०६ महोत्सवविधिः

उत्सवं सम्प्रवक्ष्यामि यथावदनुपूर्वकम् ।
ध्वजारोहावरोहान्ता क्रिया उत्सव उच्यते ॥ १ ॥
ध्वजाङ्कुरो ध्वजङ्गस्यात् ध्वजात् पूर्वन्तु तन्नयेत् ।
तीर्थर्क्षमादौ निश्चित्य तत्पूर्वे त्रिगुणेपि वा ॥ २ ॥
द्विगेणे तद्दिने वापि ध्वजारोहणमारभेत् ।
मासभं तीर्थनक्षत्रमार्द्रक्षं सर्वमासके ॥ ३ ॥
राज्ञां जन्मावसानर्क्षमाभिषेकर्क्षमेव वा ।
माघमासे तु षष्ठ्यन्तं पर्वान्तं सर्वमासके ॥ ४ ॥
विषुवायनपर्यन्तं ग्रहणान्तन्तु तीर्थभम् ।
भूताष्टम्यन्तमन्येषां स्वस्वतीर्थावसानकम् ॥ ५ ॥
त्रिगुणे द्विगुणे वापि तद्दिने वाह्नि रात्रिके ।
अधिवासनपूर्वन्तु ध्वजमारोपयेत् गुरुः ॥ ६ ॥
पञ्चहस्तादि विस्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् ।
मानमेतत् समाख्यातं शिरः पुच्छान्तरे द्विजाः ॥ ७ ॥
तत्संयुक्तञ्च वा ग्राह्यं चतुस्सप्तसमावधि ।
भागं कृत्वैकभागेन पटविस्तार उच्यते ॥ ८ ॥
विस्तारेण समः पुच्छस्त्रिपादंवार्धमुच्यते ।
विस्तारार्धं शिरो ज्ञेयं पुच्छद्वयसमन्वितम् ॥ ९ ॥
वेत्रद्वयसमायुक्तं तन्मध्ये वृषभं लिखेत् ।
आयादि शुभसंयुक्तं स्थितं वा शयनान्वितम् ॥ १० ॥
श्वेतं वा रक्तवर्णं वा पीतं वालसमन्वितम् ।
रक्तशृङ्गसमायुक्तं तद्वत् खुरसमन्वितम् ॥ ११ ॥
ग्रामाभिमुखसंस्थानं ग्रामादिभ्रमणे वृषम् ।
विश्वामित्रादि षट्त्रिंशन्मात्रोत्सधसमन्वितम् ॥ १२ ॥
जात्यायांशसमायुक्तं त्रिवर्णनयनान्वितम् ।
सर्वलक्षणसंयुक्तं स्वर्णमालासमन्वितम् ॥ १३ ॥
मानं मात्राङ्गुलाभ्यां स्यात् ध्वजदण्ड पटोवृषः ।
पद्मासनसमायुक्तं पार्श्वे दीपद्वयान्वितम् ॥ १४ ॥
चामरद्वयसंयुक्तं छत्रसंवृतमस्तकम् ।
पूर्णकुम्भयुतं वापि त्रिशूलेन युतन्नवा ॥ १५ ॥
एवं वृषं समापाद्य कृत्वा वा नेत्रमोक्षणम् ।
अस्त्र तोयेन सम्प्रोक्ष्य शिवाग्रे मण्टपेपि वा ॥ १६ ॥
मनोरम्येऽन्यदेशे वा स्थण्डिलद्वयसंयुते ।
स्थालिकोर्ध्वे न्यसेत्पात्रं त्रिपाद्युपरिसंस्थितम् ॥ १७ ॥
ध्वजन्नवघटं वस्त्रहेमरत्नं सकूर्चकम् ।
सापिधानं ससूत्रञ्च मध्यमे वृषभाधिपम् ॥ १८ ॥
कलशैरष्टसङ्ख्यातैस्सापिधानैस्सवस्त्रकैः ।
सलोकपैस्सकूर्चैस्तु वृतं वृषभपूर्वकम् ॥ १९ ॥
आधाराख्यमनन्तञ्च धर्माद्यञ्च चतुष्टयम् ।
वृषासनपदञ्चोक्त्वा चतुर्थ्यन्तं हृदान्वितम् ॥ २० ॥
प्रणवादि नमोन्तञ्च कृत्वोक्षासनमत्रहि ।
वृकारं हृत्पुटं कृत्वा वृषमूर्तिं प्रकल्पयेत् ॥ २१ ॥
ऊर्ध्वे ब्रह्माणि विन्यस्य मूलन्तत्कल्पितन्यसेत् ।
सङ्कल्पितहृदादींश्च क्रमेण विनिवेशयेत् ॥ २२ ॥
तत्वतत्वेश्वरोपेतं मूर्तिमूर्तिश्व्रान्यसेत् ।
आवाहनादिकं पूर्वं प्रमुखं वृषमूलतः ॥ २३ ॥
कृत्वा वृषभगायत्र्या गन्धाद्यैः क्रमशोर्चयेत् ।
मध्यकुम्भेऽपि सम्पूज्य लोकपान् परितो यजेत् ॥ २४ ॥

वृषभ गायत्री- तीक्ष्णशृङ्गाय विग्रहे वेदपादाय धीमहि ।
तन्नो वृषभः प्रचोदयात् ॥

कुण्डे वा स्थण्डिले वापि पूर्ववत्परिकल्पिते ।
निरीक्षणादि संस्कारैश्शिवाग्निं सम्प्रकल्पयेत् ॥ २५ ॥
तन्मध्ये वृषमावाह्य साङ्गं सन्तर्पयेत्तदा ।
सामिदाज्येन चरुणा शतेनाष्टोत्तरेण च ॥ २६ ॥
तत्वतत्वेश्वरादींश्च होमयेत्तदनन्तरम् ।
पूर्णान्दत्वा समूलेन सर्वकामप्रपूरणीम् ॥ २७ ॥
सम्पूज्य गन्धपुष्पाद्यैः मुद्गान्नन्तु निवेदयेत् ।
पटस्थाय घटस्थाय वृषायासन रूपिणे ॥ २८ ॥
प्रातस्सम्पूज्य गन्धाद्यैः पटं कुम्भं यथाक्रमम् ।
मुखवासनताम्बूलं वृषभाय निवेदयेत् ॥ २९ ॥
पुनः पूर्णाहुतिन्दत्वा सर्वमङ्गलसंयुतम् ।
सर्वातोद्य समायुक्तन्नृत्तवाद्यसमन्वितम् ॥ ३० ॥
रङ्गे वा शिबिकायां वा समारोप्य वृषध्वजम् ।
त्रिशूलेन समायुक्तन्देवेशेन युतन्नवा ॥ ३१ ॥
ग्रामदक्षिणन्नीत्वा प्रविशेदालयं प्रति ।
दण्डं संस्थापयेत्पश्चात् सर्वलक्षणसंयुतम् ॥ ३२ ॥
ध्वजारोहणदिने वापि अधिवासदिनेपि वा ।
धामोच्चस्तारसदृशः द्विगुणस्त्रिगुणोपि वा ॥ ३३ ॥

षट्सप्तवसुहस्तेन दण्डस्यादधमत्रये ॥ ३३१।२ ॥

एकादितलपर्यन्तं गोपुरान्तमथापि वा ॥ ३४ ॥
रुद्रद्विगुणमध्यस्थकरसङ्ख्यामितन्तु वा ।
मध्येकनीयसे चेत्तु खातं चेत्तद्बहिष्कृतम् ॥ ३५ ॥

सर्वश्शूलोक्तवृक्षो वा त्वक्सारक्रमुकादिकः ॥ ३५१।२ ॥

पलाशखदिराश्वत्थवटचन्दन दारवः ॥ ३६ ॥
सालम्माधूकतालं वा साराम्रकमथापि वा ॥
वैणवं जाति वृक्षै वा शमीबिल्वमथापि वा ॥ ३७ ॥
चम्पको वा द्विरष्टादि त्रिगुणावधिनाहयुक् ।
स्वभावनाहसंयुक्तस्त्वक्सारद्रुमर्निमितः ॥ ३८ ॥
ध्वजदण्डस्समाख्यातो ध्वजयष्टिश्च कथ्यते ।
द्विभागादि नवांशान्तन्दण्ड दैर्घ्यं विधाय च ॥ ३९ ॥
एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः ।
पञ्चाङ्गुलं समारभ्य चाङ्गुलात्षोडशाङ्गुलम् ॥ ४० ॥
यावत्तावत्परीणाहमुपदण्डस्य कल्पयेत् ।
पञ्चांशात् द्वादशांशान्तं मूलनाहं विधाय च ॥ ४१ ॥
एकांशेनोनमग्रंस्यात्तथा दण्डाग्रमिष्यते ।
दण्डोक्तो वेणुवृक्षो वा ध्वजयष्टिमहीरुहः ॥ ४२ ॥
उभयोर्योगासिद्ध्यर्थं स्कन्धत्रयमथाहरेत् ।
स्कन्धं द्वयं तन्मानद्वादशाङ्गुलमानतः ॥ ४३ ॥
षट्त्रिंशम्मात्रपर्यन्तं स्कन्धदैर्घ्यं प्रकल्पयेत् ।
सप्ताङ्गुलं समारभ्य गायत्र्यर्णाङ्गुलावधि ॥ ४४ ॥
स्कन्धविस्तार उद्दिष्टो मूलाङ्ग्रे तु त्रिभागतः ।
अर्धेन वा त्रिपादेन दर्व्याकारो यथा तथा ॥ ४५ ॥

चतुस्त्रिद्वयङ्गुलं वापि मानमेषां प्रकीर्तितम् ॥ ४५१।२ ॥

अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ॥ ४६ ॥

मूलाग्रसुषिरोपेत दण्डयष्ट्यनुरूपतः ॥ ४६१।२ ॥

अर्धछिद्रमधस्कन्ध प्रान्ते यष्ट्यग्रदेशके ॥ ४७ ॥
दण्डप्रान्ते विधेयं स्याद्वलयं स्कन्ध एव वा ।
बृहत्स्कन्ध त्रिभागार्थं त्रिपादगुणमानतः ॥ ४८ ॥
षडङ्गुलं समारभ्य षडङ्गुल विवृद्धितः ।
दण्डखातप्रमाणान्तन्दण्दाग्रा द्वलय स्थितः ॥ ४९ ॥
तदर्धं वलयादूर्ध्वं यष्ट्यग्रं परिकीर्तितम् ।
भू प्रविष्ट प्रमाणं यद्दण्डाग्रे यष्टिदैर्घ्यकम् ॥ ५० ॥
कल्पयेन्महदल्पं वा खातञ्चेत्तत्बहिष्कृतम् ।
दण्डाग्रावधि संस्थाप्यो वलयस्कन्ध एव च ॥ ५१ ॥
पञ्चविंशतिमात्रादि त्रित्र्यङ्गुलविवर्धनात् ।
द्विगुणान्तं विधेयं वा भूमानं भूगतद्विजाः ॥ ५२ ॥
एकाङ्गुलं समारभ्य पादमात्रविवृद्धितः ।
त्रिमात्रान्तो विधेयं स्याद्वलयः कीलसंयुतः ॥ ५३ ॥
वलयाकाश एषो वा वलयस्याद्यथा बलम् ।
रज्जुर्वलयमध्येस्याज्ज्येष्ठाद्यङ्गुलनाहयुक् ॥ ५४ ॥
ध्वजारोहक्रियायोग्यदैर्घ्येण च समन्वितम् ।
तन्तु जस्त्रिप्रदिष्टं स्यादशक्तौ बन्धनाहकम् ॥ ५५ ॥
एवं रज्जुं समापाद्य शुद्धिर्दण्डे विधाय च ।
संवेष्ट्य दर्भमालाभिरूर्ध्वात्सर्वं क्रमेण तु ॥ ५६ ॥
शतदर्भकृतं कूर्चं यष्ट्यग्रे विनिवेशयेत् ।
अस्त्रमन्त्रेण सम्प्रोक्ष्य शिवतत्वादिकन्यसेत् ॥ ५७ ॥
साधिपञ्च त्रिधादण्डं विभज्याग्रात् क्रमेण तु ।
स्कन्धत्रये च तान्येव वलये रविमर्चयेत् ॥ ५८ ॥
रज्जु शक्तिस्समाख्याता शिवस्स्याद्दण्डनायकः ।
गन्धाद्यैरर्चयेद्देवन्ततस्स्थापनमारभेत् ॥ ५९ ॥
रत्नन्यासन्ततः कुर्याद्दण्डमूले निवेशयेत् ।
कूर्मं वा वृषभं वाऽपि दण्डमूले निवेशयेत् ॥ ६० ॥

हैमगुञ्जादि निष्कान्तं मानन्देवालयाननम् ॥ ६०१।२ ॥
अधोमुखञ्च दष्डाधस्स्वस्वमन्त्रार्चितं द्विजाः ।
तदूर्ध्वे स्थापयेद्दण्डं यष्टिरग्रे यथा भवेत् ॥ ६११।२ ॥
देवालयाननो दण्डो वृषाग्रे पृष्टतोपि वा ।
तथैव गोपुरस्यापि महापीठान्तिकेपि वा ॥ ६२१।२ ॥
अन्तर्मण्डलसालादि मध्यगोपुरमध्यतः ।
नवपञ्चैकदण्डो वा वसुदिक्षु चतसृषु ॥ ६३१।२ ॥
प्रधानस्त्वग्रेदेशस्थो ध्वजास्तत्सङ्ख्ययामताः ।
अष्टदिक्षु च विद्येशाश्चतुर्दिक्षु नरादिकाः ॥ ६४१।२ ॥
दण्डाधिपास्समाख्याता पटेषु वृष एव हि ।
दण्डमूले तु कर्तव्या वेदिका सा त्वनेकधा ॥ ६५१।२ ॥
हस्तमात्रं समारभ्य त्र्यङ्गुलादि विवृद्धितः ।
द्विहस्तमानपर्यन्तं वेदिका विस्तरो मतः ॥ ६६१।२ ॥
समोत्तुङ्गा त्रिपादा वा अष्टांशात् सप्तपञ्च वा ।
चतुस्त्र्यंशार्धतुङ्गं वा वेदिका परिकीर्तिता ॥ ६७१।२ ॥
त्रिमेखला युता वापि प्रत्येकं वसुमात्रतः ।
द्वित्र्यङ्गुलक्षयाद्वापि मेखला मानमीरितम् ॥ ६८१।२ ॥
मेखला रहिते पीठे मूलेस्यादुपवेदिका ।
द्वयङ्गुलात् पादवृद्धया तु षडङ्गुलसमाविधि ॥ ६९१।२ ॥
पादार्धार्धत्र्यङ्घ्रिसमा उत्सेधाः परिकीर्तिताः ।
वेद्युर्ध्वेब्जं प्रकर्तव्यं चतुरङ्गुलमानतः ॥ ७०१।२ ॥
व्योमाङ्गुलविवृद्ध्याष्टादशाङ्गुल समावधि ।
पद्मोत्सेधस्समाख्यातो विस्तारो वेदिका समः ॥ ७११।२ ॥
एकैकाङ्गुल वेशात्तु रुद्रमात्रसमाविधि ।
पद्मवेशस्समाख्यातः पद्मं स्यात् कर्णिकायुतम् ॥ ७२१।२ ॥
कर्णिका निर्गमो दण्डात् पादावृद्धयैकमार्गतः ।
गुणाङ्गुलावधिः कार्यः तदुत्सेधनमुच्यते ॥ ७३१।२ ॥
चतुरष्टदलं पद्मं विकारदलमेव वा ।
वृत्तं वा चतुरश्रं वा विधेयन्दलवेष्टनम् ॥ ७४१।२ ॥
तथोपदलसंयुक्तं तद्वियुक्तन्तु वा भवेत् ।
एवं सम्पाद्य पीठन्तु कारयेछ्शिल्पितोषणम् ॥ ७५१।२ ॥
पुण्याहं वाचयित्वा तु अस्त्रेणाभ्युक्ष्य वेदिकम् ।
दर्भैः दण्डं समावेष्ट्य वृषकुम्भञ्च तत्पटम् ॥ ७६१।२ ॥
त्रिशूलेन समायुक्तं मङ्गलाङ्कुरशोभितम् ।
धाम्नः प्रदक्षिणवशान्नीत्वा दण्डस्य सन्निधिम् ॥ ७७१।२ ॥
आधाराख्यमनन्तञ्च कूर्मे तु विनिवेशयेत् ।
कोणमध्ये च धर्मादीन् अधर्मादीन् प्रकल्पयेत् ॥ ७८१।२ ॥
दलेष्वष्टसु वामाद्या कर्णिकायाम्मनोन्मनीम् ।
दण्डे सदाशिवञ्चेष्ट्वा गन्धपुष्पादिभिः क्रमात् ॥ ७९१।२ ॥

त्रिवर्गसहिता सा च स्नपनोक्तविधानतः ॥ ८० ॥
बद्ध्वा वृषपटं रज्वा वृषगायत्रिमन्त्रतः ।
क्षुद्र घण्टां समायोज्य शस्त्रमन्त्रमनुस्मरन् ॥ ८१ ॥
कुम्बात्बीजं समादाय वृषरूपं स्मरन् गुरुः ।
वृषेन्द्रहृदये न्यस्त्वा गन्धपुष्पादिभिर्यजेत् ॥ ८२ ॥
आरोपयेद्वृषं शीघ्रं वृषमूलेन देशिकः ।
आदौ स्पृष्ट्वा स्वयञ्चान्यम्प्रेरयेद्रोहणायवा ॥ ८३ ॥
अधोमुखे वृषेराज्ञश्शान्तिर्भूम्यां विशेषतः ।
पटोर्ध्वगे वृषेराज्ञो जयो देवादितृप्तये ॥ ८४ ॥
आप्येन्दु शर्वपूर्वासुध्वजस्य गमनं शुभम् ।
क्षेमारोग्यजयाः पुष्टिः क्रमेण फलमीरितम् ॥ ८५ ॥
तपोमृत्युर्महारोगो वह्निकोणात्फलं भवेत् ।
वायौ भयं विजानीयात् पुच्छेप्येवं फलं भवेत् ॥ ८६ ॥
आरोहणे निरुद्धश्चेत् पटे देशिकदोषतः ।
दोषशान्तिं तदा कुर्यात् बहुरूपमनुस्मरन् ॥ ८७ ॥
शतमष्टोत्तरं ब्रह्म समिदाज्यान्नसंयुतम् ।
वृषकुम्भस्थतोयेन प्रोक्ष्येद्दण्डमूलकम् ॥ ८८ ॥
वृषविद्येश्वरानष्टौ पूर्वादिषु दलेषु च ।
तत्तोयैर्दलानष्टौ क्रमेण प्रोक्षयेत् गुरुः ॥ ८९ ॥
गन्धपुष्पादिनाभ्यर्च्य मुद्नान्नं विनिवेदयेत् ।
पुण्याहन्तत्समारभ्य यावन्नैवेद्यदानकम् ॥ ९० ॥
सर्वातोद्यसमायुक्तं गानध्वनिसमन्वितम् ।
चतुर्दिङ्नर्तनं कुर्याद्विशेषाच्छुद्धनर्तनम् ॥ ९१ ॥
अतः प्रभृतितीर्थान्तमवरोहावसानकम् ।
एककालन्द्विकालं वा त्रिकालं पूजयेद्वृषम् ॥ ९२ ॥
यत्रैतत् क्रियते राष्ट्रे ध्वजयष्टिनिवेशनम् ।
नाकालमृत्युस्तत्रास्ति नालक्ष्मीः पापकृत्स्वपि ॥ ९३ ॥
नोपसर्गभयन्तत्र न परागमविभ्रमः ।
विपरीता न मतयो रोगिणामपिभूयसा ॥ ९४ ॥
स्वकालवर्षी पर्जन्यस्सुभिक्षं विजयी नृपः ।
शान्तानि सर्वपापानि पयस्विन्यः पयोभृतः ॥ ९५ ॥
कृतघ्नो ब्रह्महागोघ्नो दृष्ट्वा ध्वजनिवेशनम् ।
प्राप्नोति पापनिर्मोक्षं मखकर्तुः कुलद्वयम् ॥ ९६ ॥
भेरीसन्ताडनं रात्रौ कर्तव्यन्तु यथाविधि ।
स्थण्डिलद्वितयं कुर्याद्देवदेवस्य सन्निधौ ॥ ९७ ॥
षडुत्थमासनं कुर्माच्छूलभेर्यां गुरूत्तमाः ।
एकत्र विन्यसेच्छूलं भेरीं तत्सन्निधौ न्यसेत् ॥ ९८ ॥
पूर्वापरायतं पूर्वस्थितन्दक्षाननान्वितम् ।
पुण्याहं वाचयित्वादौ त्रिशूले देवतां न्यसेत् ॥ ९९ ॥
मध्यपत्रे भवेद्रुद्रो ब्रह्मादक्षिणपत्रके ।
वामे विष्णुं समावाह्य पालिकायां तु पार्वती ॥ १०० ॥
सेनानीः कुम्भदेशे तु तदास्ये विघ्नराजकः ।
दण्डाग्रे मदने ज्ञेयो भास्करो दण्डमध्यमे ॥ १०१ ॥
दण्डमूले तु चण्डेशो लक्ष्मीः पूर्वदलाग्रके ।
मातरस्सप्तदक्षे तु ज्येष्ठापश्चिमदिक्दले ॥ १०२ ॥
कात्यायनी तु कौबेर्यां शूलमूले मता इमे ।
रुद्रार्कवसवोश्विन्यावष्टादशगणाश्चये ॥ १०३ ॥
तानाहूयाशिषश्चोक्त्वा भेर्यां तद्देवतान्यसेत् ।
भेरीं वस्त्रेण संवेष्टय मध्ये रुद्रं समर्चयेत् ॥ १०४ ॥
ब्रह्माणन्दक्षिणे वक्त्रे विष्णुं वाममुखे यजेत् ।
वलये दक्षिणे सूर्यमितरे चन्द्रमर्चयेत् ॥ १०५ ॥
सप्तकीलेषु मातृश्च नवकीले नवग्रहान् ।
रुद्रांस्तत्सङ्ख्यके न्यस्त्वा चर्मसूत्रेषु वासुकीम् ॥ १०६ ॥
प्रहरे षण्मुखं पूर्वं मस्तकेभ्यर्चयेत् गुरुः ।
गन्धपुष्पादिभिर्द्रव्यैः नैवेद्यान्तैः पृथक् हृदा ॥ १०७ ॥
भेर्यास्सन्ताडनं कुर्यादस्त्रमन्त्रमनुस्मरन् ।
एकप्रहारतः पूर्वं द्वितीयं द्विप्रहारतः ॥ १०८ ॥
तृतीयं त्रिःप्रहारेण त्रयंवैकप्रहारतः ।
सन्ताड्य वादकं प्रोक्ष्य मन्त्रं पञ्चाक्षरं स्मरन् ॥ १०९ ॥
वस्त्रं गन्धं च माल्यञ्च सोत्तरीयं ससूत्रकम् ।
तद्धस्ते कुसुमं दद्यात्तन्मन्त्रं समनुस्मरन् ॥ ११० ॥
भेर्यां पुष्पं विनिक्षिप्य देशिकानुज्ञया तदा ।
भेरीं स्कन्दे समारोप्य वादयेत् सर्वतालवित् ॥ १११ ॥
गन्धारादि स्वरोपेतं समतालादि तालकम् ।
गीतनृत्तसमायुक्तमन्नलिङ्गसमायुतम् ॥ ११२ ॥
प्रतिमा सहितं वापि चण्डेश्वरयुतन्तु वा ।
सङ्ग्रहीत्वास्त्रराजानं वितानच्छत्रसंयुतम् ॥ ११३ ॥
धूपदीपसमायुक्तं घण्टारवसमन्वितम् ।
प्रविश्य नगराद्यन्तु ब्रह्मास्थानादितः क्रमात् ॥ ११४ ॥
इद्रस्थानादितो वापि बलिन्दद्यात् स्वनामतः ।
बलिदानावसाने तु तालस्वरसमायुतम् ॥ ११५ ॥
नर्तनेन समायुक्तं कारयेत् स्वस्वदिक्षु च ।
ब्रह्माणि ब्रह्मतालं स्यात् मेघरागस्वरान्वितम् ॥ ११६ ॥
समतालञ्च गान्धारं कोल्ली बद्धावणन्ततः ।
भृङ्गिणी कौशिकन्नट्ट भाषया मल्लतालकम् ॥ ११७ ॥
श्रीकामरन्नवाख्येन तत्केश्या बलिदानकम् ।
कोटिकन्तर्करागेण शालापाण्यातु डक्करी ॥ ११८ ॥
पूर्वादि दिक्षुसंयुक्तं पूर्वतालं यथा तथा ।
ध्वजारोहण पूर्वं स्यादुत्सवे त्रिगुणे दिने ॥ ११९ ॥
भेरीताडन पूर्वं चेत् तद्दिने द्विगुणे मतम् ।
देवस्य सन्निधौ कृत्वा स्थण्डिलानाञ्चतुष्टयम् ॥ १२० ॥
न्यस्त्वास्त्रमूर्तिमादौ तु तदग्रे विन्यसेत्पटम् ।
तदग्रे वृषकुम्भंस्यात् वृषविद्येश्वरान्वितम् ॥ १२१ ॥
तदग्रे विन्यसेत् भेरीं सर्वलक्षणसंयुतम् ।
क्रमेणैतान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ॥ १२२ ॥
भेरी कुम्भान्तरे होमं स्थण्डिले कल्पयेत्तु वा ।
प्रागुक्त विधिना चेष्ट्वा तत्वादीन् विनिवेशयेत् ॥ १२३ ॥
त्रिशूले देवताह्वानं कृत्वा प्रागुक्तवर्त्मना ।
भेरीं सन्ताड्य सङ्ग्राह्य त्रिशूलं वृषभान्वितम् ॥ १२४ ॥
अन्नलिङ्गसमायुक्तं सर्वातोद्यसमन्वितम् ।
ग्रामप्रदक्षिण कृत्वा देवतावाहनान्वितम् ॥ १२५ ॥
बलिप्रदानकालान्ते ध्वजस्थानं प्रविश्य च ।
ध्वजस्यारोहणं कुर्यात् प्रागुक्तविधिना गुरुः ॥ १२६ ॥
रात्रावेतत् समुद्दिष्टिं भेरीताडनपूर्वकम् ।
ध्वजस्य भ्रमणञ्चाह्निं कुर्याद्वा संस्कृतस्य च ॥ १२७ ॥
देवताह्वानकाले तु वर्जयेत् वृषभभ्रमम् ।
तत्ॐकुरार्पणं रात्रौ यागारम्भदिने मतम् ॥ १२८ ॥
तदर्थमङ्कुरं कुर्यात् तत्पूर्वे वर्जयेत्तु वा ।
ग्रामप्रदक्षिणन्तीर्थाङ्कुरस्यावश्यकम्मतम् ॥ १२९ ॥
अन्येषामपि सर्वेषां कारयेद्वर्जयेत्तु वा ।
अङ्कुरार्पण पूर्वे तु सायाह्नसमयेमृदम् ॥ १३० ॥
सङ्ग्राह्य वापयेत् रात्रौ बीजान्यङ्कुरसिद्धये ।
तद्दिनेचैतदिष्टंस्यात् भेरीताडनपूर्वकम् ॥ १३१ ॥
अन्यत्सर्वं समुद्दिष्टमङ्कुरार्पण पूर्वके ।
तद्रात्रावैवकर्तव्यः यागारम्भश्शिवस्य तु ॥ १३२ ॥

केत्वङ्कुरो नवाहे स्यात् स्प्ताहे चोत्सवाङ्कुरम् ॥ १३२१।२ ॥
एवन्निश्चित्य पूर्वेद्युरस्त्रराजन्तु वार्चयेत् ।
यागशालान्ततः कुर्यादग्रे वा त्वग्रपार्श्वयोः ॥ १३३१।२ ॥
वामेऽवामे तथा पञ्चशालानामिष्टदेशके ।
मध्यागारे विशेषेण पञ्चहस्तप्रमाणतः ॥ १३४१।२ ॥
एकहस्तविवृद्धया तु तिथिहस्तसमाविधिः ।
पङ्क्तित्रयसमायुक्तं पञ्चपङ्क्तिसमन्वितम् ॥ १३५१।२ ॥
समानपङ्क्तयोवास्युर्मात्रादेकांशवर्धनात् ।
नवाङ्गुलान्तमानेन त्वधिकाः पञ्चपङ्क्तयः ॥ १३६१।२ ॥
एकपङ्क्तियुतावापि चतुर्द्वारं महीयसी ।
एकद्वारयुतां वापि मण्डपाकारसंस्थिताम् ॥ १३७१।२ ॥
शालाकूटनिभां वापि नवपञ्चाग्निसंयुताम् ।
एकाग्निसहितां वापि वितानध्वजसंयुताम् ॥ १३८१।२ ॥
दर्भमालासमायुक्तां मुक्तादामप्रलम्बिताम् ।
नालिकेरफलोपेतां सर्वमण्डनमण्डिताम् ॥ १३९१।२ ॥
मध्यमे वेदिकोपेतां वसुमात्रप्रमाणतः ।
एकाङ्गुलविवृद्धयाष्टाविंशत्यङ्गुलकावधि ॥ १४०१।२ ॥
वेदिकोत्सेध उद्दिष्टो विस्तारस्य त्रिभागतः ।
अथवा पङ्क्तिमानेन चोपदेवी समन्वितम् ॥ १४११।२ ॥
मुष्ट्यरत्नीमितं कुण्डं करमानन्तु वा भवेत् ।
युगाश्रं वर्तुलं वापि त्रिमेखलसमन्वितम् ॥ १४२१।२ ॥
मण्डपे मालिकादौ वा कुर्यात् यागाधिवासनम् ।
एवं सर्वञ्च सम्पाद्य शिल्पिमोचनमाचरेत् ॥ १४३१।२ ॥
पुण्याहं वाचयित्वान्ते वास्तुहोमं समाचरेत् ।
भूपरिग्रहकं वापि सर्वाध्वर शिरोयुतम् ॥ १४४१।२ ॥
स्थण्डिलं वेदिका मध्ये कुर्याल्लक्षणसंयुतम् ।
द्रोणात् द्रोणविवृद्धयातु नवद्रोणावसानकम् ॥ १४५१।२ ॥
तदर्धतण्डुलोपेतं तदर्धतिलसंयुतम् ।
तद्वल्लाजसमोपेतं तदर्धतिलसंयुतम् ॥ १४६१।२ ॥
विचित्रकर्णिकोपेतं प्रज्वलद्दलशोभितम् ।
तिललाजादिरेखाढ्यन्दर्भवेष्टनसंयुतम् ॥ १४७१।२ ॥
पञ्चाद्येक विवृद्धया तु तत्वदर्भान्तसङ्ख्यया ।
तन्मध्ये स्थापयेत्कुम्भं शिवाख्यं वर्धनीयुतम् ॥ १४८१।२ ॥
अष्टविद्येश्वरोपेतं कुम्भावरणसंयुतम् ।
सर्वे ससूत्रवस्त्राढ्याहेमपङ्कजभूषिताः ॥ १४९१।२ ॥
सापिधानास्सकूर्चाश्च पक्वबिम्बफलप्रभाः ।
स्नपनाद्ध्यायसंसिद्धप्रमाणेन समन्विताः ॥ १५०१।२ ॥
शिवाख्ये नवरत्नं स्यात् वर्धन्यां पञ्चरत्नकम् ।
लोकेशादिषु हेमानि क्षिपेल्बाह्यघटेष्वपि ॥ १५११।२ ॥
आढ्येनैवं प्रकर्तव्यं वस्त्रयुग्मञ्च मध्यमे ।
तोरणद्वारकुम्भांश्च लोकपालघटानपि ॥ १५२१।२ ॥
हित्वा विद्येशसहितशिवं शक्तिसमन्वितम् ।
मङ्गलाष्टकसंयुक्तं दशास्त्रं विनिवेशयेत् ॥ १५३१।२ ॥
एवं सम्पाद्य सर्वन्तु कुर्यात्प्रतिसरक्रियाम् ।
सौवर्णं राजतं सूत्रं यद्वा कार्पासनिर्मितम् ॥ १५४१।२ ॥
सौवरणं राजतं बेरप्रकोष्ठपरिणाहतः ।
स्वल्पाधिकप्रमाणाढ्य नागराजफणान्वितम् ॥ १५५१।२ ॥
तत्पुच्छसंयुतं सूत्रं पटाकारसमन्वितम् ।
अनन्तस्त्वधि देवस्यात् सौवर्णे राजतेऽपि वा ॥ १५६१।२ ॥
सर्वकामप्रसिद्ध्यर्थं सूत्रमेकतमं भवेत् ।
ग्रथितं श्रेष्ठमित्युक्तं वलयग्राहकान्वितम् ॥ १५७१।२ ॥
क्षौमपट्टादिसूत्रोक्तं यदि तत्वत्रयात्मकम् ।
शान्त्यर्थं विजयार्थन्तत्कलात्मकमितिस्मृतम् ॥ १५८१।२ ॥
नवतत्वात्मकं कार्यमारोग्यार्थं प्रमाणतः ।
षडङ्गमूर्तिपाङ्गञ्चेत् पुत्रायुष्यफलप्रदम् ॥ १५९१।२ ॥
एकद्वित्र्यङ्गुलाधिक्यं योग्यनाहप्रमाणतः ।
संशोद्ध्य वारिणा चैवञ्चन्दनेनोपलिप्य च ॥ १६०१।२ ॥
भस्माधारे न्यसेत्भस्म मध्येनेत्रमनुस्मरन् ।
प्रत्येकं स्थण्डिलं कृत्वा तदूर्ध्वे यन्त्रिकोपरि ॥ १६११।२ ॥
पात्रं संस्थाप्य सम्पूर्य तण्डुलैरुडुसन्निभैः ।
द्विप्रस्थान्तैर्नतद्धीनैः द्रोणाद्यै र्हृदयं स्मरन् ॥ १६२१।२ ॥
तन्मध्ये विन्यसेत्सूत्रं भस्माधारसमन्वितम् ।
अभिन्नयुग्मसुश्लक्ष्णपूगसारसमन्वितम् ॥ १६३१।२ ॥
अच्छिन्नमूलपूर्वोदक् वक्त्रताम्बूलकान्वितम् ।
ताम्बूलं सूत्रसहितं स्थण्डिलोपरि विन्यसेत् ॥ १६४१।२ ॥
पुण्याहं वाचयित्वा तु प्रोक्षयेद्धृदयेन तु ।
स्थण्डिले पूजयेच्छक्तिं यन्त्रिकायां त्रितत्वकम् ॥ १६५१।२ ॥
प्रधानतत्वं पात्रेस्यात् दण्डवत्तण्डुलेमता ।
भस्माधारे उमाख्यास्यात् भसिते लकुलीश्वरम् ॥ १६६१।२ ॥
अनन्तादींश्च सूत्रे तु गन्धाद्यैरर्चयेत्क्रमात् ।
पात्रमाच्छाद्य पट्टाद्यैः मालान्तदुपरिन्यसेत् ॥ १६७१।२ ॥
सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम् ।
ग्रामदक्षिणं वाथ प्रासादस्य प्रदक्षिणम् ॥ १६८१।२ ॥
कारयेद्वर्जयेद्वाथ देवेशं पूजयेत्ततः ।
अङ्गुष्ठानामिकाभ्यन्तु ग्रहीत्वा वामहस्तके ॥ १६९१।२ ॥
आलभेत् भस्म संयुक्तं सूत्रन्दक्षाङ्गुलद्वयात् ।
मन्त्रेणानुष्टुभानेत्रंस्मरन् सर्वप्रकोष्ठके ॥ १७०१।२ ॥
देवानां बन्धयेत्तत्र भसितं विनिवेशयेत् ।
सर्वात्मनाथ देवीनां वामे वा दक्षिणेथ वा ॥ १७११।२ ॥
जनेभ्यो भसितन्दद्याद्देशिकप्रमुखस्तथा ।
ताम्बूलञ्च फलापूपनालिकेरफलान्वितम् ॥ १७२१।२ ॥
दद्यात् देवाय भक्तेभ्यः दापयेद्वर्जयेत्तु वा ।
स्कन्दो मा सहिते स्कन्दहीने वा चन्द्रशेखरे ॥ १७३१।२ ॥
देवियुक्ते वियुक्ते वा नृत्तरूपे विशेषतः ।
उमा महेश्वरे वामे सुखासीने महेश्वरः ॥ १७४१।२ ॥
अन्यस्मिन् सौम्यरूपे च कल्पयेदुत्सवाय च ।
एकद्वित्रिषु सर्वत्र वाञ्छया कौतुकं मतम् ॥ १७५१।२ ॥
कौतुकञ्चेत्कृतं कार्यं ग्रामादीनं प्रदक्षिणम् ।
यागारम्भदिनेत्वेतत् विधानं परिकीर्तितम् ॥ १७६१।२ ॥
अन्यस्मिन् दिवसे कार्यं मध्यमे चोत्सवस्य वा ।
कौतुकं वाञ्छिते बिम्बेतद्दिनात् पूर्वरात्रिके ॥ १७७१।२ ॥
रौद्रे शान्तेऽपि वा बेरे शिवभक्ते विधिर्मतः ।
त्रिशूले मध्यपत्रे वा तत्स्थ देवकरेपि वा ॥ १७८१।२ ॥
दशायुधानां सर्वेषां सूत्रबन्धनमिष्यते ।
यागारम्भस्य पूर्वेद्युः तद्दिने वा समाचरेत् ॥ १७९१।२ ॥
तीर्थार्थमङ्कुरं कुर्यादनयोः पूर्वकालतः ।
देशिको मूर्तिपैस्सार्धं सकलीकृतविग्रहः ॥ १८०१।२ ॥
द्वारपूजान्ततः कृत्वा यागशालां प्रविश्य च ।
ब्रह्मेष्टिं भूतशुद्धिञ्च सकलीकरणं पुनः ॥ १८११।२ ॥
पाद्यादि त्रितयं कृत्वा प्रोक्षयेदर्घ्यवारिणा ।
वेदिकायां ततः कृत्वा स्थण्डिले तु शिवासनम् ॥ १८२१।२ ॥
कृत्वा शिवघटे मूर्तिं मूर्तिमन्त्रेण कल्पयेत् ।
पञ्चब्रह्माणि विन्यस्य कल्पयेत्तत्कलामयम् ॥ १८३१।२ ॥
विद्यादेहञ्च सङ्कल्प्य प्रणवं विन्यसेत् शिवम् ।
हृदयादीनि विन्यस्य पाद्यद्यैरर्चयेत्ततः ॥ १८४१।२ ॥
एवं मनोन्मनीन्न्यस्त्वा शक्तिमन्त्रेण पूजयेत् ।
विद्येशान् परितश्चेष्ट्वा लोकपालान् प्रपूजयेत् ॥ १८५१।२ ॥
तदस्त्राणि च सम्पूज्य दर्पणादीनि पूजयेत् ।
तानि वा वेदिका बाह्ये स्थण्डिलोर्ध्वे स्थलेपि वा ॥ १८६१।२ ॥
अष्टदिक्षु वा पूज्य महादिक्षु द्वयं द्वयम् ।
तदन्ते चास्त्रराजानमष्टदिक् स्थण्डिलेस्थितम् ॥ १८७१।२ ॥
एवं क्रमेण सम्पूज्य यायात्कुण्डान्तिकं गुरुः ।
संस्कृत्य विधिना कुण्डं शिवाग्निं विधिना नयेत् ॥ १८८१।२ ॥
नवधा पञ्चधा कृत्वा स्वस्वकुण्डे स्वदिक् गतम् ।
न्यस्त्वाऽवाह्य शिवं साङ्गं सब्रह्माङ्गञ्च तर्पयेत् ॥ १८९१।२ ॥
चतुर्दिक्षु नराद्यास्युः हृदयाद्या विदिक्षुवै ।
स्वस्वमन्त्रप्रधाने तु सर्वैर्मन्त्रैश्च तर्पयेत् ॥ १९०१।२ ॥
वेणुबिल्वयवा वापि सक्तुक्षीरं यवङ्गुलम् ।
तिलसर्षपमुद्गा वा होमकर्मणिसंस्थिताः ॥ १९११।२ ॥
ब्रह्मशालियवैर्वापि माषशालियवैस्सह ।
तिलसर्षपमुद्गाश्च सक्तुवेणुर्गुलं मधु ॥ १९२१।२ ॥
चतुर्द्धैवं समाख्यातं होमद्रव्यं मुनीश्वराः ।
समिदाज्यान्नलाजांस्तु चतुर्वर्गेषु होमयेत् ॥ १९३१।२ ॥
शतमष्टोत्तरं होमं शिवेनाङ्गैर्दशांशतः ।
प्रधानेत्वन्य कुण्डेषु कलार्थञ्जुहुयुः क्रमात् ॥ १९४१।२ ॥
द्रव्यभेदेन मन्त्रास्तु क्वचिदुक्ता शिवागमे ।
तत्र भेदेन मन्त्राणां भेदो नात्र विधीयते ॥ १९५१।२ ॥
होमान्ते तु हविर्दिद्याद्धोमादौ वा हविर्भवेत् ।
तदन्ते बलिदानं स्यात् तद्विधानमिहोच्यते ॥ १९६१।२ ॥
नित्योत्सवविधानेन कृत्वा लिङ्गंहविर्मयम् ।
तत्रेष्ट्वा चास्त्रराजन्तु त्रिशूलेन समन्वितम् ॥ १९७१।२ ॥
दशायुधसमोपेतं धूपदीपसमन्वितम् ।
घण्टारवसमोपेतं बलिद्रव्यसमायुगम् ॥ १९८१।२ ॥
नानाछत्रसमायुक्तं नानावाद्यसमन्वितम् ।
प्रविश्य नगराद्यन्तु देशिकश्शिष्य एव वा ॥ १९९१।२ ॥
देवताह्वानदेशे तु बलिं दद्यात् क्रमेण तु ।
लड्डुकं मोदकं मौद्गं गुलं सक्तुं गणेश्वरे ॥ २००१।२ ॥
पायसं रात्रिचूर्णन्तु पद्मपुष्पं सलाजकम् ।
ब्रह्मप्रियमिदं देयं द्वितीयेहनिकीर्तितम् ॥ २०११।२ ॥
कृसरान्नं घृतोपेतं कदलीफलसंयुतम् ।
तृतीयेहनि दातव्यं भूतानां प्रीतिकारणम् ॥ २०२१।२ ॥
रात्रिचूर्णसमोपेतं नालिकेरफलान्वितम् ।
चतुर्थेहनिदातव्यं गन्धर्वप्रियमेव च ॥ २०३१।२ ॥
घृतं प्रियङ्गुसंयुक्तम् इन्द्रवल्ली समन्वितम् ।
पञ्चमेहनि दातव्यम् इन्द्रप्रियकरं भवेत् ॥ २०४१।२ ॥
वेण्वन्नं घृतसंयुक्तं पनसोत्थ फलान्वितम् ।
षष्ठेहनि प्रदातव्यम् ऋषीणां प्रीतिसिद्धये ॥ २०५१।२ ॥
गुलान्नं घृतसंयुक्तं बृहतीफलसंयुतम् ।
सप्तमेहनि दातव्यं श्रियः प्रीतिकरं भवेत् ॥ २०६१।२ ॥
माषोदनं घृतोपेतम् अजमांससमन्वितम् ।
अष्टमेहनि दातव्यं राक्षसः प्रीतिसिद्धये ॥ २०७१।२ ॥
शुद्धान्नन्दधिसक्तुञ्च लाजपुष्पसमन्वितम् ।
नवमेहनिदातव्यं शिवप्रीतिकरं भवेत् ॥ २०८१।२ ॥
अथवान्यप्रकारेण देवताद्रव्यमुच्यते ।
शुद्धान्नन्दधिसंयुक्तं लड्डुकापूपसंयुतम् ॥ २०९१।२ ॥
फलैश्च गुलसंयुक्तं गणेशस्य प्रियं भवेत् ।
फलैश्च रजनीचूर्णं घृतान्नं दधिसक्तुकम् ॥ २१०१।२ ॥

भूतेभ्यः कृसरः प्रोक्तः तेन तेभ्यो बलिर्भवेत् ॥ २११ ॥
पद्ममूलकुशाग्रञ्च शाल्यान्नं घृतमिश्रितम् ।
कदलीफलसंयुक्तम् ऋषिभ्यो बलिमाचरेत् ॥ २१२ ॥
इन्द्रवल्ली हरिद्रा च प्रियङ्गुघृतसंयुतम् ।
चतुर्थेऽहनि दातव्यं शक्रस्यास्य तु तृप्तये ॥ २१३ ॥
पायसं रात्रिचूर्णञ्च पद्मपुष्पं सलाजकम् ।
पञ्चमेहनि दातव्यं ब्रह्मप्रीतिकरं भवेत् ॥ २१४ ॥
गुलान्नमाज्यसंयुक्तं बृहतीफलसंयुतम् ।
षष्ठेहनिप्रदातव्यं विष्णुप्रीतिविवृद्धये ॥ २१५ ॥
कृसरान्नं घृतोपेतं नालिकेरफलान्वितम् ।
सप्तमेहनिदातव्यं शिवप्रीतिकरं भवेत् ॥ २१६ ॥
वेण्वन्नं दधिसंयुक्तं कदलीपनसान्वितम् ।
अष्टमेहनिनिदातव्यमीश्वरप्रीतिसिद्धये ॥ २१७ ॥
शुद्धान्नन्दधिसंयुक्तं लाजपुष्पसमन्वितम् ।
नवमेहनि दातव्यं चण्डेशप्रीतिहेतवे ॥ २१८ ॥
नवानां दिवसानान्तु देवद्रव्याणि च द्विजाः ।
कथितान्यत ऊर्ध्वन्तु कथ्यते द्वादशाहके ॥ २१९ ॥
मुद्गान्नं लड्डुकं सर्पिकदलीगुलसंयुतम् ।
प्रथमेहनि दातव्यं विघ्नमन्त्रमनुस्मरन् ॥ २२० ॥
रक्तान्नं मांससंयुक्तं कृसरापूपसंयुतम् ।
घृतमत्स्यसमायुक्तं जपाकुसुमसंयुतम् ॥ २२१ ॥
द्वितीयेहनि दातव्यं पैशाचम्मन्त्रमुच्चरन् ।
पायसं सक्तुपुष्पञ्च पद्मपुष्पसमन्वितम् ॥ २२२ ॥
तृतीयेहनि दातव्यं ब्रह्ममन्त्रमनुस्मरन् ।
कृसरान्नं घृतं सक्तु लड्डुकैश्च समन्वितम् ॥ २२३ ॥
चतुर्थेहनिदातव्यं गन्धर्वम्मन्त्रमुच्चरन् ।
इन्द्रवल्ली हरिद्रान्नं सघृतं लाजसंयुतम् ॥ २२४ ॥
पञ्चमेहनितातव्यं भूतमन्त्रमनुस्मरन् ।
गुलान्नं घृतसंयुक्तं नालिकेरफलान्वितम् ॥ २२५ ॥
षष्ठेहनिप्रदातव्यं स्कन्दमन्त्रमनुस्मरन् ।
कुशाग्रं घृतसंयुक्तं शुद्धान्नं दधिसंयुतम् ॥ २२६ ॥
सप्तमेहनि दातव्यम् ऋषीणां मन्त्रमुच्चरन् ।
क्षीरान्नं शालिपिष्टञ्च इक्षुखण्डसमन्वितम् ॥ २२७ ॥
अष्टमेहनि दातव्य नागमन्त्रमनुस्मरन् ।
दधिकान्नं गुलोपेतम्मातुलङ्गफलन्तथा ॥ २२८ ॥
नवमेहनि दातव्यमैन्द्रमन्त्रमनुस्मरन् ।
गुलान्नमाज्यसंयुक्तं कदलीपनसमन्वितम् ॥ २२९ ॥
दशमेहनिदातव्यं विष्णुमन्त्रमनुस्मरन् ।
रक्तान्नं मांससंयुक्तम् अपूपं तिलचूर्णयुक् ॥ २३० ॥
एकादशाहे दातव्यं रक्षसाम्मन्त्रमुच्चरन् ।
शाल्यन्नं दधिसंयुक्तं गुलखण्डसमन्वितम् ॥ २३१ ॥
द्वादशेहनि दातव्यं शिवमन्त्रमनुस्मरन् ।
सप्ताहे वाथ पञ्चाहे त्रिदिने व्योमरात्रिके ॥ २३२ ॥
पूर्वं त्यक्त्वा परं प्रोक्तं दिनद्रव्याश्च देवताः ।
दिनद्रव्यबलिद्रव्यं कथितं मुनिसत्तमाः ॥ २३३ ॥
पूर्वं ब्रह्मादि देवेषु द्रव्यैरेतैर्बलिर्भवेत् ।
दिनाधिपति तृप्त्यर्थं शुद्धान्नं दधिसंयुतम् ॥ २३४ ॥
दद्याल्लोकेशतृप्त्यर्थं लोकपालादि मन्त्रतः ।
वृषादि परिवारेषु ध्वजे ब्रह्मादिषु क्रमात् ॥ २३५ ॥
बलिन्दत्वा तदन्ते तु बलिपीठे बलिं क्रमात् ।
ध्वजादि बलिपीठान्तम् अथवा बलिरीरितः ॥ २३६ ॥
ब्रह्मादि बलिपीठन्तं शक्रात् पीठान्तमेव वा ।
तत्तत् दिनाधि देवानां बलिपीठे बलिस्तु वा ॥ २३७ ॥
दिन देवादि तृप्त्यर्थं शुद्धान्नेन बलिस्तु वा ।
लोकेशेभ्यो बलिर्वापि दिनदेवेषु वामतः ॥ २३८ ॥
दिनदेवबलिद्रव्यैः लोकपालेऽथ वा बलिः ।
दिनानामपि सर्वेषां दिनं प्रतिबलिद्वयम् ॥ २३९ ॥
कुर्यात् वाद्यं तयोरेकं बलिर्दिवसयोस्तु वा ।
सायं प्रातर्बलिन्दद्यात् तत्काले वा तदन्तके ॥ २४० ॥
बेरयात्रा प्रकर्तव्या यानक्रममिहोच्यते ।
प्रथमे वृषयन्त्रं स्यात् द्वितीये भ्रमणार्हकम् ॥ २४१ ॥
डोलायन्त्रं तृतीये स्यात् वाजियन्त्रं ततः परम् ।
सिह्मयन्त्रं ततः प्रोक्तं दीपयन्त्रं ततो भवेत् ॥ २४२ ॥
मेषयन्त्रं ततो ज्ञेयं रथयन्त्रं ततो भवेत् ।
अन्योन्यञ्चारुरूपाणि कार्याणि द्विजसत्तमाः ॥ २४३ ॥
बेराण्यनेकरूपाणि तदन्ते कथितानि च ।
तदन्ते बलिदानं स्यात् बलिपीठसमन्वितम् ॥ २४४ ॥
अन्नलिङ्गसमायुक्तं त्रिशूलेन समायुतम् ।
दशायुधसमायुक्तं गोलकालिङ्गसंयुतम् ॥ २४५ ॥
रथस्थितगणेशानां तदन्ते नन्दिकेश्वरम् ।
रथे वा शिबिकायां वा सर्वालङ्कारसंयुतम् ॥ २४६ ॥
एतैस्सर्वैविहीनोग्रे बल्यङ्गैश्च समन्वितः ।
तदन्ते वृषभं पश्चात् वृत्तार्थं मुखरङ्गकम् ॥ २४७ ॥
तदन्ते देवदेवेशरथस्सर्वाङ्गसुन्दरः ।
रथाग्रोभयसंस्थाभ्यां भूषिताभ्यां विशेषतः ॥ २४८ ॥
घृतचामरहस्ताभ्यां मत्कन्याभ्यां विराजितः ।
नवरत्नोज्वलच्छवेत छत्रेणोपरिगामिनाम् ॥ २४९ ॥
मदन्तिक गतेनैव शैवाचार्येण शोभितः ।
मत्पृष्ठभागसंस्थेन मत्कर्मनिरतेन च ॥ २५० ॥
परिचारक सञ्ज्ञेन मत्भक्तेनाप्रमादिना ।
पद्मकुड्मलसन्नद्धपाश सम्बन्धहस्तया ॥ २५१ ॥
पुरुषाकारधारिण्या शोभितो रुद्रकन्यया ।
मद्दास्यावाथ सर्वाङ्गसुन्दर्यास्स्यन्दनस्य च ॥ २५२ ॥
तदन्ते देवदेवेशिरथस्तद्वत् विभूषितः ।
तदन्ते चण्डनाथस्यात् प्रथग्वान्यसमन्वितम् ॥ २५३ ॥
षोडशप्रतिमादीनि यान्यन्यानि शिवस्य तु ।
शिवभक्ताश्च ये ख्यातास्तेषां रङ्गान्यनेकधा ॥ २५४ ॥
तानि अग्रगान्यनेयानि पृष्टतो वा द्विजोत्तमाः ।
एषामिष्टन्तु यत्ग्राह्यं बल्यङ्गं कौतुकं विना ॥ २५५ ॥
नानावाद्यसमायुक्तं गजाश्वाद्युष्ट्रसंयुतम् ।
वीथिसम्मार्जनोपेतं जलसेकसमन्वितम् ॥ २५६ ॥
गृहं प्रतिकृतालेपचूर्णचित्रसमन्वितम् ।
मङ्गुलाङ्कुरसद्वीपवर्धनीकुम्भवारियुक् ॥ २५७ ॥
कदलीपूगसंयुक्तं पट्टवस्त्रादि शोभितम् ।
दर्भमाला समायुक्तं मुक्तादामविभूषितम् ॥ २५८ ॥
उपरिष्टादधस्तात्तु तलं प्रति तलं प्रति ।
विन्यसेद्दीपदण्डांश्च रात्रौ चेद्दीपमालया ॥ २५९ ॥
गृहालङ्कार उद्दिष्टो गृहहीनस्थलेपि च ।
नानाध्वजसमोपेतं नानावाद्यसमन्वितम् ॥ २६० ॥
नानागानसमोपेतं नानानृत्तसमन्वितम् ।
नानाच्छत्रसमोपेतं पिच्छचामरसंयुतम् ॥ २६१ ॥
तालवृन्तसमोपेतं धूपदीपसमन्वितम् ।
प्रतिदिनं कुर्यादह्निरात्रौ महोत्सवे ॥ २६२ ॥
रथादौ शिबिकादौ वा परिचारकमूर्धसु ।
यानकाले तु ताम्बूलं देयं नानाफलानि च ॥ २६३ ॥
भक्ष्यापूपादिकन्देयं दत्वा काण्डपटादिकम् ।
योग्यायोग्य विभागेन दग्धार्द्र विषयः क्रमात् ॥ २६४ ॥
दग्धं सर्वं द्विजैस्सिद्धमार्द्रं शूद्रे तु वा मतम् ।
वित्वक् सत्वक् कृतं युक्तया वीक्षणादिविशोधितम् ॥ २६५ ॥
शङ्खध्वनिसमायुक्तं पाद्याचमनसंयुतम् ।
प्रच्छन्नपटमावर्ज्य निर्माल्यापनये कृते ॥ २६६ ॥
दत्वोपहारान् सर्वेभ्यो मद्भक्तेभ्यः क्रमेण तु ।
आगन्तुकेभ्य स्त्वन्येभ्यः तत्तत् भक्त्यनुसारतः ॥ २६७ ॥
प्रवेश्यस्थानकूटाद्यमासनस्थाय शम्भवे ।
दत्वा पाद्यादिकं नित्यं स्नपनं शान्तिहोमयुक् ॥ २६८ ॥
कार्यं तक्षादिसंस्पृष्टरथादिस्पर्शशान्तये ।
चण्डालपाणदृक्दोषनिवृत्यर्थं विशेषतः ॥ २६९ ॥
आवश्यकमिदं ज्ञेयं प्रतिधानं गुरूत्तमाः ।
शान्तिहोमं विनावाथ अशक्तौ स्नपनं नयेत् ॥ २७० ॥
पञ्चप्राकारबाह्ये तु मम याने प्रकल्पिते ।
विधाय स्नपनं वाथ पञ्चखारिसमन्विते ॥ २७१ ॥
चत्वारिंशमितैर्भारैः जलैर्वाथ तदर्धतः ।
पादेन वाथ तन्यूनैस्नापयेद्देवमादरात् ॥ २७२ ॥
मृगयात्रां विशेषेण स्नपनं कर्म कल्पयेत् ।
स्वकालविहितञ्चैतदिष्टदं परिकीर्तितम् ॥ २७३ ॥
प्रातस्सन्ध्यार्चनन्नित्यं यागमण्टपवेशनम् ।
रथाद्यारोहणं यानन्ततो मध्याह्नपूजनम् ॥ २७४ ॥
रथेचेद्धूपदानान्तं नैवेद्यान्तं शिवालये ।
यात्रार्थस्नपनं पश्चात्ततो नैमित्तिकार्चनम् ॥ २७५ ॥
विनोददर्शनञ्चान्ते प्रदोषे पूजनन्ततः ।
पुनर्होमनिवेशश्च ततो ग्रामप्रदक्षिणम् ॥ २७६ ॥
यात्रार्थस्नपनं पूजा नृत्तगेयादि दर्शनम् ।
ततो धाम निवेशश्च देव्या सह निवेशनम् ॥ २७७ ॥
काले षोडशसङ्ख्याते यामार्धपरिनिष्ठिते ।
कृतसर प्रति सरस्यैता देवताः विहितः क्रियाः ॥ २७८ ॥
स्वकालेनुष्ठितास्त्वेता क्रियास्सर्वार्थसाधकाः ।
पूर्वपूर्वग्रहेऽपुष्टिः पृष्ठपृष्ठग्रहेऽशुभः ॥ २७९ ॥
तस्मात्सर्व प्रयत्नेन पूर्वकाले समाचरेत् ।
स्वकालेपि च दोषस्स्यात् पृष्ठकाले समाचरेत् ॥ २८० ॥
यानकाले बलेः काले पूर्वकालेऽथवामतः ।
परिवारोक्तमार्गेण बलिपीठे समाचरेत् ॥ २८१ ॥
मार्दवार्क्षन्तु वा पीठं लोहं वाभू विलेपनम् ।
यागमण्डपवेशञ्च हित्वान्तर्वेशनन्तु वा ॥ २८२ ॥
तत्र ताम्बूलदानाद्यं वर्जयेद्वाथ कारयेत् ।
उक्तकाले परित्यागे शान्तिहोमञ्च कारयेत् ॥ २८३ ॥
रात्रौ नीराजनं कार्यं धूपदीपावसानके ।
प्रभूतन्तु हविर्दद्याद्यानकालावसानके ॥ २८४ ॥
एवं प्रतिदिनं कुर्यात् विशेषस्त्वघुनोच्यते ।
ग्रामादौ तत्बहिः वापि कल्पिते मण्डपादिके ॥ २८५ ॥
नीत्वा देवं समाराध्य विनोदालोकनन्ततः ।
प्रविश्य धाम वा नो नयेत् ग्रामं समस्तकम् ॥ २८६ ॥
प्रवेशेवाथ वृष्ट्यादावेवमेव समाचरेत् ।
भविष्यद्वृष्टिशङ्कायान्धकारे महत्यपि ॥ २८७ ॥
शान्तिहोमो विधेयस्यादवशिष्टप्रदक्षिणे ।
यागारम्भदिने वाथ तीर्थदानदिनेपि च ॥ २८८ ॥
सकलं भ्रामयेत् ग्रामं प्रायश्चित्तन्नचोच्यते ।
ग्रामप्रदक्षिणे हीने दिशाहोमन्तु कारयेत् ॥ २८९ ॥
निर्मले नभसीन्दोश्च दर्शनेऽवश्यमेव च ।
बेरयात्रा प्रकर्तव्या बलिन्नित्यं समाचरेत् ॥ २९० ॥
तीर्थाह्नः पञ्चमे पूर्वे चतुर्थे वा समाचरेत् ।
तैलाभ्यङ्गञ्च तद्वारे रात्रिचूर्णयुतन्तु वा ॥ २९१ ॥
ताम्बूलदानसहितन्देवे भक्तेषु च क्रमात् ।
अन्यत्रापि च कर्तव्यं ध्वजारोहेपि वामतम् ॥ २९२ ॥
देवाग्रे स्थापयेत्तैलं स्थण्डिलेयन्त्रिकोपरि ।
अस्त्रमन्त्रेण सम्प्रोक्ष्य संहिता मनुना लभेत् ॥ २९३ ॥

कवचेनाव कुण्ठ्याथ यजेद्गन्धाधिभिः हृदा ॥ २९३१।२ ॥
शिवतत्वादिभिस्तैलं मूलयुक्तैर्नमोन्तकैः ।
सपुष्पन्निक्षिपेन्मूर्ध्नि रात्रिचूर्णमनुक्रमात् ॥ २९४१।२ ॥
ललाटात् पादबाह्वन्तं देव्याः कण्ठान्तमाचरेत् ।
तत्र वन्यत्र वा स्नानं कृत्वा मौद्गन्निवेदयेत् ॥ २९५१।२ ॥
तीर्थाह्नात् पूर्वदिवसे तत्पूर्वे वा समाचरेत् ।
नटेशभ्रमणं कुर्यात्तदर्धं पूर्वरात्रिके ॥ २९६१।२ ॥
कौतुकं पूर्वविधिना कारयेन्नृत्तमूर्तये ।
सर्वाभरणयुक्ताय पूजिताय विशेषतः ॥ २९७१।२ ॥
तस्मादन्यत्र कूटेवा रङ्गे वाऽस्थानमण्टपे ।
सर्वालङ्कारसंयुक्तं कृत्वा धामप्रदक्षिणम् ॥ २९८१।२ ॥
तत्काले वा प्रभाते वा देवदेवं प्रवेश्य च ।
विनोददर्शनञ्चापि कारयेद्विजसत्तमाः ॥ २९९१।२ ॥
प्रातस्नानादिकं कृत्वा भूषयेत् भूषणार्हकैः ।
नानागरुसुगन्धञ्च कर्पूरेण विमिश्रितम् ॥ ३००१।२ ॥

धामप्रदक्षिणं कृत्वा सर्वातोद्यसमन्वितम् ॥ ३०१ ॥
स्थण्डिलोपरि संस्थाप्य पुण्याहं वाचयेत्ततः ।
सम्प्रोक्ष्यार्घ्याम्भसास्त्रेण मन्त्रयेत् शर्वशम्बरैः ॥ ३०२ ॥
गन्धादिभिस्समभ्यर्च्य कवचेनावकुण्ठयेत् ।
समिदाज्येन चरुणा तिललाजगुलैस्तु वा ॥ ३०३ ॥
मूलेन शतहोमस्स्यादस्त्रहोममतो न वा ।
पञ्चाग्नि संस्कृतिर्युक्तो होमस्सर्वार्थसाधकः ॥ ३०४ ॥
प्रायश्चित्तन्त्वघोरेण कृत्वा पूर्णासमन्वितम् ।
सद्योजातेन संस्पृश्य गन्धम्मूलेन दापयेत् ॥ ३०५ ॥
सवत्साङ्गां सुवर्णञ्चकांस्यपात्रं सुवस्त्रयुक् ।
तिलमाज्यमथान्यद्वा दद्यादाचार्य तृप्तये ॥ ३०६ ॥
जलदानसमोपेतं यात्रादानमिदम्मतम् ।
अथान्यद्वा हरिद्राञ्च लवणन्तिलसर्षपौ ॥ ३०७ ॥
ताम्बूलन्तण्डुलञ्चैव गन्धाज्यं तिलतैलकम् ।
शिवदानमिति ख्यातं कर्तुरिष्ट प्रदायकम् ॥ ३०८ ॥
योगिनां ध्यानयुक्तानां शिवज्ञानार्थवेदिनाम् ।
तत्पूजादानमिष्टं स्यात् सर्वेषां प्राणिनामपि ॥ ३०९ ॥
उष्णीषाद्यं प्रदेयं स्याद्विशेषेषु दिनेषु च ।
प्रतिदानं तु देयं स्याज्जलोपेतं तु तद्भवेत् ॥ ३१० ॥
उष्णीषाद्यं प्रदातव्यं दद्याचार्यधीमतः ।
आचार्यश्शिव एवस्यादनयोरन्तरन्नहि ॥ ३११ ॥
यः पश्येदनयोर्भेदं सोधोगतिमवाप्नुयात् ।
सर्वागमज्ञं शान्तञ्च शिवलिङ्गार्चनारतम् ॥ ३१२ ॥
नित्यहोमादिभिर्युक्तं शिवार्थान्नप्रकल्पितम् ।
ग्रहबल्यादिसंयुक्तं भिक्षा प्रदमनिन्दितम् ॥ ३१३ ॥
किमत्र बहुनोक्तेन देशिकस्त्वीदृशो यदा ।
तृप्तो यत्र तदातस्य पुरुषार्थगतिर्द्विजाः ॥ ३१४ ॥
सत्यं सत्यं पुनस्सत्यं त्रिसत्यं सत्यमेव हि ।
तद्वित्तमाहृतं येन त्रिजगच्चोर उच्यते ॥ ३१५ ॥
देवस्वादपिनिस्तार्यं कल्पकोटिशतैरपि ।
तस्मात् पापं परिज्ञाय बहुधा देशिकस्य च ॥ ३१६ ॥
तद्दत्तं श्रद्धया ग्राह्यन्तछ्राव्यन्तारकम् यतः ।
यात्रादान मिदं कार्यान्नैवेद्यादि निवेदयेत् ॥ ३१७ ॥
पूर्वान्ते भवेल्लिङ्गप्रतिष्ठादौ च सम्मतम् ।
अन्यत्रापि च कर्तव्यं राज्ञां विजयहेतवे ॥ ३१८ ॥
सर्वदानोत्तमं ह्येतत् ग्रहणादौ विशिष्यते ।
सर्वालङ्कारसंयुक्तं मुखेणसमन्वितम् ॥ ३१९ ॥
शैवाचार्यसमोपेतमारोप्य शिबिकोत्तमम् ।
पञ्चप्राकारमध्ये वा तत्बाह्ये वा प्रदक्षिणम् ॥ ३२० ॥
कृत्वा यानक्रमं प्रोक्तं सर्वमङ्गल संयुतम् ।
राजवेषधरैः पुम्भिर्नानानृत्तसमन्वितैः ॥ ३२१ ॥
आरूढ शिबिकैर्दक्षैः पुष्पोदैर्गन्धतोयकैः ।
अग्रतः पृष्ठतो वापि कृतसेवा समन्वितैः ॥ ३२२ ॥
वर्जयेद्वाथ मुखं राजवेषधरान्वितम् ।
प्रवेश्य भवनं पश्चात् स्थापयेत् पूर्ववर्त्मना ॥ ३२३ ॥
कौतुकञ्च परित्यज्य गन्धपुष्पादिभिर्यजेत् ।
तदन्ते बेरयात्रादि तत्पूर्वे वा प्रकीर्तितम् ॥ ३२४ ॥
रात्र्यन्ते रथमारोप्य देवदेवन्नटेश्वरम् ।
पूर्वयानक्रमेणैव ग्रामादीनां ग्रदक्षिणम् ॥ ३२५ ॥
कृत्वा निवेशयेदन्तः पुनस्नपनमाचरेत् ।
अन्येष्वपि च बेरेषु विधानं सदृशं मतम् ॥ ३२६ ॥
तीर्थाह्नः पूर्वदिवसे तत्पूर्वे वा द्विजोत्तमाः ।
युद्धारम्भक्रियोपेतं मृगयात्रावसानकम् ॥ ३२७ ॥
अन्येन चोत्सवार्थेन बेरेण पुनराचयेत् ।
विशेषेण स्नपनन्तस्य विधेयं पूर्ववर्त्मना ॥ ३२८ ॥
तद्रात्रौ कौतुकं कुर्यात् तीर्थार्थं पूर्ववर्त्मना ।
तीर्थार्थं साधयेद्रात्रौ कलशान्नवसङ्ख्यया ॥ ३२९ ॥
ससूत्रान् सापिधानांश्च सकूर्चान् पल्लवान्वितान् ।
सवस्त्रान्वा विवस्त्रान्वा प्रधाने वस्त्रमेव वा ॥ ३३० ॥
रात्रौ वा साधयेत्तीर्थं स्नाने तत्समयेपि वा ।
प्रातः प्रागुदयात् पूर्वन्तीर्थकार्यं समाचरेत् ॥ ३३१ ॥
तीर्थस्थानञ्च सम्प्राप्य शुद्धिं कृत्वा महीतले ।
स्थण्डिलद्वितयं कुर्यात् शूलार्थं कलशार्थकम् ॥ ३३२ ॥
पश्चिमे स्थापयेच्छूलं तदग्रे कलशान्यसेत् ।
पुण्याहं वाचयित्वा तु देवानाहूयपूर्वकम् ॥ ३३३ ॥
त्रिशूले सर्वतीर्थञ्च सर्वन्दुर्गासमन्वितम् ।
मध्ये मनोन्मनीयुक्तं गन्धपुष्पादिभिर्यजेत् ॥ ३३४ ॥
तज्जलैः स्नापयेच्छूलं नद्याद्यन्तः प्रविश्य च ।
तीर्थसङ्ग्रहणं कुर्यात् गङ्गाद्यावाहनेन च ॥ ३३५ ॥
हे देवि गङ्गे यमुने नर्मदे च सरस्वति ।
सिन्धो गोतावरित्वञ्च कावेर्यत्रजलाशये ॥ ३३६ ॥
सन्निधीभवशर्वस्य तीर्थार्थमिदमुत्तमम् ।
खेरस्तमनं यावत् तीर्थानां पापशुद्धये ॥ ३३७ ॥
तीर्थसङ्ग्रहणं तन्मध्ये प्राक्शिरान्वितम् ।
त्रिशूलं स्नापयेदप्सु शिवमन्त्रमनुस्मरन् ॥ ३३८ ॥
जलादुत्तीर्य शूलन्तु जलतीरे निवेशयेत् ।
तीर्थसङ्ग्रहणं कृत्वा तीर्थं देवालयेपि वा ॥ ३३९ ॥
अवगाहनहीनन्तु नयेद्दूरजलाशये ।
सर्वालङ्कारसंयुक्तं प्रविशेदालयं प्रति ॥ ३४० ॥
होमञ्च बलिदानञ्च कृत्वा प्रागुक्तवर्त्मना ।
चूर्णोत्सवं ततः कुर्यात् देवस्यास्थानमण्टपे ॥ ३४१ ॥
स्थण्डिले द्वितयं कुर्यात् देवदेवस्य सन्निधौ ।
त्रिशूलं पश्चिमेन्यत्रोलूखलं विनिवेशयेत् ॥ ३४२ ॥
तन्मध्ये विन्यसेद्रात्रिमथतच्चूर्णसिद्धये ।
वस्त्राणावेष्ट्य तन्मध्ये रात्रिचूर्णन्तु वा क्षिपेत् ॥ ३४३ ॥
त्रिशूलं पूजयित्वादौ ततो रात्र्यधिवासनम् ।
सङ्क्ल्प्योलूखलेशक्तिम्माधाराख्यं प्रकल्पयेत् ॥ ३४४ ॥
मुसले पूजयित्वेशं कुर्यात् घृतशिरोर्पणम् ।
दूर्वा पुष्पसमोपेतैः व्रीहितण्डुलकादिभिः ॥ ३४५ ॥
सम्मुखं विमुखं वापि शूलं देवस्य कीर्तितम् ।
तद्वन्मुसलमुद्दिष्टं तथैवोलूखनं भवेत् ॥ ३४६ ॥
सवस्त्रं वा विवस्त्रं वा मूसलं परिकीर्तितम् ।
मुसलं पूर्वमभ्यर्च्योलूखनं तदनन्तरम् ॥ ३४७ ॥
शिवतत्वादितो वा स्यादात्मतत्वादितोपि वा ।
दूर्वाप्रदानं कर्तव्यं गुरुणा वा नियोगिना ॥ ३४८ ॥
राज्ञा देव्या च तस्याथ तन्नियुक्तैर्महात्मभिः ।
पुरोहितमुखैर्देयं ततो माहेश्वरैर्जनैः ॥ ३४९ ॥
मत्कन्याभिश्चदासीभिः कर्तव्यं राजसन्निधौ ।
नो चेत्राजनियुक्ताभिरुद्रकन्याभिरेव वा ॥ ३५० ॥
दासीभिर्वार्थ भक्तैर्वा योग्यैर्रन्यैः क्रमेण च ।
दूर्वादानं प्रकर्तव्यं विद्धैर्देशिकाज्ञया ॥ ३५१ ॥
अन्यस्मिन्नपि देवस्य देव्या वा कौतुकान्तरे ।
तदादौ स्नानकालादौ कर्तव्यम्मङ्गलार्थकम् ॥ ३५२ ॥
तदन्ते चूर्णयेद्रात्रिं त्रिःकृत्वा चास्त्रमुच्चरन् ।
दूर्वादानं क्रमेणैव चूर्णयेद्रात्रिमादरात् ॥ ३५३ ॥
तच्चूर्णं तन्मनुं स्मृत्वा तस्मादादाय निक्षिपेत् ।
नानाविधेषु पात्रेषु लिङ्गार्थकं प्रतिमार्थकम् ॥ ३५४ ॥
उत्सवप्रतिमार्थकञ्च त्रिशूलार्थं विशेषतः ।
परिवारार्थमेकञ्च भागं सङ्कल्पयेत् क्रमात् ॥ ३५५ ॥
अवशिष्टजनार्थञ्च सङ्ग्रहेत् कलशादिषु ।
केवलं गन्धतैलं वा पृथक् पात्रेषु कल्पयेत् ॥ ३५६ ॥

सम्प्रोक्ष्य हेतिना पश्चात् हृण्मन्त्रेण समर्चयेत् ॥ ३५६१।२ ॥
अमृतीकृत्य गोस्तन्या दद्यात्ताम्बूलपूर्वकम् ।
रात्रिचूर्णं च देयं स्यात् प्रागुक्तविधिना द्विजाः ॥ ३५७१।२ ॥
चूर्णोत्सवं त्रिशूलेन ग्रामादावालयेऽपि च ।
कारयेत् शीघ्रगत्या तु समर्थैः परिचारकैः ॥ ३५८१।२ ॥
महातीर्थं प्रकर्तव्यं समुद्रादौ महाजले ।
नाल्पोदके विधातव्यं तच्च कौतुकतीर्थवत् ॥ ३५९१।२ ॥
किं तु बेरसमोपेतं प्रपादि परिमण्डिते ।
कलशस्थापनोपेतं देवताह्वानसंयुतम् ॥ ३६०१।२ ॥
विबेरं वापि प्रकर्तव्यं तीर्थकार्ये द्विजोत्तमाः ।
तीर्थसङ्ग्रहणं पूर्वं न कृते तु जलान्तरे ॥ ३६११।२ ॥
तीर्थसङ्ग्रहणं कृत्वा महातीर्थं समाचरेत् ।
विमोच्य कौतुकं सर्वं भक्तेभ्यो विनिवेश्य च ॥ ३६२१।२ ॥
महातीर्थं प्रकर्तव्यं शूलबेरसमन्वितम् ।
त्रिशूलसहितं वापि नानादेवालयागतैः ॥ ३६३१।२ ॥
त्रिशूलैर्देवतोपेतैः सहितं वा समाचरेत् ।
अथवा पद्मचक्राभ्यां सहितं वा समाचरेत् ॥ ३६४१।२ ॥
महामोटिसमायुक्तं रात्रौ वा तीर्थमाश्रयेत् ।
अह्नितीर्थं प्रकर्तव्यं मध्याह्ने तीर्थमुत्तमम् ॥ ३६५१।२ ॥
पूर्वाह्ने मध्यमं तीर्थमपराह्नेऽधमं भवेत् ।
हित्वेन्दु ग्रहणं तीर्थं रात्रौ वा वरमिष्येते ॥ ३६६१।२ ॥
तच्च (मोटि) समायुक्तम् उत्तमोत्तममिष्यते ।
तिथिप्रधानं सामुद्रयमन्यद्दक्षप्रधानकम् ॥ ३६७१।२ ॥
तिथिनक्षत्रसंयोगयुक्तं दुर्लभमुच्यते ।
पूर्वाह्ने वा पराह्नेवा तिथिऋक्षसमन्वितम् ॥ ३६८१।२ ॥
समुद्रे वाथ नद्यादौ कार्यं मध्यन्दिने वरम् ।
नक्षत्रमधिकं त्वह्निसङ्ग्राह्यं तिथिरेव वा ॥ ३६९१।२ ॥
वारद्वयगते ऋक्षे तिथौ वा योगसम्भवे ।
तीर्थर्क्षद्वयसम्प्राप्तावेकमासे परं वरम् ॥ ३७०१।२ ॥
तत्रापि योगयुक्तञ्चेत् पूर्वं सङ्ग्राह्यमेव वा ।
यस्मिन् मासे तु यदृक्षं पूर्वं तीर्थमनुष्ठितम् ॥ ३७११।२ ॥
तस्मिन् मासे तु तदृक्षे पश्चादपि समाचरेत् ।
लिङ्गे स्वायम्भुवे चेत्तु दैविके चार्षिकेपि वा ॥ ३७२१।२ ॥
मानुषे पूर्वतीर्थक्षे मासर्क्षन्तद्विमासके ।
नक्षत्रे वा तिथौ वापि तीर्थकार्यं द्विजोत्तमाः ॥ ३७३१।२ ॥
जलमध्ये ततस्तीर्थं कारयेद्देशिकोत्तमः ।
द्विधावगाहनं प्रोक्तं बेरयोगवियोगतः ॥ ३७४१।२ ॥
वियोगे तीरदेशे तु बेरस्नपनमेव वा ।
कारयेत् पूजयेत् पश्चात् गन्धाद्यैरुपचारकैः ॥ ३७५१।२ ॥
नैवेद्यं दापयेत्तत्र नोचेद्देवालयेपि वा ।
आरामादौ च देवेशं तोषयेत् सर्वमङ्गलैः ॥ ३७६१।२ ॥
ग्रामप्रदक्षिणोपेतमथवा तद्विवर्जयेत् ।
सर्वेर्भक्तजनोपेतं तैर्विहीनन्तु वा भवेत् ॥ ३७७१।२ ॥
पूर्णाहुतिं ततो हुत्वा सर्वमङ्गलसंयुतम् ।
धामप्रदक्षिणोपेतं विशुद्धैः परिचारकैः ॥ ३७८१।२ ॥
ग्राहयित्वा तु देवेशं देव्या विद्येश्वरैर्युतम् ।
गर्भगेहे सुसंस्थाप्य लिङ्गे पीठेह्यनुक्रमात् ॥ ३७९१।२ ॥
देवं देवीञ्च विन्यस्य विद्येशान् परितोन्यसेत् ।
तत्तत् तोयैश्च सम्प्रोक्ष्य शुद्धोदैस्नापयेद्विभुम् ॥ ३८०१।२ ॥
ततस्सम्पूजयेद्देवं यथाविभवविस्तरम् ।
ध्वजावरोहणं तस्यां रात्रौ श्रेष्ठमुदाहृतम् ॥ ३८११।२ ॥
तृतीये पञ्चमे वापि सप्तमे नवमेव वा ।
एकादशाहे विश्वर्क्षे कुर्यात्पञ्चदशाहके ॥ ३८२१।२ ॥

कुर्यात् सप्तदशाहे वैकोन विंशत्यहेऽपि च ॥ ३८३ ॥
मूर्तिहोमयुतं कुर्याद्दिशाहोमन्तदूर्ध्वतः ।
ध्वजादि तीर्थपर्यन्तं दिनसङ्ख्यास्थिता यदि ॥ ३८४ ॥
पुनरुत्सवमारभ्य तीर्थान्तं सर्वमाचरेत् ।
ध्वजावरोहऋक्षेतु शुद्धाख्यं स्नपनं नयेत् ॥ ३८५ ॥
लिङ्गे बेरे शूले ध्वजे स्नपनमाचरेत् ।
अर्चनोक्तं समभ्यर्च्य मलाभिर्धामभूषयेत् ॥ ३८६ ॥
गर्भगेहं समारभ्य गोपुरान्तं स्वशक्तितः ।
कालागरूद्भवै र्धूपैर्धूपयेद्देवमन्दिरम् ॥ ३८७ ॥
नैवेद्यं विविधन्दद्यात् तोषये द्देवं मादरात् ।
चण्डपूजान्ततः कुर्यात् होमेन सहितन्नवा ॥ ३८८ ॥
ततो ग्रामबलिं दद्यात् अन्नलिङ्गसमन्वितम् ।
त्रिशूलेन समायुक्तं चण्डनाथयुतन्तु वा ॥ ३८९ ॥
भेरिका मद्दलोपेतं पटहैः काहलैर्युतम् ।
श्रीखण्ट शङ्खसंयुक्तं बलिकाले तु घोषणम् ॥ ३९० ॥
कृत्वा विसर्जयेद्देवान् ब्रह्मदीन् ग्रामवर्तिनः ।
ध्वजेवादौ बलिन्दद्यात्तदन्ते च ध्वजं पुनः ॥ ३९१ ॥
अवतार्यपटस्थञ्च योजयेत् वृषभं वृषे ।
ध्वजावरोहणस्यादौ चान्ते वा बलिरिष्यते ॥ ३९२ ॥
आचार्यं पूजयेत्कर्ता वस्त्रहेमाङ्गुलीयकैः ।
अङ्कुरार्पणकाले च ध्वजारोहणकालके ॥ ३९३ ॥
यागाधिवासेन होमप्रारम्भे सन्ध्ययोर्द्वयोः ।
अथवा चैकसन्ध्यायाः प्रारम्भेवावसानके ॥ ३९४ ॥
नृत्तमूर्त्युत्सवे तीर्थे शुद्धस्नपनकालके ।
दक्षिणान्दापयेत्पश्चात् त्रिविधा सा च सम्मता ॥ ३९५ ॥
अधमा पञ्चनिष्का च द्विगुणा मध्यमा भवेत् ।
त्रिगुणा चोत्तमा ज्ञेया देशिकस्य तु दक्षिणा ॥ ३९६ ॥
तदर्धसङ्ख्यया प्रोक्ता दक्षिणाकन्यसक्रमे ।
श्रेष्ठं तु द्विगुणा प्रोक्ता त्वन्यथा वा निगद्यते ॥ ३९७ ॥
निष्कमर्धं तदर्धं वा प्रत्यहं दक्षिणा मता ।
भक्तोत्सवन्ततः कुर्यात् पक्षाहात् पूर्व एव वा ॥ ३९८ ॥
उत्सवादौ च मध्ये वा भक्तानामुत्सवो मतः ।
संवत्सरोद्भवेकाले यदा मासोत्सवो भवेत् ॥ ३९९ ॥
बलि होमादिसंयुक्तो बेरयात्रादि संयुतः ।
वर्जयेद्वानयेत्बेर यात्रामात्रमथापि वा ॥ ४०० ॥
मासोत्सवद्वयप्राप्तावेवमेव समाचरेत् ।
मासोत्सवमिहप्रोक्तस्त्वेकाहोत्सवत् द्विजाः ॥ ४०१ ॥
कुर्यादेकमनेकं वा मास्येकस्मिन् तदुत्सवम् ।
अङ्कुरार्पणपूर्वं वा तद्वियुक्तमथाचरेत् ॥ ४०२ ॥
एकाहमुत्सवं कुर्यात् भेरीताडनपूर्वकम् ।
स्थण्डिलद्वितयं कृत्वा शूलमेकत्र विन्यसेत् ॥ ४०३ ॥
तदग्रे स्थापयेद्भेरीं पुण्याहं वाचयेत्ततः ।
अस्त्रं भेरीञ्च सम्पूज्य भेरीं सन्ताडयेत् क्रमात् ॥ ४०४ ॥
ततः प्रतिसरं बद्ध्वा देवे शूले यथाक्रमम् ।
धामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च ॥ ४०५ ॥
स्थण्डिले स्थापयेत् शूलं वेद्यूर्ध्वे स्थण्डिले शुभे ।
विन्यसेत् शिवकुम्भञ्च वर्धनी सहितं गुरुः ॥ ४०६ ॥
समन्तात् स्थापयेदष्टौ घटान्वाकलशान्वथ ।
पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रवारिणा ॥ ४०७ ॥
हेमाब्जं निक्षिपेत्कुम्भे वर्धन्यां वस्त्रवेष्टितम् ।
उभयञ्च विधातव्यं सूत्रकूर्चपिधानयुक् ॥ ४०८ ॥
फलपल्लवसंयुक्तं कुम्भे शम्भुम्मनोन्मनीम् ।
वर्धन्यामष्टविद्येशान् कलशेषु समर्चयेत् ॥ ४०९ ॥
द्वाराणि द्वारपान्नन्दि प्रमुखान् कलशेषु वा ।
स्थण्डिलेतान् समभ्यर्च्य तोरणैरष्टमङ्गलैः ॥ ४१० ॥
संयुक्तन्तद्विहीनं वा दशायुधयुतन्नवा ।
कुण्डे वा स्थण्डिले वापि होमकर्मसमाचरेत् ॥ ४११ ॥
पञ्चसङ्ख्येऽथवैकस्मिन् पूर्वद्रव्यसमन्वितम् ।
ततो ग्रामबलिं दद्यात् बिम्बेन सहितन्तु वा ॥ ४१२ ॥
एवं रात्रौ प्रकर्तव्यं प्रातर्यागेश्वरान् यजेत् ।
कृत्वा होमं बलिं कुर्याद्बेरेण च समन्वितम् ॥ ४१३ ॥
आलयं प्रविश्यान्ते कुर्याच्चूर्णोत्सवं गुरुः ।
ततस्तीर्थं प्रकर्तव्यमत्रानुक्तन्तु पूर्ववत् ॥ ४१४ ॥
प्रातर्वाकारयेत् सर्वं भेरीताडन वर्जितम् ।
सद्योधिवासनं कृत्वा प्राग्वत्सर्वं समाचरेत् ॥ ४१५ ॥
चूर्णोत्सवविहीनं वा विधानमिदमाचरेत् ।
आलये बलियाने च स्यातां तीर्थं विहाय वा ॥ ४१६ ॥
बेरयात्रा प्रकर्तव्या सायाह्ने वा प्रदोषके ।
तीर्थोर्ध्वञ्चेत् भवेत् यात्रा बलिकालेऽन्यबेरतः ॥ ४१७ ॥
बेरयात्रा विधेया वा त्वन्यथा च निगद्यते ।
बलिहोमादिकं हित्वा भ्रमणं केवलन्तु वा ॥ ४१८ ॥

देवस्य कौतुकं कुर्याद्दिनेष्वेतदपीरितम् ॥ ४१८१।२ ॥
कर्तुर्वाञ्छावशात् कॢप्तकालेष्वेतच्च वा मतम् ।
कर्तृजन्मावसानर्क्षे चार्द्रा नक्षत्र एव वा ॥ ४१९१।२ ॥
चतुर्दश्यामथाष्टम्यां पर्वण्युभयपक्षयोः ।
अयने विषुवे राहु दर्शनेदमनोत्सवे ॥ ४२०१।२ ॥
पवित्रेमासपूजायां कृत्तिकादीपरोहणे ।
संवत्सरादिलेखायान्नवतोयागतावपि ॥ ४२११।२ ॥
पूर्वफाल्गुननक्षत्रे नवनैवेद्यकर्मणि ।
अन्यस्मिन् मङ्गले कार्ये कुर्यादेकोत्सवं बुधः ॥ ४२२१।२ ॥
एवं प्रत्यब्धसंयुक्तं भुक्त्यै नोचे द्विमुक्तये ।
वारपूजादि कर्तव्या रविवारादितः क्रमात् ॥ ४२३१।२ ॥
पञ्चगव्यामृतैर्वापि स्नापयेत् स्नपनाङ्गकैः ।
पुष्पकलैर्गन्धपुष्पाद्यैः पूजयेत् परमेश्वरम् ॥ ४२४१।२ ॥
स्थलपद्ममपामार्गं श्रीपर्णन्तुलसी तथा ।
गोक्षुरा बिल्वपत्रञ्च विष्णुक्रान्तिः क्रमेण तु ॥ ४२५१।२ ॥
अर्कवारादि वारेषु पत्राण्येतानि योजयेत् ।
माणिक्कमर्कवारेस्यात् चन्द्र वारे तु मौक्तिकम् ॥ ४२६१।२ ॥
प्रवालं गुजवारे तु बुधे मरकतं भवेत् ।
सुरेढ्ये पुष्परागं स्यात् शुक्रे वज्रमिति स्मृतम् ॥ ४२७१।२ ॥
इन्द्रनीलं च सौरे स्यात् सर्वाण्यन्यानि यानि च ।
सर्ववारेषु योग्यानि भूषणानां विधिर्मतः ॥ ४२८१।२ ॥

तद्वर्णाभानि च पुष्पाणि वस्त्राणि च नियोजयेत् ॥ ४२९ ॥
तत्तद्वर्णानि नैवेद्यन्तत्तद्वारे निवेदयेत् ।
वारपूजावसाने तु वारोत्सवमथाचरेत् ॥ ४३० ॥
अर्कवारोत्सवं वापि कारयेदिष्टसिद्धये ।
ग्रहपीडाविनाशार्थमारोग्यार्थं विशेषतः ॥ ४३१ ॥
जगत्क्षोभविनाशार्थं बाधायेन ग्रहेण च ।
तद्वारपूजा कर्तव्या तद्वारोत्सवसंयुता ॥ ४३२ ॥
तत्तद्वारविभेदेन गन्धादिग्रहणेन वा ।
संवत्सरोत्सवः प्रोक्तः तथा मासोत्सवोपि च ॥ ४३३ ॥
वारोत्सवस्य विप्रेन्द्रा विशेषस्तत्र कथ्यते ।
पूर्वाह्ने ब्राह्मणानान्तु मध्याह्ने क्षत्रियस्य तु ॥ ४३४ ॥
सायाह्ने वैश्यजातेस्तु चतुर्थस्यार्धरात्रके ।
ध्वजस्यारोहणं कुर्यात् ध्वजारोहण पूर्वकम् ॥ ४३५ ॥
भेरीताडनपूर्वं वा बीजनिर्वापपूर्वकम् ।
ब्राह्मणादि त्रयाणां वा शूद्रे वाङ्कुरपूर्वकम् ॥ ४३६ ॥
नगरे ध्वजपूर्वं वा मङ्गले भेरिपूर्वकम् ।
पत्तनेङ्कुरपूर्वं वा तद्वछ्शूद्रे प्रकीर्तितम् ॥ ४३७ ॥
चतुस्सहस्रकादूर्ध्वे वैप्रे ग्रामे महत्तरे ।
पुरादौ सङ्करोनोक्तः उत्सवानां द्विजोत्तमाः ॥ ४३८ ॥
सप्तषट्पञ्चवेदैस्तु तालैर्वाध्यजदण्डकैः ।
ध्वजस्य वेदिकां कुर्यात् शूद्रादीनां विलोमतः ॥ ४३९ ॥
ध्वजे ध्वजन्न कर्तव्यं कर्तव्यो वृषभध्वजः ।
उत्सवे चोत्सवन्नेष्टमिष्टं शैवोत्सवं द्विजाः ॥ ४४० ॥
सर्वानुकूल नक्षत्रे ध्वजारम्भादिको वरः ।
श्वेतं रक्तञ्च पीतञ्च ब्राह्मण्यादि त्रये मतः ॥ ४४१ ॥
शूद्रस्य पीतः सर्वेषां श्वेतो वा परिकीर्तितः ।
आरम्भस्तु पटे मूर्धा पुच्छस्यादवसानयुक् ॥ ४४२ ॥
ध्वजप्रदक्षिणे काले गच्छेदग्रे गुरुर्नवा ।
गान्धारं पूर्वभागे तु दक्षिणो कौशिको भवेत् ॥ ४४३ ॥
पश्चिमे कामरो ज्ञेयस्तर्करागस्तदुत्तरे ।
एवञ्च दिक्विभागेन स्वरास्तु परिकल्पयेत् ॥ ४४४ ॥
ध्वजारोहणकाले तु चतुर्ष्वेकतमोपि वा ।
ध्वजारोहादि तीर्थान्तं रोत्रौ ग्रामबलिस्तु वा ॥ ४४५ ॥
अथवा ध्वजमूले तु देवानां बलिरेव वा ।
नित्योत्सवयुतस्थाने चोत्सवेन्यत्रवापि वा ॥ ४४६ ॥
ब्राह्मणादि विभेदेन सौम्यादारभ्य कुण्डकम् ।
प्रदक्षिणक्रमाद्वापि कुर्यादेकाग्निकल्पने ॥ ४४७ ॥
चण्डरूपधरोब्रह्मचारी सम्मृष्टभोजनः ।
आत्मानञ्चण्डवत् ध्यात्वा छिन्द्याद्वाध्वजदण्डकम् ॥ ४४८ ॥
उत्सवं वा पवित्रं वा कल्पयेदुभयन्तु वा ।
केत्वङ्कुरन्नवाहे स्यात् सप्ताहेचोत्सवाङ्कुरम् ॥ ४४९ ॥
तीर्थाङ्कुरन्तु तत्सङ्ख्ये सर्वं सर्वत्र वामतम् ।
मध्याह्ने ध्वजपूजां वा सोमकुम्भे जलस्य च ॥ ४५० ॥
निक्षेपञ्चाथ तत्पूजा रात्रौ वाथ विधीयते ।
कृतकौतुकबेरस्य तत्ग्रामान्निर्गमोपि वा ॥ ४५१ ॥
मृगयाचेष्टकालेषु कर्तव्यं द्विजसत्तमाः ।
सौरश्चान्द्रो द्विधाप्रोक्ता वत्सरः कामिकागमे ॥ ४५२ ॥
सौरश्रेष्ठ इह प्रोक्तश्चान्द्रो मध्यम उच्यते ।
सावनस्त्वधमः प्रोक्तस्तेन कार्यन्तु नेष्यते ॥ ४५३ ॥
उत्सवादिषु कालेषु प्रतिष्ठाद्यन्न कारयेत् ।
विधाय शान्तिहोमन्तु प्रतिष्ठाद्यन्तु वा नयेत् ॥ ४५४ ॥
अथवान्यप्रकारेण उत्सवन्तु विधीयते ।
ध्वजमेकं समारोप्य ध्वजारोहणपूर्वकम् ॥ ४५५ ॥
तस्मिन्नेवदिने विप्रा मन्दीभूते दिवाकरे ।
श्रावयेत्तीर्थदिवसं गजाद्यारोहितेन च ॥ ४५६ ॥
चण्डालेन सदारेण कुर्यात् घोषयुतेन च ।
तद्रात्रावेव कर्तव्यं भेरीताडनपूर्वकम् ॥ ४५७ ॥
बेराग्रे शूलसंयुक्ते देवानावाह्यपूर्ववत् ।
आश्राव्य तीर्थदिवसं ग्रामादिबलिवर्जितम् ॥ ४५८ ॥
धामन्येव विधायैवं तस्माद्गत्वा जलाशयम् ।
स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमाः ॥ ४५९ ॥
एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् ।
नवकैस्नापयेच्छूलं तच्छूलमवगाहयेत् ॥ ४६० ॥
प्रविश्य देवतास्थानं तद्दिनाद्वा दशाहके ।
यागारम्भं पुनः कुर्यादङ्कुरार्पणपूर्वकम् ॥ ४६१ ॥
एकहोमसमायुक्तं ग्रामादिबलिमाचरेत् ।
बेरयात्रा समायुक्तं दिवसं प्रत्यहर्निशम् ॥ ४६२ ॥
पञ्चमे दिवसे तत्र सिकता अस्त्रमन्त्रिताः ।
विकिरेत् सदनं सर्वमन्तर्बाह्य विकल्पितम् ॥ ४६३ ॥
अष्टादाशदिने प्राप्ते बीजानिर्वापमाचरेत् ।
तीर्थाथं तन्निशायान्तु धाम्नस्त्वष्टादिशास्वपि ॥ ४६४ ॥
ध्वजानष्टौ समारोप्याङ्कितान् लोकेशवाहनैः ।
तदस्त्राकान् वृषाङ्गान्वा मूर्तिपैश्च समन्वितः ॥ ४६५ ॥
ततः प्रभृतिकर्तव्यं होमकर्मविशेषतः ।
तदन्ते बलिदानं स्यात् बेरयात्रासमन्वितम् ॥ ४६६ ॥
एवं नवदिनं कृत्वा दशमे तीर्थमाचरेत् ।
ध्वजानामष्टसङ्ख्यानां तद्रात्राववरोहणम् ॥ ४६७ ॥
कृत्वा तद्दिनमारभ्य नानावाद्य समन्वितम् ।
नानागानसमायुक्तं नानानृत्तसमन्वितम् ॥ ४६८ ॥
ग्रामप्रदक्षिणं कृत्वा परिवेषक्रमं नयेत् ।
सप्ताहमेवं कृत्वान्ते तस्माद्गत्वा जलाशयम् ॥ ४६९ ॥
स्थण्डिलद्वितयं कृत्वा जलतीरे गुरूत्तमः ।
एकत्र स्थापयेच्छूलमन्यत्र कलशान्न्यसेत् ॥ ४७० ॥
नवकैः स्नापयेच्छूलं तच्छूलमवगाहयेत् ।
प्रविश्य देवतास्थानं सर्वातोद्यं विवर्ज्य च ॥ ४७१ ॥
स्थापयेन्मौनमास्थाय सप्ताहं तदनन्तरम् ।
चण्डेश्वरं पुरो नीत्वा बेरयात्रामनन्तरम् ॥ ४७२ ॥
बलिहोमविहीने तु नयेत् सप्ताहमाचरेत् ।
चण्डपूजा समायुक्तं होमंस्नपनसंयुतम् ॥ ४७३ ॥
तदन्ते कारयेत्तीर्थं त्रिशूलेन समन्वितम् ।
ध्वजावरोहणं कुर्यात् तद्रात्रौ पूर्ववर्त्मना ॥ ४७४ ॥
बेरयात्रा विहीनं वा विधिमेनां समाचरेत् ।
नवान्नलिङ्गं कृत्वा वा दिक्पालास्त्रार्थमेव वा ॥ ४७५ ॥
तैस्त्रिशूलेन वा कुर्यात् ग्रामादौ वा बलिक्रियाम् ।
नित्योत्सवान्नलिङ्गानि दश वा परिकल्पयेत् ॥ ४७६ ॥
द्वादशाब्दावसानान्त ध्वजस्थापनमेव वा ।
जीर्णादि दोषे तं त्यक्त्वा ध्वजमन्यं निवेशयेत् ॥ ४७७ ॥

इति उत्तरकामिकाख्ये महातन्त्रे महोत्सवविधिः षष्ठः पटलः

पञ्चहस्तादि विश्वान्तं ध्वजदैर्घ्यं प्रकल्पयेत् ।
मानमेतत् समाख्यातं शिरःपुच्छान्तरे द्विजाः ॥
तत् संयुक्तं वा ग्राह्यं चतुस्सप्त समावधि ।
भागं कृत्वैक भागेन पट विस्तार उच्यते ॥
विस्तारेण समः पुच्छः त्रिपादं वार्धमुच्यते ।
विस्तारार्धं शिरोज्ञेयं पुच्छद्वय समन्वितम् ॥
वेत्रद्वय समायुक्तं तन्मध्ये वृषभं लिखेत् ।
आयादि शुभ संयुक्तं स्थितं वा शयनान्वितम् ।
श्वेतं वा रक्तवर्णं वा पीतवाल समन्वितम् ।
रक्तशृङ्ग समायुक्तं तद्वत्खुर समन्वितम् ॥
मान मात्राङ्गुलाभ्यां स्यात् ध्वजदण्डः पटोवृषः ।
पद्मासन समायुक्तं पार्श्वेदीप द्वयान्वितम् ॥
चामरद्वय संयुक्तं छत्रसंवृत मस्तकम् ।
पूर्णकुम्भयुतं वापि त्रिशूलेन युतं न वा ॥
एवं वृषभं समापाद्य कृत्वानेत्र विमोक्षणम् ॥

सर्वशशूलोक्त वृक्षो वा त्वक् सारः क्रमुकादिकः ।
द्विभागादि नवांशान्तं दण्डदैर्घ्यं विधाय च ॥
एकांशेन विधातव्या ध्वजयष्टिर्गुरूत्तमाः ।
पञ्चाङ्गुलं समारभ्याङ्गुल वृद्ध्या षोडशाङ्गुलम् ॥
यावत्तावत्परीणाह मुपदण्डस्य कल्पयेत् ।
पञ्चांशात् द्वादशां शान्तं नूलनाहं विधाय च ॥
एकांशेनोनमग्रं स्यात् तथा दण्डाग्रमिष्यते ।
दण्डोक्तो वेणु वृक्षो वा ध्वजयष्टिर्महीरुहः ॥
उभयोर्योग सिद्ध्यर्तं स्कन्धत्रयमधाहरेत् ॥