२८ पितृ-यज्ञ-विधिः

पितृयज्ञविधिं वक्ष्ये श्रूयतां मुनिपुङ्गवाः ।
आवश्यकं गृहस्थानां लोकमार्गानुयायिनाम् ॥ १ ॥
अङ्कणे बाह्यदेशे वागारे पितृगृहं नयेत् ।
पीठं पीठोक्तरीत्या तु सत्रिमेखलमाचरेत् ॥ २ ॥
तत्पुरस्तालमात्रेणावटं कुर्यान्नवं गुरुः ।
गोमयाम्भोभिरालिप्य न्यस्य पीठस्य मध्यमे ॥ ३ ॥
कूर्चं प्रादेशमात्रं तु पञ्चभिस्सप्तभिस्तु वा ।
विप्रादीनां क्रमाद्वापि रुद्रान्तकसुसम्मितैः ॥ ४ ॥
दर्भैर्वा सत्कुशैः कूर्चं दक्षिणाशाग्र संयुतम् ।
प्रणवेनासनं दत्त्वा मूर्तिमावाहयेत्ततः ॥ ५ ॥
तद् गोत्रादि समोपेतं देव दत्तादि मूर्तये ।
स्वधेत्युक्त्वा विनिक्षिप्य तद्वतात्माणु सम्युतम् ॥ ६ ॥
तद्गोत्रादि समोपेतमात्मानं प्रणवं न्यसेत् ।
पाद्यादिनिचयं वस्त्रं गन्धपुष्पतिलान्वितम् ॥ ७ ॥
धूपं दीपं च नैवेद्यामाढकादि विनिर्मितम् ।
तदर्ध निर्मितं वापि तस्य प्रीतिकरं च यत् ॥ ८ ॥
गुलखण्डाज्यसंयुक्तं सोपदंशं प्रकल्पितम् ।
आशौच रहितैः नवमद्भाण्ड एव हि ॥ ९ ॥
ताम्बूल रहितं दद्यात् नित्यं कालद्वयेऽपि च ।
द्वयमह्येव कर्तव्यमेक कालेऽथवा द्वयम् ॥ १० ॥
एतत्सर्वं च तन्नाम्ना स्वधान्तेज हृदान्वितम् ।
अथवार्घ्यबलिं दद्यादन्यत्रान्नं प्रकल्पयेत् ॥ ११ ॥
पिण्डत्रयं तु वा देयं केवलं त्ववटं हि वा ।
कृत्वेष्टकां वा पाषाणं शरावे वा निधाय च ॥ १२ ॥
कूर्च पुरोदितं दत्त्वा तत्रैतत् कर्मवा नयेत् ।
सप्ताहं वा नवाहं वा दशाहं वा तदाचरेत् ॥ १३ ॥
तदन्ते चापराह्ने वा पूर्ववद्विधिनार्चयेत् ।
मृदमुद्वास्य तत्स्थानात् पिण्डं पुष्पसमन्वितम् ॥ १४ ॥
तत्कूर्चमिष्टकायुक्तं पाषाणां पीठिकां च वा ।
सङ्ग्राह्य पीठिकादौ च धूप दीपादि संयुतम् ॥ १५ ॥
अतोद्य सहितं वाथ निक्षिपेत् तीर्थ मध्यमे ।
एतत्सर्वं तु वा पुण्यस्थाने नद्यादिके नयेत् ॥ १६ ॥
विप्रादीनां तु सामान्यं विशेषस्त्वधुनोच्यते ।
ब्राह्मणे दशपिण्डास्तु क्षत्रिये द्वादश स्मृताः ॥ १७ ॥
वैश्ये पञ्चदश प्रोक्ताश्शूद्रे त्रिंशत् प्रकीर्तिताः ।
आशौचं यावदेतेषां तावत् पिण्डोदकक्रिया ॥ १८ ॥
पञ्चमे ह्येकपिण्डं तु द्वितीये चतुरस्तथा ।
तृतीये पञ्चवै दद्यात् त्रिदिनादौ मतो विधिः ॥ १९ ॥
दशाहे समतिक्रान्ते एकोद्दिष्टे कृते सति ।
पिण्डमेकं तदा देय माशौचं चाप्रदानतः ॥ २० ॥

इति उत्तरकामिकाख्ये महातन्त्रे पितृ यज्ञ विधिः
अष्टविंशतितमः पटलः