अथ वक्ष्ये विशेषेण शिवरात्रिव्रतं द्विजाः ।
श्रुण्वन्तु संयतायूयं व्रतानामुत्तमोत्तम् ॥ १ ॥
अनुष्ठितं पुरा देव्या यदन्यैरप्यनुष्ठितम् ।
मया सह मुदा सार्धं रमन्तीप्सितमाययुः ॥ २ ॥
न बाध्यन्ते यमादेशात् किङ्करैः क्रूरदृष्टिभिः ।
यमञ्चापि न पश्यन्ति नरकाणि च नो ययुः ॥ ३ ॥
श्रिणुध्वं तद्विधानं हि सर्वेषामपिसम्मतम् ।
माघमास्यासिते पक्षे विद्यते या चतुर्दशी ॥ ४ ॥
तद्रात्रिश्शिवरात्रिस्यात् सर्वपुण्यशुभावहा ।
तस्यामेव शिवपूजा शिवलिङ्गे शिवालये ॥ ५ ॥
कृतस्नानोपवासेन पूर्वेह्नि नियतेन च ।
साधकेनोपचारेण कर्तव्या श्रद्धया सह ॥ ६ ॥
पञ्चशुद्धिः पुरा कृत्वा पूर्वोक्त विधिना ततः ।
शिवासनं प्रकल्प्यात्र मूर्तिं विद्यातनुं ततः ॥ ७ ॥
आवाह्य सन्निधीकृत्य शिवं पाद्यादिनार्चयेत् ।
अभ्यर्च्य गन्धतैलेन पिष्टेनोद्वर्त्य शोधयेत् ॥ ८ ॥
पञ्चामृतैः पञ्चगव्यैस्तत्तद्युक्त्या भषेचयेत् ।
गन्धोदकेन विधिना घृताद्यैरभिषेचयेत् ॥ ९ ॥
पवित्रैः पञ्चभिः कुर्यात् पञ्चाङ्गैश्च क्रमेण तु ।
पिष्टेन पुनरप्येवमुद्वर्त्यामलकेन तु ॥ १० ॥
चूर्णेनापि सपिष्टेन रजन्या धूपितेन च ।
अस्त्रेण शोधितेनैव शोधयेदुदकेन च ॥ ११ ॥
नालिकेरोदकेनैव तं पश्चादभिषेचयेत् ।
गन्धोदकेन मूलाङ्गब्रह्मभिश्चाभिषेचयेत् ॥ १२ ॥
कार्पासकेन शुद्धेन वस्त्रेण परिमार्जितम् ।
लिङ्गमाच्छाद्य देवाङ्गाद्येन शुद्धेन वाससा ॥ १३ ॥
यामं प्रति पृथक् द्रव्यैर्गन्धाद्यैश्च समर्चयेत् ।
चन्दनागरुकर्पूर कुङ्कुमाद्यैः क्रमेण तु ॥ १४ ॥
मल्लिकोत्पलपुष्पैश्च जाति पुष्पैश्च बिल्वकैः ।
दूर्वाक्षततिलैश्चापि संयुक्तं सम्यगर्चयेत् ॥ १५ ॥
गुग्गुल्वगरुनिर्यास सर्जसारैश्च धूपयेत् ।
दीपयेत् सुसितेनैव वर्तिनाज्यप्लुतेन च ॥ १६ ॥
पायसं प्रथमे यामे द्वितीये कृसरं भवेत् ।
गौलमन्नन्तृतीयेन शुद्धान्नञ्च चतुर्थके ॥ १७ ॥
निवेद्य च ततः पश्चात् सर्वव्यञ्जन संयुतम् ।
सघृतं गुलसंयुक्तन्ताम्बूलञ्च निवेदयेत् ॥ १८ ॥
धूपमारात्रिकोपेतं शिवाय विनिवेद्य च ।
होमं कुर्याद्विशेषेण कुण्डे वा स्थण्डिलेथवा ॥ १९ ॥
कुण्डे कल्पेऽथवा पात्रे कुण्डसंस्कारपूर्वकम् ।
शिवाग्निं कल्पयित्वाग्नौ हृदि कल्प्य शिवासनम् ॥ २० ॥
सम्पूज्य तत्र देवेशञ्जुहुयात् ज्वलितेनले ।
समादाज्य हविर्लाज तिलैर्मूलाङ्गब्रह्माभिः ॥ २१ ॥
शिवाद्दशांशमन्येषां मन्त्राणामागुतिर्भवेत् ।
दशादिदशवृद्ध्यातु यावत्पञ्चदशाहुतिः ॥ २२ ॥
कृत्वा पूर्णां शिवेनैव निच्छिद्रपरिपूरणीम् ।
वन्दयित्वाथ तम्भस्मदेवेशमभिवन्द्य च ॥ २३ ॥
पूजयेत् पुनरप्येवं प्रतियामं पुनः पुनः ।
स्वयं कर्तृमशक्तश्चेत् स्वार्थमन्येव कारयेत् ॥ २४ ॥
नीत्वा जागरणं रात्रौ प्रभाते विमले ततः ।
कृतनित्यक्रियः पश्चात् स्नपनं विधिपूर्वकम् ॥ २५ ॥
देवं पूर्ववदभ्यर्च्य गुरुपूजान्ततो नयेत् ।
दक्षिणाञ्च ततो दद्यात् वित्तशाठ्य विवर्जितः ॥ २६ ॥
लिङ्गिनश्शिवभक्तांश्च ब्राह्मणानतिथीनपि ।
पूजयेच्छक्तितो भक्त्या पूजां सम्यक् समाप्य च ॥ २७ ॥
गत्वा बन्धूजनैस्सर्धं स्वगृहं प्रतिसाधकः ।
पादौ हस्तौ च सङ्क्षाल्य पारणन्तु समाचरेत् ॥ २८ ॥
इति उत्तरकामिकाख्ये महातन्त्रे माघशिवरात्रिपूजाविधिः एकादशः
पटलः