ज्येष्ठमासे तु मूलर्क्षे पूजयेत् स्वादुभिः फलैः ।
विशेषस्नपनोपेतं पञ्चामृत समन्वितम् ॥ १ ॥
विशेषपूजा संयुक्तं पायसेन समन्वितम् ।
विशेषहोम संयुक्तं समिदाज्यान्नकैस्सह ॥ २ ॥
नानाफलसमायुक्तैर्द्रव्यैः पूर्णां विधाय च ।
पीठादि लिङ्गमूर्धान्तं फलैर्मूलेन पूरयेत् ॥ ३ ॥
कृत्वान्तर्हितलिङ्गं तु तद्बहिः पूरणं तु वा ।
वस्त्राभ्यां वेष्टयेल्लिङ्गं पीठं कवचनमन्त्रतः ॥ ४ ॥
सन्ध्यन्तरे परे वाह्नि तानि तस्माद्बहिर्नयेत् ।
क्रियान्ते पूजयेत् कर्ता देशिकं वस्त्रकाञ्चनैः ॥ ५ ॥
यद्यदिष्टफलं कर्तुस्तत्तच्छीघ्रं भविष्यति ॥ ५१।२ ॥
इति उत्तरकामिकाख्ये महातन्त्रे ज्येष्ठमास फल पूजाविधिः
षोडशः पटलः