२७ अन्त्येष्टिविधिः

अन्त्येष्टिं सम्प्रवक्ष्यामि दीक्षितानां द्विजोत्तमाः ।
ब्राह्मणः क्षत्रियोवाथ वैश्यशूद्रोनुलोमजाः ॥ १ ॥
आचार्यसाधका वास्युः पुत्रका समयस्थिताः ।
गतासर्वो यदा तेषां कार्याऽन्त्येष्टिस्तु दीक्षितैः ॥ २ ॥
आचार्यादि त्रयाणां स्यात् अध्वशुद्धि समन्विता ।
अन्त्येष्टिः इतरणां स्यात् अध्वशुद्धि विवर्जिता ॥ ३ ॥
आचार्याद्याः त्रयश्चैते यद्याचार विवर्जिताः ।
प्रायश्चित्तमकुर्वाणा मृताश्चान्त्येष्टिकर्मणि ॥ ४ ॥
तत्वशुद्ध्या च नित्यादि कर्म सम्यगनुष्टितम् ।
परिहृत्य निषिद्धे च यैस्तेषाम् अप्रमादिनाम् ॥ ५ ॥
तत्वशुद्धिं विहायैव केवलान्त्येष्टिरुच्यते ।
सद्योत्क्रान्तिः कृतायैर्वा ब्रह्मरन्ध्राधि भेदतः ॥ ६ ॥
यागविद्भिर्नतेषां च कथ्यते तत्वशोधनम् ।
यस्य प्राण वियोगाख्यकालो जन्तोस्समागतः ॥ ७ ॥
विधायस्नानमाग्नेयं मन्त्र सन्नद्ध विग्रहम् ।
मुमुक्षोश्च तथाग्नेयं मन्त्र कायं विधाय च ॥ ८ ॥
अष्टपुष्पिकया देवं पूजयित्वा मुमुक्षवे ।
स्वकरेण परेषां वा कराभ्यां चन्दनादिभिः ॥ ९ ॥
संस्थाप्य तस्य हृदये लिङ्गरूपं महेश्वरम् ।
स्पर्शयित्वाञ्जलिम् तस्य मस्तके सन्निधाप्य च ॥ १० ॥
तदर्थमेतद्वाक्यं च पठद्देवेशसन्निधौ ।
दीक्षितोऽयं त्वयादेव शिवाज्ञापरिपालकः ॥ ११ ॥
नेयः शिवत्वमचिरात् सपिण्डीकरणोत्तरम् ।
एवं विज्ञाप्य देवेशं स्वस्थाने विनिवेशयेत् ॥ १२ ॥
एकधा बहुधा वापि क्रियामेनां समाचरेत् ।
पठेदुत्क्रान्तिसमये कर्णोपान्तेऽनुसंहिताम् ॥ १३ ॥
विशेषाच्छिवमन्त्रं च मन्त्रं पञ्चाक्षरं तु वा ।
एतत् सर्वं विधेयं तु देशिकेनतरेण वा ॥ १४ ॥
तद् गोत्रजेन वा अन्येन वक्ष्यमाणं च कर्म यत् ।
गत प्राणे नरे तस्य स्नानार्थं तीर्थ सम्भवम् ॥ १५ ॥
जलं शतघटाद्यैस्तु सुस्नातैः परिगृह्यवा ।
तैः स्नापयेत् गृहस्थश्चे ल्लौकिक स्नानसंयुतम् ॥ १६ ॥
विधायैवं घटान्वापि कलशान् स्नपनोक्तितः ।
संस्नाप्य वर्धनी हीनं केवलोदक संयुतम् ॥ १७ ॥
स्थण्डिलाढ्यं सवस्त्रं च सहिरण्यं सकूर्चकम् ।
पिधानाक्षत संयुक्तं विद्याङ्गहृदयार्चितम् ॥ १८ ॥
स्नापयेद्वा गृहेत्वेतत् श्मशानेवा समाचरेत् ।
अथवा स्नपनोपेतं संस्नाप्य आग्नेयमादरात् ॥ १९ ॥
कृत्वा संहारमार्गेण कौपीनं वसनं तथा ।
परिवर्त्याक्षमालाद्यै र्भूषणैर्भूषणार्हकैः ॥ २० ॥
दीक्षितानामथान्येषां शिवशासनधारिणाम् ।
अन्येषां च यथायोग्यं रात्रिचूर्णं च तैलयुक् ॥ २१ ॥
ताम्बूलसहितं सर्वं जनेभ्यो दापयेत्तदा ।
आसन्दिकां नयेद्यज्ञवृक्षैरन्यैरनिन्दितैः ॥ २२ ॥
पुरुषायतमानां च षडङ्गुलविवर्धनात् ।
त्रिहस्तान्तसमायामां त्रिचतुष्पञ्चमांशतः ॥ २३ ॥
सुविस्तारसमायुक्तामोजः परव्यान्तविष्ठरान्द ।
आसन्दिकां समारोप्य कूटान्तोर्धकृतक्रियाम् ॥ २४ ॥
रक्तमालाम्बरकॢप्तवितानालम्बनान्विताम् ।
इतरं चेदयोत्क्रान्त्या संस्थितं शिवयोगिनम् ॥ २५ ॥
निस्सारयेदलं कृत्य शुभैस्तं सर्व भूषणैः ।
शिबिकां वेदृशीं शुद्धामानीयारोपयेच्छिवम् ॥ २६ ॥
स्वनता मुखरेणोच्चैरातोद्येनाग्रगामिना ।
सङ्घेन समयस्थानां पृष्ठतश्चाभिनन्दितम् ॥ २७ ॥
शङ्खध्वनिसमायुक्तं गानध्वनिसमन्वितम् ।
तज्ज्ञातयोऽनुगच्छेयुरमुद्घाटितमस्तकाः ॥ २८ ॥
निगृह्याक्षिजलं चाक्ष्णोस्संसारासारभाविताः ।
दक्षिणस्यशिरोयुक्तं बद्धाङ्गुष्ठद्वयान्वितम् ॥ २९ ॥
दर्भरज्ज्वा तमावेष्टस्य तदैशानीं दिशं नयेत् ।
दीक्षितैस्तुल्यज्ञातीयैरपसव्योपवीतकैः ॥ ३० ॥
जपद्भिरस्त्रमन्यैर्वा वाहयित्वोदकान्वितम् ।
वह्निं च तत्पुरोऽन्येन सधूमं त्रिकटिस्थितम् ॥ ३१ ॥
वाहयेदर्थविश्रामदक्षिणावन्तके मनाक् ।
सुविशुद्धे भुवः पृष्ठे मृतं दक्षिणमस्तकम् ॥ ३२ ॥
व्रतस्थमव्रतस्थं वा ब्राह्मणं शिवदीक्षितम् ।
विपन्नं यो वहेत्तस्य नाकालमरणं भवेत् ॥ ३३ ॥
गत्वा च तमनुस्नात्वा दत्त्वा निर्वापवारि च ।
ईप्सितं सुखमाप्नोति परत्रेह च भावितः ॥ ३४ ॥
नोत्तमेनानुगन्तव्यो हीनवर्णो व्रतोज्झितः ।
अनुगम्याम्भसि स्नात्वा सजातीशं शतं जपेत् ॥ ३५ ॥
असहायमनाथं च गतासुं शिवयोगिनम् ।
नीत्वा संस्कारयेद्यस्तु सोऽरिष्ठैर्विप्रयुज्यते ॥ ३६ ॥
वैश्यादित्रितयेऽन्यस्मिन् न्यायोऽयं परिकल्पितः ।
अथ स्थानमदूरस्थमुदकस्य समं शुचि ॥ ३७ ॥
प्राप्य कूट प्रपां वापि विधायैवं तदन्तरे ।
षडङ्गुलोच्छ्रपोपेतं मेखलैकं युगाश्रकम् ॥ ३८ ॥
कृत्वा कुण्डं विधानेन हास्तिकं तन्मृदानिले ।
सङ्कल्प्य स्थण्डिलं तद्वच्चिताखातं चतुष्करम् ॥ ३९ ॥
हस्तद्वितयविस्तीर्णमष्टाङ्गुलगभीरकम् ।
कुण्डन्दक्षिणतः कुर्यात् निष्पाद्यैवं त्रयं गुरुः ॥ ४० ॥
गोमयेनोपलिप्याथ तत्समीपस्थितां भुवम् ।
शुचिः स्नातो गुरुर्मन्त्रकायश्चास्त्रालुकीकरः ॥ ४१ ॥
प्रदक्षिणक्रमात् गत्वा स्थण्डिलान्तमुदङ्मुखः ।
विपरीतकृतन्यासो हेतिमन्त्रेण रक्षितः ॥ ४२ ॥
कृतान्तर्यजनोऽस्त्रेण समालभ्यास्त्रवर्धनीम् ।
तज्जलप्रोक्षितैर्द्रव्यैः पूजां सङ्कल्प्य चात्मनः ॥ ४३ ॥
आवर्त्य संहितामन्त्रान् कलास्संहारवर्त्मना ।
ब्रह्मादिकारणोपेताः स्वस्मिन् विन्यस्य देशिकः ॥ ४४ ॥
संहारहरहस्तं च कृत्वा स्मृत्वा शिवं सकृत् ।
विकीर्य विकिरांस्तत्र कुशान् भस्म तिलानथ ॥ ४५ ॥
समाहृत्य विधानेन चितावास्तु प्रपूजयेत् ।
पञ्चभागीकृते क्षेत्रे पञ्चपञ्चककोष्ठके ॥ ४६ ॥
पृथिव्यादि यथारूपैः पञ्चवर्णैर्विचित्रिते ।
वंशरज्ज्वादिसम्पन्नै विन्यसेद्वास्तुदेवताः ॥ ४७ ॥
तत्र मध्ये भुवा सार्धं ब्रह्माणं पञ्चकोष्ठके ।
नैऋत्यां वारिणा सम्पन्ने विष्णुं कोष्ठचतुष्टये ॥ ४८ ॥
आग्नेय्यामग्निना सार्धं रुद्रं कोष्ठचतुष्टये ।
वायुकोणे चतुष्कोष्ठे वायुना सममीश्वरम् ॥ ४९ ॥
गगनेन सदेशानमैशकोष्ठचतुष्टये ।
पूर्वादि वेदकोष्ठेषु शक्रादींश्चतुरो यजेत् ॥ ५० ॥
निजनाम्ना च नत्या च स्वाहान्तेन बलिं क्षिपेत् ।
ऐशान्यां दिशि वर्धन्यामिष्ट्रा पाशुपतास्त्रकम् ॥ ५१ ॥
शूलात् कुलिशपर्यन्तान्यस्त्राण्यष्टासु दिक्षु च ।
निधाय पूजयेदूर्ध्वमधः पद्मारिणावपि ॥ ५२ ॥
तिलदर्भान्तरे सम्यग्यजेन्मण्डलके भवम् ।
ऐश्वर्याद्यासनं दत्त्वा सदलाम्भोज मध्यमे ॥ ५३ ॥
मनोन्मन्यादि वामान्तं शक्तिचक्रं प्रपूजयेत् ।
व्युत्क्रमासनमिष्ट्वैवं साङ्गं सम्पूज्य शङ्करम् ॥ ५४ ॥
संस्कृत्य पूर्ववत् कुण्डं शक्तिमभ्यर्च्य तत्र च ।
क्रव्यादांशोज्झितं वह्निं विनिक्षिप्याप्रदक्षिणम् ॥ ५५ ॥
संस्कारैः पञ्चभिर्जातजावेदोहृदम्बुजे ।
शिवं स्थल इवाभ्यर्च्य तर्पयित्वाऽसितैस्तिलैः ॥ ५६ ॥
साज्यैः पूर्णाविशिष्टैश्च चिनुयात्तु चितिं ततः ।
अथवा पञ्चवर्णोत्थमण्डलानि विहाय च ॥ ५७ ॥
संस्कृतैः कलशैः प्रान्तैस्संस्कारैर्वीक्षणादिभिः ।
चितिगर्तेऽथ पीठे च माहेन्द्रं पुरमालिखेत् ॥ ५८ ॥
रजसा लोहितेनापि तन्मध्ये कृष्णवर्त्मनः ।
तयोस्तद्देवते योज्ये शङ्कून् कोणेषु रोपयेत् ॥ ५९ ॥
आग्नेय्यादिष्वपसव्येन शुष्ककाष्ठीयकीलकान् ।
ऊर्ध्वमूलानधोऽग्रांस्तानस्त्रलब्धान् सकृत् सकृत् ॥ ६० ॥
पञ्चरञ्जितसूत्रेण कवचेन च वेष्टयेत् ।
अथवा रक्तसूत्रेण समन्तात् परिवेष्टयेत् ॥ ६१ ॥
शिवाहुतिश्शिवाग्नेः स्याद्रक्षोभ्यो रक्षणाय तु ।
शवशय्यां घनां तत्र काष्ठैरास्तीर्य याज्ञिकैः ॥ ६२ ॥
चन्दनागरुसम्मिश्रैर्विपर्यस्तपटावृताम् ।
सम्पूज्य चास्त्रराजेन सकुशैः कुसुमैस्तिलैः ॥ ६३ ॥
कृत्वा मृतं मृदोद्घृष्टं गोमयेन सहाम्भसा ।
स्नापितं धूपितं तत्र भस्मना नववर्त्मना ॥ ६४ ॥
सब्रह्मसूत्रवसनं पूर्ववर्णानपेक्षया ।
आग्नेय्यां शिवमिष्ट्वाग्नेर्दक्षिणस्यां कुशासने ॥ ६५ ॥
वीक्षणादिविशुद्धस्य धारणाभिश्च पञ्चभिः ।
ततोऽस्य मन्त्रकायस्य हृत्सरोरुहकोटरे ॥ ६६ ॥
भोग्यकर्माशयारक्तमप्राप्ताधारदेहकम् ।
महाजालेन तल्लिङ्गं संहृत्य विनिवेशयेत् ॥ ६७ ॥
ॐ हूं हामथ हं हां हूं महाजालमिदं मतम् ।
उक्त्वान्ते मृतदीक्षाख्यां नत्यन्तां भावितो गुरुः ॥ ६८ ॥
विद्यादेहं च तद्देह संहृत्य पञ्च ताः कलाः ।
सषडङ्गंशिवं न्यस्त्वा मूलेन जुहुयाच्छतम् ॥ ६९ ॥
चैतन्यसन्निधानार्थं ततस्तत्त्वानि शोधयेत् ।
निवृत्यादि समादाय युगपद्वा क्रमेण वा ॥ ७० ॥
कलास्तास्साधिपाः प्राग्वद्वह्नौ सम्पूजयेत्ततः ।
ताडनादिविभेदेन लिङ्गादादाय लिङ्गिनम् ॥ ७१ ॥
योजयेत्पूर्ववत्तत्र जन्मकर्माधिकारिताः ।
भोगो लयोऽथ संशुद्धिस्तत्त्वानां स्रोतसामपि ॥ ७२ ॥
तिरोभावः पशुत्वस्य पाशविश्लेष भेदने ।
तद्दाहो व्युत्क्रमैः कृत्यं कारणाद्वा पशूद्धतिः ॥ ७३ ॥
विश्लिष्य तेन पूर्वेण पशुं निर्वाणकर्मणा ।
एवमेवोपरिष्टाच्च पाशानन्यान्विशोधयेत् ॥ ७४ ॥
उक्त्या कर्मपद्धत्या तानप्येवं शिवावधि ।
अग्नेरुद्धृत्य होमान्ते योजयेदमले पदे ॥ ७५ ॥
यदाक्तो न पुनर्जातु पराधीनो भवेदणुः ।
कृतनिशेशेषपाशान्तमिष्ट्वेशं च विवर्जयेत् ॥ ७६ ॥
विद्यादेहं च तद्देहे संहृत्य स्वपदे गुरुः ।
स्थण्डिलेशानमप्येवं संहृत्य स्वपदे गुरुः ॥ ७७ ॥
शवमभ्येत्य शय्यायामारोप्य प्रावृतं कुशैः ।
याम्यशीर्षमुदक्पादं मुक्तानां स्त्रुक्स्रुवान्वितम् ॥ ७८ ॥
आचार्यं साधकं चैव ताभ्यामन्यं तदुज्झितम् ।
तुरुष्कागरुकर्पूरचन्दनोत्तरदारुभिः ॥ ७९ ॥
सञ्छाद्यानीय कुण्डाग्निं शिरोदेशे विनिक्षिपेत् ।
मधुसत्तैलसर्पीषि प्रक्षिप्योज्ज्वलितेऽनले ॥ ८० ॥
सर्पिर्मधुपयः पूर्णां स्रुचमुत्क्षिप्य पूजिताम् ।
गुरुः स्थित्वा शिरोदेशे सौम्याशाभिमुखाननः ॥ ८१ ॥
पावकास्ये क्षिपेद्धारामिति वाक्यमुदीरयन् ।
त्वममग्ने दक्षिणः कालः कालेनैवोपपादिताम् ॥ ८२ ॥
गृहाण मन्त्रसम्पूतां शाव्यामेनां महाहुतिम् ।
प्रक्षिप्यावाङ्मुखौ तत्र स्रुक्स्रुवावप्यनन्तरम् ॥ ८३ ॥
नियुज्य संस्क्रियाकर्मकुशलांश्चतुरो गुरुः ।
अप्रदक्षिणमादाय गृहीत्वा खङ्गवर्धनीम् ॥ ८४ ॥
उत्क्षिप्यारोप्य वामांसे छन्नमूर्धा पराङ्मुखाम् ।
धारां विमुच्य संयुक्तः स्वधर्मस्थैः प्रदक्षिणम् ॥ ८५ ॥
अपसव्यक्रमात् कृत्वा वर्धनीं तामधोमुखीमि ।
क्षिपेत् तत्र यतो देशादुद्धृता सास्त्रवर्धनी ॥ ८६ ॥
ततो जलाशयं गत्वा स्नात्वा प्रस्तीर्य सत्कुशान् ।
तदूर्ध्वमपसव्येन प्रणवं हृदयं पुरा ॥ ८७ ॥
शुद्धात्मन्निति चेशादिशान्तपर्यन्तनामयुक् ।
स्कन्दपूर्वं गणेशान्तं नाम वा भवपश्चिमम् ॥ ८८ ॥
उक्त्वा यथार्हं मन्त्री त्रिःस्वधान्तं तर्पयेत्पुनः ।
भूयः स्नात्वा सौम्यास्याश्शिवसंहिताम् ॥ ८९ ॥
अशेषास्तेऽथवास्त्राणामेकं वा रूपिणश्शतम् ।
द्विगुणं स्कन्धदातारस्तथा तद्दाहका अपि ॥ ९० ॥
शावाशौचं विधायैवमागच्छेयुः स्वमन्दिरम् ।
विदंश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ ९१ ॥
आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् ।
प्रविशेयुस्समालभ्य कृत्वाश्मनि पदं शनैः ॥ ९२ ॥
शिष्टस्य समयस्थस्य हीनस्योत्तरदीक्षया ।
निर्वाणदीक्षा कर्तव्या ममेत्याहितचेतसः ॥ ९३ ॥
विपन्नस्यापि सा तत्त्वशुद्धान्त्येष्टिरिहेष्यते ।
जलेन वाग्निना शस्त्रैर्विशेषेणेभसिंहतः ॥ ९४ ॥
शार्दूलेनान्यसत्वैर्वा वृक्षादिपतनेन वा ।
स्वहस्तताडनोच्छेदरज्जुबन्धनपातनैः ॥ ९५ ॥
अन्यैरेताद्दशैर्येषां मरणं पूर्ववत् क्रिया ।
अविद्यमानदेहानां तथा विकलदेहिनाम् ॥ ९६ ॥
क्षयकुष्ठविसूर्यादिमहारोगशरीरिणाम् ।
कुशादिनिर्मिते देहे क्रियास्सर्वास्समाचरेत् ॥ ९७ ॥
विकलाङ्गं मसूर्यादिरोगिणं च नरं मृतम् ।
दहेद्वा केवले वाग्नावमन्त्रं निखनेत्तु वा ॥ ९८ ॥
क्षिपेद् गङ्गादितीर्थेवा वह्न्यादीनां प्रवेशनम् ।
इष्यते यदि पुण्यार्थं ज्ञात्वैवं कर्म तन्नयेत् ॥ ९९ ॥
कुशैर्दर्भैः पलाशोत्थैर्दलैस्तन्तुसमन्वितैः ।
कुर्यात् प्रतिकृतिं पैष्टीं पञ्चगव्यपरिप्लुताम् ॥ १०० ॥
प्रतिमां गोमयोत्थां वा कारयेदिष्टमानतः ।
अस्यां च कर्म कर्तव्यं यथापूर्वामुदाहृतम् ॥ १०१ ॥
किं तु सपिर्मधुक्षीरसिक्तं तां प्रतिमां दहेत् ।
भद्रे त्रिपदनक्षत्रे शुक्राङ्गारबृहस्पतौ ॥ १०२ ॥
दहनं मरणं येषां तत्कुलक्षयकारणम् ।
तदर्थमेवं कर्तव्यं पुनर्दहनमादरात् ॥ १०३ ॥
नृणामकृतचूडानां मृतानामवटक्रिया ।
न तेषां दहनं नैव बलिर्नैवोदकक्रिया ॥ १०४ ॥
नृणां चौकान्तरे वा स्याद्दहनं वावटक्रिया ।
ऊनद्विवर्षहे प्रेते नाग्निर्नैवोदकक्रिया ॥ १०५ ॥
यतीनां ज्ञानिनां वापि क्रिया स्यादवटक्रिया ।
लवणापूरणोपेता विना बल्युदकौदनैः ॥ १०६ ॥
कृतचूडस्य दहनं भवेत् पिण्डोदकान्वितम् ।
प्रत्यब्दमृद्ध्या वृद्धः स्यात् पिण्डे वोदककर्मणि ॥ १०७ ॥
दशाहं स्याद्दशाब्दे तु तदूर्ध्वं च विशेषतः ।
कर्म यच्चावटे देहे शुद्धिं कृत्वोपलेपिते ॥ १०८ ॥
सिकतास्तरणे दर्भानास्तिर्योत्तरमस्तकम् ।
आरोप्य शिबिकादौ च श्मशाने शुद्धभूतले ॥ १०९ ॥
बाहुमात्रं खनेद्भूमिं तच्छय्यायामविस्तराम् ।
न्यस्त्वा दत्वाक्षताद्यं च तूष्णीं गन्धादिनार्चयेत् ॥ ११० ॥
तत्र न्यस्त्वा मृतं याम्यमस्तकं पूरयेन्मृदा ।
योगिनां दण्डमात्रं वा खनेद्दण्डार्धमात्रतः ॥ १११ ॥
लवणेनाथवापूर्य तत्समीपप्रदेशतः ।
तत्रैवालयसंयुक्तं पीठं वा लिङ्गमेव वा ॥ ११२ ॥
बेररूपं स्वरूपं वा कृत्वा संस्थाप्य पूजयेत् ।
तत्र पिण्डोदके श्राद्धं यदन्यदपि नेष्यते ॥ ११३ ॥
अङ्गुष्ठबन्धनं चास्य ताम्बूलक्षेपणं च यत् ।
भक्तानामथवाप्येषां नेष्यते मुनिपुङ्गवाः ॥ ११४ ॥
अशन्यग्निजलाद्यैश्चमृतानां दहनं नयेत् ।
समा वातीत्य भर्ता तु यदि देशान्तरं गतः ॥ ११५ ॥
द्वादशाब्दमतीत्यैव वैधव्यं व्रतमाचरेत् ।
मृतो वा न मृतो वाप्यविज्ञातश्चेत्स सर्वथा ॥ ११६ ॥
वेदाश्रमण्डल कृत्वा तत्र कीलत्रयोर्ध्वतः ।
पात्रमध्ये तुषान् क्षिप्त्वा दहेदग्निकणान्तकम् ॥ ११७ ॥
मृतस्य दहनार्थं तु वह्निमेवं हि संहरेत् ।
होमशेषघृतोपेतं तण्डुलं क्षीरसंयुतम् ॥ ११८ ॥
श्रवणाक्ष्यास्याहन्नाभिदेशेषु हृदयाणुना ।
नवद्वारेषु हैरण्यशकलक्षेपणं हृदा ॥ ११९ ॥
तण्डुलं क्षीरसम्मिश्रं वामदेवेन निक्षिपेत् ।
अङ्गुष्ठबन्धनछेदमधोरास्त्रेण कारयेत् ॥ १२० ॥
स्रक्पातं च ततः कुर्युस्सपिण्डा भ्रातृभिस्सह ।
वस्त्राग्रेण तदा सर्वे तत्प्रदक्षिणकारिणः ॥ १२१ ॥
दाहकृत् पूर्णकुम्भं च समादाय प्रदक्षिणम् ।
त्रयं विधाय तद्वामे निक्षिपेदस्त्रमन्त्रतः ॥ १२२ ॥
तोयं भिन्नकपालस्थं प्राणस्थानेषु निक्षिपेत् ।
स्नानान्ते पञ्चगव्यं वा घृतं पीत्वा जपे च्छवम् ॥ १२३ ॥
यथाशक्ति तदा दानं कृत्वा च श्रमदाहयोः ।
तिलोदकं च दातव्यं मृतनाम्ना समन्वितम् ॥ १२४ ॥
इत्यादि कर्म कर्तव्यं तत्त्वशुद्धि विहीनया ।
अन्त्येष्टया च समेतानां तेषां माहेश्वरात्मनाम् ॥ १२५ ॥
प्रत्यहं तर्पणं कार्यमीशस्कन्दादिनामतः ।
पृथक् पृथक् त्रयं कार्यं तर्पणं प्रथमेऽहनि ॥ १२६ ॥
प्रत्यहं वर्धयेदेकं द्वादशान्तं पृथक् पृथक् ।
पञ्चसप्ततिसङ्ख्यातं तर्पणं प्रति भोजनम् ॥ १२७ ॥
कल्पयेद् द्विशतं पञ्चपञ्चसङ्ख्यासमन्वितम् ।
ईशादित्रयतृप्त्यर्थं त्वेकभोजनमेव वा ॥ १२८ ॥
नग्नप्रच्छादनं दद्याद् दीक्षिताय कुटुम्बिने ।
दाहान्ते मृतमुद्दिश्य वस्त्रतण्डुलसंयुतम् ॥ १२९ ॥
तर्पणान्ते बलिं दद्यान्नद्यादौ वा गृहेऽपि वा ।
नैष्ठिकस्य न कर्तव्यं प्रत्यहं तर्पणं बलिः ॥ १३० ॥
एकाहं किं तु दाहान्ते ईशादित्रिभिरेव हि ।
तदर्थं तर्पणं कृत्वा तदर्थं पूजयेच्छिवम् ॥ १३१ ॥
वीतशोकस्य सक्तानां नराणां मूढचेतसाम् ।
समूह्यपनयेयुश्च यथात्म्यस्मरणाच्छुचम् ॥ १३२ ॥
शिवव्रतधरा ये च शैवा ये हृहिणीसखाः ।
न शुचः कारणं तेषामस्ति किञ्चिद्विवेकिनाम् ॥ १३३ ॥
तथा चात्मा विभुर्नित्यश्चेतनिश्शिववत्सदा ।
न विनाशोऽस्ति तस्येह चेदस्ति तथा न सः ॥ १३४ ॥
आत्मनो भोगहेतूनामभावादुपचर्यते ।
तन्नाशस्तक्षयो मृत्युः स्वगुणानुपलब्धितः ॥ १३५ ॥
स्वस्थात्मनोऽनुकूलोऽपि प्रतिकूलं समाचरेत् ।
अनिष्टापगमे यस्य न भवेदिष्टशेमुषी ॥ १३६ ॥
सर्वज्ञः स्यात् तनोश्चान्ते येनोक्तश्शिव दीक्षितः ।
चितेवरणग्श्चायं भोगस्तद्भोगसाधनम् ॥ १३७ ॥
देहोऽयं तद्वियोगो यस्सोऽत्यन्तं हित उच्यते ।
मानुष्यकदलीस्तम्भे निस्सारे सारमार्गणम् ॥ १३८ ॥
यः करोति स सम्मूढो जलबुद्बुदसन्निभे ।
पञ्चधा सम्भृतः कायो यदि पञ्चत्वमागतः ॥ १३९ ॥
कर्मभिस्स्वशरीरोत्थैः का तत्र परिवेदना ।
गन्त्री वसुमती नाशमुदधिर्दैवतानि च ॥ १४० ॥
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ।
श्लेष्माश्रु बान्धवैर्मुक्तं यतो मुङ्क्ते मृतोऽवशः ॥ १४१ ॥
अतो न रोदितव्यं स्यात् क्रिया कार्या तु शक्तितः ।
द्वितीयेऽहनि शेषाङ्गदहनं कारयेन्न वा ॥ १४२ ॥
घृतक्षीरसमायुक्तं सपिण्डैश्च समायुतः ।
तृतीयेऽप्यथवाद्येऽह्नि कुर्यात् सञ्चयनं चितेः ॥ १४३ ॥
हृत्वाथ मृण्मयं पात्रं क्षीरेण पयसाथवा ।
पूर्णां त्रिकाष्ठिकां तत्र कृत्वा तत्त्वत्र विन्यसेत् ॥ १४४ ॥
अस्थिसङ्ग्रहणं वाथ कुर्यात् सञ्चयनं विना ।
एकत्रिपञ्चसप्ताहे नवभाण्डे तु मृण्मये ॥ १४५ ॥
अस्थिसङ्ग्रहणं विप्रप्रमुखाणां क्रमेण वा ।
सक्तुलाजौदनापूपैश्चतुर्दिक्षु बलिं क्षिपेत् ॥ १४६ ॥
पिशाचबलिरेष स्यात् तेषां तृप्त्यर्थमाचरेत् ।
अङ्गैरङ्गानि संहृत्य तन्मन्त्रेणैव निक्षिपेत् ॥ १४७ ॥
ग्रामाद् बाह्ये तु निक्षिप्य गङ्गादिक्षेपणाय च ।
तद्दिने वाथ पक्षान्ते मासान्ते वा त्रिमासिके ॥ १४८ ॥
षण्मासे वाब्दसम्पूर्तौ तदूर्ध्वे वाथ निक्षिपेत् ।
निक्षिप्य तत्र तत्तीर्थे स्नानं कृत्वा तिलैस्सह ॥ १४९ ॥
पैतृकं तर्पणं कृत्वा देवादीनपि तर्पयेत् ।
दानं कुर्याद्यथाशक्ति पिण्डं दद्याच्च तद्भुवि ॥ १५० ॥
शिष्यैकगुरुसम्बन्धा गुरुसम्बन्धिनश्च ये ।
त्यजेयुस्त्रिदिनं कर्म नित्यादन्यज्जपादिकम् ॥ १५१ ॥
तेभ्योऽन्ये शैवमार्गस्था हृहिणोऽगृहिणोऽपि वा ।
दिनमेकं क्षिपेयुस्ते शावाशौचाय दीक्षिताः ॥ १५२ ॥
गृहिणो लोकमार्गस्था लङ्घयेयुर्न लौकिकम् ।
आचारं दीक्षितास्तस्मात्कुर्वीर।ल्लोकसंवृतिम् ॥ १५३ ॥
शिवव्रतधरस्यास्य न मृतिर्न च सूतकम् ।
पूर्वाश्रमानपेक्षत्वादस्तसंसारहेतुतः ॥ १५४ ॥
पूर्वाश्रमस्थितस्यापि गृहस्थस्य तु दीक्षया ।
अस्तसंसारबीजस्य ज्ञानिनः सत्क्रियावतः ॥ १५५ ॥
क्षणमात्रं भवेत्वच्च स्नानादेव निवर्तते ।
विप्रे शुद्धिर्दशाहे स्यात् क्षत्रिये द्वादशाहिका ॥ १५६ ॥
दशपञ्चाहिका शुद्धिर्वैश्ये शूद्रे हि मासिका ।
उद्वाहिताश्चतस्रस्तु ब्राह्मणेन स्त्रियो यदा ॥ १५७ ॥
क्रमेण सूतकं ग्राह्यं दशषट्त्र्येकवासरम् ।
सूतकं तत्सुतादीनां मातृपक्षे यथामतम् ॥ १५८ ॥
पूर्णगर्भान्मृतो जातश्शुद्धिः स्नानात् क्षणात्मिका ।
माससङ्ख्योदिता मातुः स्त्रीपुंसोर्गर्भनाशने ॥ १५९ ॥
नाम्नः प्राग्दन्तजननात्तथोपनयनादपिम् ।
स्नानमेकदिनं प्रोक्तं त्रिदिनं च क्रमेण तु ॥ १६० ॥
तदूर्ध्वं च दशाहं स्याज्ज्ञातीनां त्रिषु कथ्यते ।
क्षौरादष्टमवर्षाच्च विवाहात् पूर्ववत् क्रमात् ॥ १६१ ॥
भ्रातृणां च दशाहं स्यात् कृते नाम्नि तु सर्वदा ।
पित्रोर्दशाहमेव स्यात् सर्वत्राशौचमग्रजाः ॥ १६२ ॥
पक्षिणी स्यात् प्रदत्तायाः पित्रोः सोदरयोर्मृतौ ।
तत्सुतानां प्रयाणे च पक्षिणी द्विजसत्तमाः ॥ १६३ ॥
दिवसद्वयमध्यस्था रात्रिर्वा रात्रिमध्यगम् ।
दिनं वा पक्षिणीत्युक्ता ज्ञात्वैवं कर्म कारयेत् ॥ १६४ ॥
त्रिदिनं च सपिण्डानां यत्र तत्रैकवासरम् ।
समानोदकवर्गाणामाशौचं विहितं विधौ ॥ १६५ ॥
ऊर्ध्वं दन्तोद्भवात् स्नानं तेषामत्र प्रकीर्तितम् ।
आमौञ्जीबन्धनाद्विप्रः क्षत्रियश्च धनुर्ग्रहात् ॥ १६६ ॥
आप्रतोदग्रहाद्वैश्यश्शूद्रो वस्त्रद्वयग्रहात् ।
पूर्णाशौचं भवेदूर्ध्वं मृतो यदि नरोत्तमाः ॥ १६७ ॥
यदा निवृत्तचूडस्स्यात् क्षत्रियष्षड्दिनैश्शुचिः ।
वैश्यश्चेन्नवभिश्शुद्धः शूद्रो द्वादशाभिदिनैः ॥ १६८ ॥
एतत्सर्वं तु विहितं ज्ञातीनां मुनिपुङ्गवाः ।
भवेत् त्रिरात्रमाशौचमाचार्यमरणे सति ॥ १६९ ॥
तस्य पुत्रस्य पत्न्याश्च दिवारात्रमिति स्मृतम् ।
शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ॥ १७० ॥
शावेन शुध्यते सूतिर्न सूतिश्शावशोधिनी ।
सूतके सूतकं भूयो यद्यपि स्याद् द्विजोत्तमाः ॥ १७१ ॥
प्राक्शेषेणैव शुद्धिस्स्यान्मृतके मृतकं तथा ।
सूतके मृतकं चेत् स्यात् सूतके सूतकं तथा ॥ १७२ ॥
तत्राधिकेन शुद्धिस्स्यान्न तु न्यूनदिनैश्शुचिः ।
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥ १७३ ॥
सूतेऽतीते दिनैकं स्यात् स्नानमेवोर्ध्वमब्दतः ।
कृतनित्याग्निकार्यस्य मृतस्य दहनाद्रितः ॥ १७४ ॥
अनाहिताग्नेराशौचं मरणाहात्प्रकीर्तितम् ।
ये च माहेश्वराश्शूद्रा भस्मरुद्राक्षधारिणः ॥ १७५ ॥
तेषां पञ्चदशाहे तु शुद्धिस्सूतौ मृतावपि ।
तथैव रुद्रकन्यानां पञ्चाचार्येऽपि सम्मतम् ॥ १७६ ॥
हीनानुलोमिनां तद्वद्भस्मरुद्राक्षधारिणाम् ।
न स्पृशेयुस्सपिण्डाश्च दाहकं तत्र कथ्यते ॥ १७७ ॥
सूतकाद् द्विगुणं शावं शावाद्द्विगुणमार्तवम् ।
आर्तवाद् द्विगुणा सूतिस्तस्या अपि च दाहकम् ॥ १७८ ॥
प्रेतस्पर्शः कृतो यैस्तु वाहकैर्ग्रामबाह्यतः ।
नक्षत्रदर्शनाद्वापि वसेयुस्सूर्यदर्शनात् ॥ १७९ ॥
स्पृष्ट्वान्तेऽग्निं पिबेयुस्ते पञ्चगव्यं घृतं तु वा ।
इदं सामान्यमर्त्यानां विधानं परिकीर्तितम् ॥ १८० ॥
ये च माहेश्वराश्शूद्रा इस्याद्याः परिकीर्तिताः ।
शिवगानविदां तद्वच्छिवाश्रमनिषेविणाम् ॥ १८१ ॥
दिनैर्विंशतिभिश्शुद्धिर्देवदास्याः प्रकीर्तिता ।
आशौचं दासदासीनामधिष्ठातृकुलोचितम् ॥ १८२ ॥
प्रतिलोमेषु नाशौचमिष्यते द्विजसत्तमाः ।
कुलं तु रुद्रकन्यानां मातृजं परिकीर्तितम् ॥ १८३ ॥
तथैव देवदासीनां मातृजं कुलमीरितम् ।
राज्ञां पुरोहितानां च नाशौचं मृतसूतयोः ॥ १८४ ॥
समयस्थस्य नाशौचं नित्यकर्मणि सर्वदा ।
गृहिणोऽगृहिणो वापि व्रतयुक्तस्य सर्वतः ॥ १८५ ॥
निर्वाणदीक्षायुक्तानामनुष्ठानाहितात्मनाम् ।
हृहस्थानां च नाशौचं नित्ये नैमित्तिकेऽपि वा ॥ १८६ ॥
काम्यकर्मणि चाशौचं यतः स्नानान्निवर्तते ।
स्नानं च व्रतीनो नोक्तं पृथक् पाकभुजो यदि ॥ १८७ ॥
स्वार्थे वाथ परार्थे वा विधानमिदमीरितम् ।
परित्ययेत् परार्थं वा लोकसंवरणाय च ॥ १८८ ॥
भ्रातृपुत्रपितृभ्योऽन्ये बान्धवा ज्ञातयः स्मृताः ।
ज्ञातीनां स्त्रीषु जातासु नाशौचं प्रविधीयते ॥ १८९ ॥
आसप्तपौरुषाद् ग्राह्यं तत्पुंसां मृतसूतयोः ।
तत्रापि त्र्यहमाशौचं परतः पञ्चपौरुषात् ॥ १९० ॥
तदूर्ध्वं पक्षिणी ग्राह्या विज्ञातं यदि बान्धवम् ।
विप्रस्य विधिनोढासु रक्ताद्यासु तिसृष्वथ ॥ १९१ ॥
एकद्वित्रिदिनह्रासाज्जातानां ब्राह्मणादितः ।
अन्यायजानां शुद्धिस्तु द्वित्रिवेददिनर्द्धितः ॥ १९२ ॥
नाशौचं प्रतिलोमानां ते नित्याशुचयो यतः ।
साधारणस्त्रियो याश्च पूता नैव कदाचन ॥ १९३ ॥
राजानस्सर्वदा पूतास्त्वभिषेकेन संयुताः ।
महान्तो मन्त्रिणाश्चापि यदि भक्ता महेश्वरे ॥ १९४ ॥
शिवकर्मरता ये तु शूद्रा भस्मादिसंयुताः ।
दिनैर्विंशतिभिश्शुद्धाः पञ्चविंशतिभिः परे ॥ १९५ ॥
प्रेतसूतकसम्बन्धि नित्यहानिं करोति यत् ।
तस्य तावत्तिक्षौ शुद्धिर्यावत्तानि दिनानि तु ॥ १९६ ॥
प्रायश्चित्तं तदर्थं तु नक्तं यावकभोजनम् ।
त्रिकालस्नानपूजाग्निजपहोमपुरस्सरम् ॥ १९७ ॥
विना हानि यदा योगस्तदन्ते च त्रिरात्रकम् ।
योगं विना यदा हानिस्तत्राप्यन्ते दिनत्रयम् ॥ १९८ ॥
भक्तिज्ञानं च वैराग्यमेतेष्वेकतमं तु वा ।
यस्य सम्यग् भवेत्तेन कार्यं समयिनार्चनम् ॥ १९९ ॥
मन्दमन्दतरं वापि यस्यैतत् त्रितयं भवेत् ।
अन्तर्यागश्च तेनापि कर्तव्योऽन्ते दिनद्वयम् ॥ २०० ॥
एकाहं वा यवाहारी चरुभुग्वा सहस्रकम् ।
जपेदघोरं स्नानान्ते दशांशो होम एव वा ॥ २०१ ॥
यस्य नास्ति शिखाच्छेदस्तस्य पादार्थकस्य च ।
अयमेव विधिः प्रोक्तः समयस्थस्य हे द्विजाः ॥ २०२ ॥
निर्वाणदीक्षितस्यापि शिखाच्छेदयुतस्य च ।
नित्ये नैमित्तिके काम्ये सर्वत्रैवाधिकारिता ॥ २०३ ॥
शिखाच्छेदविहिनस्य नित्यकर्मणि योग्यता ।
एतेषामपि सर्वेषां प्रासादादिप्रवेशनम् ॥ २०४ ॥

अग्रमण्डपबाह्ये तु न दोषाय प्रकल्पते ॥ २०४१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे अन्त्येष्टिविधिः
सप्तविंशतितमः पटलः