ऋषीणामपि सर्वेषां वक्ष्ये गोत्रविनिर्णयम् ।
गोत्राणां सहस्राणि आयुतान्यर्बुदानि च ॥ १ ॥
ऊनपञ्चाशदेवैषां सङ्ख्या स्यान्महतामिह ।
कौशिकः काश्यपश्चैव भारद्वाजोऽथ गौतमः ॥ २ ॥
अत्रिर्वसिष्ठश्चागस्त्यो जामदग्निश्च भार्गवः ।
अङ्गिराश्च मनुश्चान्यो द्वि विधास्ते प्रकीर्तिताः ॥ ३ ॥
शिवसृष्टि समोपेताः मुनयस्तद्विवर्जिताः ।
शिवसृष्ट्यन्विता ये ते पञ्चवक्त्रेषु दीक्षिताः ॥ ४ ॥
कौशिकाद्याश्च मुनयस्सर्वे सर्वत्र दीक्षिताः ।
गोत्रं च दीक्षया नैषां किं त्वेषां तु स्वजातिकम् ॥ ५ ॥
क्षत्रियाणां तु वैश्याणां गोत्रमाचार्यजं तु वा ।
नैव शूद्रस्य गोत्रं स्यादेवं गोत्रविधौ मतम् ॥ ६ ॥
आदिशैवे यथा गोत्रमनुशैवे तथामतम् ।
किं तु दीक्षाविहीनं तु शिवसृष्टिविवर्जितम् ॥ ७ ॥
जातिसिद्धं विवाहे तु परिहार्य विचक्षणैः ।
उभयं परिपाल्यं वा कलौ नेष्टं तु वा द्विजाः ॥ ८ ॥
प्रधानमुनयश्चादौ कथ्यन्ते द्विजसत्तमाः ।
कौशिका लिहिता रौद्रा विश्वामित्राः कतास्तथा ॥ ९ ॥
धनञ्चयास्ततोवाजानाश्च परिकीर्तिताः ।
अघमर्षणपूर्वाश्च कौशिका इन्द्र पूर्वगाः ॥ १० ॥
पौरणाः काश्यपा रेफाश्शाण्डिल्याश्च ततो गताः ।
लोकाक्षयो भरद्वाजास्ततो रौक्षायणा मताः ॥ ११ ॥
भार्गवाःस्युः शरद्वन्तः कौमण्डाश्चततो मताः ।
ततो दीर्घतमा ज्ञेयाः ततः कारेण पालयः ॥ १२ ॥
उशना वामदेवोऽत्रिर्वार्धक्याश्च गविष्ठिराः ।
मुद्गलाश्च वसिष्टाश्च कुण्डिना उपमन्यवः ॥ १३ ॥
पराशरस्ततोऽगस्त्यस्साम्बवाहनसञ्ज्ञकाः ।
सोमवाहनसञ्ज्ञाश्च यज्ञवाहास्ततो मताः ॥ १४ ॥
वत्सा बिदा आर्ष्टिषेणा यस्का मित्रयुवास्तथा ।
वैन्याश्च शुनका विष्णुवृद्धा कण्वास्ततः परम् ॥ १५ ॥
हारिताः सङ्कृतिश्चैव पश्चाद्रथीतरा मताः ।
मुद्भवाक्कथिताः प्रोक्ता ऊनपञ्चाशदेव हि ॥ १६ ॥
कौशिकानादितो वक्ष्ये कुशिकाः पार्णजङ्घकाः ।
पारक्या औदलिर्माणिरालर्विर्बृहदग्नगः ॥ १७ ॥
तथा घट्टिस्तथापत्तिस्ततस्त्वापाद्यवा मताः ।
कान्तका बाष्पका वाच्युकिता लोमका धनाः ॥ १८ ॥
साङ्कायनाश्च गौराश्च लोकास्सौगतयो मतर् ।
यम दूता आनभिन्ना ततस्तारायणा मताः ॥ १९ ॥
चौलकायनसञ्ज्ञाश्च जाबाल्युदुम्बरौ मतो ।
दण्डा भुवनयो याज्ञबल्क्यः सौश्रतयस्तथा ॥ २० ॥
श्यातामयो भ्राष्टषट्क देहा निश्चिअत्यसञ्ज्ञकाः ।
शालावतां मयूराश्च तथोदुत्सरित्यपि ॥ २१ ॥
चित्रयज्ञाश्च सौमत्याः श्वेतुन्दायनसञ्ज्ञकाः ।
ततो मनुवतश्चैव मान्तवाः परिकीर्तिताः ॥ २२ ॥
येऽत्यन्तपादपर्यन्तास्ततोबालव्य इत्यपि ।
स्याद्रालवा उन्मनय इति रव्यातास्तु कौशिकाः ॥ २३ ॥
पञ्चार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च ।
देवरातो दधीचीति प्रवरे ऋषयस्त्रयः ॥ २४ ॥
लोहिताः स्युर्दण्डकायाश्चक्रवर्मायणास्स्मृताः ।
जक्ष्ययः प्राज्ञको वाजिजय इत्यपि लोहिताः ॥ २५ ॥
कुशिकाश्चैव एते च प्रवरे स्युस्त्र्यार्षयकाः ।
विश्वामित्रः स्टैषकयो लोहिताश्च त्रयस्त्वमी ॥ २६ ॥
प्रवर्या ऋषयः प्रोक्तास्ततो रौक्षास्तु सम्मताः ।
माणा उद्वहला एते रोक्षास्तु कुशिका मताः ॥ २७ ॥
प्रवरे त्रियार्षेयाः स्युर्विश्वामित्रश्च रौक्षकः ।
माणिश्चैव त्रयस्त्वेते मुनयो मुनिपुङ्गवाः ॥ २८ ॥
विश्वामित्रस्ततो देवश्रवसश्च परि भ्रमः ।
श्रौमितो देवतरसः कामकायनिकस्ततः ॥ २९ ॥
कामकायन इत्येते विश्वामित्राः प्रकीर्तिताः ।
त्रयार्षेयाः समुद्दिष्टा विश्वामित्रस्तदादिमः ॥ ३० ॥
देवश्रावस इत्यन्तो देवतरस इत्यमी ।
कठाः स्वैरन्ध्रिसञ्ज्ञाश्चकरभाः सहिताः परे ॥ ३१ ॥
वाजायनाश्च कौकृत्यास्ततो जाणायना मताः ।
कौकृत्याः शैशिराश्चैव ततश्चोदुम्बरायणः ॥ ३२ ॥
पिण्डिग्रीवास्ततो नारायणा नारद्य सञ्ज्ञकाः ।
एते कठाः समाख्यातास्त्रियार्षेयाः समीरिताः ॥ ३३ ॥
विश्वामित्रकठश्चाष्टिलश्चेत्यन्ये धनञ्चयाः ।
आश्ववीताः कारिषयो मयूराः सैन्धवायनाः ॥ ३४ ॥
तलव्याश्च महाक्षाश्च पुष्टा ये ते धनञ्जयाः ।
त्रियार्षेयाः समुद्दिष्टाः प्रवरे तु मुनीश्वराः ॥ ३५ ॥
विश्वामित्रो मधुच्छन्दो धनञ्जय इति त्रयः ।
आजायनस्ततः प्रोक्त एकवत्सश्च सम्मतः ॥ ३६ ॥
त्रियार्षेयाः समुद्दिष्टा विश्वामित्रस्तथैव च ।
स्यान्मधुश्चाथ सोजश्च प्रवर्या ऋषयस्त्रयः ॥ ३७ ॥
अघमर्षणपूर्वाश्च कौशिकाश्च ततो मताः ।
एते च त्रियेर्षेयाःस्युः विश्वामित्रोऽघमर्षणः ॥ ३८ ॥
कौशिकश्च त्रयस्त्वेते प्रवर्या मुनिपुङ्गवाः ।
कौशिकाश्चेन्द्रपूर्वाश्च ततः प्रोक्ता मुनीश्वराः ॥ ३९ ॥
त्र्यार्षेया इति विज्ञेया विश्वामित्रेन्द्र कौशिकाः ।
ऋषयस्त्रय आख्याताः प्रवर्या यागकर्मणि ॥ ४० ॥
पौरणाद्या द्व्यार्षेयाःस्युः कौशिकास्ते च सम्मताः ।
ऋषी द्वौ सम्मतौ विश्वामित्रः पौरणः इत्यपि ॥ ४१ ॥
कौशिकाश्च दशाप्येवं न समन्वयगामिनः ।
काश्यपानथ वक्ष्येऽहं काश्यपस्ते चादिमः ॥ ४२ ॥
ततश्चाङ्गिरसो ज्ञेया माठरा एतिशायनाः ।
आभूत्याश्चैव वैशिप्रा धूमा धूम्रायणा मताः ॥ ४३ ॥
धौमधौम्रायणा औधप्रचुराग्रायणा मताः ।
रुद्राग्नयश्च प्रवरास्तथा पैम्बकयोऽपरे ॥ ४४ ॥
कायाताया अकापाया निकामौषनिकिस्तथा ।
काद्रायणा औज्वलयो रोहितायनसञ्ज्ञकाः ॥ ४५ ॥
पिङ्गाक्षिर्मितकुम्भाश्च मारायणय एव च ।
वैकर्णेयास्ततः प्रोक्ता धूमलक्ष्मणयः सुराः ॥ ४६ ॥
कौषीतकेया वात्स्यः स्यादग्निशर्मायणा मताः ।
कामिजङ्घोदरा गौरीवायना दौक्षकायनाः ॥ ४७ ॥
वैतम्बा देवयाताश्च महाचक्रेयसञ्ज्ञकाः ।
पैठिनसाश्च बान्ध्रेप्रास्ततो मालन्दनामकाः ॥ ४८ ॥
वृषगणाश्च पानध्यो दाक्षपायण एव च ।
हरिता गाखमित्रेया पञ्चावाश्चैव स्वैरिकाः ॥ ४९ ॥
जारमण्डश्च वायुश्च स्वन्तिवर्ष गणायनाः ।
वैशम्पायनसञ्ज्ञाक्ष ततः केशायताः स्मृताः ॥ ५० ॥
औकायनिस्ततो मार्जायनाः कांसायनाः परे ।
देवश्च होतसूच्यास्थूणा भागुरयस्तथा ॥ ५१ ॥
पाथिकार्याः खरेभा ये गोमयातास्ततः परम् ।
हिरण्यपापाः मुसला आविश्रेण्यस्ततः परम् ॥ ५२ ॥
अग्निदेविस्तथा सौम्यः शूलभिन्दव इत्यपि ।
उत्तरतो गण्यमाना मन्त्रवैकर्णयः परः ॥ ५३ ॥
नैध्रुवाः काश्यपा एते त्रियार्षेयाः प्रकीर्तिताः ।
काश्यपश्चापवत्सारो निधवा ऋषयस्त्रयः ॥ ५४ ॥
त्रियार्षेयास्तथा रेफाः काश्यपा इति संस्मृताः ।
काश्यपश्चपवत्सारो रेफक्ष मुनयस्त्रयः ॥ ५५ ॥
शाण्डिल्याः कौलहाश्चैव पायकाः पायिकास्ततः ।
रभेरव्ययसौमानौ वनसंस्तु करेयुतः ॥ ५६ ॥
काकुण्डेयश्च कारेयस्ततः ष्टैषिकयो मताः ।
महाकायो जाणवंशाः कौश्रेयः कार्दमायनः ॥ ५७ ॥
ततः कामशयः पश्चान्महौजक्य एव च ।
ततो मौञ्जायनाः प्रोक्तास्ततो गाङ्गायना मताः ॥ ५८ ॥
वात्सभालय इत्युक्तास्ततो गोमिलसञ्ज्ञकाः ।
वेदायनास्ततो ज्ञेयास्ततो वाश्यायना मताः ॥ ५९ ॥
बहूदरय इत्युक्ता भागुरिर्वार्दती मुखाः ।
हिरण्यबाहुस्तेदेहा गोमूत्राश्च ततो मताः ॥ ६० ॥
वाक्यशुण्ठास्तथा जानन्धरिर्धन्वन्तरिस्ततश् ।
जालन्धरिरिति प्रोक्तस्त्रियार्षेयास्तु शण्डिलाः ॥ ६१ ॥
काश्यपश्चपवत्सारः शण्डिलश्च त्रयोऽथवा ।
काश्यपक्षापवत्सारोऽसितम् इत्यथवा त्रयः ॥ ६२ ॥
शण्डिलोऽप्यसितोऽग्निस्तु देवलप्रवरस्तु वा ।
कोकाक्षयो मैत्रवादिर्वेहो दार्भायणस्ततः ॥ ६३ ॥
चैरन्घ्रिः पशवश्चिव पयणायनसञ्ज्ञकाः ।
कलयश्चापि कापुष्टिर्लौगाक्षय इति स्मृताः ॥ ६४ ॥
कांसपत्राश्च इत्युक्ता वालुकायनिरित्यपि ।
कौनामिसौतयश्चोक्ताःस्युः परस्ताविरोदकी ॥ ६५ ॥
सैतकिंष्टिर्भेरोनिष्टिः ष्टैषिकिः सौसुकिस्ततः ।
यौथकालकिकालेयाः स्युर्लोकाक्षय इत्यपि ॥ ६६ ॥
यौधवा याजपा एते लोगाक्षय इति स्मृताः ।
अहर्वसिष्ठा नक्तं तु काश्यपास्त्रियार्षेयकाः ॥ ६७ ॥
काश्यपश्चापवत्सारो वसिष्ठो मुनयस्त्रयः ।
पूर्वोक्तैः काश्यपैः सिद्धैर्वसिष्ठस्य च सम्मताः ॥ ६८ ॥
भरद्वाजश्च मागण्डस्ततः क्षाम्यायणा मताः ।
देवाश्वा उद्वहव्याश्च ततः प्राग्वाशयो मताः ॥ ६९ ॥
ततो वाहलवाश् द्वयौगा अपरे वासिनायनाः ।
आजा औमाश्च तौदेहाः परिणद्धेधसञ्ज्ञकाः ॥ ७० ॥
शैखेयाः भूरयो रूढाः शौद्ध्यः खारिग्रीवयः ।
वयोक्षिभेदा औपशया अग्निवेश्याः शठा अपि ॥ ७१ ॥
श्वेलकास्तनकर्णाश्च वेश्याः स्युगौरिवायनाः ।
ऋक्षाश्च माणभिद्याश्च काम्बोदकसुसञ्ज्ञकाः ॥ ७२ ॥
पैलाः सौज्ज्वलयः कारुणादयः शुगसञ्ज्ञकाः ।
भारुण्डेया इषुमतास्तथा वौदोदमेघयः ॥ ७३ ॥
सौरभरास्तथा भाद्रपथयः परिकीर्तिताः ।
ततः स्युर्देवमतयः कल्माषाश्च सदोपकृत् ॥ ७४ ॥
प्रवाहणेया विज्ञेयाः स्तम्भस्तम्भिस्ततो मताः ।
वाराहयोः देववेला वलभीगय इत्यपि ॥ ७५ ॥
भद्राङ्गगतसञ्ज्ञाश्च शालाहलय इत्यपि ।
नृत्यायना महावेलास्ततः शालालयो मताः ॥ ७६ ॥
शार्दूलयस्ततो ज्ञेयाः काक्षला बाष्कलास्तथा ।
क्रोधायनास्तु कौटिल्याः सैंह्यकेन्द्रास्ततः परम् ॥ ७७ ॥
ब्रह्मस्तम्भास्तथा राजस्तम्भाक्ष परिकीर्तिताः ।
सोमाग्निवायुसूर्येन्द्रयमविष्णवापपूर्वकाः ॥ ७८ ॥
स्तम्भास्ततोऽन्ये स्तम्भान्तास्त्विष्टा अरुणसिन्धवः ।
ततः कौमुदगन्धिश्च शक्तिः स्यात्कौतुकायनाः ॥ ७९ ॥
आत्रेयाणाश्च मामण्डा धूमगन्धास्तथैव च ।
धूम्राः कौक्षेयका नितुतयो दाभय इत्यपि ॥ ८० ॥
मत्स्यक्रोधाश्चश्यामेयास्ततः क्षोक्षेयनामकाः ।
काब्ल्याः कारुपथयः कारिषायणसञ्ज्ञकाः ॥ ८१ ॥
भरद्वाजवनौ द्वौ तु ऋषयः पञ्च सम्मताः ।
भारद्वाजा इमे सर्वे त्रियार्षेयाः प्रकीर्तिताः ॥ ८२ ॥
अङ्गिराश्च बार्हस्पत्या भारद्वाजा इति स्मृताः ।
एको रौक्षायणः पञ्चार्षेयस्तु प्रकीर्तिताः ॥ ८३ ॥
भरद्वाजः विज्ञेयस्त्वङ्गिराश्च बृहस्पतिः ।
स्याद् मात वचसो वन्दनोऽथ गर्गाः समीरिताः ॥ ८४ ॥
साम्भरायणसञ्ज्ञाश्च तथा यौगन्धरायणः ।
सखीना बाहुलकयो भ्रष्टयो भ्रष्टुबिन्दवः ॥ ८५ ॥
ततः क्रोष्टकयः सौयामुनिः काणायना मुनिः ।
भाजिताक्षय इत्युक्ता गोत्रापचय इत्यपि ॥ ८६ ॥
सत्यापचय आख्याता जाणपक्वलसञ्ज्ञकाः ।
पलाशशाखावन्तस्ते मर्कटायनसञ्ज्ञकाः ॥ ८७ ॥
ततः सङ्ग्रहतुल्याश्च वैधूह्यः कारिरोतयः ।
त्रिस्त्रो तसा श्च कारवल्या राजयः पैलयस्तथा ॥ ८८ ॥
पञ्चत्रिमुनिका गर्गा भारद्वाजः समीरिताः ।
अङ्गिराश्च भरद्वाजो बार्हस्पत्याश्चशैन्यकाः ॥ ८९ ॥
गर्गश्च प्रवर्याः पञ्च अङ्गिरश्शैन्यगर्गकाः ।
ऋषयस्त्रय आख्याताः प्रवर्याश्च त्रिपक्षके ॥ ९० ॥
भारद्वाजास्त्रयश्चापि न समन्वयगामिनः ।
गौतमानथ वक्ष्येऽहमायास्यास्तौडिनिस्ततः ॥ ९१ ॥
आणीचयाश्च मूढाश्च बाध्याः काचाक्षतो मताः ।
सात्यकायश्च तैदेहाः कौमाराः सात्यमुग्रिकाः ॥ ९२ ॥
व्याप्यापौ नैकरिष्टिश्च ष्टैषकिर्देवकिस्ततः ।
कठोरिः कारुणिः कीलालयः पार्थिवसञ्ज्ञकाः ॥ ९३ ॥
काशिवाजा इमे ज्ञेया आयास्या गौतमा मताः ।
एतेषां त्रियार्षेयास्तु प्रवरे मुनिपुङ्गवाः ॥ ९४ ॥
प्रवर्या ऋषयः ख्याता आङ्गिरायास्य गौतमाः ।
शरद्वन्ताश्च रोहिण्यास्ततस्त्वभिजिता मताः ॥ ९५ ॥
ततः क्षीरकम्भाश्च ततः सौमुचयो मताः ।
सौर्यामुनिस्तथा औपबिन्दवो रायणो मताः ॥ ९६ ॥
राहूगणाश्च माषण्याः शरद्वन्ता इमे मताः ।
एते च गौतमा ज्ञेयास्त्रियार्षेया इति स्मृताः ॥ ९७ ॥
अङ्गिरा गौतमश्चैव शरद्वन्तश्च ते त्रयः ।
कौमाण्डा मासुराक्षश्च ततो मामान्यरेषणः ॥ ९८ ॥
पयन्त्याता यनाश्चाथ काष्टेयः पशवस्ततः ।
ऊर्जायना इमे ज्ञेया गौतमा द्विजसत्तमाः ॥ ९९ ॥
पञ्चार्षेयास्त्वाङ्गिरसौचथ्यौ काक्षीवतस्ततः ।
कौमाण्डो गौतमः पञ्च ततो दीर्घतमा मताः ॥ १०० ॥
पञ्चार्षेयास्तु विज्ञेयास्त्वेक एव च सम्मताः ।
आङ्गिरसौचथ्य काक्षीवता गौतमा इत्यपि ॥ १०१ ॥
ततो दीर्घतमश्चेति पर्यायाः पञ्च सम्मताः ।
कारेणुपालयश्चैव वास्तव्याश्चोदिवास्ततः ॥ १०२ ॥
बृहदुक्था अपि पौञ्जिष्ठा राजगन्धय इत्यपि ।
औदुञ्चायनसज्ञाश्च एते कारेणुपालयः ॥ १०३ ॥
गौतमास्ते त्रियार्षेयास्त्वङ्गिरा गौतमस्ततः ।
कारेणु पालिरित्येते त्रयस्त्वौशनसस्ततः ॥ १०४ ॥
सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षामहोदराः ।
विकंहतः सुबुद्ध्याश्च निहताश्च गुहा इति ॥ १०५ ॥
प्रोक्ता उशनसा एते त्रियार्षेयास्तु गौतमाः ।
अङ्गिरा गौतमस्त्वौशनसश्च ऋषयः स्मृताः ॥ १०६ ॥
सह दिष्टाः प्रशस्ताख्याः सुरूपाक्षा महौजसः ।
तथैव वामदेवश्च त्रियार्षेयास्तु गौतमाः ॥ १०७ ॥
अङ्गिरा गौतमो वामदेवश्चेति त्रयस्त्विमे ।
अत्रीन्वक्ष्ये समासने तेष्वादाव त्रयो मताः ॥ १०८ ॥
भोजश्चादितिसञ्ज्ञश्च चान्द्रोशीः पार्व इत्यपि ।
कामङ्गुल्यश्च शैवाश्च छगालाश्छागलास्तथा ॥ १०९ ॥
ततश्च तृणबिन्दुश्च तथा भागन्तयो मताः ।
ततो मालरुकः प्रोक्तस्ततो व्याकलयो मताः ॥ ११० ॥
शाम्ब व्यसन सञ्ज्ञाश्च कार्मर्यायनयो मताः ।
ततो दाक्षिश्च तैदेहो गाणिस्पतय इत्यपि ॥ १११ ॥
औद्दालकिर्द्रोण भवा गौरीग्रीवायतास्तथा ।
ततो गविष्टिरः प्रोक्तः शिशुपालस्ततो मताः ॥ ११२ ॥
गौरात्रेयस्ततः कृष्णात्रेयश्चारुणपूर्वकाः ।
श्वेत नील महाश्याम पूर्वात्रेयाश्चतुर्विधाः ॥ ११३ ॥
हालेयाश्चैव वालेया ह्नेलेयाश्च ततो मताः ।
वामरथिनो वैदेहा वाजो भ्रेयास्ततो मताः ॥ ११४ ॥
कौद्रेयास्तु कौपमानास्ततः कालतपः स्मृताः ।
अनीलाययनसञ्ज्ञाश्च अङ्गिराश्च ततो मताः ॥ ११५ ॥
गौरङ्गिश्चैव सौरङ्गिर्मानङ्गिः पुष्पयो मताः ।
शैलेलश्च पुनः साकेतायनाः प्रकीर्तिताः ॥ ११६ ॥
भारद्वाजायनाश्चेन्द्रातिथिरित्यत्रयो मताः ।
त्रियार्षेयाः समाख्याताः पालिकाश्चात्रिरेव च ॥ ११७ ॥
अर्चनानस इत्येते ऋषयस्त्रय ईरिताः ।
तथा वाग्भूतका ज्ञेयास्त्रियार्षेयास्तत्र वा मताः ॥ ११८ ॥
अत्रिरर्चनानसो वाग्भूतका ऋषयस्त्रयः ।
ततो गविष्ठिरा ज्ञेयास्त्रियार्षेयास्तु चात्रयः ॥ ११९ ॥
अत्रिरर्चनानसेति गविष्ठिर इति त्रयः ।
मुद्गलो व्यालसन्धिश्च चूर्णवाबोधवाजकिः ॥ १२० ॥
वैत भावय इत्येते ऋषयश्च ततो मताः ।
ततः शालिमतो गौरीमतो ब्राह्मीमतस्ततः ॥ १२१ ॥
ततो गौरकयो वायुपूरकाः सायनास्ततः ।
इत्येते त्रियार्षेयाः स्युर्मुद्गलाः सम्प्रकीर्तिताः ॥ १२२ ॥
अर्चानानसः पूर्वादिस्तिथिश्चेति त्रयो मताः ।
चतुर्विधा अप्यात्रेया न समन्वयगामिनः ॥ १२३ ॥
वसिष्ठानथ वक्ष्येऽहं तत्रादौ वैकलिर्मतः ।
वाठरकिस्ततः प्रोक्तो गौरीश्रवस इत्यपि ॥ १२४ ॥
आश्वलायनसञ्ज्ञाश्च गविष्ठास्त्वाश्वलयनाः ।
शौचिवृक्षास्ततः प्रोक्तास्ततः स्युः व्याघ्रपादयः ॥ १२५ ॥
औडुलोमिर्जतूकर्णो वाष्टव्यो वाह्यकायनिः ।
कोलायनाश्च को भोजिस्ततः पौलायना मताः ॥ १२६ ॥
सुन्दहरित इत्युक्तः काण्डेय विधिरेव च ।
सप्तवेलाम् इमे ख्याता वसिष्ठाश्च द्विजोत्तमाः ॥ १२७ ॥
एकार्षेयास्तु एतेस्युः वसिष्ठस्त्वेक एव सः ।
प्रवर्यश्च समादिष्टः कुण्डिनाश्च ततो मताः ॥ १२८ ॥
ततो गुग्गुलयः प्रोक्तस्ततो लोहायना मताः ।
आविश्वाश्वत्थवैकर्णिराजीवखदिराः स्मृताः ॥ १२९ ॥
पेठकाश्च नवग्रामास्तथाश्मरथ्यवाहवाः ।
सोमरङ्गलिनः कोकास्ततः कापटवा मताः ॥ १३० ॥
हिरण्याक्षायणाश्चैव पुलाभक्षास्ततैव च ।
माध्यान्दिनिश्च शान्तिश्च सौपदार्थश्च कौण्डिनः ॥ १३१ ॥
त्रियार्षेयाः समुद्दिष्टा वसिष्ठश्चेति शंसिताः ।
वसिष्ठमित्रावरुणौ कुण्डिनश्च त्रयस्त्वमी ॥ १३२ ॥
उपमन्युरौपगवा मण्डलेखय एव च ।
जालागतो जयो लोकास्ततः प्रोक्ताः कपिञ्जलाः ॥ १३३ ॥
त्रैवर्ण वैवशागारिसारक्षा रक्षसञ्ज्ञकाः ।
शैलालयो महाकर्णानया बालशिखा मताः ॥ १३४ ॥
औद्दाहमानयो बालानया भागास्ततो मताः ।
इत्युन्मायन सञ्ज्ञाश्च ततः कुण्डोदरायणाः ॥ १३५ ॥
लक्ष्मणेयास्ततः काचान्वयलाकुलयो मताः ।
अनृक्षर वसञ्ज्ञाश्च कापिला वय एव च ॥ १३६ ॥
कपिकेशा इति ज्ञेयाएते स्युरूपमन्यवः ।
वसिष्ठास्त्रियार्षेयास्ते वसिष्ठाश्चाभरद्वसुः ॥ १३७ ॥
इन्द्रप्रमद इत्येवं त्रयः पश्चात् पराशराः ।
ततो वा त्रितयः प्रोक्ता भरदवसुरिति स्मृतः ॥ १३८ ॥
भैमतायनो वाजिश्च गोपालिः पञ्चमस्ततः ।
कृष्णा पराशराः प्रोक्तास्ततः प्रारोहयो मताः ॥ १३९ ॥
कौमुदि प्लाक्षयश्चैव ततो वैकलयो मताः ।
हार्यश्विः पञ्चमस्तेषामिति गौराः पराशराः ॥ १४० ॥
खल्वायनय इत्युक्ता गोपयः कार्कयस्ततः ।
श्वेतयोवारुणिस्तेषां पञ्चमः प्रकीर्तिताः ॥ १४१ ॥
पराशराः स्युररुणास्ततो भालुक्य सञ्ज्ञकाः ।
बादरिश्च तथा गार्गो वना वै कौकसादयः ॥ १४२ ॥
इत्येते कथिता पञ्च प्रनीलाश्च पराशराः ।
ततः सौधवसानाश्च आलम्भायन सञ्ज्ञकाः ॥ १४३ ॥
स्वर्याः काकुक्षताश्चैव लोमाद्याः पूर्णकायनाः ।
चोलकायन सञ्ज्ञाश्च वार्णवल्कास्तथैव च ॥ १४४ ॥
पुनर्देवनगौख्याः श्रविष्टायन सञ्ज्ञकाः ।
ततो वाशवयः पञ्चवाजयस्तदनन्तरम् ॥ १४५ ॥
आद्यक्षायत इत्युक्ताः पूतिमाषास्तथैव च ।
कैमीयतय इत्येते पञ्च नीलाः पराशराः ॥ १४६ ॥
कृष्णाजिना काविशुभास्ततः श्यामायना मताः ।
ततः पौष्करसादिश्च श्वेतयूपय इत्यपि ॥ १४७ ॥
श्वेताः पराशराः पञ्च वात्स्यायन एव च ।
श्यामेया पार्णयश्चैव सहचौलिश्च सौबुधः ॥ १४८ ॥
श्यामाः पराशराः एते षट्प्रोक्तास्त्रियार्षेयकाः ।
वसिष्ठ शक्तिसञ्ज्ञश्च पराशर इति त्रयः ॥ १४९ ॥
सर्वे पराशरास्त्वेते परस्परमयोगिनः ।
ततोऽगस्त्यानहं वक्ष्येऽगस्तयस्तेषु पूर्वगाः ॥ १५० ॥
शालाद्याख्यश्च कुल्माषो दण्डिश्चैव कलायनाः ।
तथौपदहनिश्चैव धावणिर्लावणिस्ततः ॥ १५१ ॥
लाव्योऽर्बुदोवैरणयो बुधादरय एव च ।
बोदरिः शैवरतयस्ततः श्यामातयो मताः ॥ १५२ ॥
ततो मौञ्जिकिय पाण्डूरुहिर्मौसलयस्तथा ।
गौरीदीपाश्च रोहिष्या इत्येते त्रियार्षेयकाः ॥ १५३ ॥
दृढच्युरितगस्त्यश्च इध्मवाहस्त्रयस्त्विमे ।
साम्भवाहन सञ्ज्ञाश्च त्रियार्षेयास्त्वगस्तयः ॥ १५४ ॥
दृढच्युतिरगस्त्यश्च साम्भवाहस्त्रयस्त्विमे ।
सोमवाहनसञ्ज्ञाश्च त्रियार्षेयास्त्वगस्तयः ॥ १५५ ॥
दृढच्युतिरगस्त्यश्च सोमवाहस्त्रयस्त्विमे ।
यज्ञवाहनसञ्ज्ञाश्च त्रियार्षेयास्त्वगस्त्यः ॥ १५६ ॥
दृढच्युतिगस्त्यश्च यज्ञवाहस्त्रयस्त्विमे ।
अगस्तयस्तु चत्वारो नसमन्वियगामिनः ॥ १५७ ॥
जमदग्नीनथो वक्ष्ये तत्रादौ वत्स ईरितः ।
मार्कण्डेयाश्च माण्डूका माण्डव्या कांसयस्ततः ॥ १५८ ॥
आलेखनास्ततो दार्भायणाश्च प्रकीर्तिताः ।
शार्कराक्षास्ततो देवतायनाः शौनकायनाः ॥ १५९ ॥
माण्डूकेयाः पार्षिकाः स्युः साङ्कप्रभायनाः स्मृताः ।
पैङ्गलायन सञ्ज्ञाश्च पैला दाध्रेषयस्ततः ॥ १६० ॥
ततो बाह्यकयो वैश्वानरयश्च विलोहिताः ।
बाह्यागोष्टायनाः ष्टैषकयो पाणिनयस्ततः ॥ १६१ ॥
वाद्भूतकाः काशकृत्स्ना ऋतभागैति शायनौ ।
वैहीनरयो वाल्मीकिः स्थौलपिण्डय एव च ॥ १६२ ॥
दधीचयश्च वापाणिस्ततः शैखावताः मताः ।
वाकायनाः सौकृतयस्ततो बालायना मताः ॥ १६३ ॥
सौविष्टयो माण्डविश्च ततो हस्ताग्नयो मताः ।
ततः शौद्धकयो ज्ञेया वैकर्णा द्रोणजिह्वयः ॥ १६४ ॥
जानायना औरक्षयाः काम्बरोदरयस्ततः ।
कठोरकृद्विरूपाक्षा देवमत्याश्चभैरविः ॥ १६५ ॥
वृकाश्वार्कायणौ चापि उच्चैर्मन्यव एव च ।
मार्कायणः शार्ङ्गरवो वायवापनयस्ततः ॥ १६६ ॥
काह्वायनाः कारबयस्ततश्चन्द्रमसो मताः ।
नोपेयाश्चैव गाङ्गेया याज्ञिकाः परिमण्डलिः ॥ १६७ ॥
बाहुमित्रायणा आपिशलयो रोहितायनाः ।
ततो वैष्टपुरेयाश्च उष्ट्राक्षास्त्वपरे मताः ॥ १६८ ॥
ततो राजित वाहाश्च ततः शारद्वतायनाः ।
नालायनाश्चवासाश्च वाना वात्या इति स्मृताः ॥ १६९ ॥
वत्सा एते स्मृताः पञ्च आर्षेया जामदग्नयः ।
भार्गवश्च्यावनश्चौ र्वाप्नुवानौ जमदग्नयः ॥ १७० ॥
ऋषयः पञ्चते ख्याताः प्रवर्या यागकर्मणि ।
विदाः शैलास्तथा शैलास्त्ववटास्तु पुलस्तयः ॥ १७१ ॥
प्राचीनयोगाः विज्ञेया वैनभूतास्ततो मताः ।
ततस्त्वभयजाताः स्युः काण्डरथय एव च ॥ १७२ ॥
आर्कायणस्तथा नाष्ट्रायणा कार्कायणास्ततः ।
क्रौञ्चायनाश्च जामालास्ततः प्रोक्ता भुजायनाः ॥ १७३ ॥
एते मताः विदा पञ्च आर्षेया जामदग्नयः ।
भार्गवश्च्यवनौर्वाप्नुवाना विदाश्च पञ्चते ॥ १७४ ॥
आर्ष्टिषेणा नैरथयो ग्राम्यायणव एव च ।
कणायनास्ततश्चान्द्रायणाः पौठिकलायनाः ॥ १७५ ॥
गौराम्भिराम्भी सिद्धाश्च तथा च सुमनायनाः ।
आर्ष्टिषेणा मताः पञ्च आर्षेया जामदग्नयः ॥ १७६ ॥
भार्गवश्च्यावनश्चाप्नुवानोरथानूपसञ्ज्ञकाः ।
आर्ष्टिषेणेन पञ्चेते ऋषयः प्रवरा मताः ॥ १७७ ॥
वत्सानमार्ष्टिषेणानां विदानां च परस्परम् ।
अविवाह इति प्रोक्त उच्यन्ते भृगवस्ततः ॥ १७८ ॥
यस्काश्च मौनो मूकश्च वाधूलो भास्करस्ततः ।
वर्ष पुष्यश्च वालेया स्ततो राजिततायनाः ॥ १७९ ॥
दुर्दिनो माध्यमेयाश्च दैवन्तायना अपरे ।
कौशाम्बेया वाकलयो वासयः प्रकीर्तिताः ॥ १८० ॥
सात्यकिस्चित्रसेनश्च कौटिल्यास्तत औक्थकाः ।
भागन्तयस्ततो वार्काश्वकयो भृगुरिन्धयः ॥ १८१ ॥
ततः स्युर्भोग चितय एते यस्तका इति स्मृताः ।
त्रियार्षेयाश्च विज्ञेया भार्गवाः प्रकीर्तिताः ॥ १८२ ॥
भृगुश्चैव तथा यस्को दिवोदास इति त्रयः ।
मित्रयुवस्ततो रम्यायणा दाक्षायणास्ततः ॥ १८३ ॥
सापिण्डिनो महावाल्या माल्या यावाल्यसञ्ज्ञकाः ।
पुराभिनाय एजेयास्ततो राक्षायणा मताः ॥ १८४ ॥
कैतवायनयो माञ्जायना मादायवः स्मृताः ।
एते मित्रयुवाः प्रोक्तास्त्रियार्षेयास्तु भार्गवाः ॥ १८५ ॥
भृगुश्च मित्रयुवश्च दिवोदास इति त्रयः ।
वैन्याः पार्था इति प्रोक्ता बाष्कला वैन्य सञ्ज्ञकाः ॥ १८६ ॥
त्रियार्षेया इति ख्याता भार्गवा द्विजसत्तमाः ।
भृगुश्च वैन्यपार्थौ द्वौ प्रवर्या ऋषयस्त्रयः ॥ १८७ ॥
शुनकः सौगन्धयो यज्ञपयो गार्त्समदा इति ।
गाङ्गायन मत्स्यगन्धाश्चैक्षाः स्युः खार्दमायनाः ॥ १८८ ॥
श्रोत्रियास्तैत्तरीयाश्च इत्येते शुनकाः प्रकीर्तिताः ।
एकार्षेयाश्च इत्येते शुनकाः प्रकीर्तिताः ॥ १८९ ॥
एकोऽपि शुनकः प्रोक्तस्त्वथ भार्गव एव सः ।
यस्कानां मित्रयुवानां वैन्यानां च परस्परम् ॥ १९० ॥
शुनकानां च सम्बन्धः कर्तव्य इति गम्यते ।
अथाङ्गिरस उच्यन्ते विष्णु वृद्धस्तु चादिमः ॥ १९१ ॥
भद्रणा भद्रणाश्चैव शठमार्षण सञ्ज्ञकाः ।
शाबरायणसञ्ज्ञाश्च सात्यकिः सात्यकायनाः ॥ १९२ ॥
बादरायणसञ्ज्ञाश्च वात्स प्रायण सञ्ज्ञकाः ।
आरुण्याश्चैव वैहोढा नैतुद्यास्तुत्य सञ्ज्ञकाः ॥ १९३ ॥
देवस्थानय इत्येते विष्णु वृद्धाः प्रकीर्तिताः ।
एते चाङ्गिरसः प्रोक्तास्त्रियार्षेया इति स्मृताः ॥ १९४ ॥
अङ्गिरा विष्णुवृद्धाश्च विष्णुदासत्रयः सदा ।
वैरुध्यश्च रुरुध्यश्च त्रासदस्युश्चते त्रयः ॥ १९५ ॥
कन्वा शैला वल्कलाश्च हलिनो मोजयाः परे ।
मौञ्जिश्च माञ्जयश्चैव मर्कटायन सञ्ज्ञकाः ॥ १९६ ॥
मौञ्जिगन्धस्ततः प्रोक्ता वाजयो वाजयास्ततः ।
मार्गश्रवस इत्येते कन्वा स्युस्त्रियार्षेयकाः ॥ १९७ ॥
अङ्गिराचाजमीढश्च कण्वश्च ऋषयस्त्रयः ।
हारिताश्च ततः कौत्साः साङ्ख्या दार्भास्तथैव च ॥ १९८ ॥
शैवाङ्गो शर्मनायुश्च लाबेदर महोदरौ ।
नैमिश्रेयो हैमगवस्ततो मिश्रोदरो ततः ॥ १९९ ॥
कौतपाः कौलयः कारीषयः पौलय एव च ।
पौण्डलश्चैव माधूपा मान्धाता माण्डकारयः ॥ २०० ॥
इत्येते हरिताः प्रोक्तास्त्रियार्षेया इति स्मृताः ।
आङ्गिराश्चाम्बरीषश्च यौवनाश्वश्च ते त्रयः ॥ २०१ ॥
ततः सङ्कृतयस्तण्डिः शम्भुश्च मलकास्ततः ।
पौन्यश्च शैभवस्तारकाद्याः परिभावस्तथा ॥ २०२ ॥
हारिद्रा वैतलेयाश्च ततः श्रोतायन मताः ।
चारायणाः पूतिभाषास्तत आग्रायणा मताः ॥ २०३ ॥
चान्द्रायणाश्चापर्षया अवग्रापय इत्यमी ।
प्रोक्ता सङ्कृतयस्त्वेते त्रियार्षेयाः प्रकीर्तिताः ॥ २०४ ॥
अङ्गिराः सङ्कृतिश्चाम्बरीषश्च ऋषयस्त्रयः ।
रथीतरास्ततः काह्वायनाः स्युर्नैतिरक्षयः ॥ २०५ ॥
शैलालयश्च लैभिश्च ततो लीभायना मताः ।
मैक्षवाहश्च सौवाहवाहाः स्युर्हस्तिवासयः ॥ २०६ ॥
ततो हेमशता ह्येते त्रियार्षेया रथीतराः ।
अङ्गिराश्चाम्बरीषश्च रथीतर इति त्रयः ॥ २०७ ॥
अङ्गिराश्च विरूपश्च पृषदश्वेति वा भवेत् ।
मुद्गलाश्च हिरण्याक्षा मिताक्षा ऋषयस्ततः ॥ २०८ ॥
ऋग्याः ऋग्यायनाः दीर्घजङ्घा जङ्घा समीरिताः ।
ततस्तोरण बिन्दुश्च मुद्गलाः कीर्तिता अमी ॥ २०९ ॥
त्रियार्षेयाः समुद्दिष्टाः कवचस्तैकिलादयः ।
हम्याश्वश्च समुद्दिष्टाः कपयो वैतलास्ततः ॥ २१० ॥
ऐतिशायन सञ्ज्ञाश्च तरस्विश्च पतञ्जलि ।
मिण्डिर्वै भोजसिश्चापि किञ्च शार्ङ्गरवस्ततः ॥ २११ ॥
ततः करशिखण्डश्च ततो मौषीन्तकिर्मतः ।
तथा सांशय इत्युक्ताः पौष्पयश्च ततो मताः ॥ २१२ ॥
त्रियार्षेया इमे ज्ञेया कपयः प्रकीर्तिताः ।
अङ्गिराश्च कपित्थाश्च अम्बरीष इति त्रयम् ॥ २१३ ॥
विष्णु वृद्धादयः सर्वेऽयोगिनः स्युः परस्परम् ।
राज्ञां विशां च वक्ष्येहं मनुश्चैल पुरुरवाः ॥ २१४ ॥
क्षत्रियाणां ततः प्रोक्तास्ततो लोहन्दने किलः ।
वात्सप्रमोदको वैश्ये नारासात्यादयोऽपि च ॥ २१५ ॥
आत्रेयश्चैव वाध्रेयो वाधूलश्चापि सङ्कृतिः ।
वसिष्टः शुनकश्चैव कण्वो यस्क इमेऽष्टच ॥ २१६ ॥
नारासात्याः समाख्याता मनुर्वा प्रवरस्त्विह ।
अथक्षत्रिय वैश्याना माचार्य प्रवरोऽपि वा ॥ २१७ ॥
समानगोत्रप्रवराञ्ज्ञात्वा सम्बन्धमाचरेत् ।
समानगोत्र प्रवरां कन्यां न वृणुयात्सदा ॥ २१८ ॥
ऊढा चेद्भगिनी यद्वन्मातृवृत्परिरक्षयेत् ।
तस्याश्च रक्षणङ्कार्यमाहाराच्छादनादिभिः ॥ २१९ ॥
विवाह दोषशुद्ध्यर्थं व्रतं चान्द्रायणं चरेत् ।
तयासह प्रमादेन संयोगाद्यं कृतं यदि ॥ २२० ॥
प्रायश्चित्ती सदा स स्यात्तद्विधानमिहोच्यते ।
सकृदागमने कुर्यात् तेन चान्द्रायणेन च ॥ २२१ ॥
सहस्राघोरहोमं तु द्विवारे द्वि सहस्रकम् ।
एवं योगाविवृद्ध्या तु होमवृद्धिरिहोच्यते ॥ २२२ ॥
मासोर्ध्वमाचरेत् कृच्छ्रहोमं चान्द्रायणान्वितम् ।
षण्मासादब्दपर्यन्तं पूर्वोक्तैस्सर्वमाचरेत् ॥ २२३ ॥
तदूर्ध्वमतिकृच्छ्रान्तैर्यावत्संवत्सरत्रयम् ।
निर्वाणाख्या तदूर्ध्वंस्यात् दीक्षासंसारमोचनी ॥ २२४ ॥
तदुद्भूताश्चये पुत्रास्ते सर्वेन द्विजा मताः ।
तत्पुत्रपौत्रसंयोगे प्रायश्चित्तं तदेव हि ॥ २२५ ॥
उपवासस्तदा स्नानं पञ्चगव्याशनं जपः ।
होमश्चैवमलंहन्ति सर्वसङ्करजं नृणाम् ॥ २२६ ॥
साये चाद्यन्तयोरहोर्मध्यमेऽह्नि च रात्रिके ।
चतुर्भुक्ति विहीनोय उपवास इति स्मृतः ॥ २२७ ॥
त्रिकालहीनो वा स स्याद्रात्र्यहोरात्रिषु क्रमात् ।
द्विकालहीनोवा क्षीणस्त्वानां दुर्बलात्मनाम् ॥ २२८ ॥
इति उत्तरकामिकाख्ये महातन्त्रे गोत्रनिर्णय विधिः
पञ्चविंशतितमः पटलः