१७ आषाढ मास पूर्वफल्गुनी

पूजा विधिः

आषाढे मासि नक्षत्रे पूर्वफाल्गुन सञ्ज्ञके ।
आश्वयुज्यथ वा मासे क्रियामेनां समाचरेत् ॥ १ ॥
कौतुकं बन्धयेद्रात्रौ देव्याः पूर्वोक्तवर्त्मना ।
देवदेव्यौश्च वा प्रातः कन्याभ्यः काञ्चनादिकम् ॥ २ ॥
वस्त्रं च भोजनं दत्वा देव्याः क्षीरं निवेदयेत् ।
ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कार संयुतम् ॥ ३ ॥
तत्काले दापयेन्मुद्गाङ्कुरं लक्षण संयुतम् ।
ग्रामप्रदक्षिणात्पूर्वं नैवेद्यं दापयेन्न वा ॥ ४ ॥
आस्थान मण्डपं नीत्वा परिवेषक्रमं नयेत् ।
रात्रिचूर्णं च तैलं च चूर्णोत्सवविधानतः ॥ ५ ॥
दद्याद्देवाय देव्यै च जयेभ्यस्तदनन्तरम् ।
ताम्बूलसहितं नानाव्यञ्जनं तण्डुलान्वितम् ॥ ६ ॥
हित्वा वा चूर्णकार्यं च तण्डुलादिप्रदानकम् ।
त्रिशूलेन समायुक्तं देवीं नद्यादिकं नयेत् ॥ ७ ॥
स्थण्डिलद्वितयं कुर्याच्छालिभिर्विधिना गुरुः ।
एकत्र शूलं संस्थाप्य देव्याः पूर्वं तदग्रके ॥ ८ ॥
संस्थाप्य तान्घटान् सम्यक् स्नपनोक्तविधानतः ।
सक्तुभिश्च फलोपेतैस्तान् सम्पूज्य ह्रदा गुरुः ॥ ९ ॥
तैः संस्नाप्य च तच्छूलमवगाहनमाचरेत् ।
तीर्थमध्ये जनैस्सार्धं प्रविशेदालयं प्राति ॥ १० ॥
तीर्थकर्मविहीनं वा ग्रामादिभ्रमणावधि ।
आस्मिन्दिने वा निर्वाणदीपमम्लानमालया ॥ ११ ॥
प्रतिसंवत्सरं कुर्याद्बलिदान समन्वितम् ।
अथवा बलिहोमाभ्यां युतं रात्रौ दिवापि वा ॥ १२ ॥
बेरप्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम् ।
नानाभक्तजनैस्सार्धं नानास्वादुफलानि च ॥ १३ ॥
गुडखण्ड समोपेतं सक्तु सन्दापयेद् गुरुः ।
नानापूप समायुक्तं नानाफल समन्वितम् ॥ १४ ॥
जलतीरे निवेद्यैशे गुडादि फलसक्तुकम् ।
विमोच्य देवदेवाग्रे ततस्तीर्थं नवोदके ॥ १५ ॥
विधाय केवलं वापि त्रिशूलेन समन्वितम् ।
नीत्वालयं ततः कुर्यात् स्नपनं पूजया सह ॥ १६ ॥
प्रभूतहविषोपेतं मुखवासेन संयुतम् ।
ताम्बूलेन तदन्ते तु पूजयेद्गुरुमादरात् ॥ १७ ॥
वस्त्रहेमाङ्गुलीयाद्यैर्दक्षिणां दापयेत्तः ।
सर्वपापविनाशार्थं सर्वारिष्टनिवृत्तये ॥ १८ ॥
सर्वाभीष्ट प्रसिध्यर्थं सर्वकार्याथ सिद्धये ।
विधानमेतत् कर्तव्यं देव्यास्सन्तुष्टिकारणम् ॥ १९ ॥

इति उत्तरकामिकाख्ये महातन्त्रे-आषाढ मास पूर्वफल्गुनी पूजा
विधिः सप्तदशः पटलः