१५ वेशाखमासशीतकुम्भविधिः

ततो वक्ष्यो विशेषेण शीतकुम्भमनुक्रमात् ।
विशाखर्क्षे तु वैशाखेऽवग्रहे वा विधीयते ॥ १ ॥
सर्वारिष्टविनाशार्थं सर्वाद्भुत निवृत्तये ।
प्रायश्चित्तादिके कार्ये ग्रामदाहादिके नयेत् ॥ २ ॥
चतुष्पाद्रोगसमये ज्वरमार्यादि सम्भवे ।
शीतकुम्भविधिः कार्यस्तत्तन्द्दोषापनुत्तये ॥ ३ ॥
यज्ञयोग्यैः द्रुमैः कृत्वा त्रिपादीं लिङ्गमूर्धनि ।
वस्त्वङ्गुलं समारभ्याङ्गुलवृद्ध्याकरान्तकम् ॥ ४ ॥
यथान्तरं तथा कृत्वा सम्प्रक्षालयाम्बुना गुरुः ।
वस्त्रेणाच्छाद्य पादांश्च ब्रह्माणन्दक्षिणे यजेत् ॥ ५ ॥
विष्णुं वामे वृषं प्रष्ठे त्रिषु पादेषु देवताः ।
महामायान्नयसेदूर्ध्वं फलाकायां समन्ततः ॥ ६ ॥
एवं कृत्वा त्रिपादींश्च विन्यसेल्लिङ्गपूर्धनि ।
मण्डपे स्थण्डिलं कृत्वा वसुद्रोणादिशालिभिः ॥ ७ ॥
तण्डुलैस्तिललाजैश्च तत्र कुम्भन्निवेशयेत् ।
चतुर्द्रोणेन सम्पूर्णं श्रेष्ठं द्रोणत्रयेण तु ॥ ८ ॥
मध्यमं खारिसम्पूर्णं कन्यसं सूत्रवेष्टितम् ।
पक्वबिम्बफलाकारं सवस्त्रं कूर्चसंयुतम् ॥ ९ ॥
कनकाब्जसमायुक्तं पञ्चरत्नोदरं शुभम् ।
पृष्ठे सुषिरसंयुक्तं हेमनालसमन्वितम् ॥ १० ॥
एकद्वित्र्यङ्घ्रिसंयुक्तन्निष्कमानकृतेन तु ।
युगाङ्गुलसदैर्घ्येण सूच्यग्रसुषिरेण तु ॥ ११ ॥
पिधानेन समोपेतं पल्लवेन समन्वितम् ।
उपकुम्भन्तदग्रे वस्त्रहेमादि संयुतम् ॥ १२ ॥
पृष्ठरन्ध्रविहीने तु दक्षिणे तस्य विन्यसेत् ।
आसनञ्च ततः कृत्वा मूर्तिमावाहयेत्घटे ॥ १३ ॥
ब्रह्माभिश्च कलोपेतैर्विद्यादेहं प्रकल्पयेत् ।
प्रणवं शिवमावाह्य गन्धाद्यैस्सम्यगर्चयेत् ॥ १४ ॥
प्रधाने चोपकुम्भे च क्रियामेनां समाचरेत् ।
गन्धोदं वा मधुपयस्सर्वार्थं विनियोजयेत् ॥ १५ ॥
प्रायश्चित्तेद्भुतेन्यस्मिन् दुरितानां क्षयार्थकम् ।
पञ्चगव्यं विनिक्षिप्य शुद्धोदकमथापि वा ॥ १६ ॥
गन्धं स्याच्चन्दनं भस्म सहितं वाथ कल्पयेत् ।
अथवाचमनीयार्थं कल्पितो गन्ध एव वा ॥ १७ ॥
नीरोमजन्तुकं द्रव्यम् उपकुम्भे विनिक्षिपेत् ।
हृदा सम्पूज्य गन्धाद्यैस्ततो होमं समाचरेत् ॥ १८ ॥
नवपञ्चैककुण्डेषु समिदाज्यान्न संयुतम् ।
तिललाजसमायुक्तं मधुसस्येन्द्रसंयुतम् ॥ १९ ॥
समिधोवञ्चुलोत्थास्युः सर्वावारुणमन्त्रतः ।
आप्येनामृतबीजेन सम्पुटेन शिवेन च ॥ २० ॥
आप्याधारणयोपेतं सहस्रं वा तदर्थकम् ।
शतमष्टोत्तरं वापि प्रतिद्रव्यन्तु होमयेत् ॥ २१ ॥
आप्याणुसम्पुटं मूलं जपेत्तत्सङ्ख्यकं यथा ।
जप्तव्या वारुणा मन्त्रा मन्त्रजापिभिरिष्टिभिः ॥ २२ ॥
आप्यायस्वेति वक्तव्या चतुर्वेदिभिरादरात् ।
कृतस्नानैर्बिनीतैश्च हविष्यान्नाशनैर्द्विजैः ॥ २३ ॥
अनन्यमानसैश्शान्तैराचार्याज्ञानुपालनैः ।
शिवदीक्षासमोपेतैः सर्वेर्वृष्ट्यभिकाङ्क्षिभिः ॥ २४ ॥
सर्वं देवालयं वारिसेकैस्सिञ्चेदहर्निशम् ।
तत्काले पातयेत् क्षीरं गोस्तनेभ्यः विशेषतः ॥ २५ ॥
सहस्रसङ्ख्यकावास्युः अर्धसङ्ख्या समन्विताः ।
शतसङ्ख्याश्च पाताश्चेत् पुष्टावृष्टिर्भविष्यति ॥ २६ ॥
एवं प्रतिदिनं कार्यं होमकाले द्विजोत्तमाः ।
पूजायाञ्चाथ पूर्णायां वारुणीन्धारणां द्विजाः ॥ २७ ॥
ध्यात्वाऽमृतमयम्मूलमुच्चरन्वौषडन्ततः ।
कुर्याच्छङ्खस्वनोपेतं प्रत्यहं चैवमाचरेत् ॥ २८ ॥
नित्यपूजावसाने तु नैमित्तिकमुपक्रमेत् ।
नैमित्तिकं महच्चेत्तु महदादौ समाचरेत् ॥ २९ ॥
नानागन्धसमोपेतैश्शीतोदैस्थापनान्वितैः ।
संस्थाप्य देवदेवेशममृताप्लावनं स्मरन् ॥ ३० ॥
चन्दनागरुकर्पूरकुङ्कुमैः प्रचुरैर्गुरुः ।
गन्धपुष्पैरनेकैश्च तत्क्षणं प्रतिबोधितैः ॥ ३१ ॥
कृष्णागरुद्भवैर्धूपैः हृष्टराज्यप्रकल्पितैः ।
कर्पूरवर्तिभिर्दीपैः पायसैः प्रचूरैः क्षणात् ॥ ३२ ॥
नवभाण्डप्रकॢप्तैश्च नैवेद्यैश्शालिकल्पितैः ।
पानीयैश्शीतलैर्गन्धैः मृष्टैर्नूतनभाण्डकैः ॥ ३३ ॥
ताम्बूलैर्गौरपत्रैश्च सुगन्धैः क्रमुकोद्भवैः ।
मुखवाससमोपेतैः गानैर्वाद्यैश्च नर्तनैः ॥ ३४ ॥
नवनाट्यरसोपेतैः स्तोत्रैर्वेदस्वरैरपि ।
जापिभिर्जयशब्दैश्च नमस्कारैरनेकशः ॥ ३५ ॥
पूजयेत् प्रत्यहं देवं यावत्स्यात् काङ्क्षितं फलम् ।
तदन्ते होमकर्मेष्टं प्रत्यहं विधिरीतितः ॥ ३६ ॥
प्रथमेह्नि विशेषोऽयं पूर्णान्ते तु घटद्वयम् ।
सङ्ग्राहयित्वादोस्थञ्च शिरस्थं वा प्रदक्षिणम् ॥ ३७ ॥
आभ्यां कृत्वा सुधाम्नस्तु च सुवारके
आचार्यस्यानुकूलर्क्षे यजमानस्य चैवहि ॥ ३८ ॥
सितिथौ च सुलग्ने वा रोपयेच्छिवमुच्चरन् ।
घटं ससुषिरन्तस्मिन् नवकुम्भस्थितञ्जलम् ॥ ३९ ॥
शिवमन्त्रं समुच्चार्य ध्यात्वा चामृत धारणम् ।
निक्षिपेदुत्तरास्यस्तु त्रिपाद्युपरिमध्यगम् ॥ ४० ॥
तोयशेषन्नयेन्नित्यं यावत्कर्मप्रसिद्ध्यति ।
सप्ताहं वा द्विसप्ताहं त्रिसप्ताहन्तु मासकम् ॥ ४१ ॥
द्विमासम्न वा त्रिमासं वा विधिमेवम्न समाचरेत् ।
आचार्यं पूजयेदादौ वस्त्रैः पञ्चाङ्गभूषणैः ॥ ४२ ॥
दक्षिणान्दापयेदादौ दशनिष्कादिकान्नृपः ।
अन्ते च द्विगुणां पूजां दक्षिणामपि मानवाः ॥ ४३ ॥
अन्येषामपि सर्वेषां हेमवस्त्राङ्गुलीयकान् ।
निष्कैकन्दक्षिणोपेतां दद्याच्छ्रद्धासमन्वितम् ॥ ४४ ॥
प्रत्यहं भोजनार्थन्तु तण्डुलव्यञ्जनान्वितम् ।
ताम्बूलञ्च नृपस्तेभ्यः दद्याच्छ्रद्धासमन्वितम् ॥ ४५ ॥
नित्यञ्च भोजनं कार्यं भक्तानां योगिनामपि ।
दीनानाथ जनानाञ्च प्रत्यहं भोजनं भवेत् ॥ ४६ ॥

स्नपनं कारयेदन्ते प्रचुरन्दापयेद्धविः ॥ ४६१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे वैशाखमासशीतकुम्भविधिः
पञ्चदशः पटलः

१५

यज्ञयोग्यद्रुमैः कृत्वा त्रिपादीं लिङ्गमूर्धनि ।
वस्त्वङ्गुलं समारभ्याङ्गुलवृद्ध्याकरान्तकम् ॥
यथान्तरं तथा कृत्वा सप्रक्षाल्याम्बुनागुरुः ।
वस्त्रेणाच्छाद्यपादां ब्रह्माणां दक्षिणे यजेत् ॥
विष्णुं वामे वृषं पृष्ठे त्रिषु पादेषु देवताः ।
महामायाः न्यसेदूर्ध्वफलकायां स्वमन्त्रतः ॥
एवं कृत्वा त्रिपादीं च विन्यसेल्लिङ्ग मूर्धनि ।
चतुर्द्राणेन सम्पूर्णं श्रेष्ठं द्रोणत्रयेण तु ॥
मध्यमं खारि सम्पूर्णं कन्यसं सूत्रवेष्टितम् ।
पक्वबिम्बपलाकारं सवस्त्रङ्कूर्चसंयुतम् ॥
कनकाब्ज समायुक्तं पञ्चरत्नोदरं शुभम् ।
पृष्ठे सुषिरं संयुक्तां हेमनाल समन्वितम् ॥