दमनारोपणं वक्ष्ये चैत्रमासफलप्रदम् ।
हरकोपात् पुराजातः बैरवो दमनाह्वयः ॥ १ ॥
दान्तास्तेन सुरास्सर्वे दानवाश्च महाबलाः ।
प्रीतेनाथ शिवेनोक्तो विटपो भवभूतले ॥ २ ॥
दान्तनुत्वमनुप्राप्य मत्भोगाय भविष्यसि ।
पूजयिष्यन्ति येमर्त्या देवन्त्वत्पल्लवादिभिः ॥ ३ ॥
ते यास्यन्तिपरं स्थानन्दमनस्य प्रभावतः ।
ये पुनर्नुकरिष्यन्ति दामनं पर्वमानवाः ॥ ४ ॥
तेषान्तु चैत्रमासोत्थन्दत्तं पुण्यफलं मया ।
सप्ताम्यां वा त्रयोदश्यां गत्वा दमनकान्तिकम् ॥ ५ ॥
शोधयित्वास्त्र मन्त्रेण पजयेत्संहिताणुभिः ।
अथ सम्बोधयेद्दामं शिववाक्येन मन्त्रवित् ॥ ६ ॥
हरप्रसादसंलब्द त्वमन्त्रसन्निधी भव ।
शिवकार्यं समुद्दिश्यनेतव्योसि शिवाज्ञया ॥ ७ ॥
एवन्दमनमामन्त्र्य संरक्ष्य भवनं व्रजेत् ।
यदिदूरं समानीय समूलम्मृत्तिकान्वितम् ॥ ८ ॥
पुनरारोप्य मृत्पूर्णे पात्रे संसिच्य वारिणा ।
ग्रहेप्यामन्त्रणं कार्यं पूर्वोक्तविधिना बुधः ॥ ९ ॥
सायाह्नसमये प्राप्ते विदध्यादधिवासनम् ।
आहृत्य यागवस्तूनि कृतस्नानादि सत्क्रियः ॥ १० ॥
यथा विधिसमभ्यर्च्य भानुशङ्करपावकान् ।
पश्चिमे देवदेवस्य तस्य मूलम्मृदायुतम् ॥ ११ ॥
सद्योजातेन मनुना दीपितं हृदयेन वा ।
वामेन शिरसा वापि नालन्धात्रीमथोत्तरे ॥ १२ ॥
दक्षिणे भस्मपात्रञ्च शिखया रूपिणाथवा ।
पुंसा वा वर्मणा प्राच्यां सपुष्पं दन्तधावनम् ॥ १३ ॥
फलम्मूलेन गायत्र्या ऐशान्यां गन्धसंयुतम् ।
पञ्चाङ्गमञ्जलौ कृत्वा दामं पुष्पाक्षतान्वितम् ॥ १४ ॥
विज्ञापयेज्जगन्नाथन्दमणारोपणं प्रति ।
आमन्त्रितोसि देवेश प्रातः काले मया प्रभो ॥ १५ ॥
कर्तव्यञ्च यथा लाभं पूर्णं पर्वतवाज्ञया ।
इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिम् ॥ १६ ॥
संयोज्य शिवमन्त्रेण विदधीत जपादिकम् ।
शेषं पात्रे विनिक्षिप्य द्वितीयेन पिधाय तत् ॥ १७ ॥
पवित्रकविधानेन कवचेनावकुण्ठयेत् ।
एवं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् ॥ १८ ॥
हविस्तदनु भुञ्जीत यदि वा पवनाशनः ।
शिवाग्रे जागरं कृत्वा ध्यानगानजपादिभिः ॥ १९ ॥
प्रातस्नात्वा जगन्नाथमष्टपुष्पैस्समर्चयेत् ।
नित्यान्नैमित्तिकीञ्चैव कृत्वा पूजां विशेषतः ॥ २० ॥
दमनैः पूजयेद्देवं पञ्चाङ्गैरपि खण्डितैः ।
शेषमञ्जलिनादाय दूर्वापुष्पाक्षतान्वितम् ॥ २१ ॥
ध्यायन्नभिमुखन्देवं पञ्चवक्त्रं सदाशिवम् ।
आत्मविद्याशिवैस्तत्वैश्शिवाद्यैरीश्वरान्तकैः ॥ २२ ॥
पवित्रक विधानेन क्रमेण शिवमर्चयेत् ।
पूर्वोक्तैरात्मतत्वाद्यैः द्विचतुष्षट्स्वरान्वितैः ॥ २३ ॥
सबिन्दुकैश्च शान्तैश्च पवित्रमनुनाचरेत् ।
चतुर्थाञ्जलिमन्त्रस्तु प्रणवं शिवमन्त्रकम् ॥ २४ ॥
मखेश्वराय च मखं पूरयेति च वीप्सितम् ।
शूलपाणिञ्चतुर्थ्यन्तन्नमस्कारान्तमाचरेत् ॥ २५ ॥
प्रणम्य शिवमभ्यर्च्य पावकञ्च विधानवित् ।
विज्ञापयेत् शिवं पश्चात् वाञ्छितार्थफलप्रदम् ॥ २६ ॥
भगवन्नतिरिक्तं वा हीनं वा यन्मयाकृतम् ।
सर्वन्तदस्तु सम्पूर्णम्पर्व दामनकं मम ॥ २७ ॥
एवं दामविधिं कृत्वा कुर्वीत गुरुपूजनम् ।
परितोषकरं पश्चात् दीक्षितानपि तर्पयेत् ॥ २८ ॥
ग्रहस्थो ब्रह्मचारीवा य एनं कुरुते विधिम् ।
पूजा जपादिकन्तस्य स फलञ्चैत्रमासजम् ॥ २९ ॥
इति उत्तरकामिकाख्ये महातन्त्रे चैत्रमासदमनपूजाविधिः
त्रयोदशःपटलः