०५ नित्योत्सवविधिः

नित्योत्सवविधिं वक्ष्ये नित्यपूजाङ्गमुत्तमम् ।
शिवाग्रे वाथ तद्वामे वामे शुद्धमहीतले ॥ १ ॥
प्रासादमण्टपादौ वा गोमयेनोपलेपिते ।
प्रोक्षितेऽस्त्रेण संस्थाप्य पात्रं लक्षणसंयुतम् ॥ २ ॥
सौवर्णं राजतन्ताम्रं कांस्यनिर्मितमेव वा ।
तिथ्यङ्गुलं समारभ्य व्योमाङ्गुलविवृद्धितः ॥ ३ ॥
द्वात्रिंशदङ्गुलान्तं तु पात्रमानमुदीरितम् ।
वृत्तमिष्टघनोपेतं कर्णिकादलशोभितम् ॥ ४ ॥
तत्पात्रे रससप्ताष्टनवदिग्रुद्रभाजिते ।
एकद्वित्रिचतुःपञ्चषट्भागैः कर्णिका भवेत् ॥ ५ ॥
शेषेण दलमाख्यातं विकाराष्टदलम्मतम् ।
अर्धत्रिपादमात्रं वा द्विमात्रं कर्णिकोच्छ्रयम् ॥ ६ ॥
तद्वदोष्टसमोपेतं केवलं पात्रमेव वा ।
कुडुपद्वयमारभ्य कुडुपादाढकावधि ॥ ७ ॥
तण्डुलं कल्पयेदन्नलिङ्गार्थं वाऽक्षतार्थकम् ।
मध्वाज्य मिश्रितं वान्नं प्रक्षिपेत्पात्रमध्यमे ॥ ८ ॥
तेनान्नलिङ्गं कर्तव्यं भूतमात्रप्रमाणतः ।
एकाङ्गुलं तु दैर्घ्यंस्याद्यावदष्टादशाङ्गुलम् ॥ ९ ॥
अङ्गुलत्रयमारभ्य तिथिमात्रं तु विस्तरम् ।
अग्रद्वित्रिचतुःपञ्चमात्रं षण्मात्रमेव वा ॥ १० ॥
नैमित्तिकार्थन्नित्यार्थमन्नलिङ्गमुदाहृतम् ।
त्रिकालमन्नलिङ्गं वा प्रातर्मध्याह्नयोस्तु वा ॥ ११ ॥
मध्याह्ने वाथ पूर्वाह्ने पुष्पलिङ्गमुदाहृतम् ।
प्रदोषेऽक्षतलिङ्गंस्यात्तत्रपाशुपतं यजेत् ॥ १२ ॥
चन्द्रशेखरसंयुक्तन्तद्विहीनकमेव हि ।
त्रिधा पाशुपतो ज्ञेयो मिश्रश्शान्तोऽग्रहेतुकः ॥ १३ ॥

सौम्यस्सौम्येक्षणापेतः द्विचतुर्हस्त संयुतः ॥ १३१।२ ॥
विद्युन्मालानिभश्वेतः जटामकुटमण्डितः ।
दक्षेऽभयाक्षमालायुगितरे वरपाशयुक् ॥ १४१।२ ॥
वरदाभयपाणिर्वा सर्वलक्षणसंयुतः ।
हित्वाऽक्षमालां पाशञ्च पद्मं घण्टां क्रमेण वा ॥ १५१।२ ॥
योजयेत्सौम्यमूर्तिस्यादुग्रमूर्तिरथोच्यते ।
शूलमूलाभये दक्षे शूलाग्रवरदेऽन्यतः ॥ १६१।२ ॥
रौद्रदृष्टिं ज्वलत्केशं व्यत्यासकरशूलकम् ।
त्रिशूलाक्षकरं वापि त्रिधा रौद्रं स्मरन्यजेत् ॥ १७१।२ ॥
एवं रौद्रन्तु मिश्रं स्यात् परशुं शूलमावहम् ।
दक्षे पाशं मृगं वामे त्वन्यथा वा निगद्यते ॥ १८१।२ ॥
त्रिशूलमभयं सव्ये पाशञ्चवरदप्रदम् ।
दक्ष द्विधा समाख्यातं मिश्रं पाशुपतं त्रिधा ॥ १९१।२ ॥
पुष्पाक्षतान्नलिङ्गेषु पूजनीयस्स्वमन्त्रतः ।
अथवा प्रतिमाकारो विधेयस्तत्प्रमाणतः ॥ २०१।२ ॥
सपीठे गोलकाकारे विपीठे वा तमर्चयेत् ।
अन्नलिङ्ग प्रमाणे तु मूलाग्रसमविस्तरे ॥ २११।२ ॥
हस्तावधिप्रमाणान्ते सर्वलक्षणलक्षिते ।
स्थलिकामानदण्डेन सहितं वा समर्चयेत् ॥ २२१।२ ॥
इन्दु शेखरमूर्तिस्यात् प्रतिमालक्षणेन तु ।
पादुके त्र्यङ्गुले तस्मादङ्गुलाङ्गुलवर्धनात् ॥ २३१।२ ॥
तिथिमात्रावसानन्तु तयोर्दैर्घ्यं प्रकीर्तितम् ।
दैर्घ्यानुसारतः कार्यो विस्तारस्यार्ध उच्छ्रयः ॥ २४१।२ ॥
अष्टांशावधिको मध्यमानेन नवमानकः ।
तयोस्तु वृषभः पूज्यस्त्वनन्तो वा प्रकीर्तितः ॥ २५१।२ ॥
समन्ताल्लोकपाः पूज्याः पूजादाववसानके ।
नवान्नलिङ्गसंयुक्तमथ नित्योत्सवं नयेत् ॥ २६१।२ ॥
सर्वैरेतैस्समायुक्तन्नित्योत्सवमथाचरेत् ।
द्वाभ्यां त्रिभिश्चतुर्भिः वा पूर्वाह् णे च प्रदोषके ॥ २७१।२ ॥
मध्याह्ने केवलः पूज्यो देवः पाशुपताह्वयः ।
रङ्गे वा शिबिकायां वा परिचारकमूर्धसु ॥ २८१।२ ॥
आरोप्यलङ्कृतान्देवान्वितानेन समन्वितम् ।
छत्रचामरसंयुक्तं नानाध्वजसमन्वितम् ॥ २९१।२ ॥
गीतनृत्तसमायुक्तं वाद्यध्वनिसमन्वितम् ।
धूपदीपसमायुक्तं प्रदक्षिणं समाचरेत् ॥ ३०१।२ ॥
आद्यं प्रदक्षिणं कुर्यात् मङ्गिणी तालसंयुतम् ।
वृषस्य ब्रह्मतालं स्यादग्नेस्तालन्तु भृङ्गिणी ॥ ३११।२ ॥
मातृणां चण्डवाद्यं स्यात् विघ्नराजस्य ढक्करी ।
षण्मुखस्योद्घटञ्चैव ज्येष्ठायाः कुञ्चिततालकम् ॥ ३२१।२ ॥
तटप्रहारं दुर्गायाः चण्डके विषमचिह्नकम् ।
ग्रामे वा नगरे वापि तथा प्राकार एव वा ॥ ३३१।२ ॥
द्वितीयभ्रमणं ह्येतन्महापीठप्रदक्षिणम् ।
एकं वापि द्वयं वापि त्रयं स्याच्छबरीयुतम् ॥ ३४१।२ ॥
अथवा बलिपीठन्तु ब्रह्मतालसमन्वितम् ।
गणतालेन संयुक्तं द्वयं कुर्यात् प्रदक्षिणम् ॥ ३५१।२ ॥
पैशाचेत्वेकमेवं स्याच्चबरीतालसंयुतम् ।
गोपुरे वाद्यहीनं वा शङ्खध्वनिसमन्वितम् ॥ ३६१।२ ॥
इन्द्रस्य समतालंस्यात् गान्धारस्वरसंयुतम् ।
बद्धावणं भवेदग्नेः कोल्लिगानसमन्वितम् ॥ ३७१।२ ॥
दक्षिणे भृङ्गिणी तालं कौशिकेन समन्वितम् ।
मल्लतालं समाख्यातं नैऋत्यां नट्टभाषया ॥ ३८१।२ ॥
पश्चिमे नवतालन्तु कामरध्वनिसंयुतम् ।
वायव्यां बलितालन्तु तक्केशीस्वरसंयुतम् ॥ ३९१।२ ॥
सौम्यायां कोटिकः प्रोक्तस्तर्करागः समन्वितः ।
शाला पाणिसमायुक्तं शाङ्करे ढक्करी मता ॥ ४०१।२ ॥
एवं प्रदक्षिणं कृत्वा तृतीयं धामसंविशेत् ।
पक्षालिताङ्घ्रयस्सर्वे प्रविशेयुश्शिवालयम् ॥ ४११।२ ॥
अथवा मण्टपादौ तु पीठसंस्थान मूर्तिषु ।
पाद्याद्यैरुपचारैस्तु पूजयित्वा प्रवेशयेत् ॥ ४२१।२ ॥
लिङ्गाद्देवं समाहृत्य लिङ्गे दक्षे निवेशयेत् ।
शिवस्य पादौ पूज्यौ पादुके वामदक्षिणौ ॥ ४३१।२ ॥
अन्येषामपि देवानां देवीनां मूलबिम्बवत् ।
रूपान्तरं वा स्वाध्याय सिद्धन्नित्योत्सवार्थकम् ॥ ४४१।२ ॥
सम्पाद्य तेन नित्यन्तु नित्योत्सवमथाचरेत् ।
तदस्त्रमन्नलिङ्गादौ पूजनीयं स्ववाहनम् ॥ ४५१।२ ॥
पादुका द्वितये पूज्यमन्यत्सर्वं समानकम् ॥ ४६ ॥

इति उत्तरकामिकाख्ये महातन्त्रे नित्योत्सवविधिः पञ्चमः पटलः