१९ नवनैवेद्यविधिः

अतः परं प्रवक्ष्यामि नवनैवेद्यलक्षणम् ।
मार्गशीर्षमथाषाढं माघमासं विवर्ज्य च ॥ १ ॥
अन्येषु सर्वमासेषु नवनैवेद्यमाचरेत् ।
निश्चित्य शुभनक्षत्रं तत्पूर्वेऽङ्कुरमाचरेत् ॥ २ ॥
विना वाङ्कुरकार्यं तु सुमुहूर्ते सुलग्नके ।
शङ्खदुन्दुभिनादैश्च गीतनृत्तादिमङ्गलैः ॥ ३ ॥
नानाध्वजवितानैश्च धूपदीपाङ्कुरैर्युतम् ।
मम भक्तजनैस्सार्धं त्रिशूलेन समन्वितम् ॥ ४ ॥
चण्डेश्वर समायुक्तं देवक्षेत्रे समाविशेत् ।
चण्डेशास्त्रं विना वापि क्षेत्रं गत्वा विचक्षणः ॥ ५ ॥
हविषा दधियुक्तेन भूतानां तु बलिं क्षिपेत् ।
पूर्वाद्यष्टदिशास्वेवं गन्धपुष्पादि संयुतम् ॥ ६ ॥
सलक्षणेन दात्रेण पूजितेनैव हेतिना ।
प्राङ्मुखोदङ्मुखो भूत्वा शस्त्रमन्त्रमनुस्मरन् ॥ ७ ॥
शूकं लूत्वा युग्मे तु स्थलिकोर्ध्वे निवेशयेत् ।
तच्छूकेन समायुक्तं नवव्रीहि समायुतम् ॥ ८ ॥
तण्डुलैश्च समोपेतं नानाव्यञ्जन संयुतम् ।
नालिकेरफलोपेतं नवपूगफलान्वितम् ॥ ९ ॥
मरीचगुलखण्डाद्यैः इक्षुभिश्च समन्वितम् ।
नानाशाकसमायुक्तं नानाव्यञ्जनसंयुतम् ॥ १० ॥
पृथक्कन्दफलोपेतैः पूजाद्रव्यैस्तथाविधैः ।
आश्चर्यकारकैरन्यैस्सर्वातोद्य समन्वितम् ॥ ११ ॥
नृत्तगानसमायुक्तं नानाध्वजसमन्वितम् ।
नानाछत्रसमायुक्तं प्रविश्य नगरादिकम् ॥ १२ ॥
ग्रामं प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति ।
पूर्णकुम्भसमायुक्तं नानदीप समन्वितम् ॥ १३ ॥
कदलीस्तम्भसंयुक्तं नानामङ्गलमण्डितम् ।
विमोच्य व्रीहिं शूकेभ्यश्शोषयेदातपेन वै ॥ १४ ॥
वेत्रादिनिर्मिते पात्रे भूतले केवलेऽपि वा ।
गोमयालेपिते पिष्टचित्रिते दीपसंयुतम् ॥ १५ ॥
चूर्णोत्सवक्रमप्रोक्तमार्गेणाकुट्य वर्जयेत् ।
तुषादीन तण्डुलाञ्शुध्दान् सङ्ग्राह्य क्षालयेत्ततः ॥ १६ ॥

मरीचजीरकोपेतं गुलसारसमन्वितम् ॥ १६१।२ ॥
नालिकेरफलोपेतं संस्कुर्यात्तण्डुलं पुरा ।
स्नपनं कारयेद्देवं भूषयेद्भूषणार्हकैः ॥ १७१।२ ॥
मुहूर्ते समनुप्राप्ते व्रीहिनास्तीर्य भूतले ।
पटं तदूर्ध्वे विन्यस्य रम्भापत्राणि विन्यसेत् ॥ १८१।२ ॥
अस्त्रतोयेन सम्प्रोक्ष्य मृत्युञ्जयमनुस्मरन् ।
तण्डुलं तत्र निक्षिप्य गुलतोयेन सेचितम् ॥ १९१।२ ॥
कवचेनावकुण्ठ्यान्ते हृदा सम्पूजयेद् गुरुः ।
धेन्वाख्ययामृतीकृत्य ब्रह्मभिः पुरुषेण वा ॥ २०१।२ ॥
नैवेद्यं परमेशाय पानीयं दापयेत् क्रमात् ।
तैर्मन्त्रैर्देवदेवाय ताम्बूलं विनिवेदयेत् ॥ २११।२ ॥
नवपूगफलोपेतं देव्यै च विनिवेदयेत् ।
सर्वेभ्यस्सकलेभ्यश्च प्रागुक्तविधिना गुरुः ॥ २२१।२ ॥
अथवा स्थलिकायां वा सर्वेभ्यो विनिवेदयेत् ।
वृषादिपरिवारेभ्यो होमकर्म समापयेत् ॥ २३१।२ ॥
नैवेद्यं दापयेदन्ते ताम्बूलं विनिवेदयेत् ।
बलिदानसमोपेतमतिथीनां समर्पणम् ॥ २४१।२ ॥
निवेद्य तण्डुलं चान्नं पश्चाद्धोमोऽथवा भवेत् ।
तदन्ते चोत्सवं कुर्यात्तं विना वा समाचरेत् ॥ २५१।२ ॥
हित्वा क्षेत्रबलिं वाथ हित्वा वोलूखलक्रियाम् ।
सर्वमन्यत्समानं स्यात् तदन्ते पूजयेद्गुरुम् ॥ २६१।२ ॥
वस्त्रहेमाङ्गुलीयादैर्दक्षिणां दापयेत्ततः ।
एवं यः कुरुतेमर्त्यस्स पुण्यां गतिमाप्नुयात् ॥ २७१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे नवनैवेद्य विधिः
एकोनविंशतितमः पटलः