०७ निराजनविधिः

नीराजनविधिं वक्ष्ये स च रात्रौ विधीयते ।
प्रदोषादौ विधेयो वा धूपदीपावसानके ॥ १ ॥
उत्सवादौ च कर्तव्यमन्यस्मिन् मङ्गलेपि च ।
तदर्थं स्थण्डिलं कुर्यात् मण्डलं वा समाचरेत् ॥ २ ॥
गर्भेऽर्धमण्डपे वापि स्नपनाख्ये तदग्रके ।
महानसेवाचान्यस्मिन् प्रोक्षयेदस्त्रमन्त्रतः ॥ ३ ॥
पात्राण्याहृत्य शुद्धानि दीपाधारयुतानि च ।
पात्राणि च विधेयानि बलिपात्रोक्तवर्त्मना ॥ ४ ॥
दीपाधारांश्च तन्मध्ये कारयेदेकमात्रतः ।
पादाङ्गुलविवृद्ध्यातु नवाङ्गुलसमाविधि ॥ ५ ॥
विस्तारस्तत्समोवापि तदर्धं वोच्चमिष्यते ।
वसुधा मध्यमे भक्ते नवधामानमीरितम् ॥ ६ ॥
ओष्ठो यवद्वयादर्धवृद्ध्या मात्रावसानकः ।
पात्रमान घनं चार्धं मध्ये सुषिरसंयुतम् ॥ ७ ॥
पद्माकारञ्च वा कुर्यात् पालिकापादसन्निभम् ।
धुर्तूरकुसुमाकारं शरवाकारमेव वा ॥ ८ ॥
चतुरष्टदलोपेतं सर्वालङ्कारसंयुतम् ।
एकपात्रे भवेदेकदीपाधारन्तु पञ्च वा ॥ ९ ॥
नव वा कारयेत्तांश्च संसक्तान् सान्तरांस्तु वा ।
पिष्टेनान्नेन वा दीपाधारान्देवार्थमेव वा ॥ १० ॥
देव्यर्थं प्रतिमार्थञ्च विशेषान्नृत्त रूपिणः ।
एकत्र तिलमन्यत्र सर्षपं लवणन्तथा ॥ ११ ॥
कार्पासबीजमन्यत्र गोमयं पिष्टमेव वा ।
वर्णभक्त हविष्यं च वटाश्वदकानि ॥ १२ ॥
चतुर्दिक्षु च कोणोषु क्रमेण परिकल्पयेत् ।
मध्यमे दीपपात्रन्तु पञ्च वा परिकल्पयेत् ॥ १३ ॥
गन्धमर्घ्यञ्च पुष्पञ्च भस्मचाग्नेयकोणतः ।
सर्वत्र दीपान्वा कुर्यान्नवसङ्ख्यान् समुज्वलान् ॥ १४ ॥
घृतार्द्रांस्तैलसंयुक्तान् ब्रह्माङ्गसहितान्यसेत् ।
लोकपाला विरिञ्चेन मूर्तयोमूर्तिपास्तु वा ॥ १५ ॥
वसवो वह्निसंयुक्ता वामाद्याश्शक्तयः पराः ।
कलाभूतानि देवांश्च ब्रह्माद्याः कारणेश्वराः ॥ १६ ॥
पात्रदेवास्समाख्याता वह्निर्वादीपदेवताः ।
प्रस्थपादादि तद्वृद्ध्यातु चाढकान्तमुदाह्रतम् ॥ १७ ॥
तिलादीनां प्रमाणन्तु पात्राणां कर्तुरिच्छया ।
संस्कारैस्सर्वसामान्यैः संस्कृत्योक्त क्रमेण च ॥ १८ ॥
वह्नि बीजमनुस्मृत्य दीपं दीपेन नियोजयेत् ।
सर्वातोद्यसमायुक्तं शङ्खध्वनि समन्वितम् ॥ १९ ॥
गामनृत्तसमायुक्तं धारयेत्तान्यथाक्रमात् ।
स्त्रीभिर्वावाहयेद्दीपानथवा परिचारकैः ॥ २० ॥
देवाग्रे स्थापयित्वा तां त्रिपाद्युपरि पूजयेत् ।
दत्वा पाद्यमजातेन दद्यादाचमनं हृदा ॥ २१ ॥
गन्धादिनार्चयेत् सर्वान् स्वबीजेन हृदादिना ।
त्रिवारमेकवारं वा भ्रामयेच्छिवमूर्धनि ॥ २२ ॥
सङ्गृह्य तानि हस्ताभ्यां दीपपात्राणि पूजयेत् ।
आत्मतत्वादिभिर्मन्त्रैः दद्याच्छिष्य कराम्बुजे ॥ २३ ॥
सोपि सङ्गृह्य तं दीपं सप्रणामन्निवेशयेत् ।
सितं पूतं सुगन्धञ्च निर्वालुकमनन्तरम् ॥ २४ ॥
गृहीत्वा भस्महस्तेन भ्रामयित्वा शिवोपरि ।
त्रिवारन्दीपमध्ये तु निक्षिप्य तदनन्तरम् ॥ २५ ॥
अङ्गुष्ठानामिकाभ्यान्तु तिलकं पञ्चवक्त्रके ।
ललाटेषु क्रमात् कुर्याद्धृदि बाह्वोरनुक्रमात् ॥ २६ ॥
पीठेपि तिलकं कुर्याद्देवीं वामप्रदेशके ।
देवी व्यक्तस्वरूपाचेत्तिलकञ्च पुरो भवेत् ॥ २७ ॥
कण्ठप्रदेशे मूलेन हृदयेनाथवानयेत् ।
बेरे ललाटहृत्बाहुप्रदेशे तिलकन्नयेत् ॥ २८ ॥
तद् भस्मना समादाय स्वल्पञ्चण्डेश्वरादिषु ।
भक्तेष्वन्येषु लोहादि कृतबेरेषु दापयेत् ॥ २९ ॥
ततो भक्तजनेभ्यश्च दद्याद्देशिक पूर्वकम् ।
सर्वालङ्कारसंयुक्तं पात्राण्याहृत्यपूर्ववत् ॥ ३० ॥
सज्वालान्यथ निर्ज्वालान्यादाय शिवमन्दिरात् ।
पीठाग्रे वृषभागे वा गोपुरस्यान्तिकेपि वा ॥ ३१ ॥
वृषमूलेथवान्यस्मिन्निक्षिपेत्ताननुक्रमात् ।
द्रव्याणि गुरवे दद्याद्दहेद्वातेन वह्निना ॥ ३२ ॥
तिलादीनां प्रमाणन्तु यथेष्टं वा प्रकीर्तितम् ।
राज्ञामपि च कर्तव्यं किन्त्वग्निस्तत्र देवता ॥ ३३ ॥
राज्ञाभिषेककलादौ कुर्याद्विजयहेतवे ।
देशिकस्याभिषेकेपि किन्तु दीपविवर्जितम् ॥ ३४ ॥

तण्डुला विहितास्तत्र रात्रौचेद्दीपसंयुतम् ॥ ३४१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे निराजनविधिःसप्तमः पटलः