२४ आचार्याभिषेक-विधिः

अभिषेकमथो वक्ष्येयेन स्यात् देशिकोभुवि ।
आर्यावर्तोद्भवः श्रीमान् सर्वलक्षण लक्षितः ॥ १ ॥
यत्र विप्राः सदाचाराः यतयश्च तपोधनाः ।
सन्ति देवाः तथा वेदाः आर्यावर्त इतिस्मृतः ॥ २ ॥
एषदेशो समादिष्टो न च विन्ध्याब्धि मध्यगः ।
ककाराष्टक निर्मुक्तः प्रसङ्ङ्गात् सोऽपि कथ्यते ॥ ३ ॥
कर्णाटश्च कलिङ्गाख्यः कच्छः काश्मीर सञ्ज्ञकः ।
कोङ्कणः करहाटश्च कुक्कुटः काङ्क ईरितः ॥ ४ ॥
आदिशैव कुलेजातः श्रेष्ठस्यात् स्थापनादिषु ।
विप्रादयश्चतुर्वर्णाः अपि योग्याः स्व कर्मणि ॥ ५ ॥
दीक्षायां सर्वमर्त्यानां पतिष्ठायामथोत्सवे ।
स्नपने प्रोक्षणेऽन्यत्र प्रायश्चित्तेऽभिषेचने ॥ ६ ॥
व्याख्यानादौ च शस्तस्यात् स्वार्थे वाथ परार्थके ।
सर्व देवार्चने विप्रास्त्वादि शैवो गुरूत्तमः ॥ ७ ॥
विप्रादयस्त्रयो वर्णाः दीक्षायां स्थापनेऽपि च ।
ब्राह्मणक्षत्रियादीनां क्षत्रियः शूद्र वैश्ययोः ॥ ८ ॥
वैश्यः शूद्रस्य दीक्षायां स्वस्यजातावपीष्यते ।
स्वार्थेष्टौ चल लिङ्गस्य प्रतिष्ठायां त्रयस्विमे ॥ ९ ॥
शूद्रोपि शूद्रदीक्षायां स्वार्थे च चलसञ्ज्ञके ।
बाणलिङ्गेक्षणेवापि स्थापको यदि नैष्ठिकः ॥ १० ॥
आचार्यं गौलकं चैव दयित परिवर्तकम् ।
तथैव पारवेत्तारं देवलं च पुनर्भवत् ॥ ११ ॥
अभक्ष्य भक्षकं चैव कुण्डं भस्माङ्कुरं तथा ।
खट्वाङ्गिश्यामदन्तौ चाप्यारूढं पतितं तु वा ॥ १२ ॥
अलसं वृषलं चैवं व्रात्यं वैश्यापतिं तथा ।
असच्छस्त्रकृतं क्लीबं व्याधितं कुनखं तथा ॥ १३ ॥
अथव्यसनिनं पारदारिकं वृषलीपतिम् ।
चित्रकं गायकं चैव नर्तकं च विवर्जयेत् ॥ १४ ॥
परराष्ट्र भृतं चैवाशुद्धबुद्धिं च तान्त्रिकम् ।
परापवाद शीलं च तथा बहुकिणैर्वृतम् ॥ १५ ॥
सूतकं कामुकं वैद्यं कुतर्कस्थं तथालभम् ।
बैद्धादि शास्त्रनिरतं सन्यासं व्रतिनं तथा ॥ १६ ॥
चपलं शठसञ्जारं वृद्ध्या जीवन मेव च ।
शुक्लकर्मरतं चैव न्याये वैशेषिकेपि च ॥ १७ ॥
साङ्ख्ये विविधभेदे च मायावादेऽर्हतो मते ।
बौद्धे लोकायते शास्त्रे मीमांसां विशषतः ॥ १८ ॥
अन्येष्वपि कुमार्गेषु कापाले पाञ्चरात्रके ।
सोमसिद्धान्तके वापि पूर्वाम्नाये तु पश्चिमे ॥ १९ ॥
भैरवे कौलशास्त्रे च शेषेष्वनाद्दतेषु च ।
सिद्धप्रमेय जाले च कृताशं च निरन्तरम् ॥ २० ॥
काव्य नाटकसक्तं च भरते तु निरन्तरम् ।
कामशास्त्रकृताभ्यासं पदव्युत्क्रान्तकं नरम् ॥ २१ ॥
ज्योतिज्ञानपरंवेद पुराणहित चेतसम् ।
तत् सिद्ध पुरुषार्थेषु कृतयत्नं परित्यजेत् ॥ २२ ॥
कामिकादि शिवज्ञानं वेदार्थज्ञानमेव च ।
समं यो मन्यते मोहात्तं प्रयत्नेन वर्जयेत् ॥ २३ ॥
शिव सिद्धान्त संसिद्ध ज्ञानयोग क्रियासु च ।
चर्यायां व स्व संसिद्ध प्रमेय शिवभाषिते ॥ २४ ॥
शैवार्थ देहिके हित्वा विचारं सन्ततं नरः ।
योध्यत्र कुरुते न्यासं दुर्मतिं च विवर्जयेत् ॥ २५ ॥
अन्यायेन शिवद्रव्य हारिणं हन्तृ सन्निभम् ।
अल्पविद्यामर्षकौ च विरूपं च विवर्जयेत् ॥ २६ ॥
दैवज्ञं च तथाम्बष्ट मूहापोह विवर्जितम् ।
समान गोत्र सम्बन्धं कुसुमाक्षं च वर्जयेत् ॥ २७ ॥
इत्युक्त लक्षणोपेतं शुद्धलग्नोदयेऽहनि ।
अभिषेकं ततःकुर्यात् अङ्कुरार्पण पूर्वकम् ॥ २८ ॥
पूर्वस्यां वाथ वैशान्यां पश्चिमायां चदिश्यथ ।
मण्डपे सौम्य वक्त्रे तु वितानेनोपशोभितम् ॥ २९ ॥
अर्धहस्तोच्छ्रयं तद्वद्युगाश्रं वेदिकाद्वयम् ।
चतुर्हस्त प्रविस्तारं दक्षिणोत्तर दिग्गतम् ॥ ३० ॥
स्वस्तिकेन चतुर्दिक्षु रञ्जितं दीपराजितम् ।
भुवः परिग्रहं कृत्वा मण्डपेग्नौ शिवं यजेत् ॥ ३१ ॥
लुप्तक्रियान्वितश्शिष्यो यदि संस्कृत्य दीक्षया ।
बहिरन्तर्बलिं दत्वा विधान मिद माचरेत् ॥ ३२ ॥
काञ्जिकोदन मृद्भस्म दूर्वा गोमय गौलकैः ।
सिद्धार्थदधि तोयैश्च निर्मृज्य तदनन्तरम् ॥ ३३ ॥
नवधा पञ्चधा वापि सर्वधान्यो परिस्थितान् ।
घटान्वा कलशान्वाथ सकूर्चान् सापिधानकम् ॥ ३४ ॥
स सूत्रान् सोदकान् गन्ध रत्न स्वर्ण वरान्वितान् ।
चूताश्वत्थ पलाशास्यान् बीजापूरफलावहान् ॥ ३५ ॥
सदेशानेन विद्येशैः नवपञ्चपवित्रकैः ।
पञ्चपक्षे निवृत्यादि कलाभिस्त्वभि मन्त्रयेत् ॥ ३६ ॥
शिवेन शतधालब्धान् पूजितान् स्नपनोचितान् ।
अथवा कलशानेकघटं वा शिव संयुतम् ॥ ३७ ॥
दक्षवेद्यां तु संस्थाप्य सौम्यायां तु शिशुं न्यसेत् ।
भद्र पीठे शिवेनैव साङ्गेनाधिष्टितं यथा ॥ ३८ ॥
स्वासनेन तथा सम्यक् अर्चितं विभवेन वा ।
वर्णभक्त शरावैस्तु निर्मज्य वा जलेन वा ॥ ३९ ॥
शुद्धोदकेन संस्नाप्य तस्मात् देशान्तरे पुनः ।
परि वर्तित सूत्राद्यं सोत्तरीयं समालकम् ॥ ४० ॥
सितचन्दनदिग्धाङ्ग भस्मोद्धूलितमेव च ।
आनीयं दक्षवेदिस्थो भद्रपीठे निवेशयेत् ॥ ४१ ॥
पूर्वास्यं गन्धपुष्पाद्यैः पूजयित्वा प्रवर्तयेत् ।
आरात्रिकं ज्वलद्दीपैस्सद्वर्त्या प्रतिबोधितैः ॥ ४२ ॥
ततोऽस्य दद्यादाचार्यः शिष्यस्योष्णिकादिभिः ।
करणीं कर्तरीं तद्वत् धटिकां स्रुक् स्रुवौपुनः ॥ ४३ ॥
दर्भं च पुस्तकान्यक्ष सूत्रमामकुटं गुरुः ।
पादुकां चामरं छत्रं हस्तिनं शिबिकादिकम् ॥ ४४ ॥
राजाङ्ग मन्यत् तत्काले दद्याच्छ्रद्धा समन्वितः ।
आज्ञां च श्रद्धया यावदद्य प्रभृति देशिकः ॥ ४५ ॥
दीक्षाव्याख्यादिकं ज्ञात्वा परिक्ष्य विधिना वुर्थ ।
तथैवं देव देवाय देशिकाय मयाकृतम् ॥ ४६ ॥
त्वत् प्रसादादविघ्नेन चाधिकारं करोत्विति ।
विज्ञापयेत् ततः कुण्ड सन्निधिं प्राप्य देशिकः ॥ ४७ ॥
निवृत्यादि कलानां तु पृथगेवाहुतिं नयेत् ।
स्व स्व मन्त्रैः ततः पूर्णां कृत्वा तद्दक्षिणे करे ॥ ४८ ॥
दर्भोल्मुखेन पञ्जाङ्गैः कनिष्टादिषु लाच्छयेत् ।
हरहस्तं च सङ्कल्प्य स्वाधिकारं समर्पयेत् ॥ ४९ ॥
तदर्थं विधिनानेन प्रयश्चित्तं समाचरेत् ।
शिवासनाङ्गमन्त्रैश्च पूज्यदेवस्य नामभिः ॥ ५० ॥
अङ्गैर्दशाहुतीर्हुत्वा शिवेनान्ते दशाहुतीः ।
तेनैव पूर्णां दत्वान्ते भगवन्तं क्षमापयेत् ॥ ५१ ॥
अनेनैव प्रकारेण साधकं चाभिषेचयेत् ।
किन्तु सध्यानुना लब्धै र्घटैरस्याभिषेचनम् ॥ ५२ ॥
दीक्षितः पुत्रकः प्रोक्तः संस्कृत स्समयी कृतः ।
सामान्य समयी यस्तु स तु माहेश्वरस्स्मृतः ॥ ५३ ॥
जात्युद्धार विहीनो यस्सामान्य समयी भवेत् ।
तद्युक्तस्तु विशेषस्यात् चाक्षुष्याद्यास्तु याः स्मृताः ॥ ५४ ॥
दीक्षास्ताभिस्समायुक्ताः परिचारक नामकाः ।
न तु लिङ्गार्चने योग्याः किमु दीक्षादि कर्मणि ॥ ५५ ॥
शापानुग्रह कर्ता चेत् गुर्वादीश्चैव दीक्षयेत् ।
शिवद्विज कुलोत्थाये ते च माहेश्वरा जनाः ॥ ५६ ॥
शिवेन दीक्षिताः पूर्वं सृष्ट्यादौ सर्व एव ते ।
मदर्चनार्थं तेषां च दीक्षा शुद्ध्यर्थमिष्यते ॥ ५७ ॥
शरीर बन्धनं यस्मात् प्रायश्चित्त मथाचरेत् ।
बहुधा दीक्षितोयस्तु शीघ्रं शिवमवाप्नुयात् ॥ ५८ ॥
भौतुको ब्रह्मचारी वा देशिको गृहमेधिनाम् ।
नैष्टिको नैष्टिकेषु स्यात् भुक्तौ मुक्तौ क्रमाद्यतः ॥ ५९ ॥
भुक्ति मुक्ति प्रसिद्ध्यर्थं गृहथो गुरुरिष्यते ।
सर्वानुग्राहकः प्रोक्तः सान्तानिक गुरुस्सदा ॥ ६० ॥
अनुलोम क्रमो वा स्यात् प्रतिलोमस्तु नेष्यते ।
योषित् युक्तस्स केशश्च जटारुद्राक्ष दण्डयुक् ॥ ६१ ॥
कौपीन मेखलाभिश्च परित्यक्तस्तुयो भवेत् ।
स गृहस्थ इति प्रोक्तः मुण्डिवा स्याज्जटादियुक् ॥ ६२ ॥
व्रती दार वियुक्तस्तु भिक्षाशी च तथा भवेत् ।
व्रती व्रताऽस मर्थो यो विधिना व्रतमर्पयन् ॥ ६३ ॥
पश्चात् कृतविवाहस्स व्रतार्पक इहेष्यते ।
सृष्ट्यानन्तर काले ये दीक्षिताः कौशिकादयः ॥ ६४ ॥
शिवेन तत्कुलोत्थाः स्युः शैवास्सान्तानिकाद्विजाः ।
आदिशैवास्तु ते ज्ञेयाः सर्वानुग्रहकामताः ॥ ६५ ॥
वर्णाचार व्रतास्तेषु तद्वियुक्तास्तु वा मताः ।
पक्षत्रय मधश्शायी नक्ताशी चरुभुक् सदा ॥ ६६ ॥
मौनी त्रिषवण स्नायी शिवाग्नि गुरु पूजकः ।
समूर्तिकं शिवं साङ्गमभ्यसेच्छक्तितो गुरुः ॥ ६७ ॥
आचार्य व्रतमेतस्यात् व्रतानामुत्तमं व्रतम् ।
आचार्यस्साधकश्चान्यः पुत्रकः समयीयतः ॥ ६८ ॥
लिङ्गाद्यं पूजयेन्नित्यं नान्यो नैमित्तिके मतः ।
प्रत्यहं समनुष्ठेयं तन्नित्यमिह कीर्त्यते ॥ ६९ ॥
स्नपनोत्सव शान्त्यादि कर्म नैमित्तिकं मतम् ।
प्रयाश्चित्ते स्वनित्योत्थे तस्योस्स्यादधिकारिता ॥ ७० ॥
स्वार्थ नैमित्तिके योग्यः पुत्रको न परत्र च ।
यदि सान्तानिकौ तौ हि सोऽसौ नैमित्तिकेपि च ॥ ७१ ॥
स्वार्थे वाथ परार्थे वा स्थापनादि विवर्जिते ।
आचार्याधिकृते कृत्ये सर्वस्मिन् स्थापनादिके ॥ ७२ ॥
तदङ्ग होम कर्मादौ योग्यौ तौ देशिकाज्ञया ।
स्थापनाद्यङ्ग भूतेषु मङ्गलाङ्कुरकादिषु ॥ ७३ ॥
अधिकार स्तयोरस्ति देशिकाज्ञा भवेद्यति ।
आचार्य सर्व योग्यस्याद्यदि सान्तानिको भवेत् ॥ ७४ ॥
साधकश्च तथा भूतस्सर्वकर्माणि शंसितः ।
महा शैवादयो योग्या दीक्षिता नित्यकर्मणि ॥ ७५ ॥
नैमित्तिकं कृतं तैस्तु यदि दोषाय कल्पितम् ।
लक्षाध्यायी गुरुश्रेष्ठः भुक्ति मुक्ति फलप्रदः ॥ ७६ ॥
मध्यमस्स्यात्तदर्धज्ञस्तत्पादज्ञोऽधमो भवेत् ।
संहिता पारगो वाथ लक्षाध्याय्युपदेशतः ॥ ७७ ॥
संहिता स्याच्चतुष्पादयुक्ता कामिक पूर्विका ।
शैवं चतुर्विधं प्रोक्तं शैवं पाशुपतं तथा ॥ ७८ ॥
सोमसिद्धान्तकं चैव लाकुलं च चतुर्विधम् ।
चतुर्वक्त्रान्महेशाच्च पुरुषाद्याननोद्भवम् ॥ ७९ ॥
पूर्वं पुर्वगुणोत्कृष्टं तत्र त्वेवं चतुर्विधम् ।
प्रत्येकं त्रिविधं प्रोक्तं वामदक्षिण भेदतः ॥ ८० ॥
सिद्धान्तास्येन तेषां च सिद्धान्तः श्रेष्ठ उच्यते ।
तत्रापि शैवसिद्धान्तः सर्वेभ्यो ह्युत्तमोत्तमः ॥ ८१ ॥
सिद्धान्तो मन्त्रतन्त्रं स्याद् अतिमार्गं ततोऽवरम् ।
अध्यात्मं यत्ततो नीचं तस्माद्वैदिकमेव च ॥ ८२ ॥
वैदिकाल्लौकिकं हीनं ब्रह्माद्याः पञ्चदेवताः ।
वक्तारो लौकिकादीनां तेषां भेद इहोच्यते ॥ ८३ ॥
सद्यमन्त्राद्विनिष्क्रान्तौ ब्रह्मनामखिलार्थ दृक् ।
तेन वै लौकिकं शास्त्रं मर्त्यलोकेऽवतारितम् ॥ ८४ ॥
शब्दशास्त्रमलङ्कारो निरुक्तं छन्द एव च ।
कौटिल्यं भारतं ज्योतिश्शास्त्रं वात्स्यायनादिकम् ॥ ८५ ॥
आयुश्शास्त्रं धनुश्शास्त्रं वृक्षायुर्वेद एव च ।
लोकायतं तथा साङ्ख्य मार्हतो मतमेव च ॥ ८६ ॥
मीमांसा दण्डनीतिश्च वार्ताद्यं लौकिकं मतम् ।
वाम मन्त्रोद्भवो विष्णुः कारणेशो द्वितीयकः ॥ ८७ ॥
तेन वैदिक मुद्दिष्टं त्वष्टादश पुराणकम् ।
धर्मशास्त्रं च वेदान्तं पाञ्चरात्रं च बौद्धकम् ॥ ८८ ॥
रुद्रोऽघोराद्विनिष्क्रान्तो स्वध्यात्मं च प्रणीतवान् ।
न्याय वैशेषिकं साङ्ख्यं सेश्वरं यत् प्रणीतवान् ॥ ८९ ॥
ईश्वरः पुरुषाज्जात स्त्वति मार्गं प्रणीतवान् ।
पञ्चार्थं लाकुलं तान्यत् तथा पाशुपतं मतम् ॥ ९० ॥
सदाशिवोहि भगवान् मन्त्र तन्त्र मपालयत् ।
ऋक्यजुस्सामाथर्वाश्च पुरुषाद्याननोद्भवाः ॥ ९१ ॥
पश्चिमं वाम सञ्ज्ञं तु वामाद्दक्षिणमुत्तमम् ।
दक्षिणात् कौलकं श्रेष्टं महाकौलं ततः परम् ॥ ९२ ॥
पूर्वाम्नायां ततःश्रेष्ठं तस्मात् सिद्धान्त उत्तमः ।
सिद्धान्तात् परमं ज्ञानं नेति शास्त्रस्य निश्चयः ॥ ९३ ॥
अन्यतन्त्रेषु येमुक्ताः सिद्धान्ते पशवो मताः ।
सिद्धान्तो वेदसारः स्यादन्यद्वेद बहिष्कृतम् ॥ ९४ ॥
सिद्धान्त विहिताचारो वैदिकाचार उच्यते ।
गर्भा धानादिकं कर्म यावच्छ्राद्धावसानकम् ॥ ९५ ॥
तावत्तु वैदिकं कर्म शैवं वाथ समाचरेत् ।
तस्यापि दीक्षा कर्तव्या जातकर्मादिका क्रिया ॥ ९६ ॥
युक्ता समयया स्त्री चेत् दीक्षया पुरुषेण च ।
दीक्षा युक्तेन सोढा वै तद्गर्भाधान मेव च ॥ ९७ ॥
तथा पुंसवनादिश्च शैव आवश्यको मतः ।
तत्पुत्रस्यापि कर्तव्या जातकर्मादिका क्रियाः ॥ ९८ ॥
क्रियास्तस्यापि कर्तव्याः पुरुषार्थ प्रसिद्धये ।
वैदिक्यादौ तदन्ते वा कर्तव्या लोकसंवृतौ ॥ ९९ ॥
भार्या दीक्षा विहीना चेत् तस्याः पुत्रस्य चोभयोः ।
वैदिक्येन क्रियाकार्या भर्ता यद्यपि दीक्षिताः ॥ १०० ॥
निकृष्टेष्वनुलोमेषु वैदिकी नेष्यते क्रिया ।
हित्वा सुवर्णं दैवज्ञं तथा स्याद् वैदिकी क्रियाः ॥ १०१ ॥
शैव कर्म समायुक्ता शैवे शैवी च केवला ।
श्रुतिस्मृत्यादि संसिद्ध मनुष्टानं तु यद्भवेत् ॥ १०२ ॥
आवश्यके वा शौचे वा स्नाने त्वाचमनेऽपि च ।
सन्ध्याया वन्दने वापि तर्पणे होमकर्मणि ॥ १०३ ॥
गर्भाधानादिके वापि दहने श्राद्ध कर्मणि ।
अष्टका करणे वापि नित्यनैमित्तिकेपि वा ॥ १०४ ॥
वेदाध्ययन संस्कारे सोमयागादिकेपि वा ।
वेदाध्ययनकादौ वा द्विजानां विहितं तु यत् ॥ १०५ ॥
तत्सर्वं कर्म कर्तव्यं न वावश्यं तु शैवकम् ।
कर्तव्यं त्वप्यनिष्टेयं शैवकर्म विरोधियत् ॥ १०६ ॥
विरुद्धं चेत् परित्याज्यं न तु शैवीं परित्यजेत् ।
सङ्ग्राह्यं वैदिकं सर्वं शैव वाक्याऽविरोधतः ॥ १०७ ॥
शैव वैदिक मेवोक्तं वैदिकं शैवमेव वा ।
वैदिकान्न बहिर्भूतं शैवं शैवात्तदप्यथ ॥ १०८ ॥
तथापि वैदिकाच्छ्रेष्टं शैवं शैवात्परम् नहि ।
सिद्धान्तं कामिकादिस्यात् नास्मात् परमनुत्तमम् ॥ १०९ ॥
शैवन्तु मूलभूतं स्यात् चतुर्वेदास्तमुद्भवाः ।
तदापि वैदिकं वेदसार मित्यादि वाक्यतः ॥ ११० ॥
शैवे प्रोक्तं च सर्वत्र तदर्थोक्तया मुनीश्वराः ।
सर्वेषां कामिकादीनां शिवदेहत्वमिष्यते ॥ १११ ॥
स शिवो द्विविधः प्रोक्तः सृष्टि संहार इष्यते ।
कामिकाद्वातुलान्तेन वातुलात् कामिकान्तकः ॥ ११२ ॥
कामिकं तूर्ध्वमकुटं योगजं पुरुषाह्वयम् ।
अघोर मकुटं चिन्त्यं वामगं कारणं भवेत् ॥ ११३ ॥
अजितं सद्यमकुटं दीप्तमीशानवक्त्रकम् ।
सूक्ष्मं तु पुरुषास्यं स्यात् सहस्त्रन्दक्षिणाननम् ॥ ११४ ॥
अंशुमान् वामवक्त्रं स्यात् सद्यास्यं सुप्रभेदकम् ।
विजयं कर्ण इत्युक्तो निश्वासं गलमुच्यते ॥ ११५ ॥
स्वायम्भुवं च हृदयं नाभिरत्रानलं भवेत् ।
वीरं कटि प्रदेशस्यात् रौरवं गुदमुच्यते ॥ ११६ ॥
मकुटं तूरूप्रदेशः स्यात् विमलं वामगो भवेत् ।
चन्द्रज्ञानं तदग्रं स्यात् दक्षस्थं बिम्बमन्यतः ॥ ११७ ॥
प्रोद्गीतं दक्षजानुस्यात् वामाङ्घ्रे र्ललितं भवेत् ।
जङ्घा सिद्धमिति प्रोक्तं सन्तानं वामगं भवेत् ॥ ११८ ॥
जङ्घाग्रं स्याच्च शार्वोक्तं वामकं पारमेश्वरम् ।
किरणं तल मित्युक्तं वातुलं वामकं तलम् ॥ ११९ ॥
सृष्टिभेदः शिवः प्रोक्तः संहारो विपरीततः ।
ऋषय ऊचुः
पूर्वं तन्त्रवतारे तु कामिकं पादयुग्मकम् ॥ १२० ॥
इत्यादि कथितं देव परस्परविरोधनम् ।
ईश्वर उचाच
बहुधा कथितं विप्राः भवद्भिरवधारितम् ॥ १२१ ॥
मम सर्वत्र मकुटं तथा नेत्रं तथाप्यकम् ।
तदा पादौ च हस्ताश्च किं तु ध्यातु विभेदतः ॥ १२२ ॥
सृष्टि संहार मार्गेण ममदेहो विभिद्ययत् ।
भोग मोक्ष प्रसिद्ध्यर्थं ज्ञानदेहो ममाग्रजाः ॥ १२३ ॥
निराकारं भवेज्ज्ञानं सङ्करं तदुपास्यतः ।
परस्पर विरोधीति मतिहीनैः प्रबाध्यते ॥ १२४ ॥
ऐश्वर्यं यद्भवेद्वाक्यं तत्पूज्यं मतमुत्तमैः ।
न पुम्भिरार्षकं वाक्यं दैविक मृषिभिस्तथा ॥ १२५ ॥
न देवैः ब्राह्मणो वाक्यं वैष्णवं पद्मजेन वा ।
न शैवं विष्णुना वाक्यं बाध्यते न कदाचन ॥ १२६ ॥
उत्तरोत्तर वैशिष्यं सर्वेषां परिकीर्तितः ।
कामिकाद्यजितान्ताश्च ईश वक्त्रसमुद्भवाः ॥ १२७ ॥
दीप्तादि सुप्रभेदान्ताः पुरुषाख्यान नोद्भवाः ।
विजयाद्वीरतन्त्रान्ताः पञ्चैतेऽघोरवक्त्रकाः ॥ १२८ ॥
रौरवान्मुख बिम्बान्ता वामदेव मुखोद्भवाः ।
प्रोद्गीताद्यष्ट तन्त्रं च सद्यवक्त्रसमुद्भवम् ॥ १२९ ॥
तन्त्रावतारे सद्यादि शब्दै ईशादयो मताः ।
अष्टाविंशति तन्त्रं त सोपभेदं च वेत्तियः ॥ १३० ॥
स गुरुश्शिव एव स्यात् श्रिणुयात् तं प्रयत्नतः ।
अन्येन गुरुणारब्धे तस्य स्यादधिकारिता ॥ १३१ ॥
विशिष्ट गुरुणारब्धे न हीनस्याधिकारिता ।
हीना रब्धे विशिष्टस्याधिकार कर्मणीरितः ॥ १३२ ॥
विशिष्टमरणादौ स्याद् गुर्वन्तर निवेशनम् ।
विशिष्टे विद्यमाने च हठादज्ञेन कारिते ॥ १३३ ॥
साहानिस्तन्महांश्छिद्र समूहश्चान्धमूकता ।
तेन राज्ञो बवेद्दोषो राष्ट्र स्यापि भयं भवेत् ॥ १३४ ॥
कर्तुः कारयितुश्चापि ग्रामस्यापि च दोषकृत् ।
लोकप्रख्यात विद्याय गुरवे दत्तमण्वपि ॥ १३५ ॥
द्रव्यं करोति सुमुखं सर्वलोकसमं यशः ।
ततो हि राज्ञो विज्ञेयं तद्दानं चोत्तमोत्तमम् ॥ १३६ ॥
तद्वित्तमाहृतं येन स पापी च स दुर्मतिः ।
नराधमस्स विज्ञेयः सर्वलोक बहिष्कृतः ॥ १३७ ॥

इति उत्तर कामिकाख्ये महातन्त्रे आचार्याभिषेक विधिः
चतुर्विंशतितमः पटलः

२४ ज्ञानदीक्षाविधिः

ज्ञानदीक्षामहं वक्ष्ये शृणुध्वं द्विजसत्तमाः ।
सुवारे सुदिने पक्षे सुमुहूर्ते विशेषतः ॥ १ ॥
एकान्ते निर्जने स्थाने मध्यरात्रवुपक्रमे ।
सच्छिष्याणां सदाचार्यो बोधं कुर्याद्विशेषतः ॥ २ ॥
शिवालये गुरुस्थाने शक्तिपीठे मठे गृहे ।
शुद्धदेशे सुखासीनः पञ्चगोचरसम्भवः ॥ ३ ॥
दर्भासने व्याघ्रचर्मे षट्पदे पीठमध्यमे ।
सद्गुरूणां सुखावासे वसेज्ज्ञानमनुस्मरन् ॥ ४ ॥
स्नानोपचारकाद्यैश्च दुकूलाभरणैरपि ।
गन्धपुष्पादिभिः पूज्य योगपीठस्य मध्यमे ॥ ५ ॥
पायसं चाप्यपूपं च ताम्बूलं च निवेदयेत् ।
षोडशेनोपचारणाभ्यर्चयेद्गुरुपादयोः ॥ ६ ॥
ज्ञानदीक्षां विशेषेण कुर्यात्सद्देशिकोत्तमः ।
शरीरमर्थं प्राणं च सद्गुरुभ्यो निवेदयेत् ॥ ७ ॥
दीर्घदण्डं नमस्कुर्यान्निर्लज्जो गुरुसन्निधौ ।
सच्छिष्ये तु विशेषेण बोधं कुर्यात्सदेशिकः ॥ ८ ॥
गन्ध पुष्करः स्थित्वा शिष्यमूर्ध्नि च कारयेत् ।
अर्चितं तु शिरोमध्ये पादं कारुण्य देशिकः ॥ ९ ॥
तत्पश्चाज्ज्ञान सद्भावमिदं शिष्यस्य बोधयेत् ।
प्रथमं तत्त्वरूपं च द्वितीयं तत्त्वदर्शनम् ॥ १० ॥
तृतीयं तत्त्वशुद्धिश्च चतुर्थं चात्मलक्षणम् ।
पञ्चमं चात्मसन्दर्शं षष्ठं स्यादात्मशोधमन् ॥ ११ ॥
सप्तमं शिवरूपाख्यमष्टमं शिवदर्शनम् ।
नवमं शिवयोगं च दशमं शिवभोगकम् ॥ १२ ॥
त्रित्रिभेदैश्चतुष्केण पति पाश पशु त्रयम् ।
गुरोर्वचनमात्रेण जीवन्मुक्तिप्रकाशकम् ॥ १३ ॥

इत्यर्थं दशकं ज्ञानमार्गेणास्य विधीयते ॥ १३१।२ ॥