क्षौद्रपूजा विधिः
मार्गशीर्षाख्य मासे तु यजेदार्द्रोडुके शिवम् ।
घृतस्नानसमोपेतं प्रागुक्तविधिना सह ॥ १ ॥
केवलस्नपनं वापि कारयित्वा विशेषतः ।
गन्धाद्यैरर्चयेद्देवं नानागानैश्च तोषयेत् ॥ २ ॥
ग्रामप्रदक्षिणन्नीत्वा देवं धाम्नि निवेशयेत् ।
अथवा बलिहोमाभ्यां युक्तं रात्रौ दिवावपि ॥ ३ ॥
बेरप्रदक्षिणं कृत्वा सर्वालङ्कार संयुतम् ।
चूर्णोत्सव समायुक्तं तीर्थं कृत्वाऽऽलयं विशेत् ॥ ४ ॥
डोलारोहन्ततः कुर्यात् सायाह्न समये द्विजाः ॥ ४१।२ ॥
सर्वालङ्कारसंयुक्तं कृत्वा स्तम्भद्वयं तथा ।
स्तम्भलक्षणसंयुक्तं तयोर्यष्टिन्निवेशयेत् ॥ ५१।२ ॥
तन्मध्ये विन्यसेड्डोलाञ्चतुर्हस्तसमन्विताम् ।
चतुर्बाहु समायुक्तामूर्ध्वप्रच्छादनान्विताम् ॥ ६१।२ ॥
नानालङ्कारसंयुक्ता मथबाहुद्वयान्विताम् ।
एकहंसासनोपेतां पुण्याह प्रोक्षणान्विताम् ॥ ७१।२ ॥
अस्त्रतोयेन सम्प्रोक्ष्य कल्पयेदासनं यथा ।
फलकायां यजेद्धंसं हृदा हंसासने यजेत् ॥ ८१।२ ॥
ब्रह्माणन्दक्षिणे बाहौ वामबाहौ यजेद्धरिम् ।
विष्टरे रुद्रमिष्ट्वा तु फलकोर्ध्वे शिवं यजेत् ॥ ९१।२ ॥
वामे देवीं समभ्यर्च्य सेनानीन्मध्यमे यजेत् ।
गन्धाद्यैरथवा देवीमर्चयेत् फलकोपरि ॥ १०१।२ ॥
नानागानसमायुक्तन्नाना नृत्तसमन्वितम् ।
नानावाद्यसमोपेतं तदा सन्तोषयेद्धरम् ॥ १११।२ ॥
अन्यत्रापि च कर्तव्यं डोलरोहणमिष्टदम् ।
प्रत्यहं वा विधेयं स्यात् सर्वकामार्थसिद्धये ॥ १२१।२ ॥
डोलाचलनमिष्टं स्यात् बेरस्यारोहणेन च ।
अस्मिन् मासे सपित्रर्क्षे विशेषाज्यसमन्वितम् ॥ १३१।२ ॥
पायसं दापयेच्चम्भोर्देव्या अपि च सम्मतम् ॥ १४ ॥
पुष्यमासे तु पुष्यर्क्षे कुर्यात् क्षौद्राभिषेचनम् ।
महाहविर्निवेद्यान्ते बेरयात्रां प्रकल्पयेत् ॥ १५ ॥
पूर्वोक्तविधिना कर्ता फलमिष्टमवाप्नुयात् ॥ १५१।२ ॥
इति उत्तरकामिकाख्ये महातन्त्रे मार्गशीर्ष पुष्यमास पूजाविधिः
नवमः पटलः
९
डोरारोहं ततः कुर्यात् सायान्हसमये द्विजाः ।
सर्वालङ्कार संयुक्तं कृत्वा स्तम्भद्वयं तथा ॥
स्तम्भलक्षण संयुक्तं तयोर्यष्टिं निवेशयेत् ।
तन्मध्ये विन्यसेड्डोलां चतुर्हस्त समन्विताम् ॥
चतुर्बाहु समायुक्ताम् ऊर्ध्व प्रच्छादनान्विताम् ।
नानालङ्कार संयुक्तामथ बाहुद्वयान्विताम् ॥
एक हंसासनोपेता पुण्याह प्रोक्षणान्विताम् ।