२६ शताभिषेकविधिः

शताभिषेकं वक्ष्येहं सङ्क्षेपात् द्विजसत्तमाः ।
अकालमृत्यु मथनम् आयुरारोग्यवर्धनम् ॥ १ ॥
वृद्धिदं धनधान्यानां पुत्रपौत्र विवर्धनम् ।
दीक्षितानां पुरा चन्द्रसहस्रस्य अवलोकिनाम् ॥ २ ॥
उत्तरायण कालेतु शुक्लपक्षे विशेषतः ।
सुलग्ने च सुवारे च सुतिथौ शोभने दिने ॥ ३ ॥
स्नापयेत् देशिकः शान्तः सर्वलक्षण संयुतः ।
मङ्गलाङ्कुर संयुक्ते मण्डपे समलङ्कृते ॥ ४ ॥
कूटेवाथ प्रपायां वा शुद्धदेशे मनोरमे ।
पञ्चादि पञ्चपञ्चाशत्करसीमासमन्विते ॥ ५ ॥
मुखायामयुते वापि चतुर्द्वार समन्विते ।
एकादि पञ्चपञ्चान्तभक्तिभिः परिमण्डिते ॥ ६ ॥
ब्राह्मणं क्षत्रियं वाथ वैश्यं शूद्रमथापि वा ।
अनुलोमसमुद्भूतं विशेषाद्भूपतिं द्विजाः ॥ ७ ॥
राजस्त्रियं वा सामन्तममात्यं वा पुरोहितम् ।
तत्तज्जातिसमुद्भूतस्त्रियं वा शिवविप्रकाः ॥ ८ ॥
पञ्चाङ्गभूषणोपेतस्त्वभिषेकं समाचरेत् ।
अभिषेकदिनात्पूर्वं रात्रौ कौतुकबन्धनम् ॥ ९ ॥
कारयेद्यजमानस्य दक्षहस्ते गरूत्तमाः ।
तत्पत्न्याश्च प्रधानाय वामहस्ते तु बन्धयेत् ॥ १० ॥
प्रधानपत्न्यो बह्वयश्चेत् सर्वासामेव कल्पयेत् ।
तद्रात्रौ तु पयः पीत्वा शय्यायां कम्बलादिभिः ॥ ११ ॥
कल्पितायामथैकेन स्वपेद्दक्षिणमस्तकः ।
मण्डपं कारयित्वाथ पूर्वोक्तविधिना यतम् ॥ १२ ॥
विसृज्य शिल्पिनम्पश्चात् पुण्याहं वाचयेद्गुरुः ।
पूर्वाग्रमुत्तराग्रं च मनुसूत्रं प्रकल्पयेत् ॥ १३ ॥
शतं षष्ट्युत्तरं नन्दपदयुक्तं भवेत् स्फुटम् ।
तेषां मध्ये हृहीत्वा तु पादानां पञ्चविंशतिम् ॥ १४ ॥
परितस्सन्त्यजेदेकपदं द्वाराष्टकान्वितम् ।
चतुर्दिक्षु चतुर्द्वारं पदद्वयविलोपनात् ॥ १५ ॥
अष्टोत्तरशतानि स्युः पदान्यत्र विचक्षणाः ।
तन्मध्ये स्थण्डिलं कार्यं शालिभिर्द्रोणसम्मितैः ॥ १६ ॥
वर्धन्याश्च तदर्धं स्यात् कलशेष्वाढकं भवेत् ।
अधमं त्वेकमाख्यातं द्विगुणं मध्यमं भवेत् ॥ १७ ॥
त्रिगुणं चोत्तमं विद्याच्छ्रेष्ठक्रम उदाहृतः ।
आढकं वा तदर्धं वा तदर्धं वा दरिद्रके ॥ १८ ॥
अयं क्षुद्रक्रमः प्रोक्तो व्रीहिमाने द्विजोत्तमाः ।
शाल्यभावे च व्रीहिः स्याद् व्रीह्यर्धं तण्डुलं क्षिपेत् ॥ १९ ॥
तदर्धं तु तिलं प्रोक्तं चतुर्थांशं तु वा क्षिपेत् ।
अष्टांशं क्षीणवित्तस्युःक्षिपेत् स्थण्डिलशुद्धये ॥ २० ॥
मध्यमे शिवकुम्भं तु द्वात्रिंशत्प्रस्थपूरितम् ।
वर्धनी च तदर्धेन पूरिता शिवपूरिताः ॥ २१ ॥
बाह्यस्थकलशा ज्ञेयास्त्वाढकेनाथ पूरिताः ।
त्रिसूत्र्या वेष्टनं कुम्भे द्विसूत्र्या करके भवेत् ॥ २२ ॥
अन्येषामपि सर्वेषामपि सर्वेषामेकसूत्रेण वेष्टनम् ।
पृथग्वस्त्रसमोपेतं पृथक्स्वर्ण समायुतम् ॥ २३ ॥
चन्दनागरुकर्पूरकुष्ठोशीरजकल्कयुक् ।
नादेयाम्भः प्रशस्तं स्याच्छिवकुम्भादिपूरेणे ॥ २४ ॥
नानागन्धसमायुक्तं नानाबीजसमन्वितम् ।
नानाधातुसमायुक्तं नानालोहसमन्वितम् ॥ २५ ॥
नानादिगौषधोपेतं नानाफलसमन्वितम् ।
नानापुष्पसमायुक्तं नानागव्यसमायुतम् ॥ २६ ॥
संस्थाप्य कलशं सर्वं पूजयेत्पत्रपुष्पकैः ।
अष्टोत्तरशतानां तु रुद्राणां नाम कीर्तयेत् ॥ २७ ॥
पृथग्द्रव्यनिवेद्येन मानयेद्देशिकोत्तमः ।
वस्त्रयुग्मेन संवेष्ट्य शिवकुम्भं च वर्धनीम् ॥ २८ ॥
नवपञ्चादिकं रत्नं शिवेशक्तौ च विन्यसेत् ।
प्रथमावरणे विद्वानष्टलोहादि विन्यसेत् ॥ २९ ॥
हिरण्यं रजतं ताम्रमारकूटं च सीसकम् ।
आयसं त्रपु कांस्यं चाप्यष्ट विद्येश्वरान्न्यसेत् ॥ ३० ॥
द्वितीयावरणे चैवं धातूनेतांश्च विन्यसेत् ।
अगरुं गन्धकं तालं मक्षिकं च मनश्शिलम् ॥ ३१ ॥
रसमभ्रद्वयं श्चैव गैरिकाञ्जनमेव च ।
जातिलिङ्गं च सिन्दूरं तुत्थं च विमलद्वयम् ॥ ३२ ॥
कान्तं च षोडशैतानि द्वितीयावरणे न्यसेत् ।
ऐन्द्रद्वादशकोष्ठेषु विन्यसेद्द्वारपार्श्वयोः ॥ ३३ ॥
पालाशाः खादिराश्चाम्रप्लक्षन्यग्रोधसम्भवाः ।
बैल्वाश्चैव शमीजाताः शिरीषाश्वत्थसम्भवाः ॥ ३४ ॥
औदुम्बरी च नारङ्गम्मातुलुङ्गसमुद्भवाः ।
वृक्षाणां च त्वचस्त्वेतास्त्वन्तर्वामादितो मताः ॥ ३५ ॥
आग्नेयां नवके सम्यक् विन्यसेन्मृत्तिकाः पराः ।
नदीतटे तथा गोष्ठे वल्मीके गजदन्तके ॥ ३६ ॥
सागरे च ह्रदे क्षेत्रे पर्वतेऽश्वत्थमूलके ।
उत्पलस्य द्वयं श्चैव पङ्कजस्य द्वयं तथा ॥ ३७ ॥
वकुलं करवीरं च पाटलं कुरवं तथा ।
मालतीं मुनिपुष्पं च नन्दिकावर्तमेव च ॥ ३८ ॥
चम्पकं द्वादशैतानि विन्यसेद्दक्षिणे गुरुः ।
चन्दनोशीरकुष्ठं च कुङ्कुमं च नरं तथा ॥ ३९ ॥
तक्कोलमगरुं चैव पत्रं चैव लवङ्गम् ।
नैऋते नवके ज्ञेयं वारुण्यामथ कथ्यते ॥ ४० ॥
वैष्णवं माषनीवार गोधूमं यवमेव च ।
अपामार्गं तिलं मुद्ग प्रियङ्गुं सर्षपं तथा ॥ ४१ ॥
श्यामाकमाढकं चैव विन्यसेदानुपूर्वशः ।
लक्ष्मीश्च शङ्खपुष्पी च विष्णुक्रान्तिश्च हंसिनी ॥ ४२ ॥
तुलसी सहदेवी च इन्द्रवल्ली च पद्मिनी ।
सूर्यावर्तं च कथ्यन्ते वायव्यां नवके मताः ॥ ४३ ॥
पञ्चगव्यं तथा क्षीरं दधि गोमूत्रमेव च ।
गोमयं नालिकेरं त मातुलुङ्गफलं तथा ॥ ४४ ॥
नारङ्गं बिल्वकं चैव पनसं चाम्रमेव च ।
दाडिमीसम्भवं चैव न्यस्तव्याः क्रमशस्ततः ॥ ४५ ॥
गन्धोदकमथैशान्यां कलशेषु नवस्वपि ।
एवं द्रव्याणि विन्यस्य शिवादीनर्चयेत् क्रमात् ॥ ४६ ॥
आचार्यो मूर्तिपैस्सार्धं स्नानं कृत्वा विभूषितः ।
वसानो नूतनं वासस्सोष्णीषस्सोत्तरीयकः ॥ ४७ ॥
पञ्चाङ्गभूषणोपेतस्साङ्गुलीयकम् एव च ।
मण्टपे द्वारपूजादि सर्वं कर्म समाचरेत् ॥ ४८ ॥
पूजयेन्मध्यमे कुम्भे शिवं सर्वाङ्ग संयुतम् ।
मनोन्मनीं च वर्धन्यामेकपत्नी भवेद्यदि ॥ ४९ ॥
बह्व्यश्चेद् बह्व्य स्युस्तासु तामेव पूजयेत् ।
दीक्षितश्चेन्न चेद्दीक्षा तस्मिन्कालेऽथ दीक्षयेत् ॥ ५० ॥
मण्डले पूर्वदिक्स्थाने कल्पयेच्चैशदेशके ।
उत्तरे दक्षिणे वाथ वह्निकुण्डेन संयुते ॥ ५१ ॥
अथवैतत् परित्याज्यं शम्भुकुम्भस्थिते भवेत् ।
पुष्पपातादिकं कृत्वा होमं कुर्याद्विशेषतः ॥ ५२ ॥
गन्धैः पुष्पैश्च दीपैश्च धूपैरन्यैर्विशेषतः ।
नवाग्निं वाथ पञ्चाग्निमेकाग्निं वाथ कल्पयेत् ॥ ५३ ॥
समिदाज्यचरू।ल्लाजतिलवैणव माषकान् ।
जुहुयात् क्रमशो विद्वान् होमयोग्यांश्च सम्भवान् ॥ ५४ ॥
उदुम्बरवटाश्वत्थप्लक्षा इन्द्रादिदिषु च ।
शमीखदिरमायूरश्रीवृक्षाः स्युर्विदिक्षु च ॥ ५५ ॥
पलाशस्तु प्रधाने स्याच्छिव ब्रह्माङ्ककैः क्रमात् ।
सर्वद्रव्याणि जुहुयात् देव्याश्चापि प्रधानके ॥ ५६ ॥
शतमर्धं तदर्धं वा जुहुयान्मूलमन्त्रतः ।
ब्रह्माङ्गानां दशांशं तु जुहुयात्तु पृथक् पृथक् ॥ ५७ ॥
होमं कृत्वा क्रमेणैव रात्रिशेषं व्यपोह्य च ।
गुरूत्तमः प्रधानाग्नौ तेषां दीक्षां समाचरेत् ॥ ५८ ॥
अदीक्षिताश्चेत् कर्तारश्शिवकुम्भे शिवं यजेत् ।
किन्तु पञ्चाक्षरेणैव शिवायै नम इत्यपि ॥ ५९ ॥
वर्धन्यां च यजेद् गौरीमशेषकलशेषु च ।
पञ्चाक्षरेण मन्त्रेण रुद्रमेव समर्चयेत् ॥ ६० ॥
दीक्षार्थं तु शतं ह्येतन्मण्डलं दर्शनार्थकम् ।
कल्पयेत् सर्वतोभद्रं सर्वपापविमुक्तये ॥ ६१ ॥
सर्वाभीष्टप्रसिद्ध्यर्थं दिव्यादिव्यरजोमयम् ।
प्रातस्स्नानाविलिप्ताङ्गं भूषितं भूषणार्हकैः ॥ ६२ ॥
सर्वालङ्कारसंयुक्तमानयेन्मण्टपान्तिकम् ।
पादप्रक्षालनोपेतमाचान्तं शान्तमानसम् ॥ ६३ ॥
आनयेद्दक्षिणद्वारं सम्प्रोक्ष्य प्रणेवेन तु ।
पुष्पाञ्जलिं च तेनैव प्रदक्षिणनमस्कृती ॥ ६४ ॥
कारयित्वाथ कुम्भस्थे शिवे मण्डलसंस्थिते ।
कुण्डस्थेऽपि ततः स्नानवेद्यां संस्थाप्य देशिकः ॥ ६५ ॥
भद्रपीठे पयोवक्षजाते वाम्रसमुद्भवे ।
पानसे बिल्वजे वाथ जम्बुजे ब्रह्मवृक्षजे ॥ ६६ ॥
सहस्रधारयोपेतं राज्ञां चेदभिषेचनम् ।
अन्येषामपि सर्वेषां शतधारावटेन वा ॥ ६७ ॥
हैमेन राजनेतापि तथोरन्यतरेण वा ।
सर्वालङ्कारसंयुक्तमन्ते चामलकादिभिः ॥ ६८ ॥
स्नात्वैवान्यैरपि द्रव्यैः प्रभृजेच्छुद्धवाससा ।
गात्रस्थं तोयमत्रैव वस्त्राद्यं परिवर्त्य च ॥ ६९ ॥
विलिप्य चन्दनाद्यैश्च गन्धपुष्पैरलङ्कतम् ।
तदन्यत्र शुभे देशे विलिप्तेऽलङ्कते गुरुः ॥ ७० ॥
स्थण्डिलं कारयित्वा तु तस्मिन् भद्रासनं क्षिपेत् ।
सवैयाघ्रं सवस्रं चसहेमाम्बुजमस्य तु ॥ ७१ ॥
स्थापयित्वाभिषिक्तं तु मध्यमे भार्यया युतम् ।
आचान्तं मन्त्रदेहान्तं गन्धाद्यैर्बाहुमालया ॥ ७२ ॥
गन्धपुष्पैरलङ्कत्य सर्वालङ्कारसंयुतम् ।
पटेन महाताच्छाद्य तदग्रेऽथ विलिप्तके ॥ ७३ ॥
स्थाने सर्वाणि धान्यानि मधुपात्रं सहैमकम् ।
स्थापयित्वा सवत्साङ्गां दर्शयेच्च पयस्विनीम् ॥ ७४ ॥
बन्धुभिः पूजितं हृष्टं वस्त्रहेमाङ्गुलीयकैः ।
सुवर्णपुष्पैरन्यैश्च गेयवाद्य समन्वितम् ॥ ७५ ॥
आरोप्य शिबिकादौ तु कृत्वा ग्रामप्रदक्षिणम् ।
गृहद्वारे पुरस्ताच्च विलिप्ते मङ्गलाङ्कुरे ॥ ७६ ॥
पूणकुम्भयुते दीपसंयुते फलकोपरि ।
स्थापयित्वा तु तत्पादौ क्षीरैः प्रक्षालनं जलैः ॥ ७७ ॥
कारयित्वा ततः स्त्रीभिः रजनीजलधारया ।
दीपेन सहिताभिश्च कारयेत्त्रि प्रदक्षिणम् ॥ ७८ ॥
ततः पादुकमास्थाय प्रविशेत्स्वगृहं प्रति ।
श्रेष्ठमार्गोऽयमेकोनपञ्चाशत् कलशैस्तु वा ॥ ७९ ॥
पञ्चविंशतिकलशैर्नवभिः पञ्चभिस्तु वा ।
एकेनवाभिषेकं तु कारयेदभिषेचनम् ॥ ८० ॥
दक्षिणां च गुरोर्दद्दादुत्तमादिषु सम्भवाम् ।
दासीदासं भुवं गां च गृहोपकरणानि च ॥ ८१ ॥
मूर्तिपानां तदन्ते च तदन्ते जापिनामपि ।
स्तोतृणामपि भक्तानां दक्षिणा पूर्ववद्भवेत् ॥ ८२ ॥
पूजयेत् कल्पयेद्वित्तरूपानुसरणाय च ।
एवं यः कारयेन्मर्त्यस्तस्य धर्मे मतिर्भवेत् ॥ ८३ ॥
इहैव धनवानाढ्यः पुत्रवान् विजयी भवेत् ।
आयुरारोग्यमिष्टाः स्त्रीर्भुक्त्वाप्नोति परां गतिम् ॥ ८४ ॥
यत्रैव क्रियते राज्ये त्वभिषेकविधिक्रमः ।
नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ॥ ८५ ॥
नोपसर्गभयं तत्र न परागमविप्लवः ।
स्वकालवर्षी पर्जन्यः सुभिक्षं विजयी नृपः ॥
शान्तानि सर्वभूतानि पयस्विन्यः पयोभृतः ॥ ८६ ॥

इति उत्तरकामिकाख्ये महातन्त्रे शताभिषेकविधिः
षड्विंशतितमः पटलः