अथेदानीं प्रवक्ष्यामि दीक्षां समय संश्रिताम् ।
आचार्य कृतनित्यस्तु कृतमन्त्रादि तर्पणः ॥ १ ॥
कृतभान्वर्चनश्शुद्धः कृतमन्त्र परिग्रहः ।
सामान्यार्घ्यकरो भूत्वा प्रविशेद्यागमण्टपम् ॥ २ ॥
द्वाराण्यस्त्रेण सम्प्रोक्ष्य द्वारद्वाराधिपान्यजेत् ।
आदौ शान्तिकला शब्दद्वाराय नम इत्यपि ॥ ३ ॥
पठित्वा पूजयेत्पूर्वद्वारं विद्याख्यदक्षिणम् ।
वारुणं च निवृत्याख्यं प्रतिष्ठाख्यमुदाहृतम् ॥ ४ ॥
प्राच्यां नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ ।
पश्चिमे तु वृषस्कन्दौ देवीचण्डावुदग्दिशि ॥ ५ ॥
प्रणवादिनमोऽन्तं तु चतुर्थ्यन्तं क्रमाद्यजेत् ।
तोरणस्थान् घटस्थान् वाभित्तिस्थानपि पूजयेत् ॥ ६ ॥
पश्चिमद्वारमाश्रित्य पुष्पक्षेपं विधाय च ।
अस्त्रेण पार्ष्णिङ्घातस्य त्रयं कृत्वाथ भूगतान् ॥ ७ ॥
कृत्वा ताकत्रयं मन्त्री विघ्नानाकाशवर्तिनः ।
छोटिकात्रयतो विघ्नात् धाम्नः प्रोत्सारयेद्बहिः ॥ ८ ॥
दक्षजङ्घां समुक्षिप्य वामशाखाश्रयी विशेत् ।
अस्त्रेणोदुम्बरे पुष्पं क्षिप्त्वा धाम्नश्च मध्यमे ॥ ९ ॥
वास्तोष्पतये चेति ब्रह्मणे नम इत्यपि ।
सम्पूज्य गन्धपुष्पाद्यैरस्त्रप्राकारकल्पनात् ॥ १० ॥
वर्मावकुण्ठनाद्यागगेहं संरक्ष्य देशिकः ।
उपविष्ट उदग्वक्त्रो भूतशुद्धिं समाचरेत् ॥ ११ ॥
सकलीकरणं कृत्वा कृतान्तर्यजनोगुरुः ।
विशेषार्घ्यं ततः कुर्याद्यवसिद्धार्थकाक्षतैः ॥ १२ ॥
अद्भिस्तिलकुशाग्रैश्च क्षीरपुष्पैः समन्वितम् ।
तदम्भसा तु सम्प्रोक्ष्य स्वशिरोद्रव्य संहितम् ॥ १३ ॥
अस्त्रमन्त्रेण तत्सर्वं कवचेनावकुण्ठयेत् ।
हृदाभिमन्त्र्य प्रत्येकं तिलकं चन्दनं नयेत् ॥ १४ ॥
शिवहस्तं च सङ्कल्प्य तदारोपितमस्तकः ।
ज्ञानासिं तत्वसङ्ख्यातैश्चतुरूनैरथापि वा ॥ १५ ॥
दर्भैः प्रादेशमात्रं तु निर्मितं शस्त्रमन्त्रितम् ।
कल्पयेत् पञ्चगव्यं तु तद्विधानमिहोच्यते ॥ १६ ॥
मण्डपस्य शुभे भागे क्षेत्रे नवपदीकृते ।
पञ्चतत्वाकृतन्यासे पञ्चपात्राणि विन्यसेत् ॥ १७ ॥
शिवेसदाख्ये विद्यायां काले पुंसि च देशिकः ।
सुप्रतिष्ठं सुशान्तं च तेजोवदभृतात्मकम् ॥ १८ ॥
रत्नोदकं च सङ्कल्प्य क्षीरं दधिघृतं न्यसेत् ।
गोमयं चैव गोमूत्रमीशानाद्यैस्तु मन्त्रितम् ॥ १९ ॥
एकद्वित्रिचतुष्पञ्चवारैष्षड्भिः कुशोदकम् ।
अमृतीकृत्य सम्पूज्य शिवेनैकत्वमाचरेत् ॥ २० ॥
मण्डपं तेन सम्प्रोक्ष्य विकिरानभिमन्त्रयेत् ।
लाजचन्दनसिद्धार्थ भस्मपुष्पकुशाक्षताः ॥ २१ ॥
हेतयोऽस्त्रेण सप्तैते विधातव्या विमिश्रिताः ।
नैऋत्यां मण्डपेस्थित्वा संस्कृती मण्डपस्य तु ॥ २२ ॥
कुर्यादीशानवक्त्रस्तु संस्कारैर्वीक्षणादिभिः ।
कुण्डस्येवं पुरास्यापि गुरुरष्टादशात्रतु ॥ २३ ॥
विकीर्य विकीरानीशे कुशकुर्च्या समाहरेत् ।
वेद्यां वा मण्टपे वापि ईशाने वापि पश्चिमे ॥ २४ ॥
हेमाद्येकतमं कुम्भमानीय गलिताम्मसा ।
पूरितं पल्लवोपेतं स्वर्णवस्त्रादि संयुतम् ॥ २५ ॥
संहृतौ विकिरास्त्राणामासनं तु चलाचलम् ।
सङ्कल्प्य मूर्तिमन्त्रेण मूर्तीभूतं घटं न्यसेत् ॥ २६ ॥
वर्धनीं सोदकां वस्त्रसूत्रस्वर्णादिसंयुताम् ।
विन्यसेदस्त्रभूतान्तां प्रत्यङ्गनालसमन्विताम् ॥ २७ ॥
सम्पूज्य गन्धपुष्पाद्यैर्घटास्त्रालू गुरूत्तमाः ।
इन्द्रमग्निं यमं चैव निऋतिं वरुणं तथा ॥ २८ ॥
वायुं सोमं तथैशान्यं पूजयेत्प्राग्दिगादितः ।
विरिञ्चिमीशदक्षस्थं विष्णुं निऋतिवामगम् ॥ २९ ॥
घटस्थं कलशस्थं वा कुम्भस्थं वाजयेद्गुरुः ।
तथैव वज्रशक्त्यादिदशास्त्राण्यपि पूजयेत् ॥ ३० ॥
भो भो शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ।
सावधानेन यागान्तं स्थातव्यं तु शिवाज्ञया ॥ ३१ ॥
सर्वेषां लोकपालानामनेन क्रमयोगतः ।
शिवाज्ञां श्रावयेत् कुभ्भं भ्रामयेदग्रतोऽस्त्रकम् ॥ ३२ ॥
विन्यसेत्कुम्भवर्धन्यौ पूर्ववत्तदनन्तरम् ।
स्थिरासनं च सम्पूज्य देवमस्त्रं च पूजयेत् ॥ ३३ ॥
मूर्तिविद्यातनुं साङ्गं शिवं सावरणास्त्रकम् ।
पूजयित्वा तयोरैक्यं कल्पयेद्भगमुद्रया ॥ ३४ ॥
सव्यमुष्टिरुमापिण्डिलिङ्गमङ्गुष्ठको हरः ।
भूतये कलशं स्पृष्ट्वाः पूर्वमङ्गुष्ठपर्वणा ॥ ३५ ॥
संस्पृशेद्वर्धनीं पश्चान्मुष्ठिनाहृदयाणुवा ।
मुक्तये च पुरस्पृष्ट्वा वर्धनीं मुष्ठिनैव तु ॥ ३६ ॥
स्पृशेदङ्गुष्ठकाग्रेण चरमं च घटं तथा ।
उमायै भगरूपिण्यै लिङ्ग रूपधराय च ॥ ३७ ॥
शङ्कराय नमस्तुभ्यमितिस्तुत्वाऽनुमोद्य च ।
यज्ञस्यास्य पतिस्त्वं हि मूर्तिरेषा तवाचला ॥ ३८ ॥
एतत्ते ज्ञाननिस्त्रिंशत्तद्गृहाण स्वमायुधम् ।
मया प्रवर्तितश्चायं यज्वना भवतुः क्रतुः ॥ ३९ ॥
रक्षणीयं त्वयैतद्धि समाप्तिर्यावदस्यहि ।
यज्ञरक्षाधुरं तस्मिन्नेवमारोप्य देशिकः ॥ ४० ॥
अर्घ्यपात्रं विधायाथ दद्यादर्घ्य मथाम्भसा ।
निरोधनाय तत्पात्रं तथैव स्थापयेद्गुरुः ॥ ४१ ॥
वर्धनीविकिरोत्थास्त्रैस्समन्ताद्यागमण्टपम् ।
अपसारितविघ्नं तु भावयेद् भूपरिग्रहम् ॥ ४२ ॥
मण्डलेस्थण्डिले वापि लिङ्गे वा शिवमर्चयेत् ।
विशेषपूजयोपेतं पावके शिवमर्चयेत् ॥ ४३ ॥
भगवन् देहमाविश्य मदीयमनुकम्पया ।
कर्तव्योऽनुग्रहस्तेषां शिष्याणां भावितात्मनाम् ॥ ४४ ॥
सम्प्रार्थ्यैवं करोमीति लब्धानुज्ञश्शिवात्गुरुः ।
मन्त्रितं मूलमन्त्रेण सप्तकृत्वः सितं शुभम् ॥ ४५ ॥
उष्णीषं शिरसि न्यस्य शिवेनैक्यं तु भावेयेत् ।
सर्वेषां कर्मणां साक्षी मण्डले समुपस्थितः ॥ ४६ ॥
यज्ञस्य रक्षकत्वेन शिवकुम्भे व्यवस्थितः ।
होमाधि करणत्वेन पावकस्थस्सदाशिवः ॥ ४७ ॥
शिष्यदेहे तु तच्छिष्यपाशमोचनकारकः ।
अनुग्रहकरो देवो मम देहे व्यवस्थितः ॥ ४८ ॥
पञ्चाधिकरणो देवस्सोऽहमेव सदाशिवः ।
अपृथग्भूतमात्मनां तत्समानगुणं स्मरेत् ॥ ४९ ॥
ममापि हृदयादीनि साधनानि न संशयः ।
स्वातन्त्र्यमेव सम्भाव्य शिवं विज्ञापयेदिति ॥ ५० ॥
यदर्थोऽयं मया देव भवद्यागः प्रवर्तितः ।
त-इमे पशवश्शान्ता द्वारि तिष्ठन्ति वारिताः ॥ ५१ ॥
अविसंवादिभिलिङ्गैरुद्धूतध्वन्तवृत्तयः ।
भवदीयकरैर्ज्ञात्वा चिरं युष्मत्प्रचोदितैः ॥ ५२ ॥
विहितावश्यकाः स्नातानिवर्तितदिनक्रियाः ।
सितवस्त्रोत्तरीया स्त्वत्पादपद्मदिदृक्षवः ॥ ५३ ॥
तत् करोतु प्रसादं मे तत्प्रवेशाय शङ्कर ।
प्रवेशयामि तानेतान् भवत्पादाम्बुजान्तिकम् ॥ ५४ ॥
कुरुष्व वचनं भद्र प्रवेशाय किलेत्यहम् ।
उक्तश्शिवेन सम्भाव्य ततश्शिष्यान् प्रवेशयेत् ॥ ५५ ॥
द्वारस्य सम्मुखं बाह्ये प्रणवे कुशमण्डले ।
शिष्यं तत्रैवं संस्थाप्य स्थित्वा स्वयमुदङ्कुखः ॥ ५६ ॥
वोलोकयेच्छिखान्ताच्च यावत्पदनखाग्रकम् ।
नखाग्रच्चूलिकां यावत् तत्वज्ञानदृशा गुरुः ॥ ५७ ॥
अयमात्मा शिवत्वार्हश्शिथिलीकृतबन्धनः ।
पतिशक्त्या निवेशाय पाशव्रातश्च मद्वशः ॥ ५८ ॥
तदामुं ताम्रसंस्थानं स्वगुणोदययोग्यकम् ।
स्पर्शवेधिमणिप्रख्यं चोदितोऽहं च शम्भुना ॥ ५९ ॥
संस्पर्शाद्विमलीकृत्य कलधौतमिवाचिरात् ।
करोमि गुणसम्पन्नं सतां मस्तकभूषणम् ॥ ६० ॥
ततस्सम्प्रोक्ष्य दर्भेण शिरस्याताङ्यभस्मना ।
दर्भमूलाग्रभागाभ्यां हृत्प्रदेशादधोर्ध्वयोः ॥ ६१ ॥
उल्लिखेत् पाशसन्तानं प्रवृत्तकरणोन्मुखम् ।
सकलीकृत्य तं शिष्यं नेत्रबन्धं विधाय च ॥ ६२ ॥
अस्त्रेण प्रोक्षितेनैव कुण्ठितेनैव वर्मणा ।
संस्तुतेनैव मूलेन सितवस्त्रेण देशिकः ॥ ६३ ॥
प्रवेश्य पुष्पक्षेपं तु कारयित्वा तु दर्शयेत् ।
शिवमण्डलदक्षस्थे मण्डले पूर्ववन्नयेत् ॥ ६४ ॥
प्रणवं तत्र संस्थाप्य शिष्यमुन्नतदेहकम् ।
धारणाद्यैश्च संशोध्य सकलीकृत्य तन्तनुम् ॥ ६५ ॥
गन्धाधिवासितं कृत्वा स्वसव्यकरपल्लवम् ।
शासनेन सदेहेन शिवेन समधिष्ठितम् ॥ ६६ ॥
शिवहस्तमिति ध्यात्वा सापेक्ष निरपेक्षकम् ।
हृद्देशाद्भ्रूप्रदेशान्तं नीत्वा वै चूलिकान्तकम् ॥ ६७ ॥
सह प्रासादोच्चारेण समस्तग्रन्थिभेदिना ।
रुद्रेश्वरस्पदावाप्तिदायकं शिरसि न्यसेत् ॥ ६८ ॥
कुर्याच्छिष्यस्य सर्वाङ्गालम्भनं च विशेषतः ।
ततस्तस्याञ्जलौ पुष्पगन्धधूपाधि वासितम् ॥ ६९ ॥
न्यस्य सर्वात्मना शम्भोः प्रत्येकं प्रार्थयेत् स्थितम् ।
अपनीय दृगालोकाच्छादनं वसनम् क्रमात् ॥ ७० ॥
सहसालोकितेशान शिववक्त्रसरोरुहम् ।
यात्तमङ्गमुञ्चेति प्रसूनं शिवसम्मुखम् ॥ ७१ ॥
स्फुटभक्ति शिवाम्भो जपरागामिव पुञ्जितम् ।
तत्पातसूचिते स्थाने पूर्वं शिवपदोत्तरम् ॥ ७२ ॥
नामावधार्यं विप्रस्य देवकण्ठगणात्मकम् ।
क्षत्रविट्छूद्रजातीनां स्त्रीणां शक्त्यन्त सञ्ज्ञकम् ॥ ७३ ॥
शिवनामाथ सर्वेषां सर्वं सर्वत्र वा मतम् ।
सप्रदक्षिणमष्टाङ्गं प्रणामं चोपदिश्यच ॥ ७४ ॥
नीत्वाकुण्डान्तिकं स्वस्य दक्षिणे प्रणवासने ।
संस्थाप्य शिष्यं तद्धस्ते दत्वा दर्भस्य मूलकम् ॥ ७५ ॥
दर्माग्रं स्वस्य जङ्घायास्सन्धौ संयोज्य देशिकः ।
पिङ्गलामध्य देहस्थां विनिःसृत्य शिशोः स्वतः ॥ ७६ ॥
स्वस्यनाड्यां विलीनेति भावयेन्मूलमन्त्रतः ।
दत्वाहुतित्रयं नाडीसन्धानार्थतया गुरुः ॥ ७७ ॥
प्रवेशनिर्गमौ कार्यौ चैतन्यग्रहणाय च ।
शतमष्टोत्तरं हुत्वा शिवमङ्गानि वै दश ॥ ७८ ॥
पूर्णां हुत्वा शिवेनैव प्रायश्चित्तनिमित्ततः ।
शतमष्टोत्तरं हुत्वा तेनैव शिवमन्त्रतः ॥ ७९ ॥
विप्रादयोऽपि शूद्रास्स्युर्गुणतस्तान् समुद्धरेत् ।
शूद्रादिजातिमुद्धृत्य स्वाहान्तेनैव मूलतः ॥ ८० ॥
हुत्वाहुतित्रयं पश्चाच्छिवं प्राति वदेदिति ।
आहारभावदोषाभ्यां योनि बीजशरीरतः ॥ ८१ ॥
शुद्धो द्विजो भवत्वात्मा भगवन् परमेश्वर ।
रुद्रांशापादनेऽप्येवमाहुत्रयमाचरेत् ॥ ८२ ॥
अयं रुद्रो भवत्वात्मा भगवंस्वत्प्रसादतः ।
इत्येवं प्रार्थनां कृत्वा कुर्यात्प्रोक्षणताडने ॥ ८३ ॥
प्रविश्य शिष्यदेहे तु रेचकेनात्मनो गुरुः ।
विधायास्त्रेण विश्लेषच्छेदनं चाङ्कुशाख्यया ॥ ८४ ॥
मुद्रया शिष्यचैतन्यमाकृष्य द्वादशान्तके ।
समानीय ध्रुवेणैव सम्पूज्य शिशुमस्तकात् ॥ ८५ ॥
संहारमुद्रया स्वस्य हृदये पूरकेण तु ।
प्रविश्य कुम्भकेनैव स्मृत्वा समरसं शिशोः ॥ ८६ ॥
रेचकेन प्रयोगेण केशेशानसदाशिवान् ।
नीत्वात्मानं समावर्त्य द्वादशान्ते ततश्शिवम् ॥ ८७ ॥
संहारमुद्रया शिष्यदेहे संयोजयेद् गुरुः ।
दद्याद्यज्ञोपवीतं तु मूलमन्त्राभिमन्त्रितम् ॥ ८८ ॥
शतं सहस्रं वा हुत्वा पूर्णां दद्याच्छिवेन तु ।
एवं समयसंस्कारयुक्तो यश्शिवपूजने ॥ ८९ ॥
होमे चाध्ययने चैव मन्त्राणां श्रवणेऽपि च ।
योग्यस्स्यान्मुनयो रौद्रं पदं प्राप्नोति मानवः ॥ ९० ॥
ततो निर्वाणदीक्षायामधिकारि भवेद्द्विजः ।
शूद्रं हि दीक्षयित्वा तु विधानेवाग्रजन्मनः ॥ ९१ ॥
सोऽपि शुद्रत्वमाप्नोति दीक्षादानान्न संशयः ॥ ९११।२ ॥
इति उत्तरकामिकाख्ये महातन्त्रे समयविशेषदीक्षाविधिःविंशतितमः
पटलः