अथ वक्ष्ये विशेषेण स्वप्नाध्यायं द्विजोत्तमाः ।
दीक्षापूर्वे च काम्ये वा लक्षयेत् स्वप्नमुत्तमम् ॥ १ ॥
तत्र हि प्रथमे यामे स्वप्नोयदि भविष्यति ।
लक्षयेदात्मनः काले फलभाक्त्वं द्विजोत्तमाः ॥ २ ॥
संवत्सरे तु सिद्धिस्यात् द्वितीये यामके यदि ।
षण्मासेनतु सिद्धिस्यात् तृतीये यामके यदि ॥ ३ ॥
मासेनैवतु सिद्धिस्यात् चतुर्थे यामके यदि ।
शीघ्रमेव फलं तस्य भविष्यति न संशयः ॥ ४ ॥
रश्मिमन्तं विवस्वन्तं शशाङ्कं तारकावृतम् ।
प्रदीप्तमग्निहोत्रञ्च प्रदीपमति भास्वरम् ॥ ५ ॥
मातरं पितरं दारान् पुत्रान् भ्रातृन् सुहृज्जनान् ।
यदि पश्येन्नरः स्वप्ने विपुलां श्रियमाप्नुयात् ॥ ६ ॥
चन्द्रार्क तारग्रसनं परिमार्जनमेव च ।
भक्षणं धारणं तेषां राज्यं सम्प्राप्नुयान्नरः ॥ ७ ॥
श्वेत पुष्पज मालानां धवलानां च पक्षिणाम् ।
सौवर्णानां खगानां च दर्शनाल्लभते श्रियम् ॥ ८ ॥
गन्धर्व नगरं वापि देवगन्धर्व योषिताम् ।
दर्शनात्प्रापणात्स्वप्ने विपुलां श्रियमाप्नुयात् ॥ ९ ॥
जातरूपमयं छत्रं श्वेतमाला विभूषितम् ।
चूतादि पुण्यवृक्षाणां सफलनां तु दर्शनम् ॥ १० ॥
तेषामारोहणं शस्तं तत्फलानां च सङ्ग्रहः ।
तेषां च भक्षणं शस्तं शैलहर्म्याश्वहस्तिनाम् ॥ ११ ॥
गो सिम्ह वृषभाणां च वीक्षणारोहणे हिते ।
सिंहासन चतुर्दन्ति शिबिकारोहणं शुभम् ॥ १२ ॥
सूर्येन्द्वग्न्युदधिव्योमधरित्रीशैल वीक्षणम् ।
तरणं निम्नगाम्भोधि काननानां जलस्य च ॥ १३ ॥
प्रशस्तं दोहनं कर्म महिषीणां गवामपि ।
सिंहीनां हस्तिनीनां च बान्धवानां स्ववेश्मनि ॥ १४ ॥
प्रसवो वाथ चैतासां भूतिलिङ्गमितिस्मृतम् ।
पयसः पाटलाया गोः पानं यद्वत्सलीलया ॥ १५ ॥
दध्नश्चापक्वमांसानां विष्ठापायस भक्षणम् ।
एतेषामपि लाभश्च प्रशस्तो मुनिपुङ्गवाः ॥ १६ ॥
सुधारुधिरमद्यानां पानं मत्स्यस्य भक्षणम् ।
एतेषां वीक्षणां वापि स्नानं वा रुधिरेण यत् ॥ १७ ॥
अम्भसा त्वभिषेकस्तु गवां शृङ्गस्रुतेन च ।
चन्द्रश्रुतेन वा राज्याभिषेकश्शुभमिष्यते ॥ १८ ॥
पशुसिम्ह गजानां च लाभो युद्धे विशेषतः ।
अध्यापनं च शास्त्राणामन्नलेपनमेव च ॥ १९ ॥
तृणदारूद्भवौ नाभौ कुसुमस्योदकस्य च ।
बहिर्शीर्षकर्हस्तत्वं सितमाल्यानुलेपनम् ॥ २० ॥
सिताम्बरत्वं विप्रस्य दर्शनं चाशिषश्शुभाः ।
श्वेताभस्य फलस्यापि व्यजनस्य ध्वजस्य च ॥ २१ ॥
सरोजस्यातपत्रस्य मणीनां दर्पणस्य च ।
दीपस्य चामरस्यापि शस्त्रस्यकमलस्य च ॥ २२ ॥
विमलस्याम्भसश्शस्तं दर्शनं हाटकस्य च ।
राज्ञश्च दर्शनं तेन भाषणं शुभदं मतम् ॥ २३ ॥
देवालयं सप्रतिमं दृष्ट्वा श्वेतां च गामपि ।
सागरं सरितो वापि तोययुक्ता श्रियं लभेत् ॥ २४ ॥
एतेषामपि पनेन राज्यं सम्प्राप्नुयान्नरः ।
शङ्खमाभरणं श्वेतवस्त्रं पुरुषमेव च ॥ २५ ॥
रूपयौवन सम्पन्नां श्रियंवा तादृशीमपि ।
उत्तमां श्रियमाप्नोति स्वप्ने दृष्ट्वा तु मानवः ॥ २६ ॥
कुमारं सर्पमुक्षाणं गजं दृष्ट्वा सुतं लभेत् ।
तृणं च विपुलं धान्यं गृहमग्नियुतं तथा ॥ २७ ॥
दृष्ट्वा स्वप्ने लभेल्लक्ष्मीं दृष्ट्वा शक्रध्वजं तथा ।
भूम्यम्बु वैरिग्रसनं शत्रूणां च वधक्रियाम् ॥ २८ ॥
जयं विवादद्युतादौ सङ्ग्रामे विजयं तथा ।
कृत्वा तु श्रियमाप्नोति भूमौ चन्द्र निवेशनम् ॥ २९ ॥
निर्मलं गगनं दृष्ट्वा ह्योदनाप्तिं मृतिं तथा ।
दृष्ट्वाग्निं सङ्ग्रहं कृत्वा लब्ध्वा वैराजचिह्नकम् ॥ ३० ॥
नरस्सुखमवाप्नोति तन्त्रीवाद्यस्य वादनम् ।
तयोरुल्लङ्घनं चैव रोदनं च शुभावहम् ॥ ३१ ॥
परस्त्रीणां च तथा लाभस्तथाऽऽलिङ्गनमेव च ।
निगलैर्बन्धनं धान्यं स्वदेहदहनं तथा ॥ ३२ ॥
निकृत्य च तनुं दिक्षुक्षेपणं शुभदं मतम् ।
स्वागतेनोरगेणाथ सिंहेनैवाथ भक्षणम् ॥ ३३ ॥
हृन्मूर्ध्नोदर्शनं शस्तं सस्यानां च विशषटः ।
पात्रे मणिमये वाथ राजते वाथ भोजनम् ॥ ३४ ॥
सौवर्णेपद्मपत्रेवा दध्नोवान्नस्य भोजनम् ।
लाभोवाहयशब्दस्य जय भुक्ष्वेति शब्दयोः ॥ ३५ ॥
मुद्रा भृङ्कार वृष्टीनां दर्शनं शुभदं द्विजाः ।
पिण्याको गोशकृत् शस्ता चोच्छ्रितं स्वात्मनो गृहम् ॥ ३६ ॥
बन्धुभिस्संवृतं दीप्तमात्मानं वेश्मसंस्थितम् ।
शिवाङ्कुराणि बीजानि तथा विद्याधरागमम् ॥ ३७ ॥
चिन्नाभ्यां रुधिराक्ताभ्यां पादाभ्यां स्वञ्च पश्यति ।
ऐश्वर्य शीघ्रमाप्नोति पुत्रांश्च लभते बहून् ॥ ३८ ॥
छिन्नस्याद्दक्षिणोहस्तः स्वप्ने यस्य सशोणितः ।
पुत्रं च लभते शीघ्रमायुष्मन्तं यशस्विनम् ॥ ३९ ॥
छिन्नं यस्यशिरः स्वप्ने दृश्यते रुधिराप्लुतम् ।
लभते क्षिप्रमारोग्यं धनं चास्य विवर्धते ॥ ४० ॥
सुवर्णाकृतिभिर्गात्रं स्वप्ने यस्य विशीर्यते ।
धनधान्यमवाप्नोति सर्वाभरण भूषितः ॥ ४१ ॥
आपणा जीवमात्मानं स्वप्नान्ते यस्तु पश्यति ।
वृद्धिं तस्य विजानीयादायुश्चास्य विवर्धते ॥ ४२ ॥
चक्रं च पूर्ण कुम्भं च श्रीवत्सं स्वस्तिकं तथा ।
सोमपानं तथा प्राश्य लभते वाच्छितं फलम् ॥ ४३ ॥
शिवागमादि शब्दानां श्रवणं धनदं भवेत् ।
गुरुप्राज्ञागमश्चापि शुभो वृश्चिक दर्शनम् ॥ ४४ ॥
देवद्विजमरुत्स्त्रीभिर्भाषणं शुभतं मतम् ।
ताम्बूलमञ्जनं बिल्वपत्रं कुङ्कुममण्डले ॥ ४५ ॥
पश्येदिष्ट्यादि करणं कुड्यगोष्ठक्रियामपि ।
उद्यानारामकरणं शुभप्रदमिहोच्यते ॥ ४६ ॥
आगम्यागमनं चैव सर्वगात्रेषु बन्धनम् ।
बन्धुभिर्घर्षणं धन्यं कन्यायाः पतिसङ्ग्रहः ॥ ४७ ॥
स्नानं शिवार्चनं वह्नेस्तर्पणं दर्शनं सताम् ।
गणानां विबुधानां च सुधापानं नभोगतिः ॥ ४८ ॥
इत्येवमादिकं स्वप्ने दर्शनं शुभशूचकम् ।
भूवस्त्रलाभ पर्यङ्कशय्या दाह्ॐबरस्य च ॥ ४९ ॥
आसनस्य च दाहो वा नावा रोहणमेव च ।
नवशुक्लाम्बरत्वं च तथा शुद्धोदनाशनम् ॥ ५० ॥
मधुनः पङ्कजस्येव जननं हननं स्वकम् ।
शङ्खपद्म निधेर्ल्लाभः शुभस्वप्नोयमीरितः ॥ ५१ ॥
दृष्टानामपि चैतेषां प्राप्तानां च कथञ्चन ।
अप्राप्तिरपहारश्च स्वप्नेऽनिष्टार्थसूचकः ॥ ५२ ॥
लिङ्गस्य प्रतिमाया वा भङ्गादौ नृपतेर्मृतिः ।
पिण्डिकाया महिष्यास्तु धाम्नो राष्ट्रस्य विभ्रमः ॥ ५३ ॥
बन्धूनां च क्षयः पुत्रनाशस्त्वग्नि प्रवेशनम् ।
हस्तध्वस्तफलं भस्म गुलशाकस्त्वनिष्टदः ॥ ५४ ॥
विदेशगमनं जातीस्थौल्यं व्याधि प्रपीडनम् ।
उद्दन्तता विनाशश्च मलिनत्वमशोधनम् ॥ ५५ ॥
सुवर्ण रजताङ्गार मुद्रविष्ठोद्गमोऽशुभः ।
चूर्णानां मूर्ध्नि कांस्यानां नग्नता मलिनाम्बरः ॥ ५६ ॥
अभ्यङ्गपतनं चोच्चाङ्डोलारोहस्त्वनिष्टदः ।
रक्तपुष्पद्रुमाणां च चण्डाल व्याध दर्शनम् ॥ ५७ ॥
भक्षणं पक्वमांसानां तैलस्य रुधिरस्य च ।
नर्तनं ग्रसनं चैव विवाहो गीतमेव च ॥ ५८ ॥
तन्त्रीवाद्यविहीनानां वाद्यनामपि वादनम् ।
स्त्रोतोनिमज्जनं यच्च स्नानं गोमयवारिणा ॥ ५९ ॥
पङ्कोदेनाथवा मातुः प्रवेशो जठरेऽशुभः ।
चितायां रोहणं शक्रध्वजस्य पतनं तु वा ॥ ६० ॥
सूर्या चन्द्रमसोस्तारा पतनं चाशुभप्रदम् ।
दिव्यान्तरिक्ष भौमानामुत्पातानां च दर्शनम् ॥ ६१ ॥
देव द्विजादि भूपालगुरूणां क्रोध एव च ।
आलिङ्गनं कुमारीणां पुरुषाणां च मैथुनम् ॥ ६२ ॥
हानिश्चैव स्वगात्राणां विरेकवमनक्रिये ।
दक्षिणाशाभिगमनं व्याधिनाभि भवस्तथा ॥ ६३ ॥
गृहणाञ्चैव पातश्च गृह सम्मार्जनं तथा ।
पीडापिशाच क्रव्यादैः वानरैश्च नरैरपि ॥ ६४ ॥
परादभिभवश्चैव तस्माच्च व्यसनोद्भवः ।
काषायवस्त्र धारित्वं तद्वत्स्त्रीक्रीडनं द्विजाः ॥ ६५ ॥
स्नेह पानावगाहौ च रक्तमाल्यानुलेपनम् ।
क्रीडनं च लिहा स्फोटः क्षुत् पिपासा परिश्रमः ॥ ६६ ॥
नक्षत्राणां ध्वजानां च श्रोतसां गमनं च वा ।
रज्जुच्छेदः प्रतापेतु वपनं श्मश्रु केशयोः ॥ ६७ ॥
नखस्य दीर्घतासेवा सेवनं च स्त्रियोपिवा ।
विरूपेण नरेणाङ्गमर्दनं चोत्सवेऽपिवा ॥ ६८ ॥
पशुक्रीडाण्डजानां च स्तब्धस्य च मृतस्य च ।
प्लवनं भग्नयानत्वमशुभाय भविष्यति ॥ ६९ ॥
सरसि क्रीडनं नृत्तं जतुभाण्डेन द्विजाः ।
द्रव्यस्य नाशः सुहृदो वियोगः श्यामवस्त्रता ॥ ७० ॥
छेदः पाण्यो सरोजस्यापहारो जीर्णवस्त्रता ।
प्रासाद वेश्म शृङ्गानामवतारस्तु नेष्यते ॥ ७१ ॥
कर्णे च नासिकादौ वा सर्पवेशप्रवेष्टने ।
कार्पासतिल मूलादि लोहानि लभते च यः ॥ ७२ ॥
स्वस्थश्च लभते व्याधितो मृत्युमृच्छति ।
भग्न ध्वजाधिकं भग्नं छत्रन्दृष्ट्वाऽशुभं लभेत् ॥ ७३ ॥
एकस्थ पुण्डरीकस्य धारणं तद्वदीरितम् ।
तथैवहसनं भुक्तिरोदनस्य तिलैः सह ॥ ७४ ॥
अधः शिरस्तस्या स्नानं तैले दन्तविदारिणम् ।
कुञ्चरस्य पृथिव्याश्च ज्वलनं जातवेदसा ॥ ७५ ॥
दारुणां पर्वतानां च पीठे कृष्णायसे द्विजाः ।
संस्थानं कृष्णवर्णत्वं रथे खर समन्विते ॥ ७६ ॥
यानं च कण्ठबन्धश्च शिंशुमाराहिपीठनम् ।
हीननृत्तसमजश्च नाभेरन्य प्रदेशके ॥ ७७ ॥
तृणवृक्षपशूनानां प्रोद्भवः क्रीडयापि च ।
खरेण कपिनोष्ट्रेण भोगो व्यालेन रौद्रकैः ॥ ७८ ॥
सत्वैरन्यैरनिष्टाय भवेत्कायस्य लेपनम् ।
स्नेहेन गोमयेनापि पङ्कैःकलुषवारिभिः ॥ ७९ ॥
नेष्टं जिह्वा भुजानां च रोम्णां विच्छेदतं नखैः ।
व्यालस्यारोहणं नेष्टं तदाघ्राणं न सम्मतम् ॥ ८० ॥
आघ्रायते यश्चभृशं श्वापदैर्विकृताननैः ।
सच दुःखमवाप्नोति पङ्कमग्रस्तथैव च ॥ ८१ ॥
परिष्वङ्गोऽथ यस्यापि प्रेतैः प्रव्रजितैरपि ।
अन्तावसायिभिर्योवा कृष्यते यमदूतकैः ॥ ८२ ॥
शाल्मलीं किंशुकं यूप चैत्यं वा परिभद्रकम् ।
पुष्पाढ्यं को वदारं वा योध्यारोहतिमानवः ॥ ८३ ॥
शोषणं कथिताख्यं च तोयपानं प्रमेहिणः ।
हरिद्राभोजनं चापि यद्भवेत्पाण्डुरोगिणः ॥ ८४ ॥
रक्तपित्तं पिबद्यश्च शोणितं स विनश्यति ।
भग्नयाना वरोहंश्च स्वप्नेऽलक्ष्मी प्रदो भवेत् ॥ ८५ ॥
आदित्यचन्द्रताराणां मलिनत्वमशोभितम् ।
पद्मं हव्यं कन्या वा भक्त्याकाशतो यदि ॥ ८६ ॥
ग्रहानां ग्रहणेनापि राज्ञो मरणमादिशेत् ।
दर्शनं चाशुभानां वा तैरेवालिङ्गनं तु यत् ॥ ८७ ॥
काकं गृध्रं तथाश्येनं पिशाचं राक्षसं तथा ।
पतन्तीं प्रतिमां वापि दृष्ट्वा व्यसनमाप्नुयात् ॥ ८८ ॥
पतन्तमुच्छितं केतुं पर्वतं वृषमेव वा ।
गृहं महत्तरं कुड्यं प्रधानमरणं भवेत् ॥ ८९ ॥
निर्वाणदीपं रजकं श्वित्रिणं द्यूतकारकम् ।
म्लेच्छं दृष्ट्वान्त्यजं वापि कृष्णदन्तं च दुर्मुखम् ॥ ९० ॥
कपालोन्मत्तवेषं च पुरुषं वा स्त्रियं च वा ।
कृष्णां सशूलां स्वप्नान्ते सद्योमरणमश्रुते ॥ ९१ ॥
निहतं च तथात्मानं ताभ्यां दृष्ट्वा तथा भवेत् ।
अश्वमुष्ट्रं खरं वापि महिषं श्वानमेव च ॥ ९२ ॥
सृगालं महिषीं तैलं दुर्वर्णं वायसं वृकम् ।
वृषं वराहं मार्जारमुलूकं कृष्ण सर्पकम् ॥ ९३ ॥
कृष्णकीटं च गाङ्कृष्णां पश्येच्चेद्भयमाप्नुयात् ।
एतेषां स्पर्शने वापि ग्रहणे रोहणे तथा ॥ ९४ ॥
काञ्चनस्यापि वृक्षस्य दर्शनं मरणप्रदम् ।
वह्नियान रथादीनां छत्रादीनां च भग्नता ॥ ९५ ॥
विधवा दर्शनं चापि तत्सङ्गेन धनक्षयः ।
धूमायमानमात्मानं शिरोमुण्डनमेव च ॥ ९६ ॥
बद्धमन्यैर्निरुद्धं वा पश्येच्चेद्भयमाप्नुयात् ।
यवागू मारनालं वा पिपेद्धन विनाशनम् ॥ ९७ ॥
तण्डुलं पक्वमांसं वा तुषमङ्गारकोषरे ।
मुद्गं माषं मरीचं च सर्षपं पश्यतोऽशुभम् ॥ ९८ ॥
कुण्डादौ पतनं नेष्टं तथा केश विकीर्णता ।
वर्तितैलतिलादीनामञ्जनालेपनं तथा ॥ ९९ ॥
अन्धकारनिवेशस्तु महामार्गगतिस्तुवा ।
सन्न्यासि प्रेतकैः सार्धं कुण्डकादिषु वेशनम् ॥ १०० ॥
तारं च भक्ष्येद्वाथ शवं वा भक्षयेद्यदि ।
रक्तवर्णं तु यद्द्रव्यं कृष्णं वा न प्रशस्यते ॥ १०१ ॥
अशुभं च भवेद्रकं कृष्णवस्तु प्रकीर्तितम् ।
अन्यत्र शोणितान् पद्मात् पलाशाद्रक्त चन्दनात् ॥ १०२ ॥
तथा च रजकश्वत्रिद्यूतकम्लेच्छकारिणः ।
पश्येत्पाषण्डिनो वापि नशुभं तस्य जायते ॥ १०३ ॥
वल्मीकदर्शनं शुष्क विषवृक्षस्य दर्शनम् ।
भूतानां रोदनं नेष्टं वृक्षाणां पतनं क्षणात् ॥ १०४ ॥
देवताश्च द्विजातिश्च पितरो योगिनो नृपः ।
यद्वदन्ति नरं स्वप्ने तत्तथैव भविष्यति ॥ १०५ ॥
एष्यत्कर्मविपाकस्य शुभस्याप्य शुभस्य च ।
लिङ्गं स्वप्नोविधितस्य न क्वचिद्धातु दोषजः ॥ १०६ ॥
यद्धातु प्रकृतिर्येन धातुना वापि दूषितः ।
तद्विकारं ननु स्वप्ने प्रत्यक्षानिव पश्यति ॥ १०७ ॥
यश्च सुप्तोऽर्थमादृत्य दृष्टं वा यदि वा श्रुतम् ।
तच्चिन्ता सन्ततिः स्वप्ने प्रत्यक्षेवावभासते ॥ १०८ ॥
तद्द्वयं स्वप्नविज्ञानं नाभिप्रेत मिहागमे ।
दृष्टाक्षदूर विज्ञेय व्यभिचारि प्रकाशवत् ॥ १०९ ॥
समधातुरतः स्वप्ने यत्पश्यति शुभाशुभम् ।
प्रणिधानविनिर्मुक्त स्तत्सत्यं नाविशेषतः ॥ ११० ॥
अशुभं वा शुभं स्वप्नम् आचार्याय निवेदयेत् ।
द्विजाति प्रक्रमेणैव वयसा वा धनेनवा ॥ १११ ॥
आचारेणाथ धर्मेण विद्यया वाथ यस्यतु ।
श्रेष्ठत्वं विद्यते विप्राः सर्वादौ निवेदयेत् ॥ ११२ ॥
अनेनैव क्रमेणाथ स्वंस्वं स्वप्नं निवेदयेत् ।
आचार्यानुज्ञया वाथ ज्येष्ठत्वं तेषु कीर्तितम् ॥ ११३ ॥
ब्राह्मण समयाख्येन संस्कारेण समन्वितः ।
निर्वाण दीक्षया युक्तः शूद्रो द्वावेकभागिनौ ॥ ११४ ॥
नियोगो यस्य तन्मध्ये स एव गुरुमाश्रयेत् ।
आदौ समानदीक्षायां सत्यामपि च यत्र तु ॥ ११५ ॥
नियोगः स शिशुः पूर्वं नमस्कुर्याद् गुरूत्तमम् ।
जात्यादि साम्ये संस्कार साम्ये सत्यपि यत्र तु ॥ ११६ ॥
नियोगो देशिकस्यासीत् स चादौ गुरुमाश्रयेत् ।
परस्पर नमस्कारेऽप्येवमेव क्रमोमतः ॥ ११७ ॥
ज्येष्ठत्वेऽप्यस्य संस्काराद्येषां तैर्गुर्वनुज्ञया ।
न सम्मान्यो नमस्कार प्रमुखैः कारणाद्गुरोः ॥ ११८ ॥
एकदेशिक शिष्याणा माचारः परिकीर्तितः ।
किमत्र बहुनोक्तेन यदुक्तं देशिकेन तु ॥ ११९ ॥
तदेव सर्वदा कार्यं शिष्यैः श्रोयोभिकाङ्क्षिभिः ॥ १९९१।२ ॥
इति उत्तरकामिकाख्ये महातन्त्रे स्वप्नाध्याय विधिः द्वाविंशतितमः
पटलः