स्थालीपाकविधिं वक्ष्ये नैवेद्यचरुकल्पने ।
स्थालीं ताम्रमयीं वाथ मृण्मयीं लक्षणान्विताम् ॥ १ ॥
प्रक्षाल्य पात्रमस्त्रे कवचेनावकुण्ठ्य च ।
निरीक्ष्य प्रोक्ष्य चाभ्युक्ष्य सन्ताड्यालिप्य गन्धतः ॥ २ ॥
कण्ठे संवेष्ट्य कौशेन रज्जुना वर्मरूपिणा ।
मण्डले गोमयालिप्ते प्रोक्षिते शस्त्रवारिणा ॥ ३ ॥
वर्माकुण्ठिते पात्रे मन्त्रविन्यस्तदर्भके ।
षडुत्थमासनं चेष्ट्वा तां न्यसेन्मूर्तिरूपिणीम् ॥ ४ ॥
शिवं सावरणं तत्रावाह्य सम्पूज्य सन्त्यजेत् ।
पुष्पाद्यमाज्येनाभ्यज्य वस्त्रपूतं पयो न्यसेत् ॥ ५ ॥
चुल्लीमस्त्रेण चोल्लिख्य तेन प्रोक्ष्यावकुण्ठ्य च ।
सम्मृज्य चोपलिप्याथ धर्माधर्मद्वयं यजेत् ॥ ६ ॥
दक्षवामस्थ भुजयोश्शिवाग्निं मध्यमे न्यसेत् ।
आसनं प्रणवं कृत्वा तां तस्यामधिरोपयेत् ॥ ७ ॥
द्विप्रस्थमाढकं वापि पञ्चप्रसृतिनिर्मितम् ।
चतुर्थं कल्पयेद्धीमान् शालीतण्डुलकादिकम् ॥ ८ ॥
चालनोद्घाटनेऽस्त्रेण कृत्वघोरमनुस्मरन् ।
विपचेत्पूर्ववक्त्रस्सन् मध्यपक्वं यथा भवेत् ॥ ९ ॥
उष्णे तप्ताभिघारस्स्यात् शीते शीताभिघारणम् ।
स्वान्तया मन्त्रसंहत्या शिवहव्यवहे पुरा ॥ १० ॥
हविष्यान्ते च हेत्युक्त्वा सुस्स्विन्नो भव इत्यपि ।
तप्ताभिघार एवं स्यात् द्वितीये मण्डले ततः ॥ ११ ॥
प्रोक्षणादि समायुक्ते पूजितेऽप्यवरोप्य ताम् ।
सुशीतले भवेत्येवं वौषट्पल्लवया तथा ॥ १२ ॥
शीताभिघार एवं स्यान्मन्त्रसंहितया भवेत् ।
सम्मृज्य च मृदम्भोभ्यां स्थालीं सुरभिमुद्रया ॥ १३ ॥
अमृतीकृत्य कुण्डस्य पश्चिमे पूर्वमण्डले ।
पूजिते हृदयेनेष्ट्वा चाङ्गैरेकैकशः क्रमात् ॥ १४ ॥
शिवेनाष्टोत्तरशतं सम्पातं पूर्ववन्नयेत् ।
एवं सम्पादितेनैव चरुणा होम-इष्यते ॥ १५ ॥
तण्डुलेनाम्भसा चाथ चरुं नित्यं विपाचयेत् ।
हविष्यचतुरंशेन होमकर्माथवा मतम् ॥ १६ ॥
होमावशिष्टं देयं स्यादाचार्याय प्रयत्नतः ।
पञ्चगोचर संस्थाय समस्तागमवेदिने ॥ १७ ॥
शिष्टमन्यप्रदत्तञ्चेद्धोमो निष्फल एव हि ।
शेषहीने चरोर्होमे सहोमः स्यादनिष्टदः ॥ १८ ॥
हविषो न्यूनवेदांशश्चरुर्वा होमकर्मणि ।
आद्यांशो दैविकः प्रोक्तो द्वितीयो होमकर्मणि ॥ १९ ॥
परिवारे तृतीयः स्याच्चतुर्थो देशिकाय हि ।
पृथक् चरुश्चेन्नैवेद्यं सर्वमीशे निवेदयेत् ॥ २० ॥
प्राणाग्निहोत्रं कर्तव्यं साधकैः फलकाङ्क्षिभिः ।
एतेषामन्यथाभावे सर्वं भवति चान्यथा ॥ २१ ॥
इति उत्तरकामिकाख्ये महातन्त्रे स्थालीपाकविधिः
एकविंशतितमः पटलः