दीपावलिं प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः ।
मासे तु कार्तिकाख्ये तु नक्षत्रे कृत्तिकाह्वये ॥ १ ॥
पूर्णायां वाथ तद्योगे सर्वकामप्रसिद्धये ।
रव्यस्तमय वेलायान्दीपारोहणमाचरेत् ॥ २ ॥
कर्तुरष्टमराश्यादि लग्नदोषनिरीक्षणम् ।
वृष्टिवैनाशिकर्क्षादि प्रेक्षणन्तत्र सम्मतम् ॥ ३ ॥
रवेरस्तमयात्पूर्वं यामपादावसानकम् ।
कालस्तदूर्ध्वं यामार्धपर्यन्तः काल एव वा ॥ ४ ॥
एवन्निश्चित्य कालन्तु कारयेद्वाङ्कुरार्पणम् ।
दीपाराधनपूवेद्युरधिवासनमारभेत् ॥ ५ ॥
देवाग्रे स्थापयेद्दण्डं प्रतिगोपुरमेव वा ।
अष्टदिक्षु चतुर्दिक्षु त्रिष्वेकत्र च वा द्वयोः ॥ ६ ॥
दीपदण्डप्रमाणन्तु ध्वजदण्डप्रमाणवत् ।
स दण्डो नालिकेरो वा तालः क्रमुकवेणुजौ ॥ ७ ॥
ध्वजदण्डोक्तदण्डो वा तत्र कीलांश्च योजयेत् ।
द्वादशाङ्गुलमारभ्य व्योमाङ्गुलविवृद्धितः ॥ ८ ॥
पञ्चाशत्करजान्तं तुदण्डात्कीलविनिर्गमः ।
द्विमात्रात् पादवृद्ध्यातु षडङ्गुलसमावधि ॥ ९ ॥
विस्तारस्यात् घनस्तस्य त्र्यंशमर्धं त्रिपादकम् ।
दण्डप्रोक्ता भवेयुर्वा लग्ना वा कीलपादपाः ॥ १० ॥
नवकीलं समारभ्य व्योमकीलविवृद्धितः ।
सप्तविंशतिकीलान्तं दिश्येकस्यां नियोजयेत् ॥ ११ ॥
विसृष्वन्यासु दिक्ष्वेवं कीलांश्च विनिवेशयेत् ।
त्रिकीलं वा चतुष्कीलमिष्टमानसमन्वितम् ॥ १२ ॥
तदग्रे स्थापयेत् पात्रधारणार्थं विशेषतः ।
दारूद्भवानि चक्राणि प्रतिकीलन्तु योजयेत् ॥ १३ ॥
दीपिकाः प्रतिचक्रन्तु वसुद्वादशषोडश ।
योजयेद्वा बहिश्शुष्कैः नालिकेरदलादिभिः ॥ १४ ॥
छादयेद्वाथ चक्राणि तन्निच्छिद्रं यथा भवेत् ।
एकहस्तविशालन्तु द्विगुणायतसंयुतम् ॥ १५ ॥
दक्षिणे कल्पयेत् द्वारं दण्डारोहणसिद्धये ।
कल्पमेतत्समाख्यातमनुकल्पमथोच्यते ॥ १६ ॥
हित्वा चक्राणि सर्वाणि प्रतिकीलन्तु दीपिकाः ।
योजयेदुपकल्पं स्याद्धोमकूटविवर्जितम् ॥ १७ ॥
दण्डं विहाय यत्कॢप्तमकल्पमिति कथ्यते ।
दीपकूटान्नयेद्दिक्षु विदिक्ष्वपि तदन्तरे ॥ १८ ॥
प्रतिवेदन्तु कर्तव्या दीपिका बहुसङ्ख्यया ।
स्थापयेत् दीपदण्डांश्च मालाकारेण वा बहून् ॥ १९ ॥
तोरणाकारतोपिवा वृत्ताकारेण वा बहून् ।
प्रभाकारांश्च वा कृत्वा तत्र दीपांश्च योजयेत् ॥ २० ॥
प्रासादे गोपुरे शाले परिवारालयादिषु ।
मण्टपे बलिपीठादौ कूपे वाथ गृहेपि वा ॥ २१ ॥
वृषे महानसे कुर्यात् पुष्पमण्टपिकादिषु ।
बहिर्वा कल्पयेद्दीपान् ग्रामादिष्वपि सर्वतः ॥ २२ ॥
दीपावलिरियं कार्या अधिवासनपूर्वकम् ।
अस्त्रेण शोधयेद्दण्डं प्रणवेन तु पूजयेत् ॥ २३ ॥
षट्चतुःपञ्चतालेनावटं भूमौ समाचरेत् ।
स्थापयित्वा तु पूर्वेद्युः स्तन्मूले वेदिकां नयेत् ॥ २४ ॥
ध्वजदण्डे यथा देवी किन्तु पद्मयुतन्तु वा ।
शिल्पिनं मोचयित्वान्ते पुण्याहं वाचयेत्ततः ॥ २५ ॥
दीपेन पूजयेद्दण्डं गन्धपुष्पादि संयुतम् ।
बध्वा प्रतिसरञ्चान्तः प्रविश्येदं समाचरेत् ॥ २६ ॥
आलये मण्टपे वापि यागमण्टप एव वा ।
मनोरमे शुभेन्यत्र गोमयेनोपलेपिते ॥ २७ ॥
स्थण्डिलन्तत्र सङ्कल्प्य शस्त्रेण प्रोक्षयेत् गुरुः ।
नववा पञ्चपात्राणि वैकं वा तत्र विन्यसेत् ॥ २८ ॥
नीराजनविधौ देवास्ते सर्वेत्रापि च सम्मताः ।
पात्रे प्रणव इत्युक्तश्चन्दनाद्यैस्समर्चयेत् ॥ २९ ॥
कुण्डं वा स्थण्डिलं वापि तत्पूर्वस्मिन् प्रकल्पयेत् ।
शिवाग्निं तत्र सम्पाद्य शिवं साङ्गञ्च तर्पयेत् ॥ ३० ॥
समिधाज्येन चरुणा ततः कार्पासबीजतः ।
क्षीरेण शतमर्धं वा तदर्धं वा समाचरेत् ॥ ३१ ॥
मूलेनाङ्गैर्दशांशेन वह्निबीजमनुस्मरन् ।
शतमष्टोत्तरं हुत्वा पूर्णामन्ते विधाय च ॥ ३२ ॥
देवं साङ्गं विसृज्याथ दीपानारोपयेत् गुरुः ।
तैलाज्येनवापूर्य पात्रं सर्वात्मकं स्मरन् ॥ ३३ ॥
वह्निबीजमनुस्मृत्य मध्यादिभ्यः क्रमेण तु ।
गन्धपुष्पादिभिश्चेष्ट्वा शिवाग्निञ्च विसर्जयेत् ॥ ३४ ॥
गृहीत्वा मध्यपात्रं तु दीपदीपिकया गुरुः ।
सर्वालङ्कारसंयुक्तं तरुणाख्यन्तु दीपकम् ॥ ३५ ॥
दण्डोर्ध्वे स्थण्डिलेवापि हृदयेन निवेशयेत् ।
होमान्ते दीपदण्डस्य कौतुकं वा समाचरेत् ॥ ३६ ॥
ततो द्वितीयदिवसे चतुर्दिक्षुविदिक्षु च ।
चतुस्तोरणसंयुक्तञ्चतुष्कूटसमन्वितम् ॥ ३७ ॥
कूटानि पञ्चवेदाग्नि हस्तानिष्टान्तराणि च ।
पूर्वस्यामथवाग्नेय्यां कूटमेकन्तु वा नयेत् ॥ ३८ ॥
तोरणानि यथायोग्यन्नयेदिच्छावशेन तु ।
सर्वत्र तोरणं कूटन्दर्भमालादिशोभितम् ॥ ३९ ॥
सर्वालङ्कारसंयुक्तं कदलीपूगसंयुतम् ।
एवं सम्पाद्य सर्वन्तु मन्दीभूते दिवाकरे ॥ ४० ॥
पुण्याहं वाचयित्वा तु दण्डं गन्धादिनार्चयेत् ।
वस्त्रयुग्मेन चैकेन वेष्टयेद्दण्डमूलकम् ॥ ४१ ॥
स्वर्णादि निर्मितं पात्रं दण्डोर्ध्वे विनिवेशयेत् ।
कार्पास बीजसाराभ्यां युक्तन्तैलाज्यसंयुतम् ॥ ४२ ॥
कूटेषु योजयेद्धीमान् कुण्डेषु स्थण्डिलेषु वा ।
अधिवासन होमेन समं होमं समाचरेत् ॥ ४३ ॥
वह्नावीशे तु कूटे वा देशिको होममाचरेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ४४ ॥
अत्र होमाधिपाः प्रोक्ता दीपदण्डे सदाशिवः ।
पलाशवटशम्यर्कान् सर्वे वह्नेरथापि वा ॥ ४५ ॥
आचार्यं पूजयेत्पश्चात् वस्त्रकाञ्चनभूषणैः ।
पूर्णाहुतिप्रदानान्ते सर्वादीपाद्विजोत्तमाः ॥ ४६ ॥
एकीकृत्य हृदा पात्रे स्थापयेत् वह्निबीजतः ।
सर्वालङ्कारसंयुक्तं मङ्गलाङ्कुर शोभितम् ॥ ४७ ॥
वितानध्वजसंयुक्तं छत्रचामरसंयुतम् ।
नानावाद्यसमायुक्तन्नानानृत्तसमन्वितम् ॥ ४८ ॥
बेरेण च समायुक्तं बेरयात्रायुतन्नवा ।
ग्रहस्थे ब्रह्मचारी वा दीपं सङ्ग्राह्य पाणिना ॥ ४९ ॥
दण्डं शीघ्रं समारुह्य तदूर्ध्वे सौम्यवक्त्रयुक् ।
दीपयेदूर्ध्वपात्रे तु तस्मात् सोप्यवतार्य तु ॥ ५० ॥
विज्ञापयेन्महेशाय तस्मिन् काले तु चक्रगान् ।
मूर्धादि पादपर्यन्तन्दीपानारोप्ययेत्ततः ॥ ५१ ॥
दीपारोपणकर्तारं पूजयेत् परिचारकम् ।
वस्त्राद्यैर्देशिको धीमानुत्तराभि मुखस्थितः ॥ ५२ ॥
ज्योतिलिङ्गमनुस्मृत्य दहेत् कूटचतुष्टयम् ।
अथवा कूटदाहञ्च हित्वान्यत् सर्वमाचरेत् ॥ ५३ ॥
तोरणाधो नयेद्देवं दीपदण्डप्रदक्षिणम् ।
कारयित्वा त्रयं ग्रामं नयेद्दीपसमन्वितम् ॥ ५४ ॥
हर्म्य प्रदक्षिणं कृत्वा नयेदास्थानमण्टपम् ।
प्रासादादिषु सर्वत्र दीपानारोपयेत्तदा ॥ ५५ ॥
प्रविश्य देवतास्थानं परिवेषक्रमं नयेत् ।
स्नपनं कारयेन्नो वा बेरलिङ्गं तदुक्तितः ॥ ५६ ॥
प्रभूतन्तु हविर्दत्वा ताम्बूलन्तु निवेदयेत् ।
पृथुकन्दापयेद्देवे नालिकेरफलान्वितम् ॥ ५७ ॥
मरीचजीरकोपेतं गुलसारसमन्वितम् ।
अङ्कुरार्पणहीनं वा क्रियामेनां समाचरेत् ॥ ५८ ॥
गुरवे दक्षिणान्दद्याद्धोतृभ्यस्तदनन्तरम् ।
अत्रोपयोगियत् द्रव्यं होमकूटादि दण्डकम् ॥ ५९ ॥
तदङ्गमपरं चान्यद्देशिकाय प्रदापयेत् ।
इदं कर्म विधेयं स्यात् राज्ञामावासकेपि च ॥ ६० ॥
ग्रामादौ च विधेयं स्यात् ब्रह्मस्थानादिषु द्विजाः ।
अन्येषामपि मर्त्यानां वाहनानां क्षयेपि च ॥ ६१ ॥
गोशालायां विशेषेण तेषां रोगनिवृत्तये ।
यान्तिथिं समनुप्राप्य उदयं याति भास्करः ॥ ६२ ॥
सा तिथिस्सकला ज्ञेया शुक्ले कृष्णे द्विजोत्तमाः ॥ ६२१।२ ॥
यदृक्षं समनुप्राप्य अस्तं याति भास्करः ।
तदुक्तं सकलं ज्ञेयं नक्षत्रेप्येवमेव तु ॥ ६३१।२ ॥
एवं ज्ञात्वा प्रयोक्तव्यं सर्वकर्मद्विजोत्तमाः ॥ ६४ ॥
इति उत्तरकामिकाख्ये महातन्त्रे कृत्तिका दीपावलि विधिः अष्टमः पटलः
८
ध्वज दण्डोक्त दण्डोवा तत्रकीलांश्च योजयेत् ।
द्वादशाङ्गुलमारभ्य व्योमाङ्गुल विवृद्धितः ॥
पञ्चाशत्करजान्तं तु दण्डात्कीलविनिर्गमः ।
द्विमात्रात् पाद वृद्ध्यां तु षडङ्गुल समावधिः ॥
विस्तारः स्यात् घनं तस्य त्र्यंशमर्धं त्रिपादकम् ।
दण्डप्रोता भवेयुर्वा लग्नावा कीलपादपाः ॥
नव कीलं समारभ्य व्योमकील विवृद्धितः ।
शप्तविंशति कीलान्तं दिश्येकस्यां नियोजयेत् ॥
त्रिकीलं वा चतुष्कीलं मिष्टमान समन्वितम् ।
तदग्रे स्थापयेत् पात्रधारणार्धं विशेषतः
दारूद्भवानि चक्राणि प्रतिकीलं तु योजयेत्
दीपिकाः प्रतिचक्रं तु वसु द्वादश षोडश ॥
दक्षिणे कल्पयेद्वारं दण्डारोहण सिद्धये ॥
लोकः ३
कर्तुरष्टमराश्यादि लग्नदोष निरीक्षणम् ।
विष्टि वैनाशिकर्क्षादि प्रेक्षणं तत्र सम्मतम् ॥
करणदोषः विष्टिः
चतुर्थ्याम् अपरे विष्टिः अष्टम्यां पूर्वभागतः
एकादश्यां परे विष्टिः पूर्वे पूर्णे तु पर्वणि
तृतीयायां पटे कृष्णे सप्तम्यां पूर्वभागतः
दशम्याम् अपरे विष्टिः चतुर्दश्यां तु पूर्वतः
वैनाशिकः
द्वाविंशज्जन्मनक्षत्राद्वैनाशिकमिति स्मृतम्