तस्मिन् मासे विधेयस्याद्वसन्तोत्सव इष्टदः ।
पूर्वेद्युः कौतुकं बद्ध्वा नानावृक्षसमाकुले ॥ १ ॥
नानामाला समाकीर्णे नानाफलविचित्रते ।
नानागानसमोपेते नानावाद्यसमन्विते ॥ २ ॥
नानानृत्तसमायुक्ते नानायन्त्रसमन्विते ।
प्रकीर्णपुष्पप्रकारे नानागन्धसमायुते ॥ ३ ॥
पताकाभिस्समाकीर्णे ज्वलद्दीपैश्च दीपिते ।
आस्थानमण्टपोपेते जलक्रिडासमन्विते ॥ ४ ॥
देवोद्यानेनयेद्देवं सर्वालङ्कारसंयुतम् ।
ग्रामप्रदक्षिणोपेतं मन्दीभूते दिवाकरे ॥ ५ ॥
परिवेषक्रमन्तस्मिन् कृत्वा देवं विशेषतः ।
पूजयेदुपचारैस्तु गन्धधूपसृगादिभिः ॥ ६ ॥
सेवार्थमागतं स्मृत्वा वसन्तं कुसुमायुधम् ।
देवस्य दक्षिणे वामे नानागन्धादिभिः क्रमात् ॥ ७ ॥
कुम्भयोरर्चयेत्तौ तु हेमवस्त्राद्युपेतयोः ।
स्थण्डिलद्वितये वापि नानापुष्पसमन्विते ॥ ८ ॥
वस्त्रेणाच्छाद्य नैवेद्यं पायसं विनिवेदयेत् ।
ताम्बूलन्दापयेदन्ते तोषयेत्तौ विशषतः ॥ ९ ॥
नृत्तवाद्यसमोपेतैर्दिव्यगानैर्व्यपोह्य च ।
एवं काले तु देवेशन्नयेद्देवालयं पुनः ॥ १० ॥
स्नपनं कारयेच्चैव विशेषणार्चयेच्छिवम् ।
एवं देवं विशेषणाभ्यर्चयेच्छिवमादरात् ॥ ११ ॥
एवं यः कुरुते मर्त्यस्सर्वान् कामानवाप्नुयात् ॥ १११।२ ॥
इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासवसन्तोत्सवविधिः
चतुर्दशः पटलः