन्त्रीणश्चैते विशिष्यन्ते क्रमेण तु ॥ ५ ॥
आचार्यस्त्वर्चकश्चैव निष्कलस्येतरस्य च ।
दैवज्ञश्च क्रमेणैषां वैशिष्यं शिवधामनि ॥ ६ ॥
पश्चान्मठपती राजा तन्नियुक्तस्त्वनन्तरम् ।
मद्भक्ता नैष्ठिका पश्चात् भौतिका भृति वर्जिताः ॥ ७ ॥
परिचारक पूजकाश्च भक्ताश्च भृतिसंयुताः ।
स्वतन्त्रगान कृद्विणा मन्त्र गानादि तत्पराः ॥ ८ ॥
पञ्चाचार्याश्च मत्कन्या देवतास्यश्च वादकाः ।
क्रमेणैषां च वैशिष्यं स्वस्वकर्मभिरीरितम् ॥ ९ ॥
अनुक्तानामतोऽन्येषां तत्तत्कर्मानुरूपतः ।
ब्राह्मणादि क्रणेणापि ज्ञात्वा वैशिष्यमादरात् ॥ १० ॥
पूजयेद्देव कल्याणे पवित्रारोहणादिके ।
सर्वेषामुदितं तेषां मुख्यन्तं देशिकाज्ञया ॥ ११ ॥
देशिकोहमिति प्रोक्तो येन तेन गुरुर्वरः ।
देशिकाज्ञा ममाज्ञा सा मयैवोक्ता शिवागमे ॥ १२ ॥
तस्मादादौ तु सर्वेषां पूजनीयो यथाह्यहम् ।
सन्मार्गादि क्रमेणापि वैशिष्यमिह संअतम् ॥ १३ ॥
सन्मार्गी पुत्रमार्गी च सहमार्गी तथापरः ।
दासमार्गी चतुर्धैषां क्रमात् वैशिष्य मिष्यते ॥ १४ ॥
सन्मार्गी त्यक्त संस्कारस्समर्थः शुचि भक्तियुक् ।
पुत्रमार्गी भवेत् सर्व शैवागमविशारदः ॥ १५ ॥
पुत्री कृत जनश्चैवाचार्य स्सान्तानिकश्च सः ॥ १६ ॥
सहमार्गी शिवार्चाग्नि जपहोमं परायणः ।
प्रवेशक श्शिवज्ञानी त्वौप देशिक एव वा ॥ १७ ॥
दासमार्गी शिवोद्यानलिङ्ग बिम्बालयादि कृत् ।
शैव नृत्त नति स्तोत्र गान् कृद्द्रोहिमर्दकः ॥ १८ ॥
एवं बहु प्रकारेण शैवैस्सह विचार्य च ।
एवं गुण समायुक्तैः विशिष्यं परिकल्पयेत् ॥ १९ ॥

इति उत्तर कामिकाख्ये महातन्त्रे वैशिष्य विधान विधिः चतुस्सप्ततितमः
पटलः ॥

७५। पञ्चसप्ततितमे पटले व्याधिनाश विधान विधिः

व्याधिनाश विधानं तु वक्ष्ये सङ्क्षेप्तः क्रमात् ।
सर्वेषामपि मर्त्यानां भूपतीनां विशेषतः ॥ १ ॥
गोगजाश्वाज महिष प्रमुखानां चतुष्पदाम् ।
ज्वरमारिग्रहा वेशापस्मारेषु विशेषतः ॥ २ ॥
क्षयशोफप्लिहागुल्मशूलाद्युन्माद शाधने ।
वात पित्तकफोद्रेके दाहमोह वणोकटे ॥ ३ ॥
महोदराश्मरी ग्रन्थि प्रमेहादि समुद्भवे ।
एवमन्यमहाव्याधौ शिरोदृग्दन्तकर्णजे ॥ ४ ॥
आस्याद्यङ्ग समुद्भूतरोगेऽनुक्ते समुत्थिते ।
पालकादि समुत्पत्तौ गजादीनां द्विजोत्तमाः ॥ ५ ॥
तद्व्याधि निवृत्यर्थं रोगानुत्पत्तिहेतेवे ।
पुष्ट्यर्थं च बलार्थं च विधिर्गेशान्निगद्यते ॥ ६ ॥
देवालये नदीतीरे पर्वते काननेऽपि वा ।
अन्यस्मिन् पुण्यदेशे तु तत्तत्स्थाने स्वमन्दिरे ॥ ७ ॥
गुप्ते मनोरमे शुद्धे गोमयेनानुलेपिते ।
लिङ्गे वा मण्डले कुम्भे स्थण्डिले फलकादिषु ॥ ८ ॥
शिवादि प्रमुखान्देवान् आवाह्याभ्यर्च्य पूर्ववत् ।
गन्ध पुष्पैस्सधूपैश्च दीपैश्च हविषान्वितम् ॥ ९ ॥
स्नपनेन समोपेतं पञ्चगव्यामृतादिना ।
सम्पूज्येष्टमं देवं जपं कुर्याद्विचक्षणः ॥ १० ॥
अयुतं वा तदर्धं वा अयुतार्धार्धमेव वा ।
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥ ११ ॥
तत्तन्मन्त्रानुरूपेण जपकर्म समाचरेत् ।
मन्त्रमुच्चार्य हे देव व्याधिं नाशय नाशय ॥ १२ ॥
पठित्वा देवदत्तस्य पदं चात्र विशेषतः ।
एवं जपं विधायैत दिष्टदेवे निवेदयेत् ॥ १३ ॥
गन्ध पुष्पाक्षतोपेतं कुशदूर्वादलान्वितम् ।
स्तुत्वा प्रणम्य देवेशं होमस्थानं समाश्रयेत् ॥ १४ ॥
तत्पूर्वे चैश दिग्भागे चतुरश्रेऽथ वृत्तके ।
कुण्डे वा स्थण्डिले वाथ शिवाग्निं विधिना नयेत् ॥ १५ ॥
तन्मध्ये त्विष्टदेवं स्यातु समावाह्य समर्चयेत् ।
गन्धाद्यैस्समिदाज्यान्नतिलः कल्पोदितैस्तु वा ॥ १६ ॥
होमं जपाद्दशांशं तु शतमष्टोत्तरं तु वा ।
कृत्वा पूर्णां समादाय तस्माद्भस्म विसर्जयेत् ॥ १७ ॥
देवं कुम्भं शिवाग्निं च गत्वा कुम्भान्तिकं गुरुः ।
होम कर्म निवेद्यास्मै देवं स्तुत्वा प्रणम्य च ॥ १८ ॥
तत्कुम्भसंस्थतोयेन व्याधितं प्रोक्षयेत्सुधीः ।
तद्भस्मालेपनं कुर्यात्तन्मन्त्र ध्यान संयुतम् ॥ १९ ॥
रुद्रादिभ्यो बलिं दद्याद्दध्यन्नं सधृतं गुरुः ।
होमान्ते वा बलिं दद्यादन्यथापि निगद्यते ॥ २० ॥
कृत्वा प्रतिकृतिं पैष्टिं तदाकृत्यनु रूपतः ।
गन्धपुष्पादिनाभ्यर्च्य तथा बल्यन्तमेव च ॥ २१ ॥
नाना व्यञ्जन संयुक्तं पायसं मौद्गमेव वा ।
शुद्धान्नं वाज्य संयुक्तं दध्यपूपादि संयुतम् ॥ २२ ॥
प्रत्यहं तु त्रिसन्ध्यायामेककालेऽथवा पुनः ।
चतुरे चैत्य वृक्षस्य मूले रथ्यामथापि वा ॥ २३ ॥
मातृस्थान समीपे वा श्मशानादौ विनिक्षिपेत् ।
यस्सत्वो देवदत्तं तु समाश्रित्येह वर्तते ॥ २४ ॥
तस्यैवेष बलिर्भूयान्मन्त्रस्साधारणो मतः ।
एकाहादि दशाहान्तं मासात्संवत्सरान्तकम् ॥ २५ ॥
वत्सराच्छत वर्षान्तमात्मनः प्राणिनामिह ।
बलिरेष समाख्यातो धूपदीपसमन्वितः ॥ २६ ॥
पताकास्वादुपानीय युक्तसाधारणो मतः ।
अथवान्य प्रकारेण व्याधिमोचनमुच्यते ॥ २७ ॥
लिङ्गादौ देवमभ्यर्च्य जपहोमौ समाप्य च ।
सौवर्णां राजतां वाथ शतनिष्क विनिर्मिताम् ॥ २८ ॥
तदर्ध निर्मितां वाथ पञ्चविंशति निर्मिताम् ।
दशनिष्कमिमां वाथ पञ्चनिष्क विनिर्मिताम् ॥ २९ ॥
तदर्ध निर्मितां वापि निष्कमात्रमितं तु वा ।
कुर्यात् प्रतिकृतिं विद्वान् वित्तशाठ्यं न कारयेत् ॥ ३० ॥
रोगार्त रूपं निर्माय तत्तदाकृतिरूपतः ।
कालरूपं तु वा नेमिरूपं रूपान्तरं तु वा ॥ ३१ ॥
पूर्वोक्त विधिनाभ्यर्च्य तच्छिवाय प्रदापयेत् ।
अनेन विधिना रोगी अरोगी स्यान्न संशयः ॥ ३२ ॥
केवलं बलिदानं वा चतुर्मासान्तमेव वा ।
पञ्चषण्मासपर्यन्तं यावत् व्याधि विनाशनम् ॥ ३३ ॥
अथवान्य प्रकारेण व्याधिनाशनमुच्यते ।
अष्टम्यां वा चतुर्दश्यां पर्वण्यापि च पक्षयोः ॥ ३४ ॥
ग्रहणे विषुवे वापि द्वयोरयनयोरपि ।
स्वजन्मर्क्षेऽनु जन्मर्क्षे शुद्धदेशे मनोरमे ॥ ३५ ॥
गोमयेनानुलिप्तेऽथ प्रोक्षयेदस्त्रवारिणा ।
स्थण्डिलं तत्र कृत्वान्ते साधयेत् कलशान्नवा ॥ ३६ ॥
पञ्चविंशति सङ्खायतान् पञ्चसङ्ख्यानथापि वा ।
एको वा मध्यमे तेषां घटस्स्याद्द्रोणपूरितः ॥ ३७ ॥
ससूत्रान्सापिधानांश्च सवस्त्रान्हेम संयुतान् ।
सर्वौषधि समायुक्तान्नानाबीज समन्वितान् ॥ ३८ ॥
सकूर्चान् पल्लवोपेतांश्चन्दनाक्षत संयुतान् ।
गन्धतोय समायुक्तांस्तत्तन्मन्त्र समन्वितान् ॥ ३९ ॥
अभ्यर्च्य गन्धपुष्पाद्यैः धूपदीपैर्विशेषतः ।
तत्तन्मन्त्रशतालब्धां स्तत्पूर्वे वा चतुर्ष्वपि ॥ ४० ॥
होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेऽपि वा ।
शिवाग्नौ जुहुयाद्धीमान् समिदाज्यान्न संयुतम् ॥ ४१ ॥
तस्मात्तद्भस्म सङ्ग्राह्य व्याधितं स्नापयेद् गुरुः ।
गोमयालिप्तदेशे तु फलकोपरि संस्ह्तितम् ॥ ४२ ॥
तत्तदूत्तर देशस्थं स्नापयेद्रोगसंयुतम् ।
निर्मृज्य पैष्टिकैवापि यवाद्यैर्गोमयोद्भवैः ॥ ४३ ॥
स्नापयेत् संस्मरन्मन्त्रं तत्तद्ध्यान समन्वितम् ।
प्रोक्षयेद्वाथ मन्त्रेण तद्भस्मालेपनं ततः ॥ ४४ ॥
कुर्याद्रोगयुतस्सोपि पूजयेद्देशिकं तदा ।
राज्ञां पट्टभृतां वाथ सामन्तानां महात्मनाम् ॥ ४५ ॥
साधयेच्छत सङ्ख्यातान् कलशाष्टक संयुतान् ।
पञ्चाशत् सङ्ख्यया तेभ्यो न हीनान् साधयेत्गुरुः ॥ ४६ ॥
कलशेष्वपि सर्वेषु मनुरेकस्तु पूज्यते ।
मध्यमे च विशेषेण तैस्तान् संस्नापयेद् गुरुः ॥ ४७ ॥
अथान्योऽपि प्रयोगः स्याद् व्याधिनाशो विशेषतः ।
आदित्योदयमारभ्य जले स्थित्वा मनुं जपेत् ॥ ४८ ॥
अयुतं वा तदर्धं वा तदर्धं वा सहस्रकम् ।
शतमष्टोत्तरं वापि प्रत्यहं जपमाचरेत् ॥ ४९ ॥
सर्वत्र तर्पणं कुर्यात् प्रागुक्तैर्वक्ष्यमाणके ।
होमेन समसख्यां वा जप तुल्यं परं मतम् ॥ ५० ॥
शक्तश्चेज्जलमध्यस्थो जपेन्नित्यं समाचरेत् ।
अनेनापि प्रकारेण भूर्जपत्र त्वगादिके ॥ ५१ ॥
सुमुहूर्ते सुलग्ने तु व्याधितस्यानुरूपके ।
कुङ्कुमेन लिखेद्वर्णां तद्देवेज्यापुरस्सरम् ॥ ५२ ॥
पूर्वहोमसमायुक्तं जपतर्पणं संयुतम् ।
विधाय जपमात्रं वा गोरोचनयुतं तु वा ॥ ५३ ॥
शलाकया लिखित्वार्णान्नाराचेनाथवा गुरुः ।
सम्पूज्य गन्धपुष्पाद्यैः र्गुलिकां कारयेत्ततः ॥ ५४ ॥
स्वर्णेन रजतेनाथ बध्वा ताम्रेण तत्नुना ।
लाक्षया वाथ सा धार्या यावत् व्याधि विमोचनम् ॥ ५५ ॥
दुर्बलो बलवान्धीर स्सर्वैस्सम्पूज्यते भुवि ।
कर्णे वा कण्ठदेशे वा शिखायां वा करेऽपि वा ॥ ५६ ॥
नाधः कटि प्रदेशाच्च मन्त्रसन्निधि हेतवे ।
प्रत्यहं पूजनीयो वा मन्त्रस्सर्वफलप्रदः ॥ ५७ ॥
जपं वा कारयेन्नित्यं पूजां श्रद्धासमन्वितः ।
पूजां होमं च वा नित्यं जपतर्पण संयुतम् ॥ ५८ ॥
एवं करोति यो मर्त्य स्सोऽनिष्टैर्विप्रयुज्यते ।
बलवान् प्रियदर्शश्च राजा धार्माधिको भवेत् ॥ ५९ ॥
अशक्तानां च सर्वेषां शक्तः कर्मणि देशिकः ।
तन्नियुक्तो वाथवा नान्यो विशेषाद्राज कर्मणि ॥ ६० ॥
विस्वासस्तत्र कर्तव्यो यः परानुग्रहे रतः ।
सर्वत्र सर्वधा सोऽयमादिशैवः प्रक्रीर्तितः ॥ ६१ ॥
गजानां बाधकादौ तु रोगे शान्तिरिहोच्यते ।
मध्ये वा गजशालायां शूलस्थाने मनोरमे ॥ ६२ ॥
शिवस्य हर्म्ये विष्ण्वो र्वा दुर्गाया भास्कररस्य च ।
विघ्नराजस्य शास्तुश्च मातृणामालयेऽपि वा ॥ ६३ ॥
नद्यास्तीरे तटाकस्य देवोद्यानेऽन्यदेशके ।
गोमयेनोपलिप्याथ प्रोक्षयेदस्त्र वारिणा ॥ ६४ ॥
स्थण्डिलं विधिना कृत्वा शालिभिस्तण्डुलैस्ततः ।
लाजदर्भ समायुक्तं द्रोणतोय प्रपूरितम् ॥ ६५ ॥
स कूर्चं सापिधानं च गन्धोदक समन्वितम् ।
एला कुङ्कुम कर्पूर फलत्रय समन्वितम् ॥ ६६ ॥
दूर्वापत्र समायुक्तं श्वेततण्डुल चर्चितम् ।
तत्र साङ्ग मघोरास्त्रं सासनं सम्यगर्चयेत् ॥ ६७ ॥
पङ्कजासन मध्यस्थं षड्भुजं सत्रिलोचनम् ।
सर्वाभरण संयुक्तं पूर्ण चन्द्र समप्रभम् ॥ ६८ ॥
कपालशूल संयुक्तं धनुर्बाण समन्वितम् ।
ऊर्ध्वकेशं विरूपाक्षं खड्गखेटकधारिणम् ॥ ६९ ॥
एवं ध्यात्वा द्विजश्रेष्टा अघोरास्त्रस्वरूपणम् ।
पूर्वोक्ता कृतिसंयुक्तं श्वेतवर्णमथापि वा ॥ ७० ॥
गन्ध पुष्प समायुक्तं धूपदीप समायुतम् ।
नैवेद्यमुपपदंशाद्यं सताम्बूलं निवेदयेत् ॥ ७१ ॥
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।
प्रत्यहं तु जपं कुर्यादस्त्रराजेन देशिकः ॥ ७२ ॥
तस्याग्रे वैशदिग्भागे वृत्ते वा चतुरश्रके ।
कुण्डे वा स्थण्डिले वापि शिवाग्नौ होममाचरेत् ॥ ७३ ॥
समिदाज्य चरूपेतं तिलतण्डुल संयुतम् ।
क्षीरवृक्ष समुद्भूता बिल्वजा ब्रह्म वृक्षजाः ॥ ७४ ॥
समिधस्सम्प्रशस्तास्स्युः दूर्वाहोमोऽथवा मताः ।
संहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ॥ ७५ ॥
प्रायश्चित्तं ततो हुत्वा पूर्णामन्ते समाचरेत् ।
तद्भस्म सङ्ग्रहं कृत्वा देवं कुम्भे विसर्जयेत् ॥ ७६ ॥
तत्तो प्रोक्षणोपेतं भस्मलेपनं नित्यशः ।
ग्रहा रोगाश्च नश्यन्ति तेषां पुष्टिश्च जायते ॥ ७७ ॥
अनुत्पत्तिश्च रोगाणां तेषामायुष्यमेव च ।
स्यात्तेषां विजयी स्वामी यत्रैष क्रियते विधिः ॥ ७८ ॥
रुद्रादिभ्यो बलिं दद्यात् क्षेत्रपालान्तिमं यथा ।
बलिभिर्लोकपालेभ्यः कृतगोमय मण्डले ॥ ७९ ॥
गजशाला समीपे वा होमस्थानेऽथवा बैः ।
एष एव विधिः प्रोक्तो हयादीनां तु रक्षणे ॥ ८० ॥
किं तु धूम्रनिभो देवो ध्यातव्यस्साधकोत्तमाः ।
गज यूथं हयाजं वा गोमहिष्यादिकं तु वा ॥ ८१ ॥
सम्यक् संरक्षणीयं स्यात् अस्त्रराजाहितं तदा ।
तत्सर्वं व्याधिनिर्मुक्तं हृष्ट पुष्टं विचिन्तयेत् ॥ ८२ ॥
पूर्वाह्ने वाथ मध्याह्ने रात्रावेतत्समाचरेत् ।
एककालं द्विकालं वा त्रिकालं वा विशिष्यते ॥ ८३ ॥
नित्यं यः कारयेद्राजा स पुण्यो विजयी भवेत् ।
साधकं पूजयेत् कर्ता सन्तुष्टस्य यथा भवेत् ॥ ८४ ॥
हयानां च गजानां च रक्षणं चान्यथोच्यते ।
तर्पणं प्रथमं कृत्वा जलेन तदनन्तरम् ॥ ८५ ॥
कुम्भेऽधोरं समभ्यर्च्य स्थण्डिले शास्त्रचोदिते ।
अष्टद्रोणैस्तदर्धैवा खारिभिः द्रोणनिर्मितैः ॥ ८६ ॥
तदर्धैर्वा दरिद्रश्चेत् तस्याप्यर्धेण वा द्विजाः ।
व्रीहिभिः स्थण्डिलं कृत्वा तत्तदर्धैश्च तण्डुलैः ॥ ८७ ॥
तिलैर्लाजसमोपेतैः गन्धपुष्प समन्वितम् ।
तन्मध्ये द्रोण सम्पूर्णं कुम्भं विन्यस्य देशिकः ॥ ८८ ॥
सापिधानं सकूर्चं च ससूत्रं पल्लवान्वितम् ।
पूर्वोक्त द्रव्य संयुक्तं गन्धतोयप्रपूरितम् ॥ ८९ ॥
तन्मध्येऽघोरमावाह्य पूर्वोक्त ध्यान संयुतम् ।
चन्दनं च लघूपेतं पुष्पं धूपं च दीपकम् ॥ ९० ॥
नैवेद्यं च निवेद्याथ शुद्धं पायसमेव वा ।
ताम्बूलेन समोपेतं होमं पश्चात् समापयेत् ॥ ९१ ॥
समिदाज्य चरूपेतं तिलसर्षप लाजकैः ।
क्षीरवृक्षसमुत्पन्न समिद्भिर्दूर्वयाथवा ॥ ९२ ॥
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा ।
पञ्चाशत्सङ्ख्यया वाथ पञ्चविंशति सङ्ख्यया ॥ ९३ ॥
प्रतिद्रव्यं च जुहुयात् अघोराणुं समुच्चरन् ।
अघोरास्त्रं तत्सख्यं भक्ताद्य चोत्तरामुखः ॥ ९४ ॥
कुण्डद्वये वा होतव्यम् एकस्मिन्स्थण्डिलेऽपि वा ।
पूर्णाहुति प्रधानेन मनुना तर्पयेन्नवा ॥ ९५ ॥
पृथक् पूर्णाहुतिं दत्वा तदन्ते बलिमाचरेत् ।
साज्येनान्नेन मध्ये तु दिक्वष्टासु बलिं नयेत् ॥ ९६ ॥
अघोरास्त्रेण मन्त्रेण बलिः स्वाहान्त ईरितः ।
कुण्डस्यैशान दिग्भागे बलिमेनं तदाचरेत् ॥ ९७ ॥
अघोररास्त्र महाज्वाला विस्फुलिङ्ग शिखान्वितः ।
पूजितस्तर्पितो येन बलितुष्टोऽधुना ततः ॥ ९८ ॥
रक्ष रक्ष गजानस्य स्वामिनं च विशेषतः ।
स्वाहान्ते बलिरिष्टः स्यात् तर्पणं च विशेषतः ॥ ९९ ॥
पूर्वाह्ने वाथ मध्याह्ने रात्रौ कुर्यात् क्रियामिमाम् ।
महाबलिश्चेत् कर्तव्यो मध्यरात्रे समाचरेत् ॥ १०० ॥
अन्नं मधुघृतोपेतं दधिलाज समन्वितम् ।
कदलीफल संयुक्त मपूपैश्च समन्वितम् ॥ १०१ ॥
नानाघोषसमायुक्तं भैरवाद्यैस्समन्वितम् ।
दीपहीन बलिं दद्यात् ग्रामादौ नित्यमेव च ॥ १०२ ॥
विशेषाद्राज सदने रक्ष्यस्थाने द्विजोत्तमाः ।
अघोरास्त्र ध्वजोपेतं मौनव्रत समन्वितम् ॥ १०३ ॥
क्षेत्रपालबलिं दद्यात् रुद्रादिभ्यो यथाबलिम् ।
तदन्ते कुम्भतोयेन व्याधितान् प्रोक्षयेत्ततः ॥ १०४ ॥
अघोरं च तदस्त्रं च तस्मिन् काले समुच्चरन् ।
तन्मन्त्रमन्त्रितं भस्म दद्यान्मन्त्रद्वयं स्मरन् ॥ १०५ ॥
दद्यात् होमोद्भवं भस्म नीरोगास्युर्द्विजोत्तमाः ।
गुरुं सन्तोषयेत् कर्ता भोजनाद्यश्च देशिकम् ॥ १०६ ॥
तुष्टेन गुरुणा सर्वं तुष्टं स्थावर जङ्गमम् ।
आलयादावघोरं तु कृत्वा संस्थाप्य देशिकः ॥ १०७ ॥
शैलादावर्चयेन्नित्यं होमं च बलिमाचरेत् ।
कृत्वादौ घटसंस्थं तु न्यस्य पूजादिकं नयेत् ॥ १०८ ॥
व्याधयस्सोपसर्गाश्च नश्यन्त्यस्मिन्धरातले ।
केवलं तर्पणं वाथ पूजां हवन संयुताम् ॥ १०९ ॥
केवलं यजनं होमं बलिं नित्यं समाचरेत् ।
मर्त्यानामपि सर्वेषाम् एतत्सामान्यमुच्यते ॥ ११० ॥
होमयेज्जपकार्यं तु पूजान्ते नित्यमाचरेत् ।
केवलं वा जपं कुर्यात् सर्वोपद्रव शान्तये ॥ १११ ॥
उच्च्यतेन्यप्रकारेण गजानां व्याधिनाशनम् ।
शुद्धदेशमनुप्राप्य गोमयेनानुलेपयेत् ॥ ११२ ॥
द्रोणपूर्णं समादाय कुम्भं बिम्ब समप्रभम् ।
तन्तुना वेष्टयित्वा तु द्रोण ब्रीहि विनिर्मिते ॥ ११३ ॥
तदर्ध तण्डुलोपेते तण्डुलार्ध तिलान्विते ।
तिलार्ध लाजसंयुक्ते स्थण्डिले स्नापयेत् बुधः ॥ ११४ ॥
तन्मध्ये विन्यसेत् कूर्चं पञ्चदर्भ विनिर्मितम् ।
विन्यसेत् कुम्भमध्ये तु द्रव्याण्येतानि चन्दनम् ॥ ११५ ॥
फलत्रय समायुक्तं कुष्टोशीरसमन्वितम् ।
एलालवङ्ग संयुक्तं चूर्णितानि विनिक्षिपेत् ॥ ११६ ॥
छादयित्वा पिधानेन कल्पयेदासनं बुधः ।
आधाराख्यमनन्तं च धर्माद्यं च चतुष्टयम् ॥ ११७ ॥
अधर्मादि चतुष्कं तु अधश्चोर्ध्वछदान्वितम् ।
तन्मध्ये संस्मरेत् पद्मं बीजनालदलानि च ॥ ११८ ॥
कर्णिकास्वस्व मन्त्रेण पूजये दासनं गुरुः ।
मूर्ति भूतं स्मरेत् कुम्भं पूर्वोक्तध्यान संयुतम् ॥ ११९ ॥
तन्मध्ये प्रणवं देवमघोरं दक्षिणामुखम् ।
अघोराणुम् समुचार्य यजेत् पाद्यादिभिर्गुरुः ॥ १२० ॥
चन्दनोशीर संयुक्तं पादयोः पाद्यमाचरेत् ।
एलालवङ्ग संयुक्तं फलत्रय समन्वितम् ॥ १२१ ॥
दद्यादाचमनीयापः पश्चादष्टाङ्ग मर्घ्यकम् ।
आपः क्षीर कुशाग्राणि तण्डुलास्सुमनास्थिलाः ॥ १२२ ॥
अर्घ्योष्टाङ्ग इति प्रोक्तो यवैस्सिद्धार्थकैस्सह ।
चन्दन लघु कुष्टं च गन्धाद्यं त्रयमुच्यते ॥ १२३ ॥
नाना पुष्पाणि पत्राणि धूपं दद्यादनन्तरम् ।
तत्पद्मदलमूले तु दक्षिणेऽस्त्रं समुच्चरन् ॥ १२४ ॥
अघोरास्त्रं समभ्यर्च्य प्राग्वत् पाद्यादिकं गुरुः ।
दत्वा स्वावरणोपेतं निरावरणमेव वा ॥ १२५ ॥
भैरवानथसिताङ्गादीन् पूजयेत् प्राग्दिगादितः ।
असिताङ्गो रुरुश्चण्डः क्रोत उन्मत्त भैरवः ॥ १२६ ॥
कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः ।
तद्बाह्ये लोकपानिष्ट्वा तदस्त्राणि च तद्बहिः ॥ १२७ ॥
अस्त्रावरण मात्रं वा लोकभृद्भैरवैर्वतान् ।
गन्धाद्यै रावृतानिष्ट्वा दीपमाज्य समुद्भवम् ॥ १२८ ॥
नैवेद्यं सोपदंशं तु साज्यं देवाय कल्पयेत् ।
अघोराय तदस्त्रय पानीयं च निवेदयेत् ॥ १२९ ॥
विनिवेद्य च ताम्बूलं जपेदष्टोत्तरं शतम् ।
अघोराय तदस्त्राय सन्निवेद्य जपं गुरुः ॥ १३० ॥
तदग्रे होमयेद्विद्वान् स्थण्डिले सैकते बुधः ।
प्राग्वत् कुण्डस्य संस्कारं पञ्चसंस्कार संस्कृते ॥ १३१ ॥
यजनोक्त क्रमेणैव वह्नावावाह्य होमयेत् ।
क्षीर वृक्ष समिद्भिश्च घृतेन चरुणा पुनः ॥ १३२ ॥
लाजैश्च तण्डुलोपेतैः तिलैरष्टोत्तरं शतम् ।
ताम्बूलं जुहुयादन्ते स्वदेवायास्त्र रूपिणे ॥ १३३ ॥
होमं कृत्वा तदन्ते तु पूर्णाहुतिमथाचरेत् ।
अघोरेण च तद्भस्म सङ्ग्राह्यास्त्रेण रक्षयेत् ॥ १३४ ॥
भोगाङ्गं च लयाङ्गं च कृत्वा वह्निं विसर्जयेत् ।
होमकर्म निवेद्याथ कुम्भस्थेऽघोर रूपिणे ॥ १३५ ॥
प्रार्थयेद्वाच्छितं कर्म लब्धानुज्ञस्ततो बुधः ।
दत्वा पराङ्मुखार्घ्यं तु भोगाङ्गान्युपसंहरेत् ॥ १३६ ॥
कृत्वा लयाङ्गमस्ताणुमघोरमुपसंहरेत् ।
हृत्सरोरुह मध्ये तु स्व्स्यान्यानपि शम्बरान् ॥ १३७ ॥
तस्मादुद्धृत्य कुम्भं तु व्याधिस्थभिषेचयेत् ।
प्रोक्षयेद्वाथ तत्तोयैः प्रत्यहं त्वेवमाचरेत् ॥ १३८ ॥
सर्वार्थं तद्भुवं वाथ सेचयेदङ्कणादिकान् ।
हित्वाघोरमघोरास्त्रं कुम्भमध्येऽथवार्चयेत् ॥ १३९ ॥
एकाहं वा त्र्यहं वाथ पञ्चसप्ताहमेव वा ।
पक्षाहं वाथ मासं वा द्वित्रिमासमथापि वा ॥ १४० ॥
प्रत्यहं वा प्रकर्तव्यं पालकादि ज्वरापहम् ।
यत्रैतत् क्रियते शान्तिर्नष्टरोगा गजादयः ॥ १४१ ॥
पुष्टाश्चैव भवेयुस्ते नात्र कार्या विचारणा ।
तद्वज्जगत्पतिः पुष्टो नीरोगी च भवेद्ध्रुवम् ॥ १४२ ॥
एष एव विधिः कार्यो ह्यश्वानां रोगशान्तये ।
महिषाज गवामेवं कारयेद्विजसत्तमाः ॥ १४३ ॥
अथोपयुक्तं यद् द्रव्यम् आचार्याय प्रदापयेत् ।
प्रत्यहं भोजनादीनि दद्यादाज्य समन्वितम् ॥ १४४ ॥
तदन्ते दक्षिणां दद्याद् यथाशक्त्या नृपोत्तमाः ।
एवं वाह्नि च रात्रौ वा कर्म नित्यं समाचरेत् ॥ १४५ ॥
होमान्ते तु बलिं दद्यात् रात्रौ प्रत्यहमाचरेत् ।
गजानां वा हयानां वा शालायमङ्कणेऽपि वा ॥ १४६ ॥
तत्समीपेऽथवा कार्यो बलिरन्नाज्य संयुतम् ।
शुद्धे मनोरमे देशे गोमयेनोपलेपयेत् ॥ १४७ ॥
सम्प्रोक्ष्य त्वम्भ साधोर मघोरास्त्र समन्वितम् ।
वज्रादि चक्र पर्यन्तं शस्त्रावरण संयुतम् ॥ १४८ ॥
गन्धाद्यै रर्चयित्वा तु स्वाहान्तं बलिमाचरेत् ।
वायु वारुण दिग्भागे क्षेत्रेशस्य बलिं क्षिपेत् ॥ १४९ ॥
हित्वाघोरमघोरास्त्रं केवलं मध्यमे यजेत् ।
अस्त्रावरण संयुक्तं रुद्रादिभ्यो यथा बलिः ॥ १५० ॥
यत्रैष क्रियते राष्ट्रे बलिः प्रत्यहमादरात् ।
नोप सर्गभयं तत्र रोगपीडा न विद्यते ॥ १५१ ॥
उत्पन्नरोग नाशश्च भवत्येव न संशयः ।
कर्तुः कारयितुश्चापि देशिकस्य विशेषतः ॥ १५२ ॥
अघोरस्य तदस्त्रस्य यजनं होम संयुतम् ।
वर्तते बलि संयुतं यस्य राष्ट्रेषु तस्य तु ॥ १५३ ॥
आयुष्यमभिवृद्धिश्च भवेन्नीरोगता द्विजाः ।
अनेन सदृशो योगो दुरिक्षयहेतुकः ॥ १५४ ॥
नास्ति लोके यतस्तस्मात् यत्नादेवं समाचरेत् ॥ १५४१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे व्याधिनाशविधान विधिः
पञ्चसप्ततितमः पटलः ॥

७६। षट्सप्ततितमे पटले राज रक्षा विधिः

राज्ञां रक्षा विधानं तु प्रवक्ष्यामि समासतः ।
भस्म कल्पादिजं सूक्ष्मं मन्त्र संस्कृतम् ॥ १ ॥
ईषद्रक्तं नृपे दद्यान्नाभेरूर्ध्वं गुरूत्तमः ।
ललाट मुख हृन्नाभि बाहुमूलद्वये मनुम् ॥ २ ॥
ईशानाद्यं स्मरन्दद्यादिष्टमन्त्रेण वा सुधीः ।
मध्यमस्थैस्त्रिभिः कुर्यादङ्गुलैदैवतात्मकैः ॥ ३ ॥
ब्रह्मविष्ण्वीश देवाद्यै रीशानादि क्रमेण तु ।
दद्याद्वानाभिकाङ्गुल्या तद्देवात्मिकया शुचिः ॥ ४ ॥
ब्रह्म विष्णु शिवा मूल पर्वादेरनु पूर्वशः ।
स्वानुकूलेन मन्त्रेण तत्तत् कर्त्रनुरूपिणा ॥ ५ ॥
सर्वमन्त्राश्च योग्या स्युः चतुर्जातिसमन्विताः ।
प्रणवादि नमोऽन्तं तु ब्राह्मणस्य प्रयोजयेत् ॥ ६ ॥
स्वाहान्तं क्षत्रियस्योक्तं वैषडन्तं विशां मतम् ।
वौषडन्तं तु शूद्राणां तद्देव ध्यान सम्युतम् ॥ ७ ॥
स्व स्व जातीश मन्त्रैर्वा तेषां रक्षा विधीयताम् ।
दद्याद्यज्ञोपवीतं तु स्व स्व जातीश मन्त्रितम् ॥ ८ ॥
स्वानुकूलानु सञ्जप्तमथवा विनिवेदयेत् ।
यज्ञोपवीतद्वितयं स्वोत्तरीयं नृपे मतम् ॥ ९ ॥

इति उत्तरकामिकाख्ये महातन्त्रे राजरक्षाविधिः षड्सप्ततितमः पटलः ॥

७७। सप्तसप्ततितमे पटले दुर्गा पूजा विधिः

दुर्गा पूजा विधिं वक्ष्ये सर्वकामार्थसाधनीम् ।
लोकाभिचार पूर्वं तु श्रूयतां द्विजसत्तमाः ॥ १ ॥
कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता ।
मूलनक्षत्र संयुक्ता सा महानवमी स्मृता ॥ २ ॥
आश्वयुक्शुक्लपक्षे वा अष्टमी मूल संयुता ।
सा महानवमी नाम्ना त्र्यैलोक्येऽति सुदुर्लभा ॥ ३ ॥
अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् ।
पूजयित्वाश्वयुङ्मासि विशोको जगति द्विषः ॥ ४ ॥
सन्तर्जयति हुङ्कारैः खड्गोपान्तकरान् परान् ।
तस्यायेऽप्युपयुज्यन्ते प्राणिनो महिषादयः ॥ ५ ॥
सर्वे ते सुगतिं यान्ति यतः पापो न विद्यते ।
भवानी प्राङ्गणे प्राणान् ये च मुच्चन्ति देहिनः ॥ ६ ॥
तेषां स्वर्गे भवेद्वासः वीरास्तेप्सरसां प्रियाः ।
पूजनीया जनैर्धीराः स्थाने स्थाने पुरे पुरे ॥ ७ ॥
गृहे गृहे भुक्तिपरैर्ग्रामे ग्रामे वने वने ।
प्रागुदक् प्रवणे देशे रुद्राष्टाब्धिकरैर्गुरुः ॥ ८ ॥
मण्डपं कारयेत् कुण्डमाग्नेयां हस्तमात्रतः ।
मेखलात्रय संयुक्तं योनिरश्वत्थ पत्रवत् ॥ ९ ॥
राज चिह्नानि सर्वाणि सर्वाण्यस्त्राणि यानि च ।
पूजयेद्वेदिकोर्ध्वे तु सर्वत्रैवाधिवासयेत् ॥ १० ॥
तन्मत्रैरर्चयेत्तानि गन्धाद्यैः प्रत्यहं गुरुः ।
तन्मन्त्रैरेव होमस्याद् दुर्गायाश्च विशेषतः ॥ ११ ॥
समिदाज्येन हविषा पायसेन च होमयेत् ।
हुतशेषं तुरङ्गानां गजानामुपहारयेत् ॥ १२ ॥
बद्ध प्रतिसरान् पञ्च गजाश्वान् समलङ्कृतान् ।
भ्रामयेन्नगरे नित्यं नानाघोष पुरस्सरम् ॥ १३ ॥
प्रत्यहं नृपतिः स्वाः स्वाः सम्पूज्य पितृदेवताः ।
पूजयेद्वाजचिह्नानि फलमाल्य विलेपनैः ॥ १४ ॥
नैवेद्यान्तैस्सताम्बूलैः नानापूप समन्वितैः ।
हुतशेषं प्रदातव्यमौपनायनिके गजे ॥ १५ ॥
तस्यापि हरणे राज्ञो विजयस्समुदाहृतः ।
पूजामन्त्रान् प्रवक्ष्यामि श्रुणुध्वं विप्रसत्तमाः ॥ १६ ॥

यथाम्बराश्छादयन्ति शिवायेमां वसुन्धराम् ।
तथाच्छादय राजानं विजयारोग्य वृद्धये ॥ इति १७ ॥

ॐ छं छत्राय नमः

गन्धर्वकुलजातिस्त्वं भूयस्त्वं कुलभूषणः ।
ब्रह्माणः सत्यावाक्येन सोमस्य वरुणस्य च ॥ १८ ॥

ॐ तुं तुरङ्गाय नमः

प्रभावाच्च हुताशस्य विजयस्व तुरङ्गम् ।
तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥ १९ ॥
रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च ।
स्मरत्वं राजपुत्रोऽपि कौस्तुभं च मणिं स्मरन् ॥ २० ॥
यां गतिं ब्रह्मभागच्छेत् पितृहा मातृहा तथा ।
मूल्येऽर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ॥ २१ ॥
सूर्याचन्द्रमसौ वायुर्वावत्पश्यन्ति दुष्टकृतम् ।
व्रजेस्त्वं तां गतिं क्षिप्रं तज्जवोयं भवेत्तव ॥ २२ ॥
निष्कृतिं यदि गच्छेन्नो युद्धेऽध्वनि तुरङ्गम ।
रिपून्विजित्य समरे सह भर्त्रा सुखी भव ॥ २३ ॥

अम् अश्वाय नमः

इत्यश्वमन्त्रः

शक्रकेतो महावीर्य सुपर्णः स्वरूपाश्रितः ।
पतत्रिराड् वैनतेयस्तथा नारायणध्वजः ॥ २४ ॥

ॐ ध्वं ध्वजाय नमः

काश्यपेयोऽमृता हर्ता नागारिर्विष्णु वाहनः ।
अप्रमेयो दुराधर्षो रणे वै रिपु सूदनः ॥ २५ ॥
गुरुत्मान्मारुत गतिस्त्वया सन्निहितस्थितः ।
साश्वधर्म युतान् योधान् रक्षत्वं रिपुसूदन ॥ २६ ॥
कुमुदैरावतौ नागो पुष्पदन्तेऽथ वामनः ।
सुप्रतीकोऽञ्जनो नील एतष्टौ देवयोनयः ॥ २७ ॥

आं गं गजाय नमः ।

एषां पुत्राश्च पौत्राश्व वनान्यष्टौ वनाश्रिताः ।
भद्रो मन्द्रो मृगश्चैव गजसङ्कीर्ण एव च ॥ २८ ॥
वने वने प्रसूतास्ते वनयोनिर्महागजः ।
पान्तुत्वां वसवो रुद्रा आदित्यास्समरुद्गणः ॥ २९ ॥
भर्तारं रक्ष नागेन्द्र समयः प्रतिपाल्यताम् ।
अवाप्नुहि जयं युद्धे गमने स्वस्तिनो व्रज ॥ ३० ॥
श्रियं सोमाद् बलं विष्णोस्तेजस्सूर्याज्जवोऽनिलात् ।
स्यथिर्य मेरोर्जयं रुद्राद् यशोदेवात्पुरन्दरात् ॥ ३१ ॥
युद्धे रक्षन्तु नागास्त्वां दिशश्च सह देततैः ।
अश्विनौ सह गन्धर्वै पान्तु त्वां सर्वतस्सदा ॥ ३२ ॥

हस्तिमन्त्रः

ॐ हं हस्तिने नमः

हुतभुग्वसवो रुद्रो वायुस्सोमो महर्षयः ।
नागाकिन्नरा गन्धर्व यक्ष भूतगणा ग्रहाः ॥ ३३ ॥
प्रमथाश्च सहादित्यैर्भूतेशो मातृभिस्सह ।
गणस्सेनापतिः स्कन्दो वरुणश्चाश्रितास्त्वयि ॥ ३४ ॥
व्रजहन्तुरिपून्सर्वान् राजा विजय मृच्छतु ।
श्वानः प्रयुक्तान्यरिभिः दूषणानि समन्ततः ॥ ३५ ॥
पतन्तु परिशत्रूणां हतानि तव तेजसा ।
कालनेमिवधे यद्वद्यावत् त्रिपुरधातिनि ॥ ३६ ॥
हिरण्यकशिपोर्युद्धे यद्वद्देवासुरे तथा ।
शोभितासि तथैवाद्य शोभया समयं स्मर ॥ ३७ ॥
नीलां श्वेतामिमां दृष्ट्वा नश्यन्त्वाशु नृपारयः ।
व्याधिभिर्विविधै घोरैश्शास्त्रैश्च युधिनिर्जिताः ॥ ३८ ॥
सद्यः स्वस्था भवन्ति स्म त्वत्पातेनापमार्जिताः ।
पूतना रेवती नाम कालरात्रीति याः स्मृताः ॥ ३९ ॥
दहित्वाशु रिपुन् सर्वान् पताके त्वं मयाश्रिता ॥ ३९१।२ ॥

पताका मन्त्रः

ॐ पं पताकाय नमः ।

असिर्विशसनः खड्गस्तीक्ष्ण धर्मा दुरासदः ॥ ४० ॥

श्रीगर्भो विजयश्चैव धर्मधारस्तथैव च ।
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ॥ ४१ ॥

ॐ खं खड्गाय नमः

नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ।
हिरण्यं च शरीरं ते धाता देवो जनार्दनः ॥ ४२ ॥
पिता पितामहो देवस्त्वं मां पालय सर्वदा ।
शमप्रदस्त्वं समरे वर्म सर्वापदो ह्यसि ॥ ४३ ॥
रक्ष मां रक्षणीयोऽहं तवानध नमोस्तु ते ।
ॐ वं वर्मणे नमः । दुन्दुभे त्वं सपत्नानां
घोषाद्धृदयकम्पनः ॥ ४४ ॥
तव भूमि प्रधानानां तथा विजयवर्द्धनः ।
यथा जीमूतघोषेण हृष्यन्ति परवारणाः ॥ ४५ ॥
तथास्तु तव शब्देन हर्षोऽस्माकं मुदावहः ।
यथा जीमूतशब्देन श्त्रीणां त्रासो हि जायते ॥ ४६ ॥
तथा च तव शब्देन रुद्रस्य त्वद् द्विषोरणे ।
ॐ दुं दुन्दुभये नमः
सर्वायुध महामात्र सर्वायुध निषूदन ॥ ४७ ॥
चाप मां सर्वदा रक्ष साकं सायकसत्तमैः ।
ॐ चं चापाय नमः
पुण्यस्त्वं पुण्यशङ्खानां मङ्गलानां च मङ्गलः ॥ ४८ ॥
विष्णुना विधृतो नित्यमतश्शान्तिप्रदो भव ।
ॐ शं शङ्खाय नमः
शशाङ्काकार सङ्काश हिमपिण्डित पाण्डर ॥ ४९ ॥
प्रोत्साधयाशु दुरितं चामरामर वल्लभ ।
ॐ चं चामराय नमः
सर्वायुधानां प्रथमे निर्मितासि पिनाकिना ॥ ५० ॥
शूलायुधाग्रं निष्कृत्य कृत्वा मुष्टिग्रहं शुभम् ।
चण्डिकायाः प्रदत्तासि सर्व दुष्ट निबर्हिणी ॥ ५१ ॥
त्वया विस्तारिता चासि देवानां प्रतिपादिता ।
सर्वतत्वाङ्ग भूतासि सर्वाशुभ निवारणी ॥ ५२ ॥
क्षुरिके रक्ष मां नित्यं शान्तिं यच्छ नमोस्तु ते ।
ॐ क्षुं क्षुरिकाय नमः
प्रोत्सारणाय दुष्टानां साधूनां ग्रहणाय च ॥ ५३ ॥
ब्रह्मणा निर्मितश्चासि व्यवहार प्रसिद्धये ।
यशो देहि सुखं देहि देवो हि भव भूपतेः ॥ ५४ ॥
ताडयामून् रिपून् सर्वान् हेमदण्ड नमोस्तु ते ।
ॐ कं कनकदण्डाय नमः
विजयी भव देवोऽसि रिपुधाती प्रियङ्करः ॥ ५५ ॥
दुःखहा धर्मदश्शान्तस्सर्वारिष्ट विनाशकः ।
एतेऽष्टौ सन्निधौ यस्मात् तवं सिंहा महाबलाः ॥ ५६ ॥
तेन सिंहासने नित्यं विप्रैर्देवेषु गीयसे ।
त्वयिस्थितश्शिवस्साक्षात् त्वयि शक्रस्सुरेश्वरः ॥ ५७ ॥
त्वयि स्थितो हरिर्देवस्त्वदर्थं तप्यते तपः ।
नमस्ते सर्वतोभद्र भद्रं ते भव भूपतेः ॥ ५८ ॥
त्रैलोक्यं जय सानिध्यं सिंहासन नमोस्तुते ।
ॐ सिं सिंहासनाय नमः
लोकभिचारकं कुर्यात् कर्मेदं मन्त्रपूर्वकम् ॥ ५९ ॥
फलनैवेद्य कुसुमैः धूपदीप विलेपनैः ।
अष्टम्यां पूजयेद्देवीं दुर्गाख्यां स्वर्ण निर्मिताम् ॥ ६० ॥
रप्यां वा ताम्रजां शैलां दारुजां मृत्तिकोद्भवाम् ।
प्रतिमां चित्रसंयुक्तां कृत्वा शक्त्यनुसारतः ॥ ६१ ॥
पूर्वाह्ने वाथ मध्याह्ने क्रियामेनां समाचरेत् ।
राजा स्नात्वा विभूष्याङ्गं सकलीकृत विग्रहः ॥ ६२ ॥
स्नापयित्वा विलिप्याथा चन्दनागरु कुङ्कुमैः ।
कर्पूर सहितैः पुष्पैः बहुभिर्गन्ध संयुतैः ॥ ६३ ॥
कुमुदैर्गन्ध पुष्पैश्च धूपदीप समन्वितैः ।
नैवेद्यैः फल संयुक्तैः नृत्तगानादिभिस्सह ॥ ६४ ॥
द्रोणपुष्प समायुक्तै र्बिल्वपत्रैश्च पूजयेत् ।
अष्टदोर्भिसमायुक्तां महिषासुरमर्दिनीम् ॥ ६५ ॥
तस्योरः क्षिप्त शूलाढ्य कपालां शूलमण्डिताम् ।
धनुर्बाण समायुक्तां खड्गखेष्टक धारीणीम् ॥ ६६ ॥
शङ्ख चक्र समायुक्तां सर्वालङ्कार भूषिताम् ।
वराक्षमालाः मखरां महिषासुर संस्थिताम् ॥ ६७ ॥
सिंहानुगां त्रिणेत्रां वा सर्वशत्रु विनाशिनीम् ।
चतुर्भुजां वा सम्पूज्य वरदाभय संयुताम् ॥ ६८ ॥
शङ्खं चक्र समायुक्तां स्थितां तां शान्तरूपिणीम् ।
नाना विधैश्च गानैश्च नृत्तैर्नानाविधैरपि ॥ ६९ ॥
एवं हृष्टैर्निशां नीत्वा प्रभाते त्वरुणोदये ।
घातयेन्महिषान्मेषान् अग्रतो मृदुकन्धरान् ॥ ७० ॥
शतमर्धं तदर्धं वा तदर्धं वा यथेच्छया ।
ततोऽपराह्नसमये नवम्यां स्यन्दनेस्थिताम् ॥ ७१ ॥
भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा च सैन्यवान् ।
कश्चिद्वा प्रेषितो वीरो विभूतेन च हेतिना ॥ ७२ ॥
भूतेभ्यस्तु बलिं दद्यात् अन्नं साज्यं मधुप्लुतम् ।
दिग्विदिक्षु बलिं दद्यान्मन्त्रेणानेन बुद्धिमान् ॥ ७३ ॥
बलिं गृह्ण्वन्त्विमं देवा आदित्या वसवस्तथा ।
मरुतो वाश्विनौ रुद्राः सुपर्णाः पन्नगाः ग्रहाः ॥ ७४ ॥
असुरा यातुधानाश्च मातृसर्प पिशाचकाः ।
डाकिन्यः क्षेत्रवेतालाः योगिन्यः पूतनाश्शिवाः ॥ ७५ ॥
जृम्भकास्सिद्ध गन्धर्वाः वीरा विद्याधरा नराः ।
दिग्पाला लोकपालाश्च ये च विघ्नविनायकाः ॥ ७६ ॥
जगतां शान्तिकं कर्म ब्राह्मणाद्या महर्षयः ।
मम विघ्नं मा चरन्तु मा सन्तु परिपन्थिनः ॥ ७७ ॥
सौम्या भवन्तु तृप्ताश्च भूतप्रेतास्सुखा वहाः ।
इत्येवं भ्रामयेद्राष्ट्रे राजा देवीं यथास्थिताम् ।
नरयानेन वा देवीं सर्वविघ्नविनाशिनीम् ॥ ७८ ॥

इति उत्तरकामिक महातन्त्रे दुर्गापूजाविधिः सप्तसप्ततितमः पटलः ॥

७८। अष्टसप्ततितमे पटले वाजि नीराजन विधिः

शान्ति नीराजनाख्यं तु सम्प्रवक्ष्यामि वाजिनाम् ।
कुर्यादाश्व युजे मासि प्रतिसंवत्सरं कुरु ॥ १ ॥
नवम्यामथवाष्टम्यां पञ्चदश्यामथापि वा ।
द्वादश्यां वा तथा कुर्याच्छुक्लं पक्षे विशेषतः ॥ २ ॥
नगर्याश्चोत्तरे पूर्वे कुर्यादीशान देशके ।
अन्यस्मिन् वा प्रकर्तव्या तद्विधान मिहोच्यते ॥ ३ ॥
विस्तारतोष्टरत्नीका दशहस्त समुच्छ्रिता ।
विंशद्धस्त समायामायागशालेय मीरिता ॥ ४ ॥
षट् सम्मितां चतुःश्रेणीं त्रिमध्यां वेदिमुद्धरेत् ।
तदर्धं शिर्षकं चैव सा राज्ञां वेदिका मता ॥ ५ ॥
गम्भीरं वेदिमध्ये तु वह्निस्थानं प्रकल्पयेत् ।
हस्तमात्र प्रमाणे मेखलात्रय संयुतम् ॥ ६ ॥
आदौ प्रतिसरं कृत्वा किङ्किण्यौषधिसंयुतम् ।
अपां समीपं नीत्वातु सोऽश्वं सत्स्त्रीभिरावृतम् ॥ ७ ॥
प्रदक्षिणोदके तीरे वेदीं प्रागाननां नयेत् ।
कुण्डं तदूर्ध्वे कर्तव्यं होमार्थं पूर्वमानतः ॥ ८ ॥
संस्कृत्य कुण्डमग्निं च होमये द्देशिलोत्तमः ।
प्रबुद्धेऽग्नौ तत इमां जुहुयाद् ब्रह्मणे हविः ॥ ९ ॥
ततो विष्ण्वग्नि रुद्रेभ्यश्शक्राय वरुणाय च ।
ततश्चाचल देवाय सेनान्यै धनदाय च ॥ १० ॥
नागेभ्यश्च सरिद्भ्यश्च ब्रह्मादिभ्यो यथाक्रमम् ।
जुहुयादाहुतीरेता बलिं चैतेषु विन्यसेत् ॥ ११ ॥
नद्यां वाथ समुद्रे वा तटाकादौ सरस्सु वा ।
स्नापयेत् स्थापयेच्चैव यथोक्तैरोषधीगणैः ॥ १२ ॥
तिलसर्षपकल्कैश्च दघ्ना चैतान् विधर्षयेत् ।
विमार्दितान् वीतमलान् पीतस्नातान्वगाहितान् ॥ १३ ॥
वाहनागार मागम्य ब्रह्मचर्यसमन्वितः ।
बद्धौषधानि वीर्यानि रक्षार्थं तेषु बन्धयेत् ॥ १४ ॥
सायं प्रातश्च जुहुयात् सप्ताहं पूर्ववद् बुधः ।
कुशैस्संशोधयित्वाज्यं कुशैराज्यं समर्पयेत् ॥ १५ ॥
समिद्भिस्सु समिद्धेऽग्नौ द्वितीय मुपहारयेत् ।
आज्यं स्त्रुचा तृतीयं तु लिहिताश्वमुपाहरेत् ॥ १६ ॥
दध्यपूपवरात्रैश्च चतुर्थमपि तर्पयेत् ।
ब्राह्मे मुहूर्ते प्रत्यूषे ब्रह्म धोषाभिनादिते ॥ १७ ॥
सूर्यचन्द्रमसो रश्मिर्यथा न स्पृशते हयान् ।
तथा तेषां प्रचार स्यात् स्नानं प्रातः प्रशस्यते ॥ १८ ॥
कालद्वये प्रधानस्य तुरगस्य विशेषतः ।
पुण्याहं वाचयेन्नित्यं स्वस्त्याशीर्मङ्गलान्वितम् ॥ १९ ॥
निवृत्ते सप्तरात्रे तु स्नातश्च पुरतः स्थितः ।
अष्टम्यां स्नापयित्वा तान् गौर सर्षप गोरसैः २० ॥
उत्तराषाढतरस्य सन्धाने श्रवणस्य च ।
नवम्यां शुक्लपक्षस्य नगराद्वासयेत् बहिः ॥ २१ ॥
दिशि पूर्वोत्तरायां वा देशे प्राक् प्रवणे शुचौ ।
प्रदक्षिणोदके सौम्ये विशाले द्रुमसङ्कटे ॥ २२ ॥
तत्र तोरणमुत्थाप्य दशहस्तसमुच्छ्रितम् ।
विस्तारतोष्टरत्नीकं प्राङ्मुखं माल्यशोभैतम् ॥ २३ ॥
तत्पार्श्वे कृतकूटे तु क्रियां पूर्ववदाचरेत् ।
सर्वमङ्गल संयुक्तो राजा पौरनरैर्वृतः ॥ २४ ॥
गच्छेच्छान्तिगृहं हृष्टः शङ्खतूर्यादिभिस्सह ।
प्रविश्य शान्ति गेहं तु विधानमिद माचरेत् ॥ २५ ॥
माञ्जिष्टां चन्दनं कुष्टं हरितालमनश्शिलाम् ।
वचां दन्तीं गुलूचीं च प्रियङ्ग्वर्जुन सञ्ज्ञिमम् ॥ २६ ॥
हरिद्रां स्वर्ण पुष्पं च वह्निमन्थं ततः परम् ।
स कौशं गिरि कर्णिं च हीयमाणं कटम्भराम् ॥ २७ ॥
सहदेवीं नागपुष्पं कपिकच्छुकमेव च ।
शतावरीं सोमवल्लिं निक्षिपेत् कलशेषु च ॥ २८ ॥
कुम्भेषु वाष्ट सङ्ख्येषु वस्त्रादि सहितेषु च ।
गन्धैः पुष्पैश्च धूपैश्च दीपनैवेद्यकैरपि ॥ २९ ॥
नानाविधैरपूपाद्यर्दत्वा बल्युपहारकम् ।
जुहुयात् पूर्ववत् कुण्डे पूर्वद्रव्यैर्यथा क्रमम् ॥ ३० ॥
वैयाघ्र चर्मण्यासीनो राजा गुरुसमन्वितः ।
वेद विद्वाजि वैद्याभ्यां सहितः पूर्वदिङ्मुखम् ॥ ३१ ॥
अग्रेश्शुभाशुभे ज्ञात्वा पूर्णाहुत्यवसानके ।
आरुह्य तुरगश्रेष्ठं प्रापयेत्तोरणान्तिकम् ॥ ३२ ॥
शनैस्सान्त्वनवाग्भिश्च गानवाद्यादिभिर्यतम् ।
श्वेतचन्दनमालाढ्यं श्वेत वस्त्र समन्वितम् ॥ ३३ ॥
होमशेषं तदा पिण्डं पयोदधि समन्वितम् ।
कदली फल संयुक्तं दद्याद्वाजि वराय च ॥ ३४ ॥
यदि शीघ्रं समश्नीयाद्विजयाय भविष्यति ।
केवलस्थैस्तदा तोयै श्शाखयो दुम्बरो त्थया ॥ ३५ ॥
प्रोक्षयेत्तु गुरुर्मन्त्रैस्तदा शान्ति कपौष्टिकैः ।
राजानं हस्तिनं पश्चाच्चमूं सम्प्रोक्ष्य त्तदा ॥ ३६ ॥
शूलेनोरस्थले भिन्द्याद्धीरं विप्रोऽथ मृण्मयम् ।
आभिचारकमन्त्रैस्तु तीक्ष्ण कृष्नमयेन च ॥ ३७ ॥
हयाय रक्षकां दत्वारुह्य प्रागुत्तरां दिशम् ।
राजा विजय सिद्ध्यर्थं गच्छेन्मङ्गल संयुतम् ॥ ३८ ॥
एवमेव गजादीनां तदा नीराजनं नयेत् ।
किं तु तत् कृत्तिकामासे तुरङ्गर्क्षेऽसमाचरेत् ॥ ३९ ॥
पूर्वोक्तासु च सर्वासु तिथिष्वपि च कारयेत् ।
गजयाने विशेषोऽयं चतुरश्रं च कूटकम् ॥ ४० ॥
वेदिका चतुरश्रा च गजभूमिरथोच्यते ।
शतहस्तमितं कुर्याच्चतुरश्रं समाहितः ॥ ४१ ॥
पञ्चाशत् पञ्च विंशाद्वा समन्तात्समिधो हवेत् ! ॥ ४२ ॥

इति उत्तर कामिकाख्ये महातन्त्रे वाजि नीराजन विधिः अष्टसप्ततितमः
पटलः ॥

७९। एकोनाशीतितमे पटले राज नीराजन विधिः

कार्तिके शुक्ल द्वादश्यां प्रदोषे रजनीमुखे ।
वेद्यां तोरण मालाभी रम्ये श्रीचातुरन्तके ॥ १ ॥
ज्वालयित्वा नवं वन्हिं हुत्वा मन्त्रैर्गुरूत्तमः ।
वर्धमानतरूत्थाभिः दीपिकाभिर्हुताशनम् ॥ २ ॥
बदरै कूर्चकैश्चैव पत्रपुष्पाक्षतै स्तथा ।
सम्पूज्य गन्धपुष्पाद्यैः भवं नीराजयेत्पुरा ॥ ३ ॥
तस्यैवानिमतां गौरीं हरिं लक्ष्मीं चतुर्मुखम् ।
विघ्नेशं चण्डिकां सूर्यं यक्षान्मातृगणांस्तथा ॥ ४ ॥
गुहं पितृगणं नागान् सर्वान्नीराजयेत्ततः ।
नीराजनं गवां कुर्यान्महिष्यादेश्च भ्रामयेत् ॥ ५ ॥
त्रासयन्विघ्नजालं च घण्टानाद महारवैः ।
नीराजयेद्विशेषेण राजानं देशिकोत्तमः ॥ ६ ॥
तुरगान् द्विरदान् राजचिह्नानि च गरूत्तमः ।
सिंहासनस्थं राजानं सामन्त प्रमुखावृतम् ॥ ७ ॥
नीराजयेत् कुलस्त्रीभिः गन्धपुष्पादि पूजितम् ।
रूपयौवन सम्पन्न वेश्याभिर्वाथ कारयेत् ॥ ८ ॥
यत्रै तत् क्रियते राष्ट्रे पुरे ग्रामे द्विजोत्तमाः ।
तेषां राजा सुखं याति सुभिक्षं जायते तथा ॥ ९ ॥
चतुर्णामपि वर्णानां रोगोत्पत्तावपीष्यते ॥ ९१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे रजनीराजन विधिः एकोनाशितितमः
पटलः ॥

८०। अशीतितमे पटले पुष्याभिषेक विधिः

पुष्याभिषेकं वक्ष्यामि पवित्रं पापनाशनम् ।
सर्वोत्पात विनाशार्थं श्रूयतां द्विजसत्तमाः ॥ १ ॥
पुण्ये मनोरमे देशे रविहस्त प्रमाणतः ।
कूटं कुर्याच्छुभं भक्त्या मध्यपादं यथा भवेत् ॥ २ ॥
द्वादशस्तम्भ संयुक्तं त्यक्त मध्यम वेदिकम् ।
दर्पणोदरसङ्काशं मण्डनैरुपशोभितम् ॥ ३ ॥
तस्यपश्चिमभागे च दक्षिणे तस्य बाह्यतः ।
वेदिका द्वितयं कार्यं पञ्चषड्ढस्तमानतः ॥ ४ ॥
चतुरश्रं समं हस्त द्विहस्तोत्सेध संयुतम् ।
पार्श्वे सोपान संयुक्तं संश्लिष्टं तद्द्वयं तथा ॥ ५ ॥
एवं सर्वं समापाद्य कुर्याद्राजाभिषेचनम् ।
पुष्यमासे तु पुष्यर्क्षे तीर्थेष्वायतनेषु च ॥ ६ ॥
उद्यानेषु च पुण्येषु शिवस्थाने विशेषतः ।
कुबेरन्द्रेशकाष्टासु गुरुर्मन्त्र समन्वितः ॥ ७ ॥
दैवज्ञेन बलिं कुर्यात् तत्पूर्वेद्युरुदारधीः ।
दधिलाजाक्षतोपेतं गन्धपुष्पादिभिः सह ॥ ८ ॥
आगच्छन्तु सुरास्सर्वे त्वत्र पूजाभिलाषिणः ।
दिशो नागा द्विजाश्चैव ये चाप्यन्येश भागिनः ॥ ९ ॥
आवाह्यैक मास्सर्वानेवं ब्रूयाद् गुरूत्तमः ।
पूर्वं स्वपूजां सम्प्राप्य दत्वा शान्तिं महीपतेः ॥ १० ॥
एवमुक्त्वा बलिं दत्वा रात्रौ स्वप्नं परीक्षयेत् ।
शुभं चेदारभेत् प्रातरशुभे शान्ति संयुतम् ॥ ११ ॥
मण्डपं भूषयेत् पश्चाद्द्वार तोरण संयुतम् ।
मङ्गलाङ्कुर कर्मात्र पूर्वप्रोक्त मथाचरेत् ॥ १२ ॥
यज्ञ वृक्ष समुद्भूतं कुर्याद्भद्रासनं द्विजाः ।
पञ्च षण्मात्र मारभ्य पञ्चाशत् करजान्तकम् ॥ १३ ॥
मानं भद्रासने प्रोक्तं सभद्रं वा विभद्रकम् ।
सोपानं द्वय संयुक्तं मग्रे पृष्ठे विशेषतः ॥ १४ ॥
तद्दक्षिणे विधातव्यम् आसनं पाद संयुतम् ।
सोपान सहितं कुर्यादिष्टमान समन्वितम् ॥ १५ ॥
श्राद्धं वृद्धि निमित्तं यत् पूर्वेद्युर्विधिना नयेत् ।
कुर्यात् प्रतिसरं रात्रौ सर्वालङ्करा संयुतम् ॥ १६ ॥
प्रभाते ग्रहयज्ञं तु तद्विधानेन कारयेत् ।
चतुर्हस्तं समारभ्य षडङ्गुल विवर्धनात् ॥ १७ ॥
षड्ढस्तान्तप्रमाणं यन्मण्डले मानमिष्यते ।
शत भागं तु तत्कृत्वा दक्षिणादि ततः क्रमात् ॥ १८ ॥
नवांशं भारतं वर्षं वर्णः स्वाभाविको मतः ।
भागद्वयेन हिमवान् श्वेतवर्णः प्रकीर्तितः ॥ १९ ॥
वर्षं किम्पुरुषाख्यं यन्नवांशेन प्रकीर्तितम् ।
स्वर्ण वर्णं तु तत्प्रोक्तं हेमकूटो द्विभागतः ॥ २० ॥
हेमकूटस्समाख्यातः चोत्तरे हरिवर्षकम् ।
स्वर्ण वर्णं समाख्यातं द्वाभ्यान्निषध मश्रवत् ॥ २१ ॥
पश्चिमात् पूर्व पर्यन्तमेतेषां संव्यवस्थितिः ।
उत्तरांशात् समारभ्य नवांशं कुरु वर्षकम् ॥ २२ ॥
तत्स्वर्ण वर्णं विज्ञेयं शृङ्गवान् स्याद्विभागतः ।
मयूर वर्णो विज्ञेयस्सुवर्ण वर्ण संयुतः ॥ २३ ॥
हिरण्यं वा नवांशं तु स्वर्ण वर्णं प्रकीर्तितम् ।
श्वेताचलो द्विभागेन स्वर्णयुक् श्वेतवर्णकः ॥ २४ ॥
रम्यवर्षं नवांशेन स्वर्ण वर्णं प्रकीर्तितम् ।
नीलाचलो द्विभागेन वैडूर्यद्युति संयुक्तः ॥ २५ ॥
अविष्टाश्चतुर्त्रिंशद्भागा मध्ये व्यवस्थिताः ।
पूर्वां दिशं समारभ्य द्वात्रिंशद्भाग संयुतम् ॥ २६ ॥
भद्राश्ववर्षमाख्यातं श्वेत वर्णं प्रकीर्तितम् ।
माल्यवान् पश्चिमे भागे निर्मितः कृष्णवर्ण युक् ॥ २७ ॥
पश्चिमां दिशमारभ्य वर्षं स्यात् केतु मालकम् ।
द्वात्रिंशत्पदकं कृष्णं नाम्नैतद्गन्धमादनम् ॥ २८ ॥
समन्तादेक भागेन वर्षकं स्यादिलावृतम् ।
एकेन श्वेतवर्णं स्यात् चतुरश्रं तु मध्यमे ॥ २९ ॥
एषु द्वात्रिंशदंशेन वर्तयेन्मेरु पर्वतम् ।
वायव्याग्नेय पर्यन्तं वृत्ते सूत्रं प्रसार्य च ॥ ३० ॥
तथैव नै-ऋतादीश विदिक् सूत्रं प्रसारयेत् ।
श्वेतवर्णं तु पूर्वे स्यात् दक्षिणे हेमवर्णकम् ॥ ३१ ॥
पश्चिमे कृष्ण वर्णं स्यात् उत्तरे रक्त वर्णकम् ।
अवशिश्टस्तु यो देशस्सर्वः पीतः प्रकीर्तितः ॥ ३२ ॥
जम्बूद्वीपः समाख्यातो शतभाग विनिर्मितः ।
जम्बूदीपसमः प्रोक्तो लवणाब्धिस्ततो बहिः ॥ ३३ ॥
शाक द्वीतं तु तद्वत्स्यत् तत्तद् द्विगुण मानतः ।
बहिस्समुद्रा दीपाश्च सप्तसङ्ख्याः प्रकीर्तिताः ॥ ३४ ॥
जम्बूद्वीपः समाख्यातो लक्षयोजन विस्तरः ।
तद्बाह्ये तत् प्रमाणेन क्षारोदः परीकीर्तिताः ॥ ३५ ॥
क्षारोदाद् द्विगुणं क्षीरं क्षीरोदाद् द्विगुणं दधि ।
दध्नस्तु द्विगुणं सर्पिस्तस्मात्तु द्विगुणो रसः ॥ ३६ ॥
रसात्तु द्विगुणं माद्यं स्यात् स्वादुदकं तथा ।
जम्बू द्वीपात्तथा शाकश्शाकाच्च कुश सञ्ज्ञकः ॥ ३७ ॥
कुशात् क्रौञ्चो विनिर्दिष्टः क्रौञ्चात्स्याच्छाल्मली तथा ।
तस्माद् गोभेद सञ्ञश्च गोभेदात् पुष्कलं पुनः ॥ ३८ ॥
ज्ञेयं स्वादूदकाद्बाह्ये लोका लोक इति स्मृतः ।
अन्तरे रक्त वर्ण स्याद् बाह्ये कृष्णः प्रकीर्तितः ॥ ३९ ॥
दशकोटिमिओत् ज्ञेयः क्रीडार्थं स्याद्दिवौकसाम् ।
तस्माच्चाद्रिवरो ज्ञेयो लोका लोक इति द्विजाः ॥ ४० ॥
सहस्रदश विस्तीर्णो देवानामाश्रमो मतः ।
हिमा चले पिशाचाःस्युस्तेषां नामान्यमूनिवै ॥ ४१ ॥
ध्वजश्चण्डस्य कंलासः कदली बक एव च ।
वडवामुखो द्विपादः कारकः स्मृतः ॥ ४२ ॥
ज्वाला च कुम्भपात्रश्च तथा कुम्भी प्रतुन्दिकः ।
प्रतुन्दिकोप वीरौ च प्रवीरो लूखल स्मृतः ॥ ४३ ॥
उलूखली मर्कटीस्यान्मर्कटश्चक्र षण्डकः ।
चक्र षण्डी पाणिपत्रः पाणिपत्री च वासुकः ॥ ४४ ॥
वासुकिः पांसुकृत्पांसुमथनी निपुणो मतः ।
निपुणा बलिभुग् ज्ञेया पश्चादुच्छेषषा मता ॥ ४५ ॥
प्रस्कन्दः स्कन्दिका प्रोक्ताश्चतुस्त्रिंशदुदाहृता ।
मांसेनान्नेन सम्पूज्य मद्यैः प्रतिसरादिभिः ॥ ४६ ॥
श्वेता चले दितसुता दानवाश्च समीरिताः ।
हिरण्य कशिपुर्नाम्ना हिरण्याक्षो द्वितीयकः ॥ ४७ ॥
एतौ दिति सुतौ ज्ञेयौ विप्रचित्तिरानन्तरः ।
द्विमूर्धा शम्बरश्चैव ततश्शङ्कुशिरा मताः ॥ ४८ ॥
यमश्च शङ्कुकर्णश्च द्विपादस्तदनन्तरः ।
गवेष्टिर्मेष वक्त्रश्च मखवान् कपिलोमतः ॥ ४९ ॥
वामनश्च मरीचिश्च तथेक्षुप उदाहृतः ।
भागोऽभागस्तथा ज्ञेयश्शालाग्रह इति स्मृता ॥ ५० ॥
दिक्क्षोभश्च सुकेशश्च केतुवीर्यश्शतहृदः ।
मन्त्रजिच्चाश्वजित् प्रोक्तस्तथा रजिरुदाहृदः ॥ ५१ ॥
देविजिच्चैक वक्त्रश्च सुबाहुर्वारको मतः ।
वैश्वानरस्सुलोभाच द्रविणश्च महाशिराः ॥ ५२ ॥
स्वर्भानुः पूषपूर्वश्च द्विभुजो घृतराष्ट्रकः ।
चन्द्रतापन सञ्ज्ञश्च सूक्ष्मो निश्चन्द्र एव हि ॥ ५३ ॥
स्वर्ण नाभस्ततः प्रोक्तो महागिरिरनन्तरः ।
आभिलोकः सुकेशश्च मलयो मलकस्तथा ॥ ५४ ॥
नयश्च नगमूर्धा च महोदर उदाहृतः ।
प्रमोदः कुमुदश्चाश्चग्रीवो वैश्रव सञ्ज्ञकः ॥ ५५ ॥
विरूपाक्षश्चरूपथो हरो राजा उदाहृतः ।
हिरण्य युक् शतमखश्शम्बरश्शरभो मयः ॥ ५६ ॥
शरभयस्सूर्य सञ्ज्ञश्च चन्द्रमास्स उदाहृतः ।
चतुष्षष्टिश्च सञ्ज्ञानां पूजाश्चैषां च पूर्ववत् ॥ ५७ ॥
शृङ्गवत्यचले पूज्याः पितरसमुदाहृता ।
सुभास्वरामृताश्चाग्निष्वात्ता उपहुता मताः ॥ ५८ ॥
सोमपाश्च ततो ज्ञेया विज्ञेयाश्च सुकालिकाः ।
क्रव्यादा आज्यपाश्चैव पृथक् त्रय उदाहृताः ॥ ५९ ॥
सप्तभिश्च गणैरेक विंशतिस्सङ्ख्यया मताः ।
अग्निष्वात्ता बहिर्षदस्सोमाश्च ततो मताः ॥ ६० ॥
हविष्मन्तश्चाज्यपास्स्युस्तद्वदेव सुकालिकाः ।
अग्न्यनग्निर्हव्यवाहा हविस्सौम्या दशैव हि ॥ ६१ ॥
तिल तैलान्नकैर्मांसैः पूज्या प्रतिसरादिभिः ।
नीलाचले च ऋषयः सम्पूज्या काश्यपादयः ॥ ६२ ॥
काश्यपोऽत्र् र्वसिष्टश्च भरद्वाजोऽथ गौतमः ।
विश्वामित्रो जमदग्नि र्मरीचिश्च ततो मतः ॥ ६३ ॥
पुलस्त्यः पुलहश्चैव क्रतुश्चैवाङ्गिरा भृगुः ।
सनत्कुमारस्सनकः सनन्दश्च सनातनः ॥ ६४ ॥
दक्षोऽथ जैगीषीव्यश्च दहनैकत एव च ।
द्वितस्त्रितोऽथ जाबाली दुर्वासा दुर्वनीतकः ॥ ६५ ॥
कण्।वः कात्यायनो मार्कण्डेयो दीर्घतमो मतः ।
शुनश्शेफो विदुरथस्साध्वं स्संवर्त इत्यपि ॥ ६६ ॥
च्यवनः पराशरश्चैव ततो द्वैपायनस्ततः ।
यवक्रीतदेवरातौ देवराजोऽजकस्तथा ॥ ६७ ॥
चत्वारिंशच्च मुनयो गन्धैः प्रतिसरादिभिः ।
ऋग्यजुस्साम मन्त्रैर्वा पूज्या वा स्वस्वनामभिः ॥ ६८ ॥
निषधे पर्वते नाना अनन्ताद्या उदाहृतः ।
अनन्तो वासुकिश्चैव तक्षः कार्कोटकः स्मृतः ॥ ६९ ॥
पद्मश्चैव महापद्म शङ्खपालोऽष्टम स्मृतः ।
गुलिकश्च यजेदष्ट विमिश्रैर्गन्ध पुष्पकैः ॥ ७० ॥
सितामधुघृतं दत्वा दद्यात् प्रतिसरादिकम् ।
देवा पूज्याः महामेरौ त्रस्त्रिंशच्च ते मताः ॥ ७१ ॥
धरो घ्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ।
प्रत्युषश्च प्रभासश्च वसवोऽष्टा विमे मताः ॥ ७२ ॥
अजैकपादर्हिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बको नाम रुद्रकः ॥ ७३ ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।
रुद्रा एकादश प्रोक्ता इन्द्रो धाता भगोऽर्यमा ॥ ७४ ॥
त्वष्टा मित्रश्च वरुणो विवस्त्वांस्तु ततं परः ।
सविता पूषांशुमान् विष्णु र्द्वादशार्का उदाहृताः ॥ ७५ ॥
प्रजापतिर्वषट्कार त्रयास्त्रिंशच्च देवताः ।
यष्ट्वा प्रणामधूपैश्च घृताहुतिभिरेव च ॥ ७६ ॥
दद्यात् प्रतिसरार्घ्यं च हेमकूटाख्य पर्वते ।
गन्धर्वाप्सरसः पूज्याः चित्र सेनाग्निसेनकः ॥ ७७ ॥
सुवर्णो गणपश्चैव धृतराष्ट्रस्ततः परम् ।
सूर्यवर्चा युगपुत्रो सुशिरामर नन्दिनौ ॥ ७८ ॥
द्वेधामतिश्चित्ररथं पर्जन्यश्च ततो मतः ।
उर्वीशश्च कलिश्चैव पर्वतो नारदस्तथा ॥ ७९ ॥
साधनश्चैव सन्धिश्च कुहरश्च करालकः ।
कृतवीर्यो ब्रह्मचारी सुपर्णो मीन इत्यपि ॥ ८० ॥
हिरण्यश्च सुचन्द्रश्च गन्धर्वासप्तविंशतिः ।
अकृतयश्चोदयन्त्यो गन्धवत्यस्ततः परम् ॥ ८१ ॥
ऊर्जा युवतयश्चैव हेतुकाया उदाहृताः ।
स्तवाश्चैवामृता मोदाः सुशिवास्तु ततः परम् ॥ ८२ ॥
रूपाश्च भीरवाश्चैव शौर्याः सत्याश्चतुर्दश ।
मेनका सहजन्या च तत्पूर्वा पुञ्जिकस्थला ॥ ८३ ॥
घृतस्थला घृताची च विश्वाची पूर्वचित्तिका ।
प्रम्लोचन्त्युनुम्लोचन्ती मोचयन्त्य नुगा ततः ॥ ८४ ॥
रुर्द्रारुण प्रिया चैव अत्रसा सुभगा ततः ।
दास्यरिष्टा मनोवर्ती सुकेशाच तिलोत्तमा ॥ ८५ ॥
अग्निभत्री च हेमा वै मेनका चोर्वशी ततः ।
चौर्विंशति सङ्ख्याताः सुगन्धैश्च् सुमाल्यकैः ॥ ८६ ॥
यष्ट्वाप्रतिसराद्यं हेमाढ्य पर्वते ततः ।
यक्षान्सम्पूज्येत्ते च महावैश्रवणस्तथा ॥ ८७ ॥
माणिभद्रश्च सुशिराः पञ्चभिच्च विभण्डकः ।
विधृतः पूर्णभद्रोऽठ विरूपाक्षोऽष्टयक्षराट् ॥ ८८ ॥
सर्ववर्णक बलिभिः पूज्य सूत्रादि कन्ददेत् ।
ततो नीलाचले सिद्धा मन्त्रज्ञो मन्त्रवित्तमः ॥ ८९ ॥
प्राज्ञोऽथ हषराजश्च सिद्ध पूजित एव च ।
सिद्धि मत्परमस्सिद्धस्तथा केसरभद्रकः ॥ ९० ॥
एतानष्टौ यजेत् सिद्धान् बलिभिस्सर्ववर्णकैः ।
दद्यात् प्रतिसराद्यं तु मेरौ नवग्रहान्वितम् ॥ ९१ ॥
नक्षत्रैर्वीर विघ्नेश संयुक्तान् मात्रृभिस्सह ।
ब्रह्म विष्णु महादेव विशाखांश्चैव लोकपैः ॥ ९२ ॥
सहिताभिस्सुरस्त्रीभिर्दस्त्रादिभिः समन्वितम् ।
संयजेद् बलिभिस्सार्धं वर्णकैः क्रमशस्तथा ॥ ९३ ॥
दद्यात् प्रतिसराद्यं च तेषां नामान्यमूनि वै ।
आदित्यश्चैव सोमश्च अक्ङरक बुधौ ततः ॥ ९४ ॥
बृहस्पतिश्च शुक्रश्च अर्की च राहु केतुकौ ।
एते नवग्रहाः प्रोक्ताः कृत्तिका वै ततः पराः ॥ ९५ ॥
पूर्वाषोढोत्तराषाढाभिजिच्छ्रोणा च पश्चिमे ।
धनिष्टा शतभिषक् चैव पूर्वाभाद्रपदा पुनः ॥ ९६ ॥
उत्तराभाद्रपादा च रेवत्यश्वयुजौ मतौ ।
भरण्या चोत्तरस्यां तु ब्राम्ही माहेश्वरी ततः ॥ ९७ ॥
वाराही वैष्णवी चैव कौमारी च ततो मताः ।
माहेन्द्री चैव चामुण्डी वीरभद्र गणाधिपौ ॥ ९८ ॥
स्कन्दो विष्णुर्महादेवो ब्रह्मा चैव विशाखकः ।
इन्द्रानलयमाश्चैव निर्-ऋति र्वरुणस्तथा ॥ ९९ ॥
वायुश्च धनदश्चैव ईशानश्चाष्टमो मतः ।
शची भाजीवनस्कन्दा धूम्रा मण्डल वर्तिनी ॥ १०० ॥
पूर्णा चैव सिनीवाली कुहू राकानुमत्यपि ।
आयता व्ययनी चैव प्रज्ञा मेना बला ततः ॥ १०१ ॥
एताः सुरस्त्रियः प्रोक्ता स्सङ्ख्यया च चतुर्दश ।
नासत्या वश्विनौ दस्त्रौ क्रमशस्संयजेत् बुधः ॥ १०२ ॥
प्रतिसरं च वस्त्रं च पताका भूषणं तथा ।
यज्ञोपवीतं सर्वेभ्यः प्रदद्याच्च गुरूत्तमः ॥ १०३ ॥
सार्व वर्णिक मित्युक्तं पञ्चवर्ण हविस्ततः ।
ततः पश्चिमवेद्यां तु घृतेना पूरितान् घटान् ॥ १०४ ॥
ससूत्रान् सापिधानांश्च सवस्त्रान् पल्लवान्वितान् ।
अष्टाविंशतिमष्टौ वा अष्टोत्तरशतं तु वा ॥ १०५ ॥
संस्थाप्य निश्चलं तस्य चतुष्कोणेषु षोडश ।
सूत्रवस्त्रादि संयुक्तांस्तेषु द्रव्याणि विन्यसेत् ॥ १०६ ॥
ज्योतिष्टोमत्रयं पूर्वम् अभया चापराजिता ।
जीवा विश्वेश्वरी वारा समाङ्गा विजया तथा ॥ १०७ ॥
सहा च सहदेवा च पूर्णकोशा शतावरी ।
अरिष्टा च शिवा भद्रा कुम्भेष्वेतानि विन्यसेत् ॥ १०८ ॥
ब्राह्मी क्षमायुजा चैव सर्व बीजानि काञ्चनम् ।
मङ्गलानि यथालाभं सर्वौषधि रसांस्तथा ॥ १०९ ॥
रक्तानि सर्व गन्धांश्च बिल्वं च सविकङ्कतम् ।
प्रशस्त नाम्न्यश्चौषध्यो हिरण्यं मङ्गलानि च ॥ ११० ॥
आदावाडुहं चर्म जरया सम्भृतायुषः ।
प्रशस्त लक्षणं भूतं प्राचीनग्रीव मस्तकम् ॥ १११ ॥
ततो भूपस्य यौषव्य चर्मालोहित मक्षतम् ।
सिंहस्यापि तृतीयं च व्याघ्रस्य च ततः परम् ॥ ११२ ॥
चत्वार्येतानि चर्माणि तस्यां वेद्या मुपस्तरेत् ।
पूजयेद् गन्धपुष्पाद्यैः मृत्युजिन्मन्त्रमुच्चरन् ॥ ११३ ॥
तदूर्ध्वे स्थापयेद् भद्र पीठ सिंहासनस्थितम् ।
सौवर्णं राजतं ताम्र निर्मितं क्षीर वृक्षजम् ॥ ११४ ॥
सपाद सार्ध हस्तोच्चं हस्तोत्सेधमितं तु वा ।
सार्वभौमस्य तच्छ्रेष्टं मण्डलीकस्य कन्यसम् ॥ ११५ ॥
अनन्तरचितं मध्यमेवं वा परिकल्पयेत् ।
श्रेष्ठमध्यादि भेदेन सर्वं वैकस्य सम्मतम् ॥ ११६ ॥
तदूर्ध्वे विन्येत्पुष्पं सौवर्ण तस्य मध्यमे ।
कृतस्नानं विलिप्ताङ्गं सर्वालङ्कार संयुक्तम् ॥ ११७ ॥
निवेशयेन्नृपेन्द्रं तु पुरन्दर मुखं गुरु ।
दैवज्ञं मन्त्रिसामन्तैः पुरोहित मुखै र्वृतम् ॥ ११८ ॥
वेद पुण्याह घोषैश्च नृत्तवाद्य समन्वितम् ।
गेयमङ्गल शब्दैश्च शैवस्थापन पूर्वकैः ॥ ११९ ॥
अहतक्षौम वासोधृग् गुरुः पञ्चाङ्ग भूषणः ।
कम्बलेन समाच्छाद्याभिषिञ्चेदुत्तरा मुखः ॥ १२० ॥
आज्यं तैजसमुद्दिष्टं माज्यं पापहरं परम् ।
आजयं सुराणामाहार आज्ये लोकाः प्रतिष्टिता ॥ १२१ ॥
भौमान्तरिक्षं दिव्यं वा यत्ते कलुषमागतम् ।
सर्वं तदाज्य संस्पर्शात्प्रणाशमुपगच्छ तु ॥ १२२ ॥
उद्धार्य कम्बलं न्यस्त्वा स्थापितैश्च घटाम्बुभिः ।
विविधैः फलपुष्पैश्च खादुभिश्च सुगन्धकैः ॥ १२३ ॥
अभिशिञ्चेन्नृपेन्द्रं तु मन्त्रेणानेन देशिकः ।
सुरास्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ॥ १२४ ॥
ब्रह्मा विष्णुष्व रुद्रश्च मरुतां साध्याश्च मरुतां गणाः ।
आदित्या वसवो रुद्राश्चाश्विनौ च भिषग्वरौ ॥ १२५ ॥
अदितिर्देवमाता च स्वाहा सन्धिस्सरस्वती ।
कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहुस्तथा ॥ १२६ ॥
नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्र सन्धयः ।
संवत्सरा दिनेशाश्च कलाः काष्टाः क्षणालवाः ॥ १२७ ॥
सर्वेत्वामभिषिञ्चन्तु कालस्या वयवाश्शुभाः ।
अदितिस्सुरसा चैव विनता कद्रुरेव च ॥ १२८ ॥
देव पत्न्यश्च याश्चोक्ता देवमातर एव च ।
सर्वास्त्वामभिषिञ्चन्तु शुभाश्चाप्सरसां गणाः ॥ १२९ ॥
वैमानिकास्सुरगणा मनवस्सागरैस्सह ।
सरितश्च महाभागाः किन्नराः पुरुषास्तथा ॥ १३० ॥
वैखानसा महाभागा द्विजा वैहायसाश्चये ।
सप्तर्षयस्सदाराश्च ध्रुवस्थानानि यनि च ॥ १३१ ॥
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ।
भृगुस्सनत्कुमारश्च सनकोऽथ सनन्तनः ॥ १३२ ॥
सनातनश्च दक्षश्च जैगीषव्योऽथ जापालिः ।
एकतश्च द्वितश्चैव त्रितो जाबालि काश्यपौ ॥ १३३ ॥
दुर्वासा दुर्विनीता च कण्वः कात्यायनस्तथा ।
मार्कण्डेयो दीर्घतमाश्सुनश्शेफो विदूरतः ॥ १३४ ॥
और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः ।
द्वैपायनो यवक्रीतो देवरातस्सहानुजः ॥ १३५ ॥
एते वान्ये च बहवः पुण्यसङ्कीर्तनाशुभाः ।
तोयैस्त्वामभिषिञ्चन्तु सर्वोत्पात निबर्हणैः ॥ १३६ ॥
एतैराथर्वणैरन्ये रुद्राध्यायेन वा गुरुः ।
महारौहिण कूश्माण्डैः कुबेरहृदयैस्सह ॥ १३७ ॥
जप्त्वा हिरण्य वर्णेति चापो हिष्टेति मन्त्रतः ।
जप्त्वा शिवमघोरं वा मृत्युञ्जयमथापि वा ॥ १३८ ॥
अभिषिञ्चेत् क्षितीशं तु निरीक्ष्य स्नापयेत्ततः ।
कार्पास वस्त्र युगलं दधानः क्षत्रियाधिपः ॥ १३९ ॥
ततः पुण्याह शब्दैश्च शङ्खतूर्यरवान्वितम् ।
आचाम्याभ्यर्चयेद्देवान् स्वगुरुं ब्राह्मणानपि ॥ १४० ॥
ततोऽर्चयेद्ध्वजं शस्त्रं श्वेतच्छत्रं स्वकीयकम् ।
अन्योन्यं च तदङ्गानि पूजयेत्पूर्वमन्त्रतः ॥ १४१ ॥
परिवर्त्य वस्त्रयुगलं सर्वाभरण भूषितम् ।
सर्वालङ्कार संयुक्तं होमवेदीं प्रविश्य च ॥ १४२ ॥
वृषस्य पृषदंशस्य रुरोश्च पृषतस्य च ।
सिंहस्य व्याघ्र सञ्ज्ञस्य चर्माण्यास्तीर्य तत्र च ॥ १४३ ॥
कुण्डे वा स्थण्डिले वापि मुखस्थाने गुरूत्तमाः ।
होमङ्कुर्यात् समिद्भिश्च सर्पिभिश्च शतं शतम् ॥ १४४ ॥
पलाश समिधो मृत्युजित्परमो मतः ।
होमान्ते प्राञ्जलिर्भूत्वा ब्रूयाद्देवं गुरूत्तमः ॥ १४५ ॥
यान्तु देव गणास्सर्वे पूजामादाय पार्थिवात् ।
सिद्धिं दत्वा तु विपुलां पुनरागमनाय च ॥ १४६ ॥
तत्काले दक्षिणां दद्यात् गुरवे प्रीतिकारणम् ।
नृपेन्द्रो ब्राह्मणेभ्यश्च दद्याद्दानं विशेषतः ॥ १४७ ॥
ततो बन्धाद्विमुच्येत जनान्सर्वान्नराधिपः ।
प्रणम्य देवं देवेशं तस्मै ग्रामादि काञ्चनम् ॥ १४८ ॥
दत्वा सन्तुष्ट चित्तस्तु ककुटादि विभूषितः ।
ततो मातङ्गमारुह्य प्रविशेद्भवनं प्रति ॥ १४९ ॥
सर्वोत्पातविनाशार्थं सर्वरोगनिवृत्तये ।
सार्वभौम प्रसिद्ध्यर्थम् आयुरारोग्यसिद्धये ॥ १५० ॥
सर्व शत्रु विनाशार्थं विजयार्थं नृपस्य तु ।
पुष्याभिषेकं प्रत्यब्दं पुण्यस्थाने समाचरेत् ॥ १५१ ॥

इति उत्तरकामिकाख्ये महातन्त्रे पुणाभिषेक विधिर्नाम अशीतितमः
पटलः ॥

८१। एकाशीतितमे पटले ग्रह यज्ञ विधिः

ग्रह यज्ञं प्रवक्ष्यामि ग्रहाणां प्रीतिकार्णम् ।
सर्वदुःखं च सर्वेषां ग्रहचाराद्यतो भवेत् ॥ १ ॥
नवभागी कृते क्षेत्रे मण्डपादौ गृहेऽपि वा ।
पूजयित्वा तु जुहुयात् देशिको दीक्षितैस्सह ॥ २ ॥
अर्क स्सोम कुजरसौम्यो जीवः शुक्रः शनैश्चरः ।
राहू केतू नवैव स्यूः पूजयेत् स्वस्वनामतः ॥ ३ ॥
प्रणवादि नमोन्तेन मण्डले संयजेत् गुरुः ।
तच्च वृत्तं चतुष्कोणं त्रिकोणं बाण संयुतम् ॥ ४ ॥
दीर्घाश्रं पञ्चकोणं च चापाङ्ग शूर्प सन्निभम् ।
ध्वजाभं मण्डलं प्रोक्तं ग्रहाणां वर्ण उच्यते ॥ ५ ॥
भास्करङ्गारकौ रक्तौ श्वेतौ शुक्र निशाकरौ ।
सोमपुत्रो गुरुश्चैव ताबुभौ पीतजौ स्मृतौ ॥ ६ ॥
कृष्णं शनैश्चरो विद्यात् राहु केतु तथैव च ।
ध्या त्वैवं पूजयेद्विद्वान् गन्धैः पुष्पैरनु क्रमात् ॥ ७ ॥
सर्वेषां गुग्गुलु धूपस्तैलेनाथ घृतेन वा ।
दीपः प्रोक्ततस्तु नैवेद्यं शलि सम्भव मुच्यते ॥ ८ ॥
चर्वर्थमपि शाली स्यात् होमे गव्यं घृतं मतम् ।
कुण्डे वा स्थण्डिले वापि पूजास्थानं प्रकल्पयेत् ॥ ९ ॥
होमं कुर्यात्समित्सर्पिस्तिले नैव समायुतम् ।
अर्क पलाशः खदिरस्त्वपामार्गो यथाक्रमम् ॥ १० ॥
अश्वत्थोदुम्बरौ चैव शमी दूर्वा कुशस्समित् ।
पलाशः खदिरो वाथ स्वस्मित् कुश सम्भवे ॥ ११ ॥
क्षीर वृक्ष समुद्भूताथवा तौ प्रशंसितौ ।
स्रुक् स्रुवौ लक्षणोपेतौ पलाश दल जावथ ॥१२ ॥
होत्रृणां दक्षिणां दद्यात् तदन्ते फलसिद्धये ॥ १३ ॥

इति कामिकाख्ये महातन्त्रे ग्रहयज्ञ विधिः एकाशीतितमः पटलः ॥

८२। द्वयशीतितमे पटले प्रतिसर विधिः

राज्ञां प्रतिसरं वक्ष्ये सर्वमङ्गल कर्मणि ।
निर्दिष्ट दिवसात्पूर्व रात्रे कौतुक बन्धनम् ॥ १ ॥
विदध्याद्देशिकश्शुद्धः कृत्वा च सकलीकृतः ।
स्थण्डिलं शालिना कृत्वा तदूर्ध्वे स्थालिकां न्यसेत् ॥ २ ॥
श्वेत तण्डुल सम्पूर्णं पुण्याह प्रोक्षणान्वितम् ।
यज्ञ सूत्रं च वलयम् अङ्गुलीयकमेव च ॥ ३ ॥
कृत्वा प्रतिसरं स्वर्ण पुष्पं हेममयं शुभम् ।
प्रक्षाल्यस्त्रेण चार्घ्येण तण्डुलोर्ध्वे विनिक्षिपेत् ॥ ४ ॥
सम्पूज्य गन्ध पुष्पाद्यैः मन्त्रयेन्मनुभिः क्रमात् ।
ईशानेन शिरः पुष्पं वर्मणा ब्रह्मसूत्रकम् ॥ ५ ॥
वलयं हृदयेनैव तद्वदेवाङ्गुलीयकम् ।
बहुरूपेण वा सर्वं मन्त्रयेद्देशिकोत्तमः ॥ ६ ॥
कौतुकं हृदयेनैव तेनैव भसितं तथा ।
चन्दनेन विमिश्रं तदैशान्यां स्थापयेद् गुरुः ॥ ७ ॥
मध्यादि सोम पर्यन्तं पुष्पाद्यं विनिवेशयेत् ।
ताम्बूलं दापयेद्वाथ पुरुषाख्य मनुं स्मरन् ॥ ८ ॥
दूर्वाग्रं केवलं निर्मितं राजतं तु वा ।
आग्नेये नै-ऋते न्यस्त्वा हृदयेनाभि मन्त्रयेत् ॥ ९ ॥
पटै राच्छादयित्वा तु नगरीं भ्रामयेत्ततः ।
सर्वालङ्कार संयुक्तं मातङ्कोपरि संस्थितम् ॥ १० ॥
मुहूर्ते समनु प्राप्ते गुरुर्दैवज्ञ संयुतः ।
पुरोहितमुखैर्विप्रैरन्वितस्सर्व मङ्गलः ॥ ११ ॥
कृतशौचं विलिप्ताङ्गं क्षौमवस्त्रोत्तरीयकम् ।
सर्वाभरण संयुक्तं सर्वालङ्कार संयुतम् ॥ १२ ॥
सिंहासनादौ नृपतिं पूववक्त्रं निवेशयेत् ।
पुण्याह प्रोक्षणं कृत्वा पुष्पाद्यं पूर्वमन्त्रतः ॥ १३ ॥
दत्वा नृपस्य सर्वं तु मृत्युजिन्मन्त्रमुच्चरन् ।
बध्वा दक्षिण हस्ते तु कौतुकं सौम्यदिङ्मुखः ॥ १४ ॥
सर्वात्मानं समुच्चार्य भस्म दत्वा गुरूत्तमः ।
ईशानाद्यौर्यथा न्यायमथवा परिकल्पयेत् ॥ १५ ॥
बृहत्सामक पूर्वन्तु पठित्वादौ समुच्चरन् ।
नालिकेर फलान्यत्र लाजपुष्पादिभिः सह ॥ १६ ॥
समन्तात् स्थापयित्वा तु कुर्यात्प्रतिसरं गुरुः ।
देशिकं पूजयेत्कर्ता दैवज्ञं च पुरोहितम् ॥ १७ ॥
ब्राह्मणानपि सर्वांश्च ततो मङ्गलवाचकैः ।
अनेन विधिना कुर्याद्देवदेवस्य शूलिनः ॥ १८ ॥
अन्येषामपि देवानां चतुर्णामपि वर्णिनाम् ।

इति उत्तरकामिकाख्ये महातन्त्रे प्रतिसार विधिर्नाम द्वयशीतितमः
पटलः ॥

८३। त्रयशीतितमे पटले तुलारोह षोडश दानि विधिः

वक्ष्ये षोडशदानानि सर्वकामार्थ सिद्धये ।
ब्राह्मणादि चतुर्णां तु भूमीन्द्राणां विशेषतः ॥ १ ॥
ग्रहणादिषुकालेषु शुभे देशे विशेषतः ।
हस्तविंशति मानेन अष्टांशेन द्विरष्टभिः ॥ २ ॥
कूटं वा मण्टपं वाथ तन्मध्ये वेदिका नयेत् ।
नवष्ट्सप्तहस्तेव द्विहस्ताद्यार्धहस्ततः ॥ ३ ॥
विस्तारेणोच्छ्रयेणापि द्वादशस्तम्भसंयुतम् ।
तद्बाह्ये नव कुण्डानि चतुरश्राणि तानि च ॥ ४ ॥
चतुर्द्वारसमायुक्तं चतुस्तोरण भूषितम् ।
दर्भमालासमायुक्तं दिग्ध्वजैश्च समन्वितम् ॥ ५ ॥
अष्टमङ्गलसंयुक्तं वितानेनोपशोभितम् ।
सामान्यमेतदाख्यातं तुलाभारादिके द्विजाः ॥ ६ ॥
बिल्वाश्वत्थपलाशास्स्युर्यज्ञ वृक्षश्चये न्तः ।
पनसाम्रसमुद्भूताः खादिरो वा प्रशस्यते ॥ ७ ॥
एकदारुमयस्सर्वस्त्वथा मिश्र इष्यते ।
सप्तषट् पञ्चहस्तैश्च पार्श्वस्तम्भोच्छ्रभौ मतौ ॥ ८ ॥
उत्तरस्तु तदूर्ध्वे स्यात् षडष्टायाम संयुतम् ।
अङ्गुलत्र्य हान्या तु नवधा मानमीरितम् ॥ ९ ॥
पार्श्वस्तम्भ विशालेन विस्तारोत्सेधसंयुतम् ।
पादाधिकस्त्रिपादो वा उत्सेधः परिकीर्तितः ॥ १० ॥
द्विहस्तं वा त्रिहस्तं वा तयोरन्तरमानकम् ।
तुलादण्डस्य दीर्घं स्याद्विष्कम्भस्तु दशाङ्गुलः ॥ ११ ॥
अङ्गुलेनाधिको वापि हीनो वा विस्तरो भवेत् ।
षट्त्रिंशन्मात्र संयुक्तमायामं वाथ दैर्घ्यकम् ॥ १२ ॥
अष्टाङ्गुलेन विस्तारस्त्वथ पञ्चयवान्वितः ।
षट्त्रिंशन्मात्रनाहस्तु मध्यमे तु विधीयते ॥ १३ ॥
अग्रे मूले च मध्ये वा हेमपट्टैर्विभूषयेत् ।
तुलादण्डे प्रकर्तव्यमवलम्बनकत्रयम् ॥ १४ ॥
ताम्रेणाथ प्रकर्तव्यमायसेनाथवा भवेत् ।
मध्ये चोर्ध्वे मुखं कार्यं त्ववलम्बस्सुशोभनः ॥ १५ ॥
जिह्वामेकां तुलामध्ये तोरणस्य प्रकल्पयेत् ।
उत्तरस्य तु मध्ये तु अयश्शङ्कु दृढं नयेत् ॥ १६ ॥
शङ्कुं सुषिर सम्पन्नं वलयेन समन्वितम् ।
सप्ताष्टषट्शतेनाथ ताम्रेणाधारको प्रभोः ॥ १७ ॥
एकाङ्गुल प्रमाणाढ्यौ वेदरन्ध्रसमन्वितौ ।
चतुष्कुण्डल संयुक्तौ हस्तप्रमाण सम्मितौ ॥ १८ ॥
प्रादेशं वा चतुष्कं च षण्मात्रं स्यात् स्थलोपरि ।
यथा तथा विधेयौ तौ प्राक्पश्चिमगतावृतौ ॥ १९ ॥
स्तम्भद्वय शिखमानमुत्तरद्वार संइतम् ।
कुम्भमध्यादि संयुक्तावथवा परिकल्पयेत् ॥ २० ॥
खात्वा पुरुषमात्रं तु न्यस्त्वा पादशिलां समाम् ।
तदूर्ध्वे स्थापयित्वादौ वालुकाभिर्दृढं नयेत् ॥ २१ ॥
एवं सर्वं समापाद्य शिल्पिमोक्षावसानके ।
पुण्याहं वाचयित्वा तु मण्डपे समलङ्कृते ॥ २२ ॥
मङ्गलाङ्कुर संयुक्ते नानाफल समन्विते ।
मण्डलं कारयेद्धीमान् सर्वतोभद्र सञ्ज्ञङ्कम् ॥ २३ ॥
वज्रादि शूल पर्यन्तं मण्डपस्याष्टदिक्षु च ।
शूलस्य वामदेशे चक्रं पद्मं दक्षिणे ॥ २४ ॥
मध्यमे देवदेवेशं वामे गौरी समायुतम् ।
सम्पूज्य गन्ध पुष्पाद्यैः ब्रह्माणं दक्षिणे यजेत् ॥ २५ ॥
वाम् सम्पूजयेद्विष्णुं समान्ताल्लोकपान्न्यसेत् ।
सूर्यं मध्येऽग्नि देशे तु भारकरन्नै-ऋतेऽथवा ॥ २६ ॥
भानुं वायौ रविं चैशे दिवाकरमथार्चयेत् ।
उषां प्रभां तथा प्रज्ञां सन्न्ध्यां सावित्रिमर्चयेत् ॥ २७ ॥
मध्यादीशानपर्यन्तं गन्धपुष्पादिनार्चचेत् ।
विस्तारां मध्यमे देशे सुतरां वह्नि गोचरे ॥ २८ ॥
प्रभूतं विमलं सारमारध्यं पूर्वदेशतः ।
उत्तरान्तं च सम्पूज्य सुखं मध्ये प्रजूजयेत् ॥ २९ ॥
बोधनी वायुदेशे तु शार्वेत्वाप्यायनी यजेत् ।
रविं च मध्यमे देशे पूजयेद्देशिकोत्तमः ॥ ३० ॥
दीप्ताद्यां पूजयेत् शक्तीः पूर्वान्मध्यान्तमीरिताः ।
सोमादि केतुपर्यन्तं ग्रहानष्टौ प्रपूजयेत् ॥ ३१ ॥
ततो होम प्रकर्तव्यस्तद्विधानमिहोच्यते ।
प्रधान होमे देवेशं लोकपानष्ट दिक्षु च ॥ ३२ ॥
गायत्र्या होमयेन्मध्ये दिक्षु लोकेश मन्त्रतः ।
स्वाहान्तं प्रण्ववोपेतं स्वस्वनाम्नाद्विजोतमाः ॥ ३३ ॥
शिवाग्निं स्वस्व शास्त्रोक्तं सम्पाद्याग्नि मुखान्वितम् ।
लोकेश सहितं देवं समावाह्य समर्चयेत् ॥ ३४ ॥
नाडी सन्घान सम्युक्तं जयाद्यान्त समन्वितम् ।
समिच्चरु घृतोपेतं सहस्रं वा तदर्घकम् ॥ ३५ ॥
शतमष्टोत्तरंवाथ होतव्यं स्वस्व दिग्गजैः ।
शुद्ध पायसमुग्जन्नै श्वरुभिस्त्रिभिरन्तितम् ॥ ३६ ॥
क्षीराक्त दूर्वयाहोमं पञ्चविंशति सङ्ख्यया ।
मृत्युञ्जयं समुच्चार्य वास्तु होममथा चरेत् ॥ ३७ ॥
बहुरूपेण कर्तव्यं पार्यश्चितं शतं शतम् ।
मण्डले पुजितान्सर्वान् देवानभ्यर्च्य होमयेत् ॥ ३८ ॥
पूर्णा कृत्वा पुरेशानां क्रियामत्र समाचरेत् ।
सहस्र कलशार्द्येश्च संस्नाप्य परमेश्वरम् ॥ ३९ ॥
महा पूजा च कर्तव्या प्रभूत हविषान्विता ।
पञ्चामृतैः पञ्चगव्यैः क्षीराद्यैः स्नपनं तु वा ॥ ४० ॥
ब्राह्मणान् भोजयेत्पश्चात् तुलारोहणमाचरेत् ।
आहूय नृपतिं स्नातं शुक्लवस्त्रानुलेपनम् ॥ ४१ ॥
सर्वा भरण संयुक्तं शुक्लमाल्यविभूषितम् ।
कृतप्रतिसरं शान्तं खड्ग खेटक धारिणाम् ॥ ४२ ॥
आहूय शिवतोयेन प्रोक्ष येच्छिव मूच्चरन् ।
पुण्याहप्रोक्षणं पूर्वं भूतशुद्धि पुरस्सरम् ॥ ४३ ॥
सकलीकरणं कृत्वा रोपयेन्मन्त्रमुच्चरम् ।
रुद्रगायत्रि सञ्ज्ञन्तु यजमानस्तदा जपेत ॥ ४४ ॥
घटिकार्घं तदर्घं वा तत्रैवायनमाचरेत् ।
पूर्वदिक स्थान मध्यस्थ पश्चिमालि मुखोय था ॥ ४५ ॥
आलोक्य काञ्चनन्तत्स्थं कूर्च हस्तो हरंस्मरन् ।
वेदातोद्य समायुक्तं नृत्तगीत समन्वुतम् ॥ ४६ ॥
जयमङ्गलसंयुक्तं तत्सुवर्णसमं यदि ।
स्वकायेन तदायेन तुलारोहः कृतोभवेत् ॥ ४७ ॥
शतमर्धं तदर्ध वा श्रेष्ठाद्यमधिकं वरम् ।
देवेन्द्रं वाथकर्तारं तुलारोहणमाचरेत् ॥ ४८ ॥
देशिकं पूजयेत्पश्चाद्वस्त्रकाञ्चन भूष्णैः ।
होतृंश्च दक्षिणां तेभ्यः प्रदद्याद्विधिपूर्वकम् ॥ ४९ ॥
शतनिष्कं तदर्धं वा तदर्घं काञ्चनस्य तु ।
ऋतित्विग्भ्यश्चैव सर्वेभ्यो दशनिष्काः प्रकीर्तिताः ॥ ५० ॥
यागोपयुक्तं यद्द्रव्यं देशिकाय प्रदापयेत् ।
शिवार्चकस्य पूजा च प्राग्व देव समीरिता ॥ ५१ ॥
तस्यापि दक्षिणा शास्त्रे पञ्चाशन्निष्क सम्मिता ।
तुलाधि रोहितं वित्तं ब्राह्मणेभ्यः प्रदापयेत् ॥ ५२ ॥
मद्भक्तेभ्यो विशेषेण तदर्धवा प्रकल्पयेत् ।
देशिकेभ्यो विशेषेण दद्यान्छ्रद्धा समन्वितः ॥ ५३ ॥
तत्काले विसृजेत् बद्धान् कारागृहनिवेशितान् ।
यत्र कर्म करास्तेषां पृथङ्निष्कं प्रतापयेत् ॥ ५४ ॥
एतत् सामान्य मुद्दिष्टं दानानां द्विजयत्तमाः ॥ ५५ ॥

इति उत्तरकामिकाख्ये महातन्त्रे तुलारोहणदानविधिः त्रयशितितमः
पटलः ॥

८४। चतुश्शीतितमे पटले हिरण्य गर्भ दानविधिः

हिरण्य गर्भं वक्ष्यामि दानं सर्वार्थ सिद्धिदम् ।
कुर्यात्सहस्रनिष्केण त्वधः पात्रं हिरण्यतः ॥ १ ॥
तदर्धेनोर्ध्वपात्रं तु सहस्रेण द्वयं तु वा ।
त्रिपादं वार्ध मानं वा सपादं सार्धमेव वा ॥ २ ॥
द्विगुणं वा प्रकर्तव्यं यथालाभं तु वा भवेत् ।
वृक्षजं वाथ तत्कृत्वा स्वर्णपट्टैश्च वेष्टयेत् ॥ ३ ॥
तिथ्यङ्गुलं तु मूलं स्यादेकैकाङ्गुलवर्धनात् ।
एकोन त्रिंशमात्रं तु मूलविस्तार इष्यते ॥ ४ ॥
एकपञ्चाशदारभ्य व्योममात्रविवर्धनात् ।
पञ्चसप्तत्रिमात्रान्तं तदुत्सेधः प्रकीर्तितः ॥ ५ ॥
विकारांशं तु तन्कृत्वा एकैकाम्श विवर्धनात् ।
अर्धाधिकं तु विस्तारा दास्य विस्तार इष्यते ॥ ६ ॥
अथ पादसमायुक्तो भित्तेः पादस्य निर्गमः ।
त्रिमात्रान्नवमात्रान्तं निर्गमे मानमिष्यते ॥ ७ ॥
पादुकोत्सेधमानं तु तदर्धं पादमेव वा ।
त्रिपादं वा समं वापि फलकाधनमिष्यते ॥ ८ ॥
पादुकोपरि दीर्घं वा विस्तारो भित्तिबाह्यतः ।
मायान्ता वा प्रकृत्यन्ता फेलाव्याप्तिरिहागमे ॥ ९ ॥
शिवान्तमूर्ध्वपात्रं स्यात् मध्ये पुरुषरूपवत् ।
आत्मानं भावयेद्विद्वांस्तद्विधान मिहोच्यते ॥ १० ॥
स्थानं च वेदिकोपेतं मण्डलेन समन्वितम् ।
कृत्वातु पूत्ववत्तस्य मध्ये शालिं विनिक्षिपेत् ॥ ११ ॥
तदूर्ध्वे विन्यसेत्फेलां नववस्त्रैर्निवेष्टिताम् ।
नीरन्ध्रं माषकल्पेन कृत्वा गव्येन पूरयेत् ॥ १२ ॥
प्रत्येकं पञ्चभिर्वाथ तद्वत्पञ्चामृतैरपि ।
ब्रह्मभिः पूरयेद्विद्वानीशानाद्यैर्गुरूत्तमः ॥ १३ ॥
गायत्र्या पूजयेत्पश्चाद्यथा शिवमयं भवेत् ।
पूर्ववत्कारयेत्पूजां सामान्यं द्विजसत्तमाः ॥ १४ ॥
प्राङ्मुखः प्रविशेत् कर्ता गौरीगायत्रिकां जपेत् ।
छादयेत्तं प्धानेन गुरुश्शिवमनुं स्मरन् ॥ १५ ॥
तदा षोडशंसंस्कारान् गर्भाधानादिकान्गुरुः ।
कुर्यादनन्तरं वाथ तद्विशेषस्तु कथ्यते ॥ १६ ॥
कर्तारं भार्यया युक्तं सर्वालङ्कारशोभितम् ।
आनीय कुर्यात्तस्यैव गर्भाधानादिकाः क्रियाः ॥ १७ ॥
भार्यादक्षपुटे दूर्वारससेचन माचरेत् ।
एकविंशति सङ्ख्यातानुदुम्बर फलान्वितान् ॥ १८ ॥
कुशानानीय शक्त्याथ कुर्यात्सीमन्तकर्म च ।
त्रिंशन्निष्कमितां कन्यां सर्वालङ्कारशोभिताम् ॥ १९ ॥
भार्यापार्श्वे विनिक्षिप्य शिवादिभ्यो निवेदयेत् ।
भोजयेत्पायसैर्विप्रानन्नप्राशानकर्मणि ॥ २० ॥
हृल्लेखामन्त्रमुच्चार्य सर्व कर्म समाचरेत् ।
अनुक्तमत्र यत्कर्म तुलारोह वदाचरेत् ॥ २१ ॥
एवं यः कुरुते मर्त्यः सोऽनन्त फलमश्नुते ॥ २१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे हिरण्यगर्भादान विधिश्चतुश्शीतितमः
पटलः ॥

८५। पञ्चशीतितमे पटले तिलपर्वतदान विधिः

तिलपर्वतदानं तु वक्ष्यते द्विजसत्तमाः ।
पूर्ववन्मण्डपं कृत्वा वेदिकारहितं यथा ॥ १ ॥
बाह्यवीथ्यां च कुण्डान् प्रागुक्तविधिना नयेत् ।
पञ्चगव्येन सम्प्रिक्ष्य मण्डलं मध्यकल्पितम् ॥ २ ॥
सञ्छाद्याहतवस्त्रैश्च द्रोणपुष्पं विकीर्य च ।
पुण्याह प्रोक्षणं दण्डं शतमात्रसमुच्छ्रितम् ॥ ३ ॥
वेण्वेदिकल्पितं तत्र विन्यसेद्देशिकोत्तमः ।
तिलांश्च निक्षिपेत्तत्र व्योमव्यापिनमुच्चरन् ॥ ४ ॥
दण्डात् प्रादेशमात्रं वा वस्वङ्गुलमथापि वा ।
कर्तव्यमधिकं सद्भिश्चतुरङ्गुलमेव वा ॥ ५ ॥
दण्डमानसमं वाथ हीनं नैव समाचरेत् ।
वस्त्रश्च वेष्टयेत् सर्वांस्तिलान् सद्यादिमन्त्रतः ॥ ६ ॥
देशं सङ्क्ल्पयित्वा तु पूयत्तु विशेषतः ।
निक्षिपेत् पर्वतप्रान्ते मूर्तिपान् मूर्तिसंयुतान् ॥ ७ ॥
शर्वादिन् क्ष्मादिपूर्वांश्च निष्कत्रयविनिर्मितान् ।
तत्रस्थमर्चयेद्देवं तिलपर्वतमध्यगम् ॥ ८ ॥
अर्चयेच्च विधानज्ञो यजमानेन देशिकः ।
दर्शयेत् तिलमध्यस्थं देवदेवमुपापतिम् ॥ ९ ॥
अयं हि देवदेवेशस्सर्वेषां वृषभध्वजः ।
अस्मार्चने कृते सर्वं ध्रुवं भवति कल्पनम् ॥ १० ॥
अत्रानुक्तं तु यत् किञ्चिदर्चनं होममेव वा ।
स्नपनं देव देवस्य सहस्रकलशादिभिः ॥ ११ ॥
प्रागुक्तविधिना सर्वं तुलारोहवदाचरेत् ।
विसृज्य देवदेवेशं शिवाय शिवधर्मिणे ॥ १२ ॥
दद्यात्तिलजगं कर्ता जलदानपुरस्सरम् ।
अस्मात्परतरं दानं नास्तीह भुवनत्रये ॥ १३ ॥
अथवान्यप्रकारेण चाल्पद्रव्य महाफलम् ।
सर्वदा सर्वकाले च कर्तव्यमिह कथ्यते ॥ १४ ॥
गोमयालिप्तदेशोर्ध्वे वस्त्रायास्तीर्य देशिकः ।
तिलं भारग्रयं तत्र निक्षिपेद्दशबीजतः ॥ १५ ॥
कर्णिकाकेसरोपेतं पद्ममष्टदलान्वितम् ।
दशनिष्कोण कृत्वाथ तदूर्ध्वेनार्धमानतः ॥ १६ ॥
तन्मध्ये विन्यसेत्पद्मं तन्मध्ये पूजयेच्छिवम् ।
तदुत्तरे तदर्धेन कारयेत्तु मनोन्मनीम् ॥ १७ ॥
अष्टौ वामादिशक्तीश्च कृत्वा निष्कत्रयेण तु ।
अष्टौ विद्येश्वरान् बाह्ये तद्वत्स्वर्णमयेन वा ॥ १८ ॥
कृत्वा सम्पूज्य विधिवत् तत्सर्वं तिलसंयुक्तम् ।
दापयेच्छिवभक्तेभ्यस्तत्कर्त्रा देशिकोत्तमः ॥ १९ ॥

॥ इति उत्तरकामिकाख्ये महातन्त्रे तिलपर्वतदान विधिः पङ्चाशितितमः
पटलः ॥

८६। षड्शीतितमे पटले सुवर्ण भूमिदान विधिः

सौवर्णभूमिदानं तु वक्ष्येऽहं द्विजसत्तमाः ।
काञ्चनेन सहस्रेण चतुरश्रादिमेदिनी ॥ १ ॥
एकहस्त प्रमाणेन सप्तद्वीपसमन्विता ।
समुद्रपर्वतोपेता सर्वतीर्थसमन्विता ॥ २ ॥
मध्ये मेरुसमायुक्ता कर्तव्या शोभना यथा ।
अनेकमुनिसंयुक्तां नवखण्डां तु भावयेत् ॥ ३ ॥
पूर्ववद्देवपूजां च होमं चैव विशेषतः ।
मेर्वादीन् पूजयेत् स्वस्व बीजेनैव गुरूत्तमः ॥ ४ ॥
सहस्रकलशाद्यैश्च स्नापयेत्परमेश्वरम् ।
पूर्ववत्तस्य पूजा च विधेया द्विजसत्तमाः ॥ ५ ॥
शिवादिभ्यो प्रदातव्या मेदिनी स्वर्णनिर्मिता ॥ ५१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे सुवर्णभूमिदान विधिः षड्शीतितमः
पटलः ॥

८७। सप्ताशीतितमे पटले कल्पपादपदान विधिः

कल्पपादपदानं तु वक्ष्येऽहं द्विजसत्तमाः ।
पादपं शतनिष्केण सुवर्णे समाचरेत् ॥ १ ॥
बहुशास्वासमोपेतं पत्रपुष्पसमन्वितम् ।
नानाफलसमायुक्तं सर्वशोभासमन्वितम् ॥ २ ॥
शाखासु बहुधा कुर्यान्मुक्तादामप्रलम्बनम् ।
छदनानि विचित्राणि कुर्यान्मरतकैर्द्विजाः ॥ ३ ॥
कारयेत् पल्लवानीह प्रवालैश्च विशेषतः ।
फलानि पद्मरागैश्च विविधानि समाचरेत् ॥ ४ ॥
नीलेन दण्डमूलं तु स्कन्धं वज्रेणकारयेत् ।
वैडूर्येन प्रकर्तव्यं द्रुमाग्रं पुष्यरागतः ॥ ५ ॥
मस्तकं च प्रकर्तव्यं गोमेदकमयं यथा ।
स्कन्धं वै कारयेद्विद्वान् सूर्यकान्तेन सुव्रताः ॥ ६ ॥
इन्दुकान्तेन वा वेदिं स्फटिकेन द्रुमस्य तु ।
वितस्तिमात्रमायामं वृक्षस्य परिकीर्तितम् ॥ ७ ॥
शाखाष्टकस्य मानं च विस्तारं चोर्ध्वतस्तथा ।
स्थापयेद् वृक्षमूले तु लिङ्गं लोकपसंवृतम् ॥ ८ ॥
मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् ।
पूर्ववत् तद्विना कृत्वा तन्मध्ये स्थाप्य पादपम् ॥ ९ ॥
लोकपावृतिसंयुक्तमीशानं पूजयेद्गुरुः ।
ईश्वराय द्रुमं दद्यात् तदीयेभ्यो द्विजोत्तमाः ॥ १० ॥
अत्रानुक्तं तु यत्सर्वं तुलाभारवदाचरेत् ॥ ११ ॥

इति उत्तरकामिकाख्ये महातन्त्रे कल्पपादपदान विधिः सप्ताशितितमः
पटलः ॥

८८। अष्टाशीतितमे पटले गणेश दान विधिः

गणेशदानं वक्ष्यामि सर्वपापप्रणाशनम् ।
पूर्ववन्मण्टपं कुर्याद्वेदिकामण्डलान्वितम् ॥ १ ॥
तन्मध्यमे यजेद्देवं लोकपाल समावृतम् ।
तद्बाह्ये पूजयेद्ष्टौ विद्येशानष्टदिक्षु च ॥ २ ॥
सर्वे ते च सुवर्णेन निर्मिताश्च पृठक् पृथक् ।
तृतीयावरणोपेतान् गन्धपुष्पादिभिर्गुरुः ॥ ३ ॥
प्रधाने जुहुयादीशं विद्येशानष्टदिक्षु च ।
ईशानादिषु संस्थाप्य सप्तविप्रान् समर्चयेत् ॥ ४ ॥
उत्तरे पूजयेत् कन्यां गन्धपुष्पादिभिर्गुरुः ।
तेभ्यः पदद्याद्विद्येशान् स्वस्वमन्त्रैरनुक्रमात् ॥ ५ ॥
अत्रानुक्तं तु यत् किञ्चित् तुलारोहवदाचरेत् ॥ ६ ॥

इति उत्तरकामिकाख्ये महातन्त्रे गणेश दान विधिः अष्टाशीतितमः
पटलः ॥

८९। एकोननवतितमे पटले हेम धेनुदान विधिः

हेम धेनु प्रदानं तु वक्ष्ये सङ्क्षेपतः क्रमात् ।
सर्व पाप हरं सर्व भय दुर्भिक्ष नाशनम् ॥ १ ॥
काञ्चनेन सहस्रेण तदर्धेनाथवा पुनः ।
तस्याप्यर्धेन वा कुर्याच्छतनिष्केण वा द्विजाः ॥ २ ॥
गोरूपं कारयेद्विद्वान् सर्व लक्षण सम्युतम् ।
पद्मरागं तु शृङ्गे स्यात् खुराग्रे वज्रमिष्यते ॥ ३ ॥
भ्रूमध्ये मौक्तिकं विद्याद्वडूर्यं पुच्छदेशके ।
पुष्परागं तु दन्तर्थं कल्पयेत्कल्पवित्तमः ॥ ४ ॥
गोरूपमेवं कृत्वा तु दशांशे नैव तस्य च ।
वत्सं तद्वत् समापाद्य पूर्ववन्मटपं नयेत् ॥ ५ ॥
वेदिका मण्डलोपेतं तन्मध्ये विन्यसेत्पशुम् ।
सवत्सां वस्त्र युग्मेन वेष्टयेद्देशिकोत्तमः ॥ ६ ॥
पूजयेद्गन्ध पुष्पाद्यैस्तद्गायत्र्या द्विजोत्तमाः ।
अर्चनं पूर्ववत्कुर्यात् होमं चैव विशेषतः ॥ ७ ॥
अथैकाग्नि विधानं वा समिदाज्य हविष्य युक् ।
क्षीराद्यः पूजयेद्देवं सहस्र कलशादिभिः ॥ ८ ॥
त्रिऽंसन्निष्कोऽथवा ज्ञेयो गुरोरेकाग्निकल्पने ।
अनुक्तं यद्भवेत् किञ्चित्तुलारोहवदाचरेत् ॥ ९ ॥
इति उत्तरकामिकाख्ये महातन्त्रे हेमदेनु दान विधिः एकोननवतितमः
पटलः ॥

९०। नवतितमे पटले लक्ष्मीदान विधिः

महदैश्वर्य सिद्ध्यर्थं लक्ष्मीदानमिहोच्यते ।
काञ्चनेन सहस्रेण तदर्धेन तदर्धतः ॥ १ ॥
तदर्धेनाथवा कुर्यात् श्रीदेवीं लक्षणान्वितम् ।
अष्टोत्तर शतेनाथ निष्केणैनां प्रकल्पयेत् ॥ २ ॥
पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् ।
मण्डले विन्यसेल्लक्ष्मीं विष्ण्वोर्वामे यथा भवेत् ॥ ३ ॥
श्री मन्त्रेण यजेल्लक्ष्मीं श्री सूक्तेनाथवार्चयेत् ।
विष्णुं च विष्णुगायत्र्या गन्ध पुष्पादिनार्चयेत् ॥ ४ ॥
पूजयेच्छिव पूजां च होमं चैव विशेषतः ।
एक होमं तु वा कुर्यात् प्रगुक्त विधिना गुरुः ॥ ५ ॥
स्नपनं देव देवस्य सहस्र कलशादिभिः ।
पूर्ववत् विधिना कुर्यात् अनुक्तमिह यद्भवेत् ॥ ६ ॥

इति उत्तर कामिकाख्ये महातन्त्रे लक्ष्मीदान विधिः नवतितमः पटलः ॥

९१। एकनवतितमे पटले तिलधेनु दान विधिः

तिल धेनु विधिं वक्ष्ये सर्वकामार्थ साधनम् ।
पूर्ववन्मण्डलं कुर्यात् वेदिका मण्डलान्वितम् ॥ १ ॥
तस्याग्रे कारयेद्विद्वान् पद्मं तिलमयं शुभम् ।
अष्टद्रोणेन कर्तव्यं यद्वा भारेण कारयेत् ॥ २ ॥
वस्त्रैराछाद्य तन्मध्ये स्वर्णपद्मं विनिक्षिपेत् ।
त्रिंशन्निष्केण चार्धेन तदर्धेनाथवा भवेत् ॥ ३ ॥
पञ्च निष्केण वा कुर्यात् कर्णिकानालशोभितम् ।
तस्यैवोत्तरदिग्भागे ब्राह्मणान् रुद्र सङ्ख्यया ॥ ४ ॥
रुद्रानेकादशन् स्मृत्वा समावाह्य समर्चयेत् ।
विप्रान् द्वादश पूर्वे तु द्वादशादित्यमन्त्रतः ॥ ५ ॥
दक्षिणेत्वष्ट विद्येशान् बुधान् विप्रान् समर्चयेत् ।
षौडशैव तु गन्धाद्यैश्चचुर्दिक्षु च भावयेत् ॥ ६ ॥
अर्चयित्वाथ तन्मन्त्रैर्वस्त्रं प्रावरणानि च ।
पञ्चाङ्ग भूषणोपेतां स्त्वास्तीर्य च तदश्रके ॥ ७ ॥
प्रत्येकं नववस्त्रं तु तस्मिन् खारि प्रमाणतः ।
तिलान्निक्षिप्य कांस्ये तु पात्रे नवफलेन तु ॥ ८ ॥
इक्षुखण्डं च दातव्यं गां च तेभ्यः क्रमेण तु ।
हेमशृङ्गामरोगां तु दद्याद्रौप्यखुरामथ ॥ ९ ॥
प्रतिशङ्गं तु निष्कं स्यात् खुरं तद्विगुणेन च ।
पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ॥ १० ॥
तद्वत् पूजा च होमं च स्नपनाद्यं तथैव च ।
केवलं रुद्रदानं वा सूर्यदान मथापि वा ॥ ११ ॥
मूर्ति विघ्नेशदानं वा यथा वद्धिं प्रकल्पयेत् ।
पञ्चाङ्ग भूषणं पञ्च निष्केणात्र प्रकल्पयेत् ॥ १२ ॥
दक्षिणां पूर्ववद्दद्याद्दद्यादनुक्तं पूर्ववद्भवेत् ॥ १२१।२ ॥

इति उत्तर कामिकाख्ये महातन्त्रे तिलधेनुदानविधिरेकनवतितमः पटलः

९२। द्विनवतितमे पटले सहस्रगोदान विधिः

गवां सहस्र सङ्ख्यानां दानं वक्ष्यामि सिद्धये ।
सवत्सस्सगुणा एव सङ्ग्राह्या गुणवत्तराः ॥ १ ॥
अष्टौ सम्पूज्य शृङ्गेषु प्रतिशृङ्गं तु निष्कतः ।
शृङ्गं कृत्वा तु बध्नीयाद् राजतं खुरमेव वा ॥ २ ॥
कण्ठं निष्केण पट्टं च बध्वा दद्यातृणं ततः ।
मण्डपं वेदिकोपेतं मण्डलेन समन्वितम् ॥ ३ ॥
पूर्ववच्छिव पूजा च होमश्चात्र विधीयताम् ।
स्नपनं च शिवस्याथ सहस्र कलशादिभिः ॥ ४ ॥
शिवाय शिवविप्रेभ्यो दद्याद् गां दक्षिणायुताम् ।
दशनिष्कं तदर्धं वा तदर्धं निष्कमेव वा ॥ ५ ॥
दानकाले पठेत् स्तोत्रमिदं कर्ता तदुच्यते ।
गावो ममाग्रतोनित्यं गावः पृष्ठत एव मे ॥ ६ ॥
गावो मे हृदयं नित्यं गवां मध्ये वसाम्यहम् ।
अनुक्तमत्र यत्कर्म तुलाभारवशान्नयेत् ॥ ७ ॥

इति उत्तरकामिकाख्ये महातन्त्रे सहस्रगोदानविधिः द्विनवतितमः पटलः

९३। त्रिनवतितमे पटले हिरण्याश्व दान विधिः

हिरण्याश्व प्रदानं तु विजयार्थमिहोच्यते ।
अयुतस्याश्वमेधस्य फलाच्छ्रेष्ठमिदं मतम् ॥ १ ॥
अष्टोत्तर सहस्रेण तदर्धेनार्धमानतः ।
अष्टोत्तर शतेनाथ कृत्वाश्वं लक्षणान्वितम् ॥ २ ॥
पञ्च कल्याण चित्राङ्गं रजतेन तु कारयेत् ।
सर्वालङ्कार संयुक्तं कलाद्यैश्च समन्वितम् ॥ ३ ॥
मण्डपं पूर्ववत् कृत्वा वेदिकामण्डलान्वितम् ।
तन्मध्ये विन्यसेद्वाजि मुच्चैः श्रवसनामतः ॥ ४ ॥
गन्धादिभिस्समभ्यर्च्य विप्रेभ्योविनिवेदेयेत् ।
सुरेन्द्र बुद्ध्या सम्पूज्य पञ्च निष्कं प्रदाय च ॥ ५ ॥
दीनान्ध कृपणानाथां स्तोषयेद्भोजनादिभिः ।
मण्डलाभ्यर्चनं होमं कलशस्नपनं तथा ॥ ६ ॥

इति उत्तरकामिक महातन्त्रे हिरण्याश्व प्रदान विधिस्त्रिनवतितमः पटलः

९४। चतुर्नवतितमे पटले कन्यादान विधिः

सर्व दानोत्तमं वक्ष्ये कन्यादानं द्विजोत्तमाः ।
सर्व लक्षण सम्पन्नां दोष विवर्जिताम् ॥ १ ॥
विभिन्नगोत्र प्रभवामनुकूल दिनोद्भवाम् ।
दत्वा धनादिकं पित्रोस्तत्संवाद पुरस्सरम् ॥ २ ॥
उभयोश्चित्तमालोक्य पुत्रीकृत्य च तां पुनः ।
संस्नाप्य गन्धमालाभि र्भूषणैर्वस्त्र संयुतैः ॥ २३ ॥
सम्भूष्य कन्यकां दद्याद्यागाय विधिनामुना ।
पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ॥ २४ ॥
तत्र सम्पूज्य देवेशं कुर्यात् होमं च पूर्ववत् ।
नैमित्तिकोदितं शान्तं शिवभक्ति समन्वितम् ॥ २५ ॥
सम्पूज्येश्वर बुद्ध्या च गन्धपुष्पस्त्रगादिभिः ।
पञ्चाङ्ग भूषणश्चैव वासोभूमिधनान्वितम् ॥ ६ ॥
ग्रहोपकरणोपेतं दासी दासमनुत्तमम् ।
दद्याद्वराय संस्मृत्य शिवं श्रद्धा पुरस्सरम् ॥ ७ ॥
एवं यः कारयेद्दानं कन्यायास्सुखमेधते ।
कन्यारोमाणि यावन्ति तावद्वर्षशतं द्विजाः ॥ ८ ॥

इति उत्तर कामिकाख्ये महातन्त्रे कन्यादान विधिश्चतुर्नवतितमः पटलः

९५। पञ्चनवतितमे पटले हिरण्योक्ष प्रदान विधिः

हिरण्योक्ष प्रदानं तु सङ्क्षेपेणाधुनोच्यते ।
काञ्चनेन सहस्रेण कुर्याअन्निष्केण वार्धतः ॥ १ ॥
तदर्धेनाथवा कुर्यात् तस्याप्यर्धेन वार्धतः ।
वृषं सलक्षणं कुर्यात् अष्टोत्तर शतेन वा ॥ २ ॥
स्फटिकेनार्ध चन्द्राभं ललाटे राजतं खुरम् ।
कर्णं च पद्मरागेण गोमेदेन ककुद्भवेत् ॥ ३ ॥
घण्टामालां तु कण्ठे तु रत्नचित्रा यथा भवेत् ।
वृषाङ्गं कारयेद् विद्वान् किङ्किणी मालयावृतम् ॥ ४ ॥
पूर्ववन्मण्डपं कृत्वा वेदिकामण्डलान्वितम् ।
तन्मध्ये विन्यसेदुक्षं पश्चिमास्यं द्विजोत्तमाः ॥ ५ ॥
गायत्र्या पूजयेदुक्षुक्षं तदूर्ध्वे परमेश्वरम् ।
पूर्ववच्छिवपूजा च होमं चैव विशेषतः ॥ ६ ॥
शिवाय शिवभक्तेभ्यो दद्यादुक्षं महत्तरम् ।
समिदाज्य चरूपेतं शान्ति होममथापि वा ॥ ७ ॥
चरेदनुक्तमिह यत् तत्तुलाभारवद् गुरुः ॥ ८ ॥

इति उत्तर कामिक महातन्त्रे हिरण्योक्ष प्रदान विधिः पञ्चनवतितमः
पटलः ॥

९६। षण्णवतितमे पटले गजदान विधिः

अतः परं प्रवक्ष्यामि गजदानं द्विजोत्तमाः ।
गजं सलक्षणं कुर्यात् सौवर्णं राजतं तु वा ॥ १ ॥
सहस्रेण तदर्धेन तस्यार्धेन तदर्धतः ।
अष्टोत्तर शतेनाथ कारयेद्देशिकोत्तमः ॥ २ ॥
पूर्ववन्मण्डपं कुर्यात् वेदिका मण्डलान्वितम् ।
गजेन्द्रं विन्यसेन्मध्ये गन्धपुष्पादिनार्चयेत् ॥ ३ ॥
पूर्ववच्छिव पूजा च होमयेच्च विशेषतः ।
शिवाय शिवभक्तेभ्यो दद्याच्छ्रद्धा समन्वितम् ॥ ४ ॥
अन्यत्सर्वमनुद्दिष्टं तुलाभारवदाचरेत् ॥ ४१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे गजदान विधिः षण्णवतितमः पटलः ॥

९७। सप्तनवतितमे पटले लोकपालाष्टकदान विधिः

अष्टानां लोकपालानां दानं वक्ष्याम्यतः परम् ।
प्रागुक्तदेशकाले तु वेदिकामण्डलान्विते ॥ १ ॥
पूर्ववच्छिवपूजा च होमश्चैव द्विजोत्तमाः ।
शैवानष्टौ समाहूय सर्वलक्षण संयुताम् ॥ २ ॥
उदङ्मुखसमासीनान्नववस्त्रेपरि स्थिताम् ।
अर्चयेद्गन्धपुष्पाद्यैर्मन्त्रैर्लोकेशवाचकैः ॥ ३ ॥
एकस्मिन् स्थण्डिले वाथ कुण्डे वा होममाचरेत् ।
दक्षिणा दशनिष्का स्याद् भूषणैश्च समन्विता ॥ ४ ॥
वस्त्रं प्रावरणं दद्यादासनं कम्बलं तुवा ।
अत्रानुक्तं तु यत् किञ्चित् तुलाभारवदाचरेत् ॥ ५ ॥
लोकेशादनमेव स्यात् सर्वसम्पत् समृद्धिदम् ।
परचक्रप्रमथनं गजवाजिविवर्धनम् ॥ ६ ॥
पुत्रदं राष्ट्रद्धर्थं गोब्राह्मणहितवहम् ॥

इति उत्तर कामिकाख्ये महातन्त्रे लोकपालाष्टकदान विधिः
सप्तनवतितमः पटलः ॥

९८। अष्टनवतितमे पटले स्दानोत्तम विधिः

सर्व दानोत्तमं नाम्ना दानमाद्यं वदाम्यहम् ।
मण्डपं विधिना कुर्यात् वेदिका कुण्ड संयुतम् ॥ १ ॥
प्रपायां विधिरेवं स्यात् पूर्ववन्मण्डलान्वितम् ।
मध्यमे देवदेवेशं ब्रह्मविष्णु समन्वितम् ॥ २ ॥
गन्धाद्यै रर्चयेदीशं ब्रह्मणे विष्णवे पुनः ।
ब्रह्मन् ब्राह्मण भेदाय ब्रह्मणे धन दायिने ॥ ३ ॥
शिवाय हरये स्वाहा स्वधा वौषट् वषण्णमः ।
नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥
शेषहोम प्रकर्तव्यस्ततः कुण्डे समाहितैः ।
चतुर्वेद विदो ग्राह्या जप्तारस्त्रय एव हि ॥ ५ ॥
तानुद्दिश्य यथान्यायं द्विजेभ्यो दापयेद्धनम् ।
शतमष्टोत्तरं तेषां पृथक् पृथगनुत्तमम् ॥ ६ ॥
पञ्चाङ्ग भूषणोपेतं सद्वस्त्रावरणान्वितम् ।
अत्रानुक्तं तु यत् सर्वं पूर्वोक्तविधिना चरेत् ॥ ७ ॥

इति उत्तर कामिकाख्ये महातन्त्रे विधिरष्टनवतितमः पतलः ॥