उत्तरे फाल्गुने मासे सर्वगन्धैश्च पूजयेत् ।
विशेषस्नपनोपेतं विशेषयजनान्वितम् ॥ १ ॥
दिक्पालात्पलवृद्ध्या तु पलसाहस्रकावधि ।
प्रमाणञ्चन्दनस्योक्तन्तदर्धमगरुर्भवेत् ॥ २ ॥
तत्पादं वा तदर्धं वा कुङ्कुमं स्यात्तदर्धतः ।
पादमष्टांशकं वेष्टन्तदर्धं पादमेव वा ॥ ३ ॥
कर्पूरद्विगुणं वापि पिष्ट्वा सर्वञ्च धूपयेत् ।
वासितं गन्धपुष्पैश्च सर्वमन्त्रैश्च मन्त्रितम् ॥ ४ ॥
घृतकम्बलमार्गेण संस्कृतं होमवर्त्मना ।
गन्धैरालिप्य लिङ्गन्तु सपीठं शिवमन्त्रतः ॥ ५ ॥
सुगन्धपुष्पमालाभिर्भूषयेल्लिङ्गपिण्डिके ।
कम्बलेन विना सर्वं घृतकम्बलवन्नयेत् ॥ ६ ॥
सर्वरोगसमुत्पत्तावद्भुते वाञ्छिताप्तये ।
आभिचारकृते दोषे विधानमिदमाचरेत् ॥ ७ ॥
इति उत्तरकामिकाख्ये महातन्त्रे फाल्गुनमास गन्धपूजाविधिः
द्वादशः पटलः