१० माघमासे घृतकम्बलपूजाविधिः

माघमासे मघर्क्षे तु कुर्याद्वै घृतकम्बलम् ।
कापिलं केवलञ्चाज्यं कृमि कीटादिवर्जितम् ॥ १ ॥
नीरोमं नूतनं शुद्धं सुगन्धं स्थापयेत् गुरुः ।
शस्त्रेण निक्षिपेत् तोये वारुणं बीजमुच्चरन् ॥ २ ॥
तदाज्यं पिण्डवत् कृत्वा कुङ्कुमागरुसंस्कृतम् ।
हरिद्राचूर्णकर्पूर चूर्णाभ्यामपि संस्कृतम् ॥ ३ ॥
हेमादि पात्रे संस्थाप्य धूपयित्वाभिमन्त्रयेत् ।
पञ्चब्रह्मषडङ्गैश्च शिवेन तदनन्तरम् ॥ ४ ॥
विशेषस्नपनं कुर्यात् पञ्चगव्यामृतैस्तु वा ।
विशेषपूजां कृत्वान्ते स्थण्डिले स्थापयेत् घृतम् ॥ ५ ॥
गनधाद्यैरर्चयेद्धीमान् हृन्मन्त्रं सम्यगुच्चरन् ।
तत्पूर्वे स्थण्डिले धीमान् तर्पयेच्छिवपावकम् ॥ ६ ॥
पलाशसमिदाज्यान्न तिललाजसमन्वितम् ।
शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ॥ ७ ॥
घृते सम्पातहोमञ्च पवित्रारोहवर्त्मना ।
कृत्वा संस्थापयेत्पूर्वं स्थण्डिले सापिधानकम् ॥ ८ ॥
कवचेनावकुण्ठ्याथ प्रातर्मध्याह्न एव वा ।
सम्पूज्य पूर्ववद्देवं स्नपनादि समन्वितम् ॥ ९ ॥
विशेषेणार्चयित्वा तु सर्वालङ्कारसंयुतम् ।
धामप्रदक्षिणं कृत्वा शिवमन्त्रं समुच्चरन् ॥ १० ॥
लिङ्गं सर्वत्र चालिप्य पीठान्तं सर्वपीठकम् ।
गन्धाद्यैरर्चयित्वा तु कम्बलेन च वेष्टयेत् ॥ ११ ॥

दद्यादेवं हविश्शम्भोस्ताम्बूलेन समन्वितम् ॥ १११।२ ॥
सन्ध्यन्तरेपरेद्युर्वा कम्बलाद्यं विवर्ज्य च ।
पूर्ववत् पूजयेद्देवं गुरुं सम्पूजयेत्तदा ॥ १२१।२ ॥
दक्षिणां दापयेत्तस्य यथा विभवविस्तरम् ।
अङ्कुरार्पणपूर्वं वा रहितं वैतदाचरेत् ॥ १३१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे घृतकम्बलपूजाविधिः दशमः पटलः