२३ निर्वाण-दीक्षा-विधिः

निर्वाणाख्यां प्रवक्ष्यामि दीक्षां परममोक्षदाम् ।
आचार्यः कृतनित्यस्तु कृतमन्त्रादि तर्पणः ॥ १ ॥
कृत सूर्यार्चनः शुद्धः सकलीकृत विग्रहः ।
सामान्यार्घ्यकरो द्वार द्वारपार्चन संयुतः ॥ २ ॥
पश्चिमद्वार मार्गेण सम्प्रविश्य मखालयम् ।
कृत ब्रह्मार्चनः (शुद्धः) क्षेत्रे रक्षां कृत्वा विधानतः ॥ ३ ॥
भूतशुद्धिमणोर्न्यासं विशेषार्घ्यं च कृत्यवित् ।
कृत्वा ज्ञानाख्य खृड्गं च पञ्चगव्यं विधाय च ॥ ४ ॥
विकिरानभिमन्त्र्याथ भूमिशुद्धिं विधाय च ।
निक्षिप्य विकिरांस्तांश्च कुशैरीशे समाहरेत् ॥ ५ ॥
कुम्भं च वर्धनीं तत्र सम्पूज्य परितो गुरुः ।
लोकपालानथाभ्यर्च्य तेषाम् आज्ञां तु श्रावयेत् ॥ ६ ॥
भ्रामयित्वा घटास्त्रालू ज्ञानखड्गं समर्च्य च ।
मण्डले देव देवेशम् इष्ट्वाऽग्नौ तर्पयेन्मनून् ॥ ७ ॥
भगवन् देहमाविश्य मदीयमनु कम्पया ।
अनुग्रहस्त्वया कार्यः शिष्याणां भावितात्मनाम् ॥ ८ ॥
इति विज्ञाप्य लब्धाज्ञश्चोष्णीषम् शिरसि न्यसेत् ।
सर्वेषां कर्मणां साक्षी मण्डलस्थः सदाशिवः ॥ ९ ॥
यज्ञस्य रक्षकः कुम्भे पावके होम कारणम् ।
शिष्येतु पाशनाशाय मद्देहे पाशमोचकः ॥ १० ॥
पञ्चाधिकरणो देवः त्वमहमेव सदाशिवः ।
मन्त्राः कारणभूता ये शिवस्य हृदयादयः ॥ ११ ॥
ममापि ते तथैवेह स्वातन्त्र्यं स्वस्यचात्मनि ।
सम्भाव्याध्येषयेद्देवं प्राणैरन्तर्बहिस्थितैः ॥ १२ ॥
परीक्षितः समर्थोऽयं निर्वाणार्थ मुपस्थितः ।
उत्कृष्ट जातिरीशांशः समयेषु व्यवस्थितः ॥ १३ ॥
तदेतस्मिन् विमोक्षाय प्रसादः क्रियतां मम ।
पूर्णसङ्कल्पितार्थः सन् शिवशास्त्रोपबृंहितः ॥ १४ ॥
आरभ्य यागधाम्नस्तु प्रवेशं चाग्निसम्मुखम् ।
आत्मनः सव्यभागे तु कृत्वा शिष्यस्य वेशनम् ॥ १५ ॥
नाडी सन्धानकर्मज्ञस्तर्पणं पूर्णया सह ।
कृत्वा शिवादिमन्त्राणां दीपनं सम्यगोचरेत् ॥ १६ ॥
अघोर सम्पुटं कृत्वा शिवं साङ्गं फटन्तकम् ।
कुटिलभ्रू समायुक्तं सरालवदनान्वितम् ॥ १७ ॥
आहुतीनां त्रयं कार्यं मन्त्राणां दीपनं च यत् ।
कन्या विनिर्मितं सूत्रं त्रिगुणं त्रिगुणीकृतम् ॥ १८ ॥
अस्त्रेण प्रोक्षितं वर्म कुण्ठितं मूलमन्त्रतः ।
सम्पूज्य चोर्ध्वकायस्य शिखायां बन्धयेत्शिशोः ॥ १९ ॥
अङ्गुष्ठकाग्रपर्यन्तं तत्सूत्रमवलम्बयेत् ।
सूत्रं सुषुम्नारूपं तु ध्यात्वाशिष्यस्य देहतः ॥ २० ॥
सुषुम्नायै नमश्चेति सङ्गृह्यास्मिन् नियोजयेत् ।
सम्पूज्यगन्ध पुष्पाद्यैः वर्मणाचाव कुण्ठयेत् ॥ २१ ॥
सन्निधानाय मूलेन चाहुति त्रयमाचरेत् ।
शिष्यस्य हृत्प्रदेशं तु सम्प्रोक्ष्यास्त्रेण पुष्पतः ॥ २२ ॥
सन्ताड्य हृदयं तस्य रेचकेन प्रविश्य च ।
हुङ्कारम् उच्चरंस्तस्य चैतन्यं तारकाकृतिम् ॥ २३ ॥
हृद्ग्रन्थिमस्त्रमन्त्रेण छित्वा सङ्गृह्यमूलतः ।
द्वादशान्ते न्यसेत् शिष्य जीवं हृदय सम्पुटम् ॥ २४ ॥
सान्तं बीजं समुच्चार्य तस्मिन् संहार मुद्रया ।
सूत्रे नियोजयेत् वर्म मन्त्रेणैव अवकुण्ठयेत् ॥ २५ ॥
हुत्वाहुतित्रयं तस्य संविधानाय मूलतः ।
मलं च कर्ममायेयं भोक्तृ भोलशरीरजम् ॥ २६ ॥
शान्त्यतीतादिकं सूत्रे भाजयेत्स्वस्वमन्त्रतः ।
शान्त्यतीतां चतुर्थ्यन्तां हुफट्कारां शिवादिकाम् ॥ २७ ॥
पुष्पास्त्रेणैव सन्ताड्य शिष्यस्य शिरसि स्थिताम् ।
संहारमुद्रयाकृष्य शिवं प्रणव पूर्वकम् ॥ २८ ॥
शान्त्यतीतां चतुर्थ्यन्तां नमस्मकार समन्विताम् ।
उच्चार्य योजयेत्सूत्रे भ्रूमध्यान्तोपलक्षिते ॥ २९ ॥
अनेनैव क्रमेणाथ भूतशुद्ध्युक्तमार्गतः ।
कलाचतुष्टये कुर्यात्ताडनग्रहयोजनम् ॥ ३० ॥
गलश्वभ्रन्तनाभ्यन्तजान्वन्ताङ्गुष्ठकान्तिकम् ।
व्याप्यव्यापकभावं तु कुर्यात्तत्रविचक्षणः ॥ ३१ ॥
मन्त्राः पदानिवर्णाश्च तत्त्वानिभुवनानि च ।
व्याप्यानि व्यापकाः कर्ममलमायेयबन्धनाः ॥ ३२ ॥
व्याप्यामलादयश्चापि व्यापकास्तु कलास्मृताः ।
तासाञ्च सङ्ग्रहे तस्मात् सर्वेस्युः स्वीकृतास्त्विह ॥ ३३ ॥
स्थापिताभिश्च शुद्धाभिरहोपस्थापिता अपि ।
शुद्धा भवन्ति सर्वेस्युस्तस्मात्तच्छुद्धिरिष्यते ॥ ३४ ॥
तासाञ्च दीपनं कार्यमोङ्कारादि फडन्तकम् ।
अघोरबीजं मूलं च शान्त्यतीतकलामपि ॥ ३५ ॥
चतुर्थ्यन्तं समुच्चार्य हुङ्कारं तु समुच्चरन् ।
त्यक्त्वान्यासां च मूलं तु स्वस्वबीजं स्मरन् नयेत् ॥ ३६ ॥
आहुतीनान्त्रयं हुत्वा पाशबन्धनमाचरेत् ।
शिरः सन्ताड्यचास्त्रेण शिवमन्त्रं त्रिधास्मरन् ॥ ३७ ॥
भगवन् शान्त्यतीताख्यं मलकर्मसमन्वितम् ।
व्यापकं शान्ति तत्वादेः पाशं बन्ध पदद्वयम् ॥ ३८ ॥
हुम्फडन्तं समुच्चार्य सूत्रे ग्रन्थिं समाचरेत् ।
शिवं सम्पुटितं स्वस्वबीजं च भगवत् पदम् ॥ ३९ ॥
कलाचतुष्टयम्पाशं मल तत्वादिव्यापकम् ।
बन्ध बन्ध पदञ्चोक्त्वा हुम्फषन्त समन्वितम् ॥ ४० ॥
पृथक् पृथक् समुच्चार्य सूत्रेग्रन्थिं समाचरेत् ।
तत्सूत्रं च समादाय शरावयुग सम्पुटम् ॥ ४१ ॥
कृत्वासम्पात होमञ्च तत्सूत्रं मण्डलाधिपे ।
निवेद्य तस्य रक्षार्थं शिवकुम्भान्तिकं न्यसेत् ॥ ४२ ॥
प्रणतिं कारयित्वा च शिवेन शिवकुम्भके ।
आचार्यः शिष्यसहितो निःसृत्य मखमण्डपात् ॥ ४३ ॥
पञ्चगव्यं चरूं तेभ्यः प्रदद्यात् दन्धदावनम् ।
शुचौ सावरणे देशे विविक्ते लेपिते भुवः ॥ ४४ ॥
पृथङ्मण्डलकस्थेभ्यो भुक्तिमुक्तिव्यपेक्षया ।
भूतये पूर्ववक्त्रेभ्यः सौम्यास्येभ्यः विमुक्तये ॥ ४५ ॥
निर्णिक्तपादपाणिभ्यः प्रयतेभ्यो यथाक्रमम् ।
अन्तर्जानूपविष्टेभ्यः सकुशे दक्षिणेकरे ॥ ४६ ॥
उद्धृत्य दक्षिणेनैव सपवित्रेणपाणिना ।
चुलुकं पञ्चगव्यस्य दद्यादेकं हृदान्वितम् ॥ ४७ ॥
तत्पीत्वा प्रयतेभ्योऽथ तद्वदेव द्वितीयकम् ।
चुलुकं चापरं चापि दत्वा दद्यात्ततश्चरुम् ॥ ४८ ॥
अष्टग्रासप्रमाणन्तु पुटके ब्रह्मवृक्षके ।
मुमुक्षुभ्यो भुभुक्षुभ्यः कृते पिप्पल पत्रकैः ॥ ४९ ॥
अद्विज स्पर्शमेतस्य भक्षणानन्तरं पुनः ।
शुचिभ्यो दन्तकाष्ठैश्च क्षीर वृक्षसमुद्भवम् ॥ ५० ॥
कनिष्ठिकाङ्गुलस्थूलमृजुं सरसमव्रणम् ।
मङ्गलार्काङ्गुलान्मुक्तिभुक्ति लिङ्गप्रकाशकम् ॥ ५१ ॥
राजदन्त्राग्रसन्दंशचर्वितं धौतमग्रतः ।
आमुक्तं निपतेद्यत्र तेन विद्याच्छुभाशुभम् ॥ ५२ ॥
अग्न्यन्तक पलाशानां दिक्षु वायौ न शोभनम् ।
मुखपातोऽस्य शेषासु शोभनः कर्मणां वशात् ॥ ५३ ॥
इति ज्ञात्वा तु तत्पातमाचान्तास्तान् समाहितान् ।
स्वप्नाधिगमनेनैव सरक्षान् स्वापयेन्निशि ॥ ५४ ॥
सद्योगोमंयसंस्पृष्ट भूतल स्पर्शनीषु च ।
पूर्वयाम्योत्तमाङ्गासु शय्यासु कुशभस्मना ॥ ५५ ॥
परस्परमलग्नासु सोपधानासु पार्श्वतः ।
चतुर्दण्डिकयास्त्रेण गुप्तासु वितमस्सु च ॥ ५६ ॥
अस्त्राभिरक्षितास्वस्त्रजप्तासु शतसङ्ख्यया ।
हदारोप्य शिखाबद्धशिखान् वर्माभिमन्त्रितैः ॥ ५७ ॥
वस्त्रैराक्षादिताञ्छिष्यां स्तिलसर्षपभूतिभिः ।
अस्त्राभिमन्त्रितैस्तिस्त्रो रेखाः सङ्कल्प्य बाह्यतः ॥ ५८ ॥
स्वप्नमाणवकं मन्त्रमनुज्ञाय च तानथ ।
दत्वा बाह्यबलिं दिक्षु दिक्पतिभ्यो यथाक्रमात् ॥ ५९ ॥
चरूं दन्तधवादिष्टप्रतिकूलोपशान्तये ।
विषमार्चिषमादीप्य हुत्वा चैकैकतः शतम् ॥ ६० ॥
प्रायश्चित्तं ततो हुत्वा मूलेनाष्टोत्तरं शतम् ।
प्रक्षालिताङ्घ्रिहस्तस्तु स्वाचान्तः स्नानमम्भसा ॥ ६१ ॥
निर्वर्त्य भस्मना वापि परिवर्त्य सितांशुके ।
शिवीकृततनुर्ध्यात्वा समस्ताध्वतनुं शिवम् ॥ ६२ ॥
चरुकं पञ्चगव्यं च प्राशये द्दन्तधावनम् ।
पूर्ववत्प्रयतो भूत्वा शुद्धः स्वयमपि स्वपेत् ॥ ६३ ॥
अथ प्रातर्द्वितीयेऽह्नि कृतनित्यक्रियो गुरुः ।
शिष्यान् पृष्ट्वा निशास्स्वप्नान् दुःस्वप्ने शान्तिमाचरेत् ॥ ६४ ॥
घृतदूर्वामधुक्षीरैः शतहोमं च कापिलैः ।
शुभे पूर्ववच्छिष्यप्रवेशादिकमाचरेत् ॥ ६५ ॥
आहूय शिष्यान् कुण्डस्य समीपे स्वस्य दक्षिणे ।
अवल्म्ब्य च तत्सूत्रं शिष्यदेहेऽधिवासितम् ॥ ६६ ॥
करोम्यनुग्रहं देव शिशो रध्येषयेदिति ।
लब्धानुज्ञो न्यसेदग्नौ शक्तिमाधार रूपिणीम् ॥ ६७ ॥
निवृत्तिं विन्यसेच्छक्तौ कला तत्वादि संयुताम् ।
पृथिवी तत्वं क्षकारश्च मन्त्रौ हृदयसद्यकौ ॥ ६८ ॥
कालाग्निरथकु"माण्डं हाडकं ब्राह्मवैष्णवौ ।
रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्यस्थितानि षट् ॥ ६९ ॥
कापालीशो ह्यजोबुद्धो वज्र देहः प्रमर्दनः ।
विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥ ७० ॥
अग्निरुद्रो हुताशश्च पिङ्गलः खादको हरः ।
ज्वलनो दहनो बभ्रुः भस्मान्तकः क्षयान्तकः ॥ ७१ ॥
याम्यो मृत्युर्हरो धाता विधाता कर्तृसञ्ज्ञकः ।
संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ॥ ७२ ॥
निऋतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः ।
ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः ॥ ७३ ॥
बलो ह्यतिबलश्चैव पाशहस्तो महाबलः ।
श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥ ७४ ॥
मेघनादः सुनादश्च दशमः परिकीर्तितः ।
शीघ्रो लघुर्वायुवेगस्तीक्ष्णः सूक्ष्म क्ष्यान्तकः ॥ ७५ ॥
पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।
निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः ॥ ७६ ॥
लक्ष्मीधृग्रत्नधृक्छ्रीधृक् प्रसादश्च पकामदः ।
विद्याधिपेशौ सर्वज्ञो ज्ञानभुग्वेदपारगः ॥ ७७ ॥
सुरेशःशर्वो ज्येष्ठश्च भूतपालो बलिप्रियः ।
वृषो वृषधरोऽनन्तः क्रोधनो मारुताशनः ॥ ७८ ॥
ग्रसनोढुम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रिणौ ।
शम्भुर्विभुर्गणाध्यक्षस्त्रियक्षस्त्रिदशेश्वरः ॥ ७९ ॥
संवाहश्च विवाहश्च नभो लिप्सुस्त्रिलोचनः ।
वीरभद्रो भद्रकाली सर्वोर्ध्वे भुवनद्वयम् ॥ ८० ॥
कपालीशादयः प्राच्यामग्निरुद्रादयोऽनले ।
याम्याद्या दक्षिणे भागे निऋत्याद्याश्च नैऋते ॥ ८१ ॥
बलाद्या वारुणे भागे शीघ्राद्या वायुगोचरे ।
उत्तरे तु निधीशाद्या ईशे विद्याधिपादयः ॥ ८२ ॥
वृषादयस्त्वधोभागे शम्भुमुख्या नभोगताः ।
भुवनानां शतं चाष्टाधिकमेवं तु विन्यसेत् ॥ ८३ ॥
एकाशीतिपदेष्वन्त्यप्रणवादि विलोमतः ।
नमोद्वयं प्रणवं षडक्षरमतः परम् ॥ ८४ ॥
सर्वदश्च ततः शर्वशिवसूक्ष्मद्वयं तथा ।
शब्दद्वयं तथा ज्ञानद्वयं पिङ्गद्वयं तथा ॥ ८५ ॥
पतङ्गं च द्विरभ्यस्तं तुरुयुग्मपदं भवेत् ।
साक्षियुग्मपदं पश्चात्पूर्वस्थितमतः परम् ॥ ८६ ॥
अस्तुत अस्तुत इत्येवं ततश्चानर्चितानर्चित ।
ब्रह्मविष्णुरुद्रपर सर्वसन्निध्यकारकः ॥ ८७ ॥
सर्वभूतसुखप्रद भवोद्भवपदं ततः ।
भवयुग्मं तथा शर्वयुग्मं च प्रथमद्वयम् ॥ ८८ ॥
मुञ्च मुञ्च पदं योगाधिपते च पदं भवेत् ।
महातेजः पदं सद्भावेश्वरं चेति कीर्तितम् ॥ ८९ ॥
महादेवपदं पश्चात्पदान्यष्टौ च विंशतिः ।
निवृत्त्या व्याप्तमध्वानं तत्त्वाद्यं कलया स्मरेत् ॥ ९० ॥
ह्लां निवृत्तिकलायै च नमोऽन्तं प्रणवादिकम् ।
इत्युच्चार्य निवृत्तिं तु सूत्रात्सङ्ग्राह्य पावले ॥ ९१ ॥
आवाह्येष्वाहुतीनां तु त्रयं स्वाहान्तमाचरेत् ।
मलः कर्म च मायाख्यं भोक्तृभोगशरीरजम् ॥ ९२ ॥
भावयन् कल्पयेद्योनिरनन्ता देविगर्भगाः ।
तद्व्यापिकां च वागीशीं समावाह्य प्रपूजयेत् ॥ ९३ ॥
वागीश्वर्यै नमश्चेति हृत्पूर्वं प्रणवादिकम् ।
हुत्वाहुतित्रयं पश्चात्स्वाहान्तेनैव मन्त्रतः ॥ ९४ ॥
सन्निधीभव देवेशि पश्वनुग्रहकर्मणि ।
प्रार्थैवं शिष्यमस्त्रेण सम्प्रोक्ष्य हृदि ताडयेत् ॥ ९५ ॥
अस्त्राणुना फडन्तेन प्रणवेनान्वितेन च ।
स्वात्मनो रेचकेनैव तस्य देहे प्रविश्य च ॥ ९६ ॥
अस्त्रमन्त्रेण हृच्छेदं कृत्वा चाङ्कुशमुद्रया ।
आकृष्य मूलमन्त्रेण चाहुतित्रयमाचरेत् ॥ ९७ ॥
तृणाग्रबिन्दुवद्ध्यात्वा प्रणवेन पुटीकृतम् ।
सान्तबीजं समुच्चार्य शिशुं संहारमुद्रया ॥ ९८ ॥
पूरकेन हृदि स्वस्य सन्निवेश्य च कुम्भकम् ।
कृत्वा मूलं स्मरन् स्वस्य द्वादशान्ते नियोज्य च ॥ ९९ ॥
आदाय तस्माच्चैतन्यं मुद्रयोद्भव सञ्ज्ञया ।
सर्वासु योनिषु शिशोः संयोगं युगपन्नयेत् ॥ १०० ॥
स्वाहान्तमूलमन्त्रेण चाहुतित्रयमाचरेत् ।
भगवन् देव देवेश शिशोस्सर्वासु योनिषु ॥ १०१ ॥
संयोगं कुरु कुर्वत्र दीक्षाकर्मणि मोक्षदम् ।
निष्पत्यै सर्वगर्भाणां दद्यान्मूलहुतित्रयम् ॥ १०२ ॥
भगवन्नस्य शिष्यस्य गर्भनिष्पत्तिमत्रच ।
सर्वासु योनिषु कुरुकुर्वित्येवन्नयेद्विजाः ॥ १०३ ॥
ततस्तु जननार्थन्तु दद्यात् मूलहुतित्रयम् ।
भगवन् सर्वगर्भाणां जननं कुरु कुर्वणोः ॥ १०४ ॥
इत्युक्त्वा जननार्थं च पशोः वृद्ध्यर्थमेव च ।
मूलहुतित्रयं दत्वा शिवम्प्रतिवदेदिदम् ॥ १०५ ॥
भगवन् शिष्यदेहानां प्रवृत्तिं कुरु कुर्विति ।
कर्मार्जनाय मूलेन आहुतित्रयमाचरेत् ॥ १०६ ॥
भगवन् आत्मनो नानाभोगदं कुरु कुर्वथ ।
कर्मार्जनं पठित्वैवं विशेषो लोकधर्मिणि ॥ १०७ ॥
प्राक्कर्मागामिकं धर्मरूपं कर्मार्जनं कुरु ।
देशतः कालतश्चैव देहेन विषयेण च ॥ १०८ ॥
सञ्चितागामिभेदेन भोगन्नाना विधं स्मरन् ।
भोक्तृत्व लिङ्गितेपुंसि सुखदुःखात्मवेदनम् ॥ १०९ ॥
मूलाहुतित्रयं दत्वा शिवंसम्प्रार्थयेदिति ।
भगवन् भोगनिष्पत्तिं सर्वत्र कुरु कुर्वणोः ॥ ११० ॥
परमप्रीति रूपं च भोगेषु संस्मरन् ।
शिवाहुति त्रयं दत्वा परमप्रीति रूपकम् ॥ १११ ॥
लयञ्च कुरु कुर्वीति शिशोः निर्वाण कर्मणि ।
जात्यायुर्भोगसंस्कारशुद्ध्यर्थं निष्कृतावणोः ॥ ११२ ॥
हृदाहुति शतं हुत्वा नयेत्मूलाहुतित्रयम् ।
सर्वकर्मसु शुद्धिञ्च निष्कृत्या कुरु कुर्वणोः ॥ ११३ ॥
भगवन्निति विश्लेषम् भोगाभावादणोरिह ।
बहिर्निष्कामरूपन्तु मायापाशात् स्मरन्नयेत् ॥ ११४ ॥
मूलहुतित्रयं पश्चात् मलविश्लेषमाचरेत् ।
मलकार्यञ्च भोक्तृत्वंस्मृत्वा शुद्ध्यर्थमाहुतीः ॥ ११५ ॥
दश दत्वा हृदा पश्चात् दद्यात् मूलहुतित्रयम् ।
मलविश्लेष एवंस्यात् कर्म विश्लेष उच्यते ॥ ११६ ॥
अत्यन्ताभावरूपन्तु विश्लेषं कर्मणामिह ।
स्मृत्वाहुतित्रयं दद्यात् मूलमन्त्रं समुच्चरन् ॥ ११७ ॥
भगवन्नात्मनो मायाफल कर्मात्मकं त्विह ।
विश्लेषं कुरु कुर्वत्र तेभ्यो निर्वाणसंस्कृतौ ॥ ११८ ॥
ततो निवृत्तिपाशस्य व्यापिनस्तु मलादिषु ।
अस्त्राहुतित्रयं दत्वा शुद्ध्यै तस्य च मूलतः ॥ ११९ ॥
आहुतीनां त्रयं दत्वा निवृत्तिछेदननन्त्विह ।
भगवन् कुरु कूर्वत्रेति आज्ञां प्रार्थ्यैव माचरेत् ॥ १२० ॥
अशेषाणां शरीराणां नाशेत्वेकत्वमात्मनः ।
सम्भाव्य वौषडन्तेन दद्यात् पूर्णां शिवाणुना ॥ १२१ ॥
ॐब्रह्मणे नमश्चेत्यावाह्य सम्पूज्य तर्पयेत् ।
शब्दस्पर्शौ गृहणात्र ब्रह्मन् स्वाहेति मन्त्रतः ॥ १२२ ॥
आहुतीनां त्रयं दत्वा शिवाज्ञां श्रावयेत् ततः ।
कारणेशत्वयानास्य धातुः पदमनामयम् ॥ १२३ ॥
प्रतिबन्धो विधातव्यस्त्वाज्ञैषा पारमेश्वरी ।
ब्रह्माणं संविसृज्याथ शुद्धतत्वाग्र संस्थितम् ॥ १२४ ॥
निवृत्ति पाशनिर्मुक्तं शुद्धस्फटिकसन्निभम् ।
ध्यात्वाहुतित्रयं दद्यान्मूलमन्त्रं समुच्चरन् ॥ १२५ ॥
निवृत्तिपाशादुद्धारं पूरकेण भगवन्नस्य चात्मनः ।
कुरुकुर्वीति संहारमुद्रया पूरकेन तु ॥ १२६ ॥
कृत्वात्मस्थं ततस्सूत्रे कवचेन निवेशयेत् ।
आहुतीनां त्रयं दद्याच्छिशोः स्थित्यै शिवाणुना ॥ १२७ ॥
वागीश्वर्यै नमश्चेति सम्पूज्यैनां तु तर्पयेत् ।
आहुतीनां त्रयेणाग्नेः कार्यमस्या विसर्जनम् ॥ १२८ ॥
अथ सूत्रे प्रतिष्ठायां शुद्ध्यर्थमवलोकयेत् ।
त्रयोविंशतितत्वानि चापस्तेजोमरुद्वियत् ॥ १२९ ॥
गन्धो रसो स्पर्शौ शब्दोपस्थौ च पायु च ।
पादौ पाणी च वाङ्नासा जिह्वा चक्षुस्त्वचश्श्रुतिः ॥ १३० ॥
मनोऽहङ्कारबुद्धि च प्रकृतिः स्यात्ततः परम् ।
तत्वानि कथितान्येवं लादिटान्ताः द्विजोत्तमाः ॥ १३१ ॥
चतुर्विंशतिवर्णाः स्युः शिशो वामस्तथैव च ।
अघोर इति मन्त्रास्स्युष्षट्पञ्चाशत् पुराणि तु ॥ १३२ ॥
अमरेशः प्रभासश्च नैमिशः पुष्करोऽवधिः ।
डिण्डिमुण्डिस्तथा भारभूतिश्च लकुलीश्वरः ॥ १३३ ॥
हरिश्चन्द्रश्च श्रीशैलो जल्पेशाम्रातकेश्वरौ ।
मध्यमेशो महाकालः केदारो भैरवस्तथा ॥ १३४ ॥
गया चैव कुरुक्षेत्रं नाखलो नखलस्तथा ।
विमलेशोऽट्टहासश्च महेन्द्रो भीमसञ्ज्ञकः ॥ १३५ ॥
वस्त्रापदो रुद्रकोटिर विमुक्तो महालयः ।
गोकर्णोभद्रकर्णश्च स्वर्णाक्षः स्थाणुरित्यपि ॥ १३६ ॥
झगलण्डो द्विरण्डश्च माकोटो मण्डलेश्वरः ।
कालञ्चरः शङ्कुकर्णः स्थूलेश्वरः स्थलेश्वरः ॥ १३७ ॥
पैशाच राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च ।
सौम्यं चैव ताथाज्ञेयं प्राजेशं ब्राह्ममेव च ॥ १३८ ॥
अकृतश्च कृतश्चैव भेरवोब्राह्मवैष्णवौ ।
कौमारमौमं श्रैकण्ठमष्ट सप्तभवन्तिहि ॥ १३९ ॥
अमरेशादि चात्पत्वे हरिश्चन्द्रादितेजसि ।
गयादि वायु तत्वे च व्योम्नि वस्त्रापदादि च ॥ १४० ॥
झगलण्डाद्यहङ्कारे पैशाचाद्यं मनौस्थितम् ।
प्रकृतावकृताद्येवं षट्पञ्चाशत् पुराणानि तु ॥ १४१ ॥
महेश्वराद्यरूप्यन्ता पदानामेकविंशतिः ।
महेश्वर पदं चाद्यं परमात्मा द्वितीयकम् ॥ १४२ ॥
ततश्शर्वपदञ्चोक्तं शिवेति च ततः परम् ।
निधनोद्भवसञ्ज्ञं च निधनाख्य पदं ततः ॥ १४३ ॥
अनिधनपदं चैवम् ॐस्वक्षःपदमतः परम् ।
ॐभुवश्चपदं चान्यद्ॐभूः पदमतः परम् ॥ १४४ ॥
चतुर्धू निर्मितम् चान्यन्नाना नाना पदं ततः ।
अनादे तुपदं चान्यदभस्मेति पदं ततः ॥ १४५ ॥
अधूमपदमन्यच्च अनग्नीति पदं ततः ।
अरूपपदमन्यच्च ज्यातिर्ज्योतिस्तथैव च ॥ १४६ ॥
तेजस्तेजः पदं प्रोक्तुं प्रथम प्रथमेत्यपि ।
अरूपिन् पदयुग्मञ्च पदान्येकं च विंशतिः ॥ १४७ ॥
प्रतिष्ठाकलयाचैतत् सर्वं व्याप्तं तु भावयेत् ।
इत्युक्त सङ्ख्यत त्वार्णम्पदमन्त्रैस्त्रिविष्टपैः ॥ १४८ ॥
गर्भितां तामनुस्मृत्य सन्तधीतोपभुक्त्या ।
शुद्धं पाशं लघुं स्मृत्वा शोध्यं च गुरुमेतयोः ॥ १४९ ॥
वाचकं तद्वदुच्चार्य शोध्येशुद्धिं विलोकयेत् ।
सर्वसन्धानयोगाय चोपदिष्टश्शिवद्विजाः ॥ १५० ॥
ॐ ह्रां ह्रीं पूर्वमुच्चार्य चतुर्थ्यन्तं कलाद्वयम् ।
नमस्कारान्तमिष्ट्वान्ते दद्यान्मूलाहुतित्रयम् ॥ १५१ ॥
कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् ।
निष्कृतिं शिरसादद्याच्छत होमेन देशिकः ॥ १५२ ॥
हरेश्शुक्लं रसं दत्वा कलां विद्यां समाश्रयेत् ।
कलया विद्यया व्याप्तः पुरुषश्चादिमो भवेत् ॥ १५३ ॥
रागो नियतिविद्ये च कलाकालौ च मोहिनी ।
ञकारादिधकारान्ता वर्णास्सप्त विलोमतः ॥ १५४ ॥
मन्त्रश्शिखा पुराणीह सप्तविंशतिसङ्ख्यया ।
वामो भीमस्तथोग्रश्च भवेशानैकवीरकाः ॥ १५५ ॥
प्रचण्डोमापती चाजोऽनन्तैकशिवसञ्ज्ञकौ ।
क्रोधेशश्चवै संवर्तो ज्योतिः पिङ्गश्चादिमो भवेत् ॥ १५६ ॥
पञ्चान्तकैकवीरौ च शिखेदश्च महाद्युतिः ।
वामदेवो भवश्चैवोद्भवश्चाप्येकपिङ्गलः ॥ १५७ ॥
एकेक्षणस्तथैशानस्तथैवाङ्गुष्ठमात्रकः ।
षट्कं च पञ्चकं चैवं युग्मं युग्मं द्वयं द्वयम् ॥ १५८ ॥
अष्टकं पुरुषादौ च मायान्ते तु पुराणि हि ।
पदानि विंशतिर्व्यापिन् व्यापिन्निति पदं भवेत् ॥ १५९ ॥
व्योमिन् व्योमिन् पदं पश्चादीप्सितं स्यादचेतनम् ।
परमेश्वर परायेति पदं चैव पुनर्भवेत् ॥ १६० ॥
ज्योतिरूपायसञ्ज्ञं च सर्वयोगाद्यमेव च ।
पदं चानिधनायेति पदं गोप्त्रे प्रकीर्तितम् ॥ १६१ ॥
गुह्याय चातिगुह्याय पदं स्यादौ नमो नमः ।
पदं ब्रह्माणि पञ्चात्र सद्यादीनि क्रमेण तु ॥ १६२ ॥
शिवायेति पदं सर्वप्रभवेति ततः ।
शिवायेति पदं पश्चाद् ॐ पदमन्ततः ॥ १६३ ॥
ध्यानाहारायसञ्ज्ञं च कीर्तितानि पदानि च ।
सन्धानं पूर्ववत् कृत्वा विद्यामग्नौ निवेशयेत् ॥ १६४ ॥
निष्कृतिं शिखया दत्वा शतहोमं विधाय च ।
रूपगन्धौ हृहाणेति रुद्रे शुक्लं समर्पयेत् ॥ १६५ ॥
भवाख्यं पदमेतत्तु कलात्रितयगोचरम् ।
भवोत्तीर्णमथात्मानमात्मतत्वोपरि स्थितम् ॥ १६६ ॥
अधिकारमलाविष्टमुद्भवैश्वर्य भाजनम् ।
बुभोजयिषुराचार्यो भोगं शुद्धाक्षसाधनम् ॥ १६७ ॥
अनुकूलमसङ्कीर्णमनासक्तिनिबन्धनम् ।
विलोक्य मनसा शान्ति तस्यामन्तर्गतानि च ॥ १६८ ॥
तत्वानि त्रीणि विद्येशसादाख्यानि द्विजोत्तमाः ।
वर्णास्तु गखकाः प्रोक्ता मन्त्रौ वक्त्रतनुच्छदौ ॥ १६९ ॥
वामा ज्येष्ठा च रौद्री च काली कलविकरणी ।
बलविकरणी चैव बलप्रमथनीत्यपि ॥ १७० ॥
सर्वभूतदमन्येव मनोन्मन्यपरा भवेत् ।
पुराणि नव विद्यायामनन्तस्सूक्ष्मसञ्ज्ञकः ॥ १७१ ॥
शिवोत्तमैकनैत्रौ चाप्येकरुद्रस्त्रिमूर्तिकः ।
श्रीकण्ठश्च शिखण्डी चेत्येवमीशे पुराष्टकम् ॥ १७२ ॥
सादाख्यभुवनं स्वस्मिन् पुराण्यष्टादशैव तु ।
एकादशपदान्यासन्नित्यंयोगिन इत्यपि ॥ १७३ ॥
योगपीठाद्यमन्यत् स्याच्छाश्वतायपदं पुनः ।
ध्रुवायेतिपदं चैवानाश्रितायपदं ततः ॥ १७४ ॥
अनाथायपदं प्रोक्तमनन्तायपदं पुनः ।
शिवायेतिपदं सर्वव्यापिने च पदं ततः ॥ १७५ ॥
व्योमादिव्योमरूपाय पदं व्योमाद्यमेव च ।
निष्कृतौ शतहोमं तु कवचेन समाचरेत् ॥ १७६ ॥
सर्वं पूर्ववदुद्दिष्टं शुक्लार्थं बुद्ध्यहङ्कृती ।
ईश्वरः कारणेशस्स्यात् प्राग्वत्सर्वमतः परम् ॥ १७७ ॥
शान्त्यतीतकलायां तु शिवतत्त्वं व्यवस्थितम् ।
बीजं षोडशकं मन्त्राश्चास्त्रेशानशिवास्त्रयः ॥ १७८ ॥
ओमित्येकं पदं ज्ञेयं पुराणि दश पञ्च च ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिश्च नाभसी ॥ १७९ ॥
पुराणि बन्दवामीह पञ्च प्रोक्तान्यतः परम् ।
इन्धिका दीपिका चैव रोचिका मोचिका तथा ॥ १८० ॥
तथोर्ध्वगामिनी चेति नादोत्थभुवनानि तु ।
व्यापिनी व्योमरूपा चाप्यनन्ता च ततःपरम् ॥ १८१ ॥
अनाथा च तथा प्रोक्ताऽनाश्रिता पञ्चमीरिता ।
भुवनानि तु शाक्तानि पञ्चैव कथितानि च ॥ १८२ ॥
एभिश्च गर्भिणीं ज्ञात्वा सन्धानं शुद्धया नयेत् ।
ह्यौं हौं चतुर्थ्यन्तं कलाद्वयमुदाहरन् ॥ १८३ ॥
सम्पूज्य मनसा युक्तं दद्यान्मूलहुतित्रयम् ।
कलोपस्थापनाद्यं तु सर्वं पूर्ववदाचरेत् ॥ १८४ ॥
निष्कृतौ शतहोमं तु शिवमन्त्रेण कारयेत् ।
अस्त्रं त्यक्त्वा तु दीपेन पाशच्छेदाय होमयेत् ॥ १८५ ॥
ततो निर्बीजदीक्षायां पूर्णान्ते कारयेदिदम् ।
समयं समयाचारं शक्तो पाशात्मके न्यसेत् ॥ १८६ ॥
समयं समयाचारपाशशुद्धिं महेश्वर ।
शिष्यस्य कुरु कुर्वत्रेत्युक्त्वा शुक्लं समर्पयेत् ॥ १८७ ॥
शिवबीजं समुच्चार्य सदाशिवपदं पुनः ।
मनो हृहाण स्वाहेति चाहुतित्रयमाचरेत् ॥ १८८ ॥
पूर्ववत्संविसृज्यात्म सूत्रं सङ्गृह्य निर्मलम् ।
रेचकेनात्मसंस्थं तु शिष्यदेहे निवेशयेत् ॥ १८९ ॥
शिरस्युदकबिन्दुं च दत्वा वागीश्वरीं यजेत् ।
सन्तर्प्य पावकस्थां तु ततो विज्ञापयेदिति ॥ १९० ॥
पश्वर्थं खेदितोसि त्वं देवि गच्छ स्वगोचरम् ।
शान्त्यतीतां कलां शक्तितत्त्वे लीनां विचिन्त्य च ॥ १९१ ॥
आत्मतत्त्वं च मायान्तमुपस्थाप्य गुरूत्तमाः ।
आत्मतत्त्वं चतुर्थ्यन्तमादौ मूलसमन्वितम् ॥ १९२ ॥
नमः प्रणवसंयुक्तमुक्त्वा सम्पूज्य सन्निधौ ।
विधिवैकल्यशुद्ध्यर्थं स्वाहान्तं शिवमन्त्रतः ॥ १९३ ॥
सशब्दं तु शतं हुत्वा विद्यातत्त्वमुपांशुवत् ।
सदेशान्तमुपस्थाप्य हुत्वा चाष्टोत्तरं शतम् ॥ १९४ ॥
मन्त्रोच्चारणवैकल्याच्छिवमन्त्रेण शुध्यति ।
शिवतत्त्वमुपस्थाप्य शक्त्यन्तं मानसं स्मरेत् ॥ १९५ ॥
शतमष्टोत्तरं हुत्वा मनोवैकल्यमात्रतः ।
मुच्यते शिवमन्त्रेण शिखाच्छेदमथारभेत् ॥ १९६ ॥
अध्वान्तस्थां च सर्वाध्वव्यापिकामध्वकारणाम् ।
ध्यात्वा शिखां तदग्रस्थं शुद्धस्फटिकसन्निभम् ॥ १९७ ॥
सञ्चिन्त्य शिष्यचैतन्यं कर्तरीं शिखयालभेत् ।
छिन्धाच्छिखां तु शिखया ततस्संस्नापयेच्छिवम् ॥ १९८ ॥
आचम्य सकलीकृत्य गुरुर्गोमयवेष्टिताम् ।
स्रुगग्रस्थां शिखां पूर्णां हुत्वाहुत्या च पावके ॥ १९९ ॥
ततो बहिर्विनिःसृत्य स्रुक्स्रुवौ कर्तरीमपि ।
प्रक्षाल्याचम्य शुद्धस्तु शिवमिष्ट्वा वदेदिदम् ॥ २०० ॥
अध्वशुद्धिश्शिखाच्छेदस्त्वत्प्रसादान्मया कृतः ।
यावत्वयं परं धाम भगवन् परमेश्वर ॥ २०१ ॥
शिष्यं संयोजयाम्येनमाज्ञेदानीं विधीयताम् ।
एवं कुर्वित्यनुज्ञातः प्रकृष्टोऽर्घ्यकरो गुरुः ॥ २०२ ॥
समाहूय शिशुं यायाच्छिष्ययुक्तोऽग्निसम्मुखम् ।
शिष्यस्य प्रोक्षणं चैव सकलीकरणं ततः ॥ २०३ ॥
अन्तर्यागं ततो नाड्योस्सन्धानं मन्त्रतर्पणम् ।
सकलीकृतमन्त्राणामेकैकाहुतिदानतः ॥ २०४ ॥
सकलीकरणशुद्धिं च कृत्वा संयोजयेच्छिवे ।
विद्यातत्त्वास्पदाचार्यो बिन्दुकॢप्तासनस्थितः ॥ २०५ ॥
इन्धिका दीपिका चैव रोचिका मोचिका तथा ।
तथोर्ध्वगामिनी चेति सूक्ष्मा सुक्ष्मामृता मता ॥ २०६ ॥
बिन्दुशक्तिरिति प्रोक्ता नादशक्तिः कला द्विजाः ।
आभिः कलाभिस्सङ्कॢप्तदेहयुग्देशिकोत्तमः ॥ २०७ ॥
व्यापिनी व्योमरूपा चाप्यनन्ता ह्यपरा मता ।
अनाथानाश्रिता चेति बहिः करणसंयुतः ॥ २०८ ॥
अन्तः करणसंयुक्तस्समनाकल्पितं च तत् ।
आत्मतत्त्वोन्मनाश्शर्वे समापूरितदेहयुक् ॥ २०९ ॥
कृत्वा पूरककुम्भौ तु जिह्वासम्बद्धतालयुक् ।
ईषद्धयावृत्तवक्त्रः स दन्तैर्दन्तान्न संस्पृशन् ॥ २१० ॥
सम्यगुन्नतगात्रस्तु शिशुं संयोज्य चात्मनि ।
नाडीं सुषुम्नां प्राणाख्यवायुनैकीकृतां स्मरन् ॥ २११ ॥
सम्न्त्रं शिष्यचैतन्यं शुद्धस्फटिकसन्निभम् ।
सम्भाव्य मन्त्रमुच्चार्य कारणत्यागयोगतः ॥ २१२ ॥
शिवे संयोजयेच्छिष्यं पूर्णया कुम्भकेन तु ।
व्यावर्तितमनः प्राणदानशक्तिकलात्मनः ॥ २१३ ॥
समीपे स्रुक्स्रुवौ मुक्त्वा मृतं संहारमुद्रया ।
शुद्धमुद्यच्छिखाकल्पं वह्नेरादाय पुद्गलम् ॥ २१४ ॥
योजयेदस्त्रबीजेन शरीरे तस्य पूर्ववत् ।
तत्र युक्तोऽप्यसौ तेन न समानगुणीकृतः ॥ २१५ ॥
यावत्तावत् प्रयातस्य तत्वप्राप्तिर्यथा विभोः ।
साम्राज्याधिगमेऽप्युच्चैर्नृपसूनोः कृतार्थता ॥ २१६ ॥
न षड्गुण्यानभिज्ञस्य शतस्यापि न राजते ।
स्वगुणव्यक्तये तेन स्रुवेणाज्याहुतीस्तु षट् ॥ २१७ ॥
होमयेद् देशिको धीमान् प्रयोगेणामुना यथा ।
सर्वज्ञो नित्यसम्बोधः स्वतन्त्रस्तृप्तिमान् भव ॥ २१८ ॥
अलुप्तानन्तशक्तिस्त्वं ह्रस्वप्रासादपूर्वकम् ।
आत्मन्निति पदोपेतं स्वाहान्तं दीपसंयुतम् ॥ २१९ ॥
इत्येवं कथिता दीक्षा सर्वपापविमोचनी ।
चत्वारो ब्राह्मणाद्याश्चाप्यनुलोमाश्च ये मताः ॥ २२० ॥
न्यायजा गूढजाता वा दीक्षायामधिकारिणः ।
जामातृपितृपत्न्याद्याः योग्यास्स्युर्मोक्षकाङ्क्षिणः ॥ २२१ ॥
दीक्षकर्ता शिवो यस्मात्तेषां तस्मान्न पुत्रया ।
अन्त्यजानां न होत्री स्यात् किं तु तेषां तु चाक्षुषी ॥ २२२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे निर्वाणदीक्षाविधिस्त्रयोविंशतितमः
पटलः