ततः श्राद्धविधिर्लेशात् कथ्यते दीक्षितात्मनाम् ।
नित्यं नैमित्तिकं काम्यं वृद्धिः पार्वणमेव च ॥ १ ॥
प्रोक्तं पञ्चविधं श्राद्धं ज्ञात्वा कर्म समाचरेत् ।
नित्यं दद्यादहरहर्नैमित्तं स्यान्मृतेऽहनि ॥ २ ॥
कामाय विहितं काम्यं कुर्हो पार्वणामिष्यते ।
वृद्धि श्राद्धं विवाहादावेवं पञ्चविधिं भवेत् ॥ ३ ॥
तदर्थं श्रद्धया दत्तं भोजनं श्राद्ध मुच्यते ।
तत्संशुद्धि दिनाद्यावदब्दमासादिभेदतः ॥ ४ ॥
एकोद्दिष्ट प्रकर्तव्यं प्रति संवत्सरं कृतम् ।
श्राद्धं स्यादेक वर्षोर्ध्वं श्राद्ध पक्षे विशेषतः ॥ ५ ॥
नवश्राद्धं भवेदाद्यं ततः स्यात्शोडषात्मकम् ।
चतुर्थे पञ्चमे त्वह्नि नवाहैकादशाहयोः ॥ ६ ॥
मृदमुद्धिश्य यद्दानं नव श्राद्धमिति स्मृतम् ।
नव श्राद्धममन्त्रं तु पिण्डोदकविवर्जितम् ॥ ७ ॥
अनूदकमधूपं च गन्धमाल्य विवर्जितम् ।
आशौचान्ते प्रकर्तव्यमेकोद्दिष्टं द्विजोत्तमाः ॥ ८ ॥
एकादशे त्रिपक्षे च तथा च प्रतिमासके ।
वत्सरार्धे च यत्कर्म सांवत्सरिक सम्युतम् ॥ ९ ॥
षोडष श्राद्ध मित्युक्तं दानमेतेषु यत्कृतम् ।
एतच्च षोडश श्राद्धमेकोद्दिष्टमिति स्मृतम् ॥ १० ॥
यस्यैतानि नकुर्वन्ति श्राद्धनि नव षोडश ।
पिशाचत्वं चिरं तस्य दत्तैश्श्राद्ध शतैरपि ॥ ११ ॥
द्वारे च भस्मनिचये चाकाशे च यथाक्रमम् ।
त्र्यहाणि त्रीणि चैकं च प्रेता भूतस्सतिष्ठति ॥ १२ ॥
सपिण्डीकरणादूर्ध्वं शिवलोकं स गच्छति ।
मरणाहात् समारभ्य प्रत्यहं वत्सरावधि ॥ १३ ॥
भोजनं सोदकुम्भं च प्रदद्याद् देशिकात्मने ।
विधायाथ नवश्राद्धमेकोद्दिष्ट समन्वितम् ॥ १४ ॥
सोदकुम्भयुतं पश्चात् सपिण्डीकरणं समे ।
विधातव्यं प्रयत्नेन ब्रह्मचर्यमनुज्झत ॥ १५ ॥
षण्मासान्ते त्रिमासान्ते मासान्ते वा समाचरेत् ।
एकोद्दिष्ट द्वितीयाहे सपिण्डीकरणं क्रियाम् ॥ १६ ॥
अर्वाक् सपिण्डीकरणं यस्य संवसराद्भवेत् ।
तस्याप्यन्नं सोदकुम्भं दद्याद्संवत्सद्गुरुः ॥ १७ ॥
पूर्वमेव नवश्राद्धमेकोद्दिष्ट समन्वितम् ।
सपिण्डीकरणं कुर्याद्भोजनं चैकवर्धनम् ॥ १८ ॥
समूह्य वै तत् कर्तव्यं विशेषाद् देशिकात्मने ।
शिवाय वा प्रदातव्यमथवा दीक्षितात्मने ॥ १९ ॥
एकोद्दिष्ट क्रियान्ते तु पक्षश्राद्धं विशाम्मतम् ।
पाक्षिकं मासिकं श्राद्धं शूद्राणां च तथा भवेत् ॥ २० ॥
अन्यत्सर्वं समानं स्याद्ब्राह्मणैश्च त्रिवर्णिनाम् ।
घटकन्यागते सूर्ये कृष्णपक्षे विशेषतः ॥ २१ ॥
चतुर्थी सप्तमी चैव नवमी च त्रयोदशी ।
अमावस्या मघा चासु पितृपक्षं प्रकल्पयेत् ॥ २२ ॥
अष्टम्यां पर्वशेषेषु मातृवर्गं प्रकल्पयेत् ।
व्यतीपातेऽयने वापि स्वर्भानोरपि दर्शने ॥ २३ ॥
विष्वोरपि गजच्छायासङ्क्रान्त्यादिषु कारयेत् ।
शस्त्राग्निभृगुपाताम्बुप्रवेश विधिना मृताः ॥ २४ ॥
एतोषां तु चतुर्दश्यां श्राद्धं कुर्यात् सुतृप्तये ।
अन्यदा वापि कर्तव्यं सम्भवे वसुपात्रयोः ॥ २५ ॥
रात्रौ तु राक्षसं श्राद्धं सन्ध्ययोरुभयोरपि ।
रात्रावपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ॥ २६ ॥
गृही त्रयोदशी श्राद्धं न च कुर्वीत पुत्रवान् ।
मघासु कुर्वतः श्राद्धं ज्येष्ठपुत्रो विनश्यति ॥ २७ ॥
नन्दायां दारसून् चतुर्दश्यां त्रिजन्मसु ।
यदि कुर्यान्नवश्राद्धम्। कुलक्षयकरं भवेत् ॥ २८ ॥
शुक्रे च बुधवारे च गुरोस्सोमस्य वारयोः ।
एतेषु कुर्वतः श्राद्धं कर्तुर्मरणमादिशेत् ॥ २९ ॥
पौष्णमादित्यमैन्द्राग्नी रोहिणी त्रय उत्तराः ।
आत्मनश्च त्रिजन्मानि चतुर्विंशतिभं तथा ॥ ३० ॥
अमाद्वयस्तु वै मासो मलिनः पापसम्भवः ।
गर्हितः पितृदेवेभ्यः सर्वकर्मसु सन्त्यजेत् ॥ ३२ ॥
नित्यनैमित्तिकं कुर्यात् प्रयतस्सन्मलिम्लुचे ।
वैशाखे शुक्लपक्षस्य तृतीया शुक्लकार्तिके ॥ ३३ ॥
नवमी स्यादमावास्या नभस्ये कृष्णपक्षके ।
तिथिस्त्रयोदशी माघे तथा पञ्चदशी मता ॥ ३४ ॥
तिस्रोऽष्टकायने सूर्याचन्द्रयोर्ग्रहणेऽपि च ।
कालेष्वेतेषु वा दद्यादुदकं तिलसंयुतम् ॥ ३५ ॥
अमासहस्रं तच्छ्राद्धं भवत्येव न संशयः ।
कन्यां गते सवितरि पितरो यान्ति वै सुतान् ॥ ३६ ॥
ततो वृश्चिकसम्प्राप्तौ निराशाः पितरो गताः ।
ततः स्वभजनं यान्ति शापं दत्वा सुदारुणम् ॥ ३७ ॥
अकुर्वाणश्च तच्छ्राद्धं पङ्के गौरिव सीदति ।
उपात्तेषु सुसन्तानं शकुना इव पिप्पले ॥ ३८ ॥
मधुमांसैश्च पाकैश्च पयसा पायसेन च ।
एष नो दास्यति श्राद्धं वर्षासु च मघास्वपि ॥ ३९ ॥
पूर्वाहृणे दैविकं श्राद्धम् अपराहृणे तु पैतृकम् ।
एकोद्दिष्टं तु मध्याहृणे प्रातर्वृद्धि निमित्तकम् ॥ ४० ॥
शुक्लपक्षे तु पूर्वाहृणे कृष्णे स्याद् पराहृणके ।
आम श्राद्धं प्रकर्तव्यं पूर्वाहृणे द्विजसत्तमाः ॥ ४१ ॥
आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा ।
आमश्राद्धमशक्तौ स्याच्छूद्राद्यैस्तु सदैव हि ॥ ४२ ॥
द्विजोत्तमादय स्सर्वे प्रशस्ताः श्राद्ध सम्पदि ।
स्वजात्युर्कर्षतो ग्राह्याः स्वस्वजात्युद्भवाश्च वा ॥ ४३ ॥
आचार्य लक्षण प्रोक्त लक्षणा न तु निन्दिताः ।
न ब्राह्मणं परीक्षते दैव कर्मणि धर्मवित् ॥ ४४ ॥
पित्र्ये कर्मणि तु प्राप्ते परीक्ष्येत प्रयत्नतः ।
उपकार वियुक्ताय दत्तं यत् तद्धि सात्विकम् ॥ ४५ ॥
शिवज्ञानार्थ विदुषे बहुविद्याय यत् द्विजाः ।
दारिद्राय प्रदत्तं यत् सात्विकं हृष्ट चेतसा ॥ ४६ ॥
शिवशास्त्र विहीनाय यत्तु पूर्वोपकारिणे ।
समृद्धाय च यद्दत्तं तत्सर्वं राजसं मतम् ॥ ४७ ॥
सम्बन्धिने च यद्दत्तमव्रतस्थाय सुव्रताः ।
फलार्थिभिश्च रात्रौ च तद्दानं राजसं मतम् ॥ ४८ ॥
शिवार्चनादिहीनाय शिवज्ञानापहारिणे ।
दीयते तस्करायापि तद्दानं तामसं स्मृतम् ॥ ४९ ॥
सरोषमपसव्यं यैश्च युक्तमवज्ञया ।
सेवकाय च यद्दत्तं तद्दानं तामसं स्मृतम् ॥ ५० ॥
कल्पस्त्वेवं समाख्यातस्त्वनुकल्पश्च कथ्यते ।
मातामहो मातुलश्च स्वस्त्रीयःश्वशुरो गुरुः ॥ ५१ ॥
दौहित्रोविट्पतिर्बन्धुः ऋत्विगाधोऽपि वा मताः ।
व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ॥ ५२ ॥
अलाभे त्वथभिक्षूणां भोजयेद्ब्रह्मचारिणम् ।
श्राद्धं कृत्वा परश्राद्धं यस्त मुञ्जीत मोहितः ॥ ५३ ॥
पतन्ति पितरस्तस्य लुप्त पिण्डोदकक्रियाः ।
पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् ॥ ५४ ॥
दानं प्रतिग्रहं होमं श्राद्धं भुक्त्वाष्ट वर्जयेत् ।
श्राद्धार्थं वरणं कृत्वा न प्रयच्छति यः पुमान् ॥ ५५ ॥
तस्मै प्रार्थयते सोऽयं रोरवं नरकं व्रजेत् ।
प्रणीत श्राद्ध तन्त्रो यो न भुङ्क्ते श्राद्धकर्मणि ॥ ५६ ॥
सोऽयं नरकमाप्नोति कुम्भीपाकं न संशयः ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वरम् ॥ ५७ ॥
श्राद्धे त्रीणि पवित्राणि सत्कुशाः कुतपास्तिलाः ।
सैन्धवं लवणं चैव तथा मानस सम्भवम् ॥ ५८ ॥
पवित्रे परमे ह्येते प्रत्यक्षमपि नित्यश ।
रामठं च प्रशस्तं स्यादशुष्कव्यञ्जनानि च ॥ ५९ ॥
यत् किञ्चित् पच्यते गेहे भक्ष्यं वा भोज्यमेव ।
अनिवेद्य न भोक्तव्यं पिण्डार्थं न कदाचन ॥ ६० ॥
कोद्रवं लवणं सर्वं तथा जम्बूफलानि च ।
कूश्माण्डालाबुवार्ताकं माहिषं क्षीरमेव च ॥ ६१ ॥
बीजपूरक माषाणि मरीचिं पिप्पलीमपि ।
कृतं च लवणं सर्वं वंशाग्रं च विवर्जयेत् ॥ ६२ ॥
वर्ज्यं च लोहितं सर्वं हित्वा कुङ्कुममेव च ।
आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ॥ ६३ ॥
कूलस्थं पादसंस्पृष्टं शुक्लं पर्युषितं च यत् ।
पिण्याकं मथितं चापि तथातिलवणं च यत् ॥ ६४ ॥
हस्तदत्तास्तु ये स्नेहाल्लवणं व्यञ्जनानि च ।
दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते च किल्बिषम् ॥ ६५ ॥
निरङ्गुष्ठं च यच्छ्राद्धं बहिर्जानु च यद्धुतम् ।
बहिर्जानु च भक्तं यत् सर्वमेवासुरं भवेत् ॥ ६६ ॥
दानं प्रतिग्रहो होमो भोजनं बलिरेव च ।
साङ्गुष्ठेन तथा कार्यमासुरं स्यात् तथान्यथा ॥ ६७ ॥
अन्तर्जानु विशेषेण तथैवाचमनं भवेत् ।
दर्भाः पवित्रं पूर्वाह्णे हविष्याणि च सर्वशः ॥ ६८ ॥
विनियुक्तास्तु ये श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावन्ति पशुरोमानि तावन्नरकमृच्छति ॥ ६९ ॥
यो वेष्टितशिरो भुङ्क्ते यश्च वैदक्षिणामुखः ।
सोपानत्कश्च यो भुङ्क्ते तद्वै रक्षांसि भुञ्जतेअ ॥ ७० ॥
मृण्मयेषु च पात्रेषु श्राद्धे यो भोजयेत् पितृन् ।
देशिकेनान्नदाता च भोक्ता च नरकं व्रजेत् ॥ ७१ ॥
मृतसम्पृक्ताभिरद्भिश्च प्रोक्षणं तु विशिष्यते ।
नाभेरधश्च संस्पर्शं कर्मयुक्तो विवर्जयेत् ॥ ७२ ॥
आयुः पुत्रो धनं प्रज्ञा सौभाग्यमतुलं यशः ।
मित्राण्यारोग्यसम्पश्च भवेच्छ्रद्धादनिन्दितात् ॥ ७३ ॥
नित्यहानिर्मनस्तापो मित्रनाशः क्षयश्श्रियः ।
कलहो विप्रवासश्च निन्दितश्राद्धतो भवेत् ॥ ७४ ॥
भौतिको ब्रह्मचारी च श्रष्ठोऽसौ श्राद्धकर्मणि ।
शैवं सन्तानिकं लब्ध्वा पितृदेवार्थमिष्टदम् ॥ ७५ ॥
नैष्टिकं त्वतिथित्वेन लब्ध्वा सीदति कः पुमान् ।
चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् ॥ ७६ ॥
आचार्येण तु भुक्तेन कोटिर्भवति भोजिता ।
लक्षं तु साधके भुक्ते दीक्षतेऽयुतमेव तु ॥ ७७ ॥
समयस्थे सहस्रं स्यात् शतं माहेश्वरे नरे ।
साधकद्वितयं देवं पित्रर्थं देशिकत्रयम् ॥ ७८ ॥
सम्भवे कथितं श्राद्धे सर्वे सर्वत्र वामताः ।
ईशस्सदाशिवश्शान्तश्शिवश्राद्धे प्रकीर्तिताः ॥ ७९ ॥
रुद्रोऽनन्तश्च कथितो विश्वेदेवा इति द्विजाः ।
दीक्षितानाममी प्रोक्ता रुद्रांशानामथोअच्यते ॥ ८० ॥
स्कन्दचण्डगणेशानास्त्रयः पित्रर्थमीरिताः ।
तत्र नन्दिमहाकालौ द्वौ गणौ द्वितये स्थितौ ॥ ८१ ॥
तृप्तैस्तैर्निखिलं तृप्तं शिवान्तं च भवेद्भुवि ।
पञ्चाभावो यदा तत्र तदा तद्द्वयकल्पना ॥ ८२ ॥
बाहुमूलशिरस्स्थाने भवेत् त्रितयकल्पनम् ।
एकत्रान्यत्र कर्तव्यं स्थानमंसद्वयं द्वयोः ॥ ८३ ॥
एकत्र बाहुयुग्मेन सह वा पञ्च कल्पयेत् ।
षड्दैवतं गृहस्थानां लिङ्गिनां तु त्रिदैवतम् ॥ ८४ ॥
इत्येवमभिसन्धाय श्राद्धकर्म समाचरेत् ।
निमन्त्रयीत पूर्वेद्युर्यथावृद्धमतन्द्रितः ॥ ८५ ॥
वृद्धान् संस्पृश्य जङ्घे द्वे समानान् करपल्लवौ ।
यवीयसः प्रियोक्त्या तु समाश्वास्य क्षणेदमून् ॥ ८६ ॥
ताम्बूलदानसहितं श्राद्धकृद्देशिकोत्तमः ।
वसेद् रजनीं तां च स्मरन्तः परमेश्वरम् ॥ ८७ ॥
संयम्य चेन्द्रियग्राममनुगृहानुकम्पया ।
अन्येद्यः स्नानपूजादिक्रिया निर्वर्त्य तानया ॥ ८८ ॥
व्याहरेदपराह्णे तु कृतस्नानादिकर्मणः ।
अभ्युत्थानासनाद्येन स्वागतेनागतानथ ॥ ८९ ॥
सम्भाव्य पादशौचाय कुर्यान्मण्डलकानि तु ।
सुसमे गोमयाम्भोभिस्सुप्रलिप्ते गृहाजिरे ॥ ९० ॥
समन्ताद्रङ्गरेखाभिराकीर्णपदवीपदे ।
द्वे चतुष्कोणके प्राच्यां प्रतीच्यां द्वे सुवर्तुले ॥ ९१ ॥
दक्षिणोत्तर संस्थाने हस्तमात्रे तदन्तरे ।
प्रतिमण्डलमग्रे वावटः स्याद्द्वादशाङ्गुलैः ॥ ९२ ॥
मातृश्राद्धे पितृश्राद्धे मण्डलं चावटं तु वा ।
कल्पयेदेव पित्रर्थमर्घ्यं पात्रेषु पञ्चसु ॥ ९३ ॥
गन्धपुष्पकुशाम्भोभिः विद्याङ्गैर्ब्रह्मसंयुतैः ।
देवार्थं यवसंयुक्तैः पित्रर्थं तिलसंयुतैः ॥ ९४ ॥
अभ्युक्ष्यार्ध्याम्भसा मन्त्रैर्विद्याङ्गैरभिमन्त्रयेत् ।
पुरुषेण च वस्त्राणि गन्धं हृदयमन्त्रतः ॥ ९५ ॥
पुष्पाणि ब्रह्मशिरसा शिखाया धूपदीपके ।
अनुक्तमन्यच्छ्राद्धाङ्गं हृदयेनाभिमन्त्रयेत् ॥ ९६ ॥
एवं द्रव्याणि संशोध्य ततः कर्म समाचरेत् ।
साग्रयोरवकीर्याथ यवान् सद्वृत्तयोस्तिलान् ॥ ९७ ॥
तिर्यङ्मध्ये कुशान्न्यस्त्वा मृतपिण्डं दक्षिणे न्यसेत् ।
विद्याङ्गास्त्रेण दक्षस्थं मण्डलं साश्रमर्चयेत् ॥ ९८ ॥
सुगन्धैः श्वेतपुष्पाद्यैर्विद्याङ्गहृदयेन तु ।
सौम्यस्थं प्रणवाद्येन स्वस्वनाम्ना समन्वितम् ॥ ९९ ॥
स्वाहान्तेनापसव्यस्थयज्ञसूत्रेण पश्चिमे ।
मण्डले करपृष्ठेन स्वधान्तेन समर्चयेत् ॥ १०० ॥
पात्रेभ्यः पृथगादायार्घ्योदकं पादयोः क्रमात् ।
दत्त्वार्घ्यं मृदमादाय पादौ प्रक्षालयेदनु ॥ १०१ ॥
सौम्यमण्डलयोरेवमेषां दत्त्वा सुशीतलैः ।
तोयैराचमनं पश्चादाचान्तस्सम्प्रवेश्य तु ॥ १०२ ॥
उपलिप्ते शुचौ देशे दक्षिणे प्रणवान्विते ।
आसनेषु सुधौतेषु ज्ञात्वा तानुपवेशयेत् ॥ १०३ ॥
ततः श्राद्धं करिष्येऽहमिति तान् प्रार्थयेदथ ।
कुरुष्वेत्यभ्यनुज्ञातो दद्याद्दर्भासनं द्वयोः ॥ १०४ ॥
न तु हस्तेषु दातव्यं पतृणां विश्वदेवयोः ।
उदगग्रमजातेन सव्ये कृत्वोत्तरीयकम् ॥ १०५ ॥
आवाहयामीति वदेदुक्तस्त्वावाहयेति तैः ।
आवाहयेत्यनुज्ञातः स्वनाम्ना प्रणवादिना ॥ १०६ ॥
स्थापनादि त्रयं कृत्वा वामदेवेन मन्त्रवित् ।
अथ रक्षार्थमादाय यवानवकिरेत् परि ॥ १०७ ॥
प्रदक्षिणान्तरेणैव दद्यादर्घ्यमथाञ्चलौ ।
रूपिणा सन्निधानाय द्वितयस्य सकृत् सकृत् ॥ १०८ ॥
प्रतिगृह्य तदर्घ्यं तु पात्रे संस्थाप्य तद्भुवि ।
जानुभ्यामवनौ स्थित्वाघोरेणाभ्यर्चयेद्यवैः ॥ १०९ ॥
पद्भ्यां प्रभृति विश्वाङ्गमाक्रम्याक्रम्य सादरम् ।
गन्धैरालिप्य सर्वाङ्गं भूषयत्पुष्पदामभिः ॥ ११० ॥
वामदेवाणुना धीमान्देवो धूपोऽपि रूपिणा ।
दीपं च तेन सन्दद्यादीशानेन पवित्रकम् ॥ १११ ॥
वस्त्रं प्रावरणोपेतमङ्गुलीयकमादरात् ।
तदङ्गमपरं दद्यादुपवीतिक्रमेण तु ॥ ११२ ॥
कृत्वा ततोऽपसव्यं तु पितृणामप्रदक्षिणम् ।
कुशांस्तु द्विगुणं दत्त्वा सद्योजातेन मन्त्रतः ॥ ११३ ॥
आवाहयेदनुज्ञातः पितृस्तत्तन्मनुं स्मरन् ।
स्थापनादि त्रयं कृत्वा वामेनैवाप्रदक्षिणम् ॥ ११४ ॥
रक्षां तिलैरथेशेन दद्यादर्घ्योदकं पुनः ।
त्रयाणां सन्निधानार्थमघोरेणाञ्जलौ पृथक् ॥ ११५ ॥
पूर्ववत्प्रतिगृह्यार्थं स्थापयेदञ्जलौ स्थितम् ।
भूमिष्ठजानुरीशेन शिरसः प्रभृति क्रमात् ॥ ११६ ॥
तिलैरभ्यर्चयेद्वामदेवमन्त्रमनुस्मरन् ।
गन्धाद्यं धूपदीपौ च रूपिणा दापयेत्ततः ॥ ११७ ॥
ईशानेन पवित्राद्यमपसव्यं स्वधान्तकम् ।
पूर्णमस्त्विति वक्तव्यं पूर्णमस्त्विति तैरपि ॥ ११८ ॥
ततस्तां संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृस्थानमसीत्येवं व्युब्जं पात्रमधो न्यसेत् ॥ ११९ ॥
सौवर्णं राजतं पात्रं ताम्रजं दलसम्भवम् ।
भाजनं शुद्धमादाय भोजनायोपपादयेत् ॥ १२० ॥
हस्तप्रक्षालनायापो दत्त्वा भूयश्च शोधयेत् ।
पङ्क्तिदोषनिवृत्त्यर्थं कृत्वा तुपरिहारकान् ॥ १२१ ॥
सर्वपाकविशुध्यर्थं शिवाग्न्याहुतिपूर्वतः ।
शिवानले करिष्येऽहं पृच्छेद्धोममिति द्विजाः ॥ १२२ ॥
कुरुष्वेत्यभ्यनुज्ञातो वह्नौ होममथाचरेत् ।
सोमाय पितृमच्छब्दं चतुर्थ्यन्तं स्वधा नमः ॥ १२३ ॥
ततो यमायेत्युच्चार्याङ्गिरसे ते स्वधा नमः ।
उक्त्वाग्नये ततः कव्यवाहनाय स्वधा नमः ॥ १२४ ॥
हुतशेषं प्रदद्यात्तु भोजनेषु नरं स्मरन् ।
पित्रर्थं चैव पिण्डार्थं न दद्याद्विश्वदेवयोः ॥ १२५ ॥
अन्नमिष्टं हविष्यं च दद्यादक्रोधनो नरः ।
दद्यात्तु मधुरान्नं तु पुरुषेण घृतप्लुतम् ॥ १२६ ॥
संस्पृश्याघोरमन्त्रेण तत्पात्रमभिमन्त्रयेत् ।
पवित्रीकरणायेति ततस्सव्यमधोमुखम् ॥ १२७ ॥
तदगुष्ठं स्वहस्तेन गृहीत्वान्ते विवेश्य च ।
गुह्यमन्त्रं जपेद्वायमृत्युजिन्मन्त्रमेव वा ॥ १२८ ॥
अमृतत्वाय परितः पाणिना भ्रामयेज्जलम् ।
आपोशनार्थमाद्येन प्रदद्यात् पाणिपङ्कजे ॥ १२९ ॥
शुभं भुञ्जीध्वमित्युक्ते भुञ्जीरंस्तेऽपि वाग्यताः ।
अतिथिं भोजयेच्छक्त्या तत्काले न विचारयेत् ॥ १३० ॥
देवो देवी गुहो विण्णुर्धर्मस्साक्षाच्छरीरवान् ।
चरन्त्यतिथिरूपेण तस्मात् तान्न विचारयेत् ॥ १३१ ॥
जपन्नीशानमतिष्ठेदातृप्तेरुदगाननः ।
तृप्तास्स्थेति भृतान्नस्सन्तृप्तास्स्म इति कीर्तिते ॥ १३२ ॥
तदन्नं प्रक्षिपेद्भूमौ सकृद्द्भिस्समन्वितम् ।
उच्छिष्टसन्निधौ कुर्याद्गोमयेनैव मण्डलम् ॥ १३३ ॥
कुशानास्तीर्य दक्षाग्रानजानेन तिलांस्तथा ।
वामेन तिलसंयुक्तं सर्वौदन समन्वितम् ॥ १३४ ॥
दक्षिणाभिमुखो भूत्वा पिण्डत्रितयमुद्धरम् ।
मध्वाज्यतिलसंयुक्तं भूमिष्ठस्सव्यजानुना ॥ १३५ ॥
दद्यादुपरि दर्भाणां क्रमादीशादिशम्बरैः ।
विधाय वारिणो धारां वामदेवमुदीरयन् ॥ १३६ ॥
क्षौमं कार्पाससूत्रं वा दद्याद्वस्त्रार्थमञ्जनम् ।
सम्पूज्य गन्धपुष्पाद्यैः प्रणिपत्य क्षमापयेत् ॥ १३७ ॥
क्षमध्वमिति संहृत्य पितृनाचम्य मन्त्रवित् ।
पूर्वमाचमनं त्रिभ्यो द्वाभ्यां दद्यादनन्तरम् ॥ १३८ ॥
प्रदद्याच्छुद्धहस्तेभ्यस्ताम्बूलं चास्यशुद्धये ।
सकर्पूरं तदङ्गं सद् गृहोपकरणं तथा ॥ १३९ ॥
गोभूदास्यादिकं दद्याद्दक्षिणां तेषु तृप्तये ।
वर्द्धनीमुदकापूर्णां श्राद्धकृद्दक्षिणाननः ॥ १४० ॥
धृत्वा पठेत् स्वधाकारं वदेयुर्वाच्यतामिति ।
ईशादित्रितयं पश्चात् चतुर्थ्यन्तमुदीरयेत् ॥ १४१ ॥
स्वधान्तं श्राद्धकृत्पश्चादीशाद्यास्सर्व एव च ।
अस्तु स्वधेति ब्रूयुस्ते भूमौसिञ्चेत्ततो जलम् ॥ १४२ ॥
एवं त्रिवारं कर्तव्यं पठेयुस्तदनन्तरम् ।
देवा रुद्राश्च तृप्त्यन्तामित्येते च स्वयं पठत् ॥ १४३ ॥
दातारो नोऽभिवर्धन्तां शैवसन्ततिरेव च ।
इत्युक्ते तैरिदं वाक्यं प्रति द्विजसत्तमाः ॥ १४४ ॥
पुनश्चिवं वदेत् कर्ता उत्तरे श्राद्धकृत्ततः ।
श्रद्धा च नो मा व्यवगाद् बहुदेयं च नोऽस्विति ॥ १४५ ॥
इत्युक्त्वा च प्रिया वाचः प्रणिपत्य क्षमापयेत् ।
यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः ॥ १४६ ॥
पितृपात्रं तदुत्तानं कृत्वा पश्चाद्विसर्जयेत् ।
सद्योजातेन मन्त्रेण पितृपूर्वमनुव्रजेत् ॥ १४७ ॥
अन्नशेषैः किं क्रियतामित्युक्ते श्राद्धकारिणा ।
इष्टैस्सहोपभोक्तव्यमिति ते ब्रूयुरिष्टदाः ॥ १४८ ॥
पिण्डांश्च गोषु विप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।
प्रक्षिपेत् कुलपत्नी वा मध्यमं पिण्डमश्रुयात् ॥ १४९ ॥
ततोऽस्यां जायते पुत्रो रुद्रांशो लक्षणान्वितः ।
धीरश्श्रीमान्यशस्वी च विद्यासन्तानपारगः ॥ १५० ॥
गर्भाधानादिके विद्वान् संस्कारे षोडशात्मके ।
वृद्धौ नान्दीमुखे नैव पितृन् श्राद्धेऽनुतर्पयेत् ॥ १५१ ॥
नान्दीमुखे तथान्यस्मिन् सर्वमङ्गलकर्मणि ।
दद्याच्च दधिकर्कन्धुमिश्रान् पिण्डान्यवैः क्रियाः ॥ १५२ ॥
अपसव्यं न कुर्वीत न कुर्यादप्रदक्षिणम् ।
प्रदद्यात् प्राङ्मुखः पिण्डान् वृद्धिश्राद्धेषु नित्यशः ॥ १५३ ॥
प्रगग्रेषु च दर्भेषु पिण्डं दद्यात्तुवृद्धिषु ।
अनिष्ट्वा तु पितृन् श्राद्धे सर्वकर्म न कारयेत् ॥ १५४ ॥
नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च ।
एकोद्दिष्टं दैवहीनमेकार्घ्यैकपवित्रकम् ॥ १५५ ॥
आवाहनाग्निकरणरहितमपसव्यम् ।
उत्तिष्टतामित्यक्षय्यस्थाने तेषां विसर्जनम् ॥ १५६ ॥
अभिरम्यतामिति वदेद् ब्रूयस्तेऽभिरताः स्महे ।
एको वाथ नरो ग्राहो निमित्तस्य च सम्मतः ॥ १५७ ॥
स्वनाम्ना सर्वकर्म स्यात् प्राग्वत् किं तु महद्भवेत् ।
गोभूहिरण्य सद्वेश्मवाहनाच्छादनादिकम् ॥ १५८ ॥
वस्त्राणि कांस्यपात्राणि धान्यानि विविधानि च ।
आसनं तालवृन्तं च छत्रं पादुकसंयुतम् ॥ १५९ ॥
उपधानयुतां शय्यां तदीयमपरं च यत् ।
दद्याद्दक्षिणयोपेतं जलदानयुतं पृथक् ॥ १६० ॥
अशौचान्तदिने त्वेतदेकोद्दिष्टं महद्भवेत् ।
नवश्राद्धमन्त्रं तु पिण्डोदक विवर्जितम् ॥ १६१ ॥
अनूदकमधूपं च गन्धमाल्यविवर्जितम् ।
पिण्डोदकं समाख्यातं पिण्डपात्रगतस्य च ॥ १६२ ॥
जलस्य धारया नेष्टं पिण्डोर्ध्वे भ्रमणं द्विजाः ।
प्रणामं न च कुर्वीत स्वधाकारं तथैव च ॥ १६३ ॥
नैवाग्नौ करणं तच्च प्रश्ने विप्रोत्तमान् प्रति ।
अग्नौ करिष्य इत्येददेकोद्दिष्टेऽपि स्मृतम् ॥ १६४ ॥
हविष्यान्नेन ते मासं वत्सरं पायसेन तु ।
तिष्ठन्ति युक्ताशीर्वादाः स्तुवन्ति च पितामहाः ॥ १६५ ॥
रक्तशाल्यादिभक्तैश्च सव्यञ्जनपरिष्कृतैः ।
तृप्यन्ति पितरो दत्तैर्मासवृद्ध्या न संशयः ॥ १६६ ॥
गयायां विहितं श्राद्धं सर्वमानन्त्यमुच्यते ।
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रं चतुष्टयम् ॥ १६७ ॥
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ।
तन्नामभिरधोरादिपूर्वकैर्भवपश्चिमैः ॥ १६८ ॥
ओमित्येव पितश्चेति शेषं पूर्ववदाचरेत् ।
पात्रत्रयं तु पित्रर्थं निमित्तार्थं परं मतम् ॥ १६९ ॥
सपिण्डीकरणं त्वेतदेकोद्दिष्टं स्त्रिया अप ।
कर्तव्यं सर्वकर्मार्थं यथापूर्वमुदाहृतम् ॥ १७० ॥
स्वनाम्ना सर्व कर्तव्यं सपिण्डीकरणात्पुरा ।
ईशादिनामभिः पश्चात्सर्वकर्म समाचरेत् ॥ १७१ ॥
यस्सपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् ।
पितृघ्नो जायते कर्ता मातृहा च भवेद्ध्रुवम् ॥ १७२ ॥
आयुष्कामो लभेदायुः धनकामो वसूनि च ।
विद्याकामोऽमलां विद्यां रतिकामो वरस्त्रियः ॥ १७३ ॥
पुत्रान् सौभाग्यमारोग्यं यशो वीर्यं श्रियस्सुखम् ।
एतानि लभते नित्यं श्राद्धदो नावसीदति ॥ १७४ ॥
प्रमीतस्य पितुः पुत्रैः श्राद्धं देवं हि दीक्षितैः ।
ज्ञातिबन्धुसुहृच्छिष्यैर्भृत्याचार्यैश्च दीक्षितैः ॥ १७५ ॥
पुत्राभावे तु पत्नी स्यात् पल्याभावे तु सोदरः ।
योग्यो ह्यनुपनीतोऽपि श्राद्धकर्मण्यदीक्षितः ॥ १७६ ॥
कृतचूडस्तु कुर्वीत ह्युदकं पिण्डमेव च ।
स्वधाकारं प्रयुञ्जीत मन्त्रोच्चारं न कारयेत् ॥ १७७ ॥
एकवस्त्रो न भुञ्जीत न कुर्याद्देवतार्चनम् ।
दानमाचमनं होमं भोजनं देवतार्चनम् ॥ १७८ ॥
प्रौढपादेन कुर्वीत स्वाध्यायं पतृतर्पणम् ।
आसनारूढपादश्च जान्वोर्वा जङ्घयोस्तथा ॥ १७९ ॥
परकीयप्रदेशे तु पितृणां निर्वपेत्तु यः ।
तद्भूमिस्वामिपितृभिः श्राद्धकर्मोपभुञ्जते ॥ १८० ॥
अटवी चाकृतारण्यं नदीतीराणि यानि च ।
सर्वाण्यस्वामिकान्येव तेषु श्राद्धादिकं नयेत् ॥ १८१ ॥
चण्डालश्च वराहश्च कुक्कुटश्च तथैव च ।
रजस्वाला च षण्डश्च नेक्षेरन्नश्रतो द्विजान् ॥ १८२ ॥
होमे प्रदाने भोज्ये च यदि तैरपि वीक्ष्यते ।
दैवे हवींषि पित्र्ये च तद्गच्छत्ययथातथम् ॥ १८३ ॥
वृद्धश्रावकनिर्गन्धाः शाक्या जीवन्तिकास्तथा ।
ये धर्मान्नानुवर्तन्ते ते च नग्नादयो मताः ॥ १८४ ॥
अन्नं पश्येयुरेते तु यदि वै हव्यकव्ययोः ।
उत्सृष्टव्यं प्रधानार्थं संस्कारश्चापदि स्मृतः ॥ १८५ ॥
दिवसस्याष्टमे भागे मन्दीभूतदिवाकरः ।
स कालः कुतपः प्रोक्तस्तस्मिन् पैतृकमाचरेत् ॥ १८६ ॥
अथवान्यप्रकारेण कुतपस्त्विह कथ्यते ।
शिवोक्तिश्शौचमक्रोधस्तत्पराः पात्रवह्नयः ॥ १८७ ॥
तिलो दर्भश्च कालश्च नवैते कुतपः स्मृताः ।
पिता पितामहश्चैव प्रपितामह एव च ॥ १८८ ॥
गणोऽन्यस्सर्वसामान्यो न स्वपित्रादयो मताः ।
क्रमादीशादयः प्रोक्तास्तद्वन्मातामहादयः ॥ १८९ ॥
स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सुधासमम् ।
पितामही तथा स्वेन तथैव प्रपितामही ॥ १९० ॥
पिण्डदेयास्त्रयः पिण्डानेवं कुर्वन्न मुह्यति ।
मातृश्राद्धं तु युग्मे स्यात् सदैवं प्राङ्मुखैस्सदा ॥ १९१ ॥
मातृश्राद्धं तु पूर्वं स्यात् पितृणां तदनन्तरम् ।
अपुत्रायां मृतायां तु पतिःकुर्यात् सपिण्डताम् ॥ १९२ ॥
एकोद्दिष्टं तु कर्तव्यं यावत्पित्रोस्सपिण्डता ।
सपिण्डीकरणादूर्ध्वेमेकोद्दिष्टं निवर्तये ॥ १९३ ॥
न पृथक् पिण्डदानं तु तस्मादूर्ध्वं विधीयते ।
अपुत्रका मृताः केचित् स्त्रियो वा पुरुषाश्च ये ॥ १९४ ॥
तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् ।
पित्रादित्रय पत्नीनां भोज्या मात्रे वृता द्विजाः ॥ १९५ ॥
स्त्रीणामेवाथवा दद्यान्मातृश्राद्धे द्विजोत्तमाः ।
स्वगोत्राद् भ्रंशते नारी उद्वाहान् सप्तमे पदे ॥ १९६ ॥
स्वामिगोत्रेण कर्तव्या तस्याः पिण्डोदकक्रिया ।
चतुर्थीहोममन्त्रैस्तु मांसमज्जादिभिस्सह ॥ १९७ ॥
एकत्वं सा गता भर्त्रा ततस्तद्गोत्रभागिनी ।
पाणिग्राहणिका मन्त्राः पितृगोत्रापहारिणः ॥ १९८ ॥
आसुरादि विवाहेषु विशेषः कश्चिदिष्यते ।
स्त्रीणामन्यस्य भर्तुर्वै यद्गोत्रं तेन निर्वपेत् ॥ १९९ ॥
यदि त्वक्षतयोनिस्सा त्वन्यपक्षं प्रतिष्ठिता ।
तद् गोत्रेण तु दातव्यं पिण्डं श्राद्धं तथोदकम् ॥ २०० ॥
जनन्यां संस्थितायां तु सपिण्डीकरणादिकम् ।
पैतृकं तु भवेत् गोत्रम् ऊर्ध्वं तु पितृ दैवतम् ॥ २०१ ॥
पितृगोत्रं समुत्सृज्य न कुर्याद्मातृ गोत्रतः ॥ २०११।२ ॥
इति उत्तरकामिकाख्ये महातन्त्रे शैवश्राद्ध विधिर्नाम
एकोन त्रिंशतितमः पटलः