१८ श्रावणमासे पवित्रारोहण-विधिः

दुरितस्य विनाशार्थं संवत्सरकृतस्य तु ।
पवित्रकमहं वक्ष्ये त्रूयतां मुनि पुङ्गवाः ॥ १ ॥
प्रायश्चित्तमकुर्वाणो मन्त्री विधि विलङ्घनात् ।
सिद्धि भ्रंशमवाप्नोति देशिको रोग भाग् भवेत् ॥ २ ॥
पुत्रको भुक्ति भाङ्ङ्नस्यात् जन्मनैकेन रोधनात् ।
समयी समयस्थोऽपि नैव यस्मात् पवित्रकम् ॥ ३ ॥
विधातव्यं प्रयत्नेन येन केन प्रकारतः ।
प्रत्यहं वाङ्मनः कायव्यापारजनितादलम् ॥ ४ ॥
पतनात् त्रायते यस्मात् तस्मादेदत् पवित्रकम् ।
आषाढादि त्रयोमासाः ज्येष्ठ मध्यमकन्यसाः ॥ ५ ॥
अश्विनी कृत्तिकामासावथवा सम्प्रकीर्तितौ ।
पूर्व पक्षे चतुर्दश्यामाषाढे तु पवित्रकम् ॥ ६ ॥
इतरेषु च मासेषु पक्षयोश्शुक्लकृष्णयोः ।
चतुर्दश्यामथाष्टम्यां पवित्रं विधिनाचरेत् ॥ ७ ॥
कृत्तिकादीपतः पश्चान्नैव कार्यं पवित्रकम् ।
शुक्लपक्षे गृहस्थस्य यतेरुभय पक्षयोः ॥ ८ ॥
कर्तुः कारयितुश्चानुकूलर्क्षं वा न वा मतम् ।
क्षौमकार्पासजं सूत्रं मौञ्जं वा तदसम्भवे ॥ ९ ॥
दर्भं सवत्कलोत्थं वा समाहृत्याधिवासयेत् ।
त्रिगुणं त्रिगुणीकृत्य शोधयेदस्त्रमन्त्रतः ॥ १० ॥
रोमाद्यं शुद्धतोयैश्च क्षालयेदस्त्र मन्त्रतः ।
शुष्कं कृत्वा हृदा तेन पवित्रं कारयेद्गुरुः ॥ ११ ॥
शक्तयो नव वामाद्या नव सूत्राधिपा मताः ।
दिगुणास्तन्तवो हस्ते दशवृद्ध्या ततः क्रमात् ॥ १२ ॥
शतमष्टोत्तरं तेषां तन्तूनामुत्तमोत्तमम् ।
द्वादशोत्तरया वृद्ध्या द्वादशाभ्यस्तदन्तिकाः ॥ १३ ॥
तन्तवो वाथ संसिद्धाः कन्यसादिषु सिद्धिषु ।
यवीयसां कलासङ्ख्या मध्याना वर्ण लक्षिताः ॥ १४ ॥
ज्येष्ठानां पदसङ्ख्याता स्तन्तवो मानुषे मताः ।
स्वायं भुवादिलिङ्गेषु बाणे वा रत्नजेऽपि वा ॥ १५ ॥
स्थण्डिले मण्डलेवापि चले वा प्रतिमासु च ।
सङ्ख्यास्सर्वाश्च सङ्ग्राह्यास्समा वा विषमाश्च वा ॥ १६ ॥
समा एव गृहस्थस्य परिवारामरादिषु ।
तथैवहीन वित्तेषु लिङ्गादिषु मुनीश्वराः ॥ १७ ॥
एकाद्येकैक वृद्ध्यातु तन्तवो द्वादशान्तकाः ।
ग्रन्थयस्तन्तु सङ्ख्याताः स्निग्ध गर्भा नवा मताः ॥ १८ ॥
यथेष्ट ग्रन्थतो वापि समास्सर्वत्र संस्थिताः ।
एकादित्र्यङ्गुलं वापि ग्रन्थिमानमिहागमे ॥ १९ ॥
ग्रन्थयो वेष्ट देशेऽथ विधातव्या विचक्षणैः ।
रक्त चन्दन काश्मीर गैरिकागरुचन्दनैः ॥ २० ॥
कुष्ठकर्पूर संयुक्तं हरिद्राकृष्ण गन्ध युक् ।
रञ्जयेद्धृदयेनैव रक्तसूत्रादिभिस्तु वा ॥ २१ ॥
त्रितयं मूर्ध्नि कर्तव्यमात्मविद्याशिवात्मकम् ।
पिण्डिकास्पृक् चतुर्थं तु पवित्रं सर्व तात्विकम् ॥ २२ ॥
यज्ञसूत्राख्यमाला च बाहुमला ततः परम् ।
मुखलिङ्गे विधेयास्यात् सकलेऽप्यथवा मताः ॥ २३ ॥
आजानुशोभिव्यक्तेषु त्रिपूर्वं स्वेष्टतन्तु युक् ।
यन्त्रलिङ्ग प्रमाणं वा पुष्पलिङ्गमितं तु वा ॥ २४ ॥
क्षुद्रलिङ्गे पवित्रं स्यात् स्थण्डिलादौ यथामतम् ।
आशृङ्गमेकं वृषभे ककुदः खुरगं परम् ॥ २५ ॥
पवित्रमेकं सर्वेषामावृतानां विधीयताम् ।
एकैक मेव दातव्यं चण्डेश क्षेत्र पालयोः ॥ २६ ॥
क्षेत्रनेभ्यां लोकभृद्भ्यस्सूत्रमेकं प्रदक्षिणम् ।
यागधामवृषस्थान प्रासादालय संश्रयान् ॥ २७ ॥
कारकाणि च सर्वाणि त्रिवृत्सूत्रेण वेष्टयेत् ।
एवं निश्चित्य पूर्वेद्युरधिवासनमारभेत् ॥ २८ ॥
प्रासाद स्याग्रदेशे वा तद्वामे दक्षिणेऽपि वा ।
मण्डपे पञ्चहस्तादि चतुर्विंशत्करान्तके ॥ २९ ॥
षोडशस्तम्भसंयुक्ते रविस्तम्भ युतेऽपि वा ।
मध्यमे वेदिकायुक्ते सर्वलक्षण सम्युते ॥ ३० ॥
त्रिभागायामयुक्ते वा विंशति स्तम्भ संयुते ।
मण्डपे पूर्व कॢप्ते वा द्विगुणायतवेदिके ॥ ३१ ॥
तत्समन्तात् सुसङ्कॢप्त नव पञ्चैक कुण्डके ।
तत्सङ्ख्ये स्थण्डिलेवापिवेदिकारोहितेऽपिवा ॥ ३२ ॥
पश्चिमे मण्डलं कुर्यात् पवित्रं प्राचि विन्यसेत् ।
कृतशौच विधस्नान सन्ध्यावन्दन तर्पणः ॥ ३३ ॥
कृतानित्यार्चनो मन्त्री सूर्यार्चन समन्वितः ।
अविसृज्य रविं शुद्धो मन्त्रसन्नद्ध देहयुक् ॥ ३४ ॥
परिगृह्य भुवं द्वारं द्वारपान् वास्तुनायकम् ।
लक्ष्मी यागेशवर्धन्यौ लोकपान् गणपं गुरून् ॥ ३५ ॥
इष्ट्वा सम्प्रार्थ्यतत्पश्चात् मण्डलेऽपिचशङ्करम् ।
सम्पूज्य विधिवद्देव समीपे स्वासनेस्थितः ॥ ३६ ॥
आसनार्चनमारभ्य कुर्यादावाहनान्तकम् ।
कर्म पञचामृतोपेतं विशेषस्नपनान्वितम् ॥ ३७ ॥
नानागन्धान्वितां नाना भक्ष्यभोज्यान्नसंयुताम् ।
पूजां विशेषतः कृत्वा गत्वा कुण्डान्तिकं गुरुः ॥ ३८ ॥
कुण्डसंस्कारमारभ्य पूर्णान्तं होममाचरेत् ।
समिदाज्यचरुल्लाजां स्तिलसस्येन्द्र संयुतान् ॥ ३९ ॥
पलाशोदुम्बरावत्थवटाः प्रागादि दिक्षु च ।
शमीखादिरश्रीवृक्षप्लक्षाः स्युःवह्निकोणतः ॥ ४० ॥
प्रधानेतु पलाशस्स्याच्छतं वार्धं शिवस्य तु ।
शिवाद्दशांशतोऽङ्गानां कुण्डे प्राधानिके मते ॥ ४१ ॥
तदर्धमन्य कुण्डेषु नरादिषु हृदादुषु ।
स्थालीपाकहविः कृत्वा तद्धृता विभजेत् त्रिधा ॥ ४२ ॥
शिवांशमग्नि भागं च मध्वाज्याभ्यां तु मिश्रितम् ।
कुर्यादात्मीय भागं तु केवलेन घृतेन च ॥ ४३ ॥
हृदा देवांशमभ्यर्च्य तमादाय शिवान्तिकम् ।
गत्वा सम्पूज्य देवेशं व्रताङ्गानि निवेदयेत् ॥ ४४ ॥
दन्त काष्ठं न्यसेत् प्राच्यां विध्युक्तं पुरुषं स्मरन् ।
भस्मदक्षिणतश्शुद्धपात्रे ऽघोरेण मन्त्रवित् ॥ ४५ ॥
पश्चाद्दद्यान्मृदं शुद्धां सद्योजातं च तां स्मरन् ।
धात्रीफल मुदक् पूर्वे पञ्च भक्ष्यं निवेदयेत् ॥ ४६ ॥
होमद्रव्याणि सर्वाणि सकुशान्यपरानने ।
दण्डाक्षमालाकौपीन भिक्षापात्राणि दक्षिणे ॥ ४७ ॥
रोचनं कुङ्कुमं तैलं शलाकां केशशोधिनीम् ।
दर्पणं कर्त्रिकां दन्त नखशोधन मञ्जनम् ॥ ४८ ॥
तत्पात्रमपरं दद्याद्वाम देव मनुस्मरन् ।
ताम्बुलं भस्म सम्मिश्रं दद्यात्तत्पुरुषं स्मरन् ॥ ४९ ॥
ऐशान्यामासनं छत्रं पादुके योगपट्टिकाम् ।
स्थण्डिले सूत्रनिकटे परितशिचाधिवास्य वा ॥ ५० ॥
अस्त्रेण प्रोक्षितं वर्म कुण्ठितं हृदयार्चितम् ।
धेनु मुद्रामृती भूतं शिवांशं विनिवेदयेत् ॥ ५१ ॥
ब्रह्मभिर्देव देवाय पवित्राण्याहरेत्ततः ।
स्थण्डिलं वेदिकोर्ध्वे स्यात् अष्टद्रोणेन शालिना ॥ ५२ ॥
तदर्धतण्डुलोपेतं तिल लाजसमन्वितम् ।
तत्र संस्थापयेत् पात्रे पवित्राण्यऽथ देशिकः ॥ ५३ ॥
मण्डले वेदिकोर्ध्वे चेदत्र कुम्भान्तिकेऽपि वा ।
संस्थाप्यार्घ्योदकेनैव प्रोक्ष्य संहितयालभेत् ॥ ५४ ॥
मृगाजिनादिनाच्छाद्य स्थापयेत् पावकान्तिके ।
संवत्सरात्मकं सर्वकृत्य साक्षिणमव्ययम् ॥ ५५ ॥
गोप्तारं संश्रयं कर्म फलप्राप्तिनिबन्धनम् ।
अनुस्मरन् शिवं ब्रह्म षडङ्गं शिवमन्त्रतः ॥ ५६ ॥
त्रिस्सप्तकृत्वः सम्पातं तथैव जुहुयात्ततः ।
दत्वा गन्धपवित्रं तु भानोराचम्य देशिकः ॥ ५७ ॥
याग धामवृषस्थान प्रासादानल संश्रयान् ।
कारकान् पञ्च सूत्रेण वर्मणा परिवेष्टयेत् ॥ ५८ ॥
दद्याद्गन्ध पवित्रं तु नन्द्यादिभ्यः प्रदक्षिणम् ।
प्रविश्य पूर्ववच्चान्तः ब्रह्मणे च पवित्रकम् ॥ ५९ ॥
तदेतानि पवित्राणि भगवन् संस्कृतानि हि ।
अर्पयामि घटस्थाय शिवायाध्येषये दिति ॥ ६० ॥
समर्प्य रक्षणायास्मै तेभ्यो गन्धपवित्रकम् ।
आदौ वा कुम्भवर्धन्योर्दत्वायायाच्छिवान्तिकम् ॥ ६१ ॥
स्वमूर्तौ गुरु पङ्क्तौ च दद्याद् गन्ध पवित्रकम् ।
एक ग्रन्थि समायुक्तमल्प तन्तु विनिर्मितम् ॥ ६२ ॥
धूपितं पुष्पसंयुक्तं समादायाञ्जलौ गुरुः ।
आमन्त्रणपवित्रं तत् सुधामुद्रा प्ररोचितम् ॥ ६३ ॥
शिवायारोप्य तन्मूर्ध्नि रेचकेन शिवाणुना ।
आमन्त्रणात्मकं मन्त्रं पठेद्देवेश सन्निधौ ॥ ६४ ॥
समस्तविधिविच्छिद्र पूरणेशमखम्प्रति ।
प्रभो वामन्त्रयामि त्वां त्वदिच्छावाप्तिकारकः ॥ ६५ ॥
तत्सिद्धि मनुजानीहि यजतश्चिदचित्पते ।
सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे ॥ ६६ ॥
जप्त्वा निवेद्य देवाय स्तुत्वा नत्वा क्षमापयेत् ।
दद्यादाशाधिपालानां तदस्त्राणां पवित्रकम् ॥ ६७ ॥
दत्वा वह्निस्थ देवाय तृतीयांशं चरोर्गुरुः ।
आमन्त्रण पवित्रं च दद्यात्तस्यैव पूर्ववत् ॥ ६८ ॥
इन्द्राय सङ्गृहाणेति नत्यन्तं प्रणवादिकम् ।
अन्येषां चैव मूर्तिना। क्रमाद्दद्यात् बहिर्बलिम् ॥ ६९ ॥
वायव्याङ्क्षेत्रपालाय दत्वाचम्य बलिं पुनः ।
प्रायश्चित्तं ततो हुत्वा पूर्णां दत्वा ततो गुरुः ॥ ७० ॥
भूर्भुवस्वः पदैर्व्यस्तैसमस्तैरपि होमयेत् ।
अग्नये त्वथ सोमाय ताभ्यां स्विष्टकृदा हुतिम् ॥ ७१ ॥
स्वाहान्तैर्दीप पूर्वेस्तु हुत्वा मन्त्रैर्यथादितैः ।
मण्डलस्थ शिवेनैव पावकस्थं शिवं ततः ॥ ७२ ॥
नाडी सन्धानमार्गेन योजयेद्भावयेच्छिवम् ।
सिद्धान्त पुस्तके दत्वा स्वगुरौ च पवित्रकम् ॥ ७३ ॥
निस्सृत्य यागधाम्नस्तु समाचम्यगुरुश्शुचिः ।
पञ्चगव्यं चरुं दन्त धावनं च क्रमाद्भवेत् ॥ ७४ ॥
आचम्य पुनरप्यन्ते स्वपेच्छिवमनुस्मरन् ।
अथ प्रातः कृतावश्यस्नान सन्ध्याणुतर्पणः ॥ ७५ ॥
अविसर्जित देवेशात् पवित्राण्यवरोपयेत् ।
तानीश मण्डले पात्रे चण्डेशार्थं प्रकल्पयेत् ॥ ७६ ॥
दत्वाष्ट पुष्पकं देवे लिङ्गाद्देवं विसर्जयेत् ।
समाचम्य कृतन्यासस्सामान्यार्घ्यकरो गुरुः ॥ ७७ ॥
कृत्वा नित्यविधिं सम्यगाचान्तो मन्त्र विग्रहः ।
द्वारद्वाराधिपानिष्ट्वा प्रविश्यास्त्राणि कुम्भयोः ॥ ७८ ॥
दिक्पालानां च सास्त्राणां क्रमेणाभ्यर्चनं नयेत् ।
स्वासने दीपसङ्कॢप्ते सैम्यास्योर्ध्व स्थित स्थितिः ॥ ७९ ॥
मन्त्रकायो विशेषार्घ्यद्रव्य शुद्धि समन्वितम् ।
शिवहस्तं च सङ्कल्प्य पञ्चगव्यं च पूर्ववत् ॥ ८० ॥
विशेषस्नपनोपेतं पञ्चामृतसमन्वितम् ।
पञ्चगव्य समायुक्तं विशेषेण शिवं यजेत् ॥ ८१ ॥
जपं कृत्वा समावेद्य यायात् कुण्डान्तिकं गुरुः ।
कुण्डमस्त्रेण सम्प्रोक्ष्य मेखलापरिधिस्थितान् ॥ ८२ ॥
सम्पूज्य स्रुक्स्रुवावाज्यं संस्कृत्य च विधानवित् ।
दत्वा पूर्णाहुतिं देवमावाह्याभ्यर्च्य तर्पयेत् ॥ ८३ ॥
प्रायश्चित्तं ततो हुत्वा पूर्णाहुतिमथाचरेत् ।
दत्वा भानोः पवित्रं तु समाचम्याणुदेहयुक् ॥ ८४ ॥
नन्द्यादिभ्यो पवित्रं तु दत्वान्तस्सम्प्रविश्य च ।
ब्रह्मणे कुम्भवर्धन्योः क्रमाद्दद्यात् पवित्रकम् ॥ ८५ ॥
गत्वा देवान्तिकं स्वस्य चासने सूपविश्य च ।
कृत्वा विशेष पूजां च विभवस्यानुसारतः ॥ ८६ ॥
स्वमूर्तौ गुरु पङ्क्तौ च दत्वा सूत्रं शिवं स्मरन् ।
वर्षर्तुमास पक्षाहर्नाडी प्राणादि विग्रहम् ॥ ८७ ॥
सर्वेन्द्रिय शरीरर्थ व्यवहारैक कारणम् ।
कृताकृत समुत्सृष्टक्लिष्ट कर्मैक साक्षिणम् ॥ ८८ ॥
क्षेत्रगोप्तारमीशानं शरण्यं शुचिमानसः ।
प्रब्रूयादीश्वराशास्यस्सपवित्रकरो विभुम् ॥ ८९ ॥
कालात्मना त्वयादेव यद्दृष्टं मामके विधौ ।
कृतं क्लिष्टं समुत्सृष्टं हृतं गुप्तं च मत्कृतम् ॥ ९० ॥
तदस्तु क्लिष्टमक्लिष्टं कृतं पुष्टमसत्कृतम् ।
सर्वात्मनामुना शम्भो पवित्रेण त्वदिच्छया ॥ ९१ ॥
पूरयेति द्विरुच्चार्य मखव्रत फलं ततः ।
नियमेश्वरायेति पदं स्वाहेत्यन्तं समुच्चरन् ॥ ९२ ॥
आत्मतत्त्वाधिपतये शिवाय नम इत्यपि ।
तत्वविद्याशिवाख्यं च मुक्तिकामपदं पठेत् ॥ ९३ ॥
पवित्रकत्रयम्मूर्ध्नि तद्भोगी शिवादिकम् ।
शिवाणुमादावुच्चार्य शिवविद्यात्मकं पुनः ॥ ९४ ॥
सर्वतत्त्वेश्वरायेति दद्याद्गङ्गावतारकम् ।
पुष्पाञ्जलिपुटो भूत्वा भक्त्या विज्ञापयेत्प्रभुम् ॥ ९५ ॥
त्वं गति स्सर्वभूतानां संस्थितत्वं चराचरे ।
अन्तश्चारेण भूतानां द्रष्टात्वं परमेश्वर ॥ ९६ ॥
कर्मणा मनसा वाचात्वक्तो नान्योगतिर्मम ।
मन्त्रहीनं क्रियाहीनं द्रव्य हीनं च यत्कृतम् ॥ ९७ ॥
जपहोमार्चनाहीनं कृत्यं नित्यं मया तव ।
अकृतं वाक्यहीनं च तत्पूरय महेश्वर ॥ ९८ ॥
सुपूतत्वं सुरेशान पवित्रं पाप नाशनम् ।
त्वया पवित्रितं सर्वं जगत्स्थावरजडगमम् ॥ ९९ ॥
खण्डितं यन्मया देव व्रत वैकल्य योगतः ।
एकी भवतु तत्सर्वं तवाज्ञासूत्रगुम्भितम् ॥ १०० ॥
जपं कृत्वा निवेद्यास्मै स्तुत्वा नियममीश्वरात् ।
गृह् णीयात्प्रणतो भक्त्याचतुस्त्रिद्व्येकमासकम् ॥ १०१ ॥
अर्धमासं च सप्ताहं पञ्चाहं तु त्र्यहं तु वा ।
अथवैकाह मारब्ध कर्मान्तं नियमं नयेत् ॥ १०२ ॥
एक भुक्त्यादि यत्सर्वं शक्त्यानुष्ठेय मीश्वरात् ।
व्रतं गृहीत्वा कर्तव्यं यावत्सूत्रा वरोहणम् ॥ १०३ ॥
सास्त्रेभ्यो दिक् पतिभ्यस्तु सूत्रं मत्वाग्निसंस्थिते ।
शिवे पवित्रं तुर्यं तु दत्वा व्याहृतिभिर्गुरुः ॥ १०४ ॥
वह्निं संरोध्य स्विष्टान्तं गुत्वान्तस्सम्प्रविश्य च ।
देवं सम्पूज्य गुरवे सैद्धान्ते पुस्तकेऽपि च ॥ १०५ ॥
दत्वा पवित्रं दिक्पालबलिमाचम्य देशिकः ।
प्रायश्चितं ततो दत्वा पूर्णां वै छिद्र पूरणीम् ॥ १०६ ॥
मण्डलस्थं च सम्पूज्य ततो देवं क्षमापयेत् ।
तदन्ते भोजनाच्छाद मात्रोपकरणादिभिः ॥ १०७ ॥
सम्पूज्य दीक्षितान्ब्रूयात् प्रीयतां मे सदाशिवः ।
लिङ्गात्पवित्रमुद्वारस्य निर्माल्यापनये कृते ॥ १०८ ॥
स्नातेऽर्चिते तदारोप्य मा विसर्ज्य दिने दिने ।
ब्रतान्ते प्राग्वदाभ्यर्च्य चातीतदिनवच्छिवम् ॥ १०९ ॥
व्रतं निवेदयेदुक्त्वा ममास्तु फल साधकम् ।
भुक्तिकामो व्रती कामेकर्मबन्धक इत्यपि ॥ ११० ॥
मन्त्र तर्पण कर्मान्तं कृत्वा निष्कृतिमाचरेत् ।
भसितं वन्दयित्वाथ वह्निस्थं योजयेच्छिवे ॥ १११ ॥
वह्नेर्मन्त्रांश्च संहृत्य नीत्वा तां द्वादशान्तिके ।
हृदये सन्निवेश्याग्निं विसृत्योद्वारस्य विष्टरात् ॥ ११२ ॥
परिधींश्च बलिं दत्वा समाचम्य गुरुश्शुचिः ।
शिवकुम्भास्त्रवर्धन्योर्मनून् संहृत्य योजयेत् ॥ ११३ ॥
ईशे सापेक्षमुक्त्वैवं क्षमस्वेति विसर्जयेत् ।
दिक्पालानस्त्र संयुक्तान् द्वारपान् द्वारसंस्थितान् ॥ ११४ ॥
रव्यन्तं तु विसृज्याथ पवित्राणि महेश्वरात् ।
आदाय सति चण्डेशे तस्मै दद्यात्पवित्रकम् ॥ ११५ ॥
निर्माल्यादिकमन्यं च पवित्रं न कृतं यदि ।
लक्षं त्वघोरमावृत्या दशांशं होममाचरेत् ॥ ११६ ॥
पवित्रं नित्य पूजाङ्गं पुष्याद्यैः परिकल्पयेत् ।
दत्ते नित्यपवित्रे वा सांवत्सरिकमाचरेत् ॥ ११७ ॥

इति उत्तरकामिकाख्ये महातन्त्रे श्रावणमासे पवित्रारोहण विधिः
अष्टादश पटलः