०४ स्नपनविधिः

अथातस्सम्प्रवाक्ष्यामि स्नपनं परमेष्ठिनः ।
अष्टम्यां वा चतुर्दश्यां विषुवायनसङ्क्रमे ॥ १ ॥
ग्रहणे मासनक्षत्रे चार्द्रायां पर्वणोर्द्वयोः ।
सुयोगे सूर्यवारे वा चोत्सवान्ते दिनं त्रयम् ॥ २ ॥
कर्तुर्जन्मवियोगर्क्षे तस्याप्यनुदिनेथ वा ।
राज्ञोभिषेकनक्षत्रे दुर्भिक्षे दुर्निमित्तिके ॥ ३ ॥
भूमिकम्पे दिशान्दाहे ज्वरमार्यादि पीडने ।
प्रतिष्ठान्ते द्भुते सर्वरोगोत्पत्ताववग्रहे ॥ ४ ॥
नित्ये नैमित्तिके काम्ये कारयेच्छङ्करस्य च ।
स्नपनन्तु यथान्मायं तच्चानेकविधं भवेत् ॥ ५ ॥
अङ्कुरार्पणमादौ स्यात् महास्नपन कर्मणि ।
प्रागुक्तमण्टपे वापि वेदिकावर्जितेपि वा ॥ ६ ॥

अथवा पूर्वकॢप्तौ तु तम्मानाद्यनपेक्षया ॥ ६१।२ ॥
पञ्चहस्तादिषट्सप्तहस्तपर्यन्तकेपि वा ।
चतुर्गात्रादिकेष्टाष्टगात्रपर्यन्त संयुते ॥ ७१।२ ॥
सर्वालङ्कारसंयुक्ततोरणैरन्वितेपि वा ।
नृत्तवाद्यादिसंयुक्ते गानध्वनिसमन्विते ॥ ८१।२ ॥
अस्त्रेण शोधयेत् भूमिं वामदेवेन लेपयेत् ।
सूत्रन्यासमघोरेण तालमात्रान्तरं यथा ॥ ९१।२ ॥
द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् ।
त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ॥ १०१।२ ॥
अथवोत्तरवीथ्यां स्यात् करकस्य स्थितिर्यदा ।
तदा द्वितालमानेन कर्णिकामानमीरितम् ॥ १११।२ ॥
चतुर्दलं यथा पञ्चकलशस्थापनं दिशि ।
विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ॥ १२१।२ ॥
पञ्चविंशतिसङ्ख्यान्तं तत्समन्तात्समावृतम् ।
एकोनपञ्चाशत्सङ्ख्यामष्टोत्तरशतं द्विजाः ॥ १३१।२ ॥
आवृतिद्वयसंयुक्तं तत्बाह्ये परिकल्पयेत् ।
पञ्चविंशतिसङ्ख्यातान् कलशान् मध्यमस्थितम् ॥ १४१।२ ॥
परिहृत्य समन्तात्तु द्वाभ्यां वैकेनमार्गिकम् ।
अष्टद्वारसमायुक्तं बहिष्ठादादवृतित्रयम् ॥ १५१।२ ॥
मध्यमे तिथिसङ्ख्यास्युः नवकोणे व्यवस्थिताः ।
मध्यमे तिथिसङ्ख्येतु मध्यमत्रितयं त्यजेत् ॥ १६१।२ ॥
अष्टोत्तरशतं ह्येतत् सहस्रञ्चेन्नवाधिकम् ।
चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात् पञ्चविंशतिः ॥ १७१।२ ॥
एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् ।
मध्यव्यूहस्य परितश्चतुष्कुण्डन्तु वाष्टकम् ॥ १८१।२ ॥
स्वस्वसङ्ख्या समव्यूहे होमार्थं परिकल्पयेत् ।
अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् ॥ १९१।२ ॥
शिवव्यूहस्य परितः षोडशैव परित्यजेत् ।
सूत्रन्यासस्समाख्यातः अन्यथापि भविष्यति ॥ २०१।२ ॥
अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः ।
मार्गबाह्ये तु कोणेस्यादेकविंशति सङ्ख्यकः ॥ २११।२ ॥
शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते ।
सूत्रद्वयं न्यसेत्पूर्वापरगं याम्यसौम्यगम् ॥ २२१।२ ॥
सार्धहस्तान्तरं हस्तमानान्तरमथापि वा ।
स्याच्चतुर्दशसङ्ख्याता वीथिबाह्ये क्रमेण च ॥ २३१।२ ॥
तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा ।
स्थण्डिलं पुरुषेणस्यात् चतुः प्रस्थमिदं वरम् ॥ २४१।२ ॥
त्रिः प्रस्थं मध्यमं हीनं द्विप्रस्थमिति कीर्तितम् ।
हीनहीनतरं प्रस्थमानमित्यभिधीयते ॥ २५१।२ ॥
शालिमानमिदं तस्माद्धीनन्नैव प्रयोजयेत् ।
अधश्चेधभिचारार्थं भवेदेव न संशयः ॥ २६१।२ ॥
आरम्य द्विगुणन्त्वेकवृद्ध्या दशगुणावधि ।
मानन्तु शिवकुम्भेस्यात् तस्योर्ध्वेकरकेमतः ॥ २७१।२ ॥
व्रीह्यर्धं तण्डुलं विद्यात् तदर्धं तिलमानकम् ।
तिलार्धं लाजमानं स्यादष्टद्रोणं सहस्रके ॥ २८१।२ ॥
अष्टाधिक शिवव्यूहे शालिमानं प्रकीर्तितम् ।
हृदयेन न्यसेत् मुम्भान् स्वर्णादिविनिवेशयेत् ॥ २९१।२ ॥
शिवादिप्रस्थवृद्धया तु सप्तविंशतिमानकम् ।
शिवकुम्भस्यमानं स्यात् तदर्थं करकेमतमू ॥ ३०१।२ ॥
चतुस्त्रिद्वयेकसङ्ख्यातप्रस्थमानप्रपूरितम् ।
कलशे वेष्टनं त्रिद्विव्योमसूत्रैः क्रमेण तु ॥ ३११।२ ॥
अथवा व्योमसूत्रेण त्रितयं परिवेष्टनम् ।
वर्मणाविहितं तच्चकुम्भन्यासो हृदामतः ॥ ३२१।२ ॥
षट्त्रिंशत्तत्वपर्यन्तान् कुशान्त्र्यादीन्यथान्यसेत् ।
कूर्चान्वैशेनमन्त्रेण द्रव्यं मूलेन विन्यसेत् ॥ ३३१।२ ॥
मणिक्कञ्चेन्द्रनीलञ्च वैडूर्यञ्चप्रवालकम् ।
मुक्ता च पञ्चरत्नं स्यादभावे हेमसम्मतम् ॥ ३४१।२ ॥
निष्कं पादन्तु पादार्धं दशमाषाष्टमाषके ।
तयोरर्धं तदर्धं वा माषं वातिदरिद्रके ॥ ३५१।२ ॥
तस्माद्धि करकेर्धं स्यात् द्रव्याणि कलशेषु च ।
माद्यमाचमनञ्चार्घ्यं पञ्चगव्यञ्चतुर्दिशि ॥ ३६१।२ ॥
गन्धोदं वाथ शुद्धोदं प्रथमे परिकीर्तितम् ।
कुशोदकं ततःक्षीरं दधिकोष्णं घृतं भवेत् ॥ ३७१।२ ॥
गन्धोदं वाथ कोणेषु क्रमेणाष्टकमेव वा ।
द्वितीयस्थापनं प्रोक्तं तृतीयञ्च निगद्यते ॥ ३८१।२ ॥
मधुलाजाशकृच्चूर्णं लाजचूर्णं हरिद्रकम् ।
भूतिक्षुसार कदलीतिलसर्षपपानसाः ॥ ३९१।२ ॥
भसितन्तिलसारञ्च कदलीतिलसर्षपान् ।
नालिकेरञ्च नारङ्ङ्गद्वयंस्यान्मातुलङ्गकम् ॥ ४०१।२ ॥
डाडिमञ्चाथबाह्ये तु क्रमुकौद्रवमाद्रके ।
पनसाम्रकदल्युत्थ नालिकेरञ्च सर्षपम् ॥ ४११।२ ॥
तिलबिल्वे तदन्ते तु मातुलङ्गफलम्मतम् ।
नारङ्गद्वितयन्तस्माद्यवनीवारलाजकम् ॥ ४२१।२ ॥
सत्वन्तेत्वथवादौ वा क्षौद्रमित्यभिधीयते ।
कुष्ठं गुलं पयः पश्चात् सर्षपञ्च लवङ्गकम् ॥ ४३१।२ ॥
तक्कोलन्दधिमेघञ्च तिलोशीरघृतं शकृत् ।
सत्तुकन्नालिकेरञ्च हरिद्राचूर्णकन्तथा ॥ ४४१।२ ॥
एवं त्रिविधकन्नित्ये त्रितयं पञ्चविंशतेः ।
पञ्चविंशति मध्ये तु सन्त्यजेदन्तरावृतिम् ॥ ४५१।२ ॥
एवं कृते भवन्त्यत्र कलशानान्तु षोडश ।
चतुर्दिक्षु च कोणेषु पाद्याद्यष्टकमीरितम् ॥ ४६१।२ ॥
अन्तरालेषु मध्यादि वसु सङ्ख्यकमीरितम् ।
ऊर्ध्वमेकोनपञ्चासत्क्रमेण परिपठ्यते ॥ ४७१।२ ॥
गुलचन्दनलोहानि कुष्ठकच्चोलपुष्पकम् ।
पत्रकर्पूरनीरञ्च दान्तं मांसिमुरन्तृणम् ॥ ४८१।२ ॥
शमीदूर्वा च शुक्लार्कबिल्वचम्पकशङ्खिनी ।
अपामार्गन्ततो विष्णुक्रान्ति धुर्तूरसञ्ज्ञकम् ॥ ४९१।२ ॥
नन्द्यावर्तसिताब्जञ्च चत्वारिंशन्नवाधिके ।
अथवान्यप्रकारेण तदेव पुनरुच्यते ॥ ५०१।२ ॥
पाद्ममाचमनञ्चार्घ्यं गव्यं पूर्वादिदिक्षुवै ।
क्षीरन्दधिघृतं क्षौद्रमाग्नेयादि विदिक्षु च ॥ ५११।२ ॥
तक्कोलं भस्मनिर्यासं हरिबेरञ्च मञ्जरी ।
नालिकेरञ्च बिल्वञ्च जम्बुकच्चोलपाटली ॥ ५२१।२ ॥
पुन्नागशङ्खपुष्पौ च लक्ष्मी व्याघ्रनखी तथा ।
सिम्हधुर्तूरसञ्ज्ञे च षोडशास्त्रविनिर्दिशेत् ॥ ५३१।२ ॥
सदुर्वासर्षपाम्राणि नारङ्गपनसेमते ।
कदलीशतपत्रञ्च धातकी श्वेतलोधकम् ॥ ५४१।२ ॥
इक्षुसारञ्च लाजञ्च चम्पकं गन्धतैलकम् ।
नीवारकुङ्कुमतिलमाञ्जीमुरजसत्तुकम् ॥ ५५१।२ ॥
मातुलङ्गं मलयजमलयजमगरूशीर रात्रिजम् ।
पञ्च कॢप्तौ च ब्रह्माणि हित्वेशानं द्विजोत्तमाः ॥ ५६१।२ ॥
विद्येशा अष्टकॢप्तौस्युः बाह्ये मूर्तीश्वरा दिशि ।
अन्तरे वामदेवाद्याः पञ्चविंशति सङ्ख्यया ॥ ५७१।२ ॥
अष्टौ गणेश्वरा बाह्ये चाङ्गुष्ठप्रमुखास्तथा ।
क्रोधाद्या वसुसङ्ख्याताः शतरुद्रादिकस्तु वा ॥ ५८१।२ ॥
एकोनेन तु पञ्चाशत् स्नपने देवतामताः ।
कृत्वा पदानि षट्त्रिंशत् त्यजेदंशं चतुष्टयम् ॥ ५९१।२ ॥
द्वात्रिंशत्पदसङ्ख्यास्यात् पाद्यदींस्तत्र विन्यसेत् ।
दक्षिणार्धं समारभ्य चोत्तरार्धं समावधि ॥ ६०१।२ ॥

अत्रानुक्तमथैकोन पञ्चाशत्सदृशं मतम् ॥ ६१ ॥
अष्टोत्तरशतं वक्ष्ये तच्चत्रिविधमुच्यते ।
चन्दनागरुकुष्ठानि कच्चोलं पुष्पपत्रके ॥ ६२ ॥
कर्पूरं हरिबेरञ्च दान्तं मांसीमुरन्तृणम् ।
तृतीयवरणस्थानि द्रव्याणि द्वादशैव हि ॥ ६३ ॥
चम्पकं सहदेवी च शतपत्री च रोचना ।
बिल्वं यवा शमी दूर्वा तक्कोलं मेघसञ्ज्ञकम् ॥ ६४ ॥
धात्री मोचफलञ्चैव लक्ष्मीभूम्यरविन्दकम् ।
रास्ना च व्यापलाशञ्च श्वेतार्कं करवीरकम् ॥ ६५ ॥
धातकी द्रोणधुर्तूरं लोध्रापामार्गकार्जुनाः ।
प्लेक्षेभपिप्पली सञ्ज्ञा विष्णुक्रान्ति नृपाह्वया ॥ ६६ ॥
अश्वत्थं नागपुष्पञ्च चतुर्थे द्रव्यमीरितम् ।
तुलसी तगरञ्चैव तुरुष्कं तेजनीपुनः ॥ ६७ ॥
बिलकं जीरकं कृष्णजीरकञ्च हरेणुकम् ।
श्रीवेष्टकम् गन्धरसं फलिनी रक्तचन्दनम् ॥ ६८ ॥
सौरिपकं व्याघ्रनखं वल्लकीस्वर्णपुष्पकम् ।
दार्वीशुक्तिनखं दारु सिताह्वं च कुटं नटम् ॥ ६९ ॥
गुग्गुलुञ्चैव मृद्वीका सितेति गिरिकर्णिका ।
वटशृङ्गेन्द्रियाह्वञ्च फणिर्जम्बु मनश्शिला ॥ ७० ॥
शङ्खिनी भृङ्गराजश्च नीवारं गैरिकं तथा ।
आम्रमोचरसं जातिः पाटली मार्जनं पुनः ॥ ७१ ॥
पञ्चमावरणं ह्येतदन्यथा च निगद्यते ।
शमीदूर्वार्क बिल्वञ्च चम्पकं शङ्खपुष्पकम् ॥ ७२ ॥
अपामार्गं तथा विष्णुक्रान्तिर्धुत्तरमेव च ।
नन्द्यावर्तं ततः प्रोक्तं श्वेतपद्मं ततो मतम् ॥ ७३ ॥

पुन्नागं जातिपुष्पञ्च पाटली सहदेविका ॥ ७३१।२ ॥
शतपत्रञ्च लक्ष्मीस्यात् भूपद्मं धातकी पुनः ।
तुलसी करवीरञ्च कृष्णवल्ली च मल्लिआ ॥ ७४१।२ ॥
गोक्षुरादौ शतावेरी ततस्तस्मात्कृताञ्जलीः ।
महाद्रोणपुनर्द्रोणमहाभद्रीच भद्रिका ॥ ७५१।२ ॥
इन्द्रवल्ली रुद्रपर्णी धात्र्यन्ते तु हरीतकी ।
व्याघ्रनख्या च मञ्जिष्ठं सरलं भद्रकोष्ठकम् ॥ ७६१।२ ॥
नवनीतं द्राविडाह्वं सज्जं तक्कोलसञ्ज्ञकम् ।
चञ्चलातिबलाचैव बलासिंहाप्रियङ्गुकम् ॥ ७७१।२ ॥
लोघ्रञ्च केसरन्नागं पूर्वं जम्बू कपित्थकम् ।
अश्वत्थो गुग्गुलुञ्चैव लाजिरं कृष्णजीरकम् ॥ ७८१।२ ॥
सतिलं कुङ्कुमं मेघमगरुं कृष्णरोचना ।
श्रीवेष्टको गन्धरसः पिप्पली हस्तिपिप्पली ॥ ७९१।२ ॥
कृष्णागरुं चतगरं ततः प्रोक्तम्मनश्शिलाम् ।
रक्तचन्दनसञ्ज्ञञ्च लवङ्गं रात्रिचूर्णकम् ॥ ८०१।२ ॥
कषायं मार्जनञ्चान्ते स्थापयेद्धृदयाणुना ।
चतुः क्षीर कुजोद्भूतत्वक्सार्वस्यात्कषायकः ॥ ८११।२ ॥
आम्रजम्बूतरूत्त्थत्वक् सारोपरि च कीर्तितः ।
दूर्वातिलकुशाग्रैस्तु मार्जनं त्वभिधीयते ॥ ८२१।२ ॥
अतिबलान्तमिष्टं स्यादेकाशीतिघटस्थितौ ।
पाद्यमाचमनञ्चार्घ्यं गव्यं दिक्षु विदिक्षु च ॥ ८३१।२ ॥
दधिसर्पिमधुक्षीरमग्नेः प्रभृति विन्यसेत् ।
तिलं श्रीवृक्षपत्रञ्च चन्दनं मेघसञ्ज्ञकम् ॥ ८४१।२ ॥
चम्पकं हरिबेरञ्च सर्षपन्नागकेसरम् ।
तक्कोलञ्च फलं कुष्ठं कच्चोलं लोहसञ्ज्ञकम् ॥ ८५१।२ ॥
लवङ्गपत्रकर्पूरान् बाह्ये षोडश विन्यसेत् ।
तृतीयावरणे सक्तून् अग्नौ भूतघटेष्वपि ॥ ८६१।२ ॥
भसितं रात्रिचूर्णञ्च शकृच्चूर्णं क्रमेण च ।
धात्री च नालिकेरञ्च लिकुचं मातुलङ्गकम् ॥ ८७१।२ ॥
तद्बाह्येग्न्यादि कोणेषु चतुस्सप्तसु विन्यसेत् ।
लक्ष्मीञ्च सहदेवीञ्च विष्णुक्रान्तिं क्रमेण तु ॥ ८८१।२ ॥
रुद्रपर्ण्या समायुक्तं चतुर्नवसु विन्यसेत् ।
गुञ्जादि निष्कपर्यन्तं पाद्याद्यङ्गं प्रमाणकम् ॥ ८९१।२ ॥
एकद्वित्रिचतुःप्रस्थं पञ्चगव्यादि मानकम् ।
मध्यमानं तथा प्रोक्तं पादमर्धं तथापि वा ॥ ९०१।२ ॥
आज्यतैलप्रमाणञ्च तथैव परिकल्पयेत् ।
कर्पूरकुङ्कुमादीनां मानमिष्टं प्रदीयताम् ॥ ९११।२ ॥
मध्ये विद्येश्वराः पूज्याश्शतरुद्राबहिर्मताः ।
एवं त्रिविधरीत्या तु शतमष्टोत्तरं मतम् ॥ ९२१।२ ॥
नवसङ्ख्यैर्नवव्यूहैः काष्ठाद्वितयमध्यगैः ।
अष्टाद्वारसमायुक्तै रेकाशीतिस्तु पूज्यते ॥ ९३१।२ ॥
अष्टोत्तरसहस्राख्यम् अधुनात्र निगद्यते ।
वरालत्रुटिकर्पूरत्वगेलोशीरजातयः ॥ ९४१।२ ॥
एभिर्युक्तं शिवाम्भस्याच्छिवमन्त्राभिमन्त्रितम् ।
तेनैव पूरयेत्कुम्भान् वर्धनी कलशानपि ॥ ९५१।२ ॥
पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् ।
क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ॥ ९६१।२ ॥
क्षौद्रं यवं गुलन्न्यस्त्वा कुशं रम्भाफलं तथा ।
सर्षपं नालिकेराख्यं रजनी मातुलङ्गकम् ॥ ९७१।२ ॥
लाजडाडिमसक्त्वाख्यान् पनसं भस्मचूर्णकम् ।
पञ्चविंशतिमध्यस्थ द्रव्याण्येतानि षोडश ॥ ९८१।२ ॥
रत्न लोहजधातूनां बीजं गन्धोदकं क्रमात् ।
पूर्वस्मिन् संस्थितं ज्ञेयं कोणद्वयविवर्जितम् ॥ ९९१।२ ॥
मृन्मार्जनं परिमुखं मार्जनं पत्रपुष्पयुक् ।
दक्षिणे पश्चिमे ज्ञेयं मान्यास्त्रफलतोययुक् ॥ १००१।२ ॥
कषायाढयोदकोपेतमुत्तरे पुनरुच्यते ।
कान्तमूलोदकं ब्रह्मकूर्चं शान्त्युदवल्कले ॥ १०११।२ ॥
माणिक्कञ्चेन्द्रेनीलञ्च मुक्तावैडूर्यवज्रकम् ।
पुष्परागं प्रवालञ्च स्फटिकं (मरकतन्तथा) ॥ १०२१।२ ॥
पञ्चरत्नमिति ज्ञेयम् आद्या भावे द्वितीयकम् ।
रत्नोदकमिति प्रोक्तं लोहोदकमतः परम् ॥ १०३१।२ ॥
सुवर्णं रजतं ताम्रमायसं त्रपुसीसकम् ।
आरकूटं ततः कांस्ययुक्तं लोहोदकम् परम् ॥ १०४१।२ ॥
सौराष्ट्रमञ्जनं श्यामा हरितालं मनश्शिला ।
गैरिकं रोचनं चान्ते धातूदकमिदं मतम् ॥ १०५१।२ ॥
शालिकोद्रवनीवार प्रियङ्गुतिल सर्षपाः ।
श्यामाष्टकं यवो बीजो बीजोदकमिहोदितम् ॥ १०६१।२ ॥
नवनीतञ्च कर्पूरं त्वगेलापत्रसंयुतम् ।
चन्दनं लघुकुष्ठञ्च वरालोशीरमुस्तकाः ॥ १०७१।२ ॥
कुङ्कुमं हरिबेरञ्च कच्चोलं जातिरेव च ।
एभिस्तु चूर्णितैर्युक्तं गन्धोदकमिति स्मृतम् ॥ १०८१।२ ॥
पर्वते च नदीतीरे वल्मीके कर्कटावटे ।
वृषशृङ्गे च सत्क्षेत्रे समुद्रे गजदन्तके ॥ १०९१। २ ॥
अष्टभिश्च समायुक्तं मृदम्भः परिकीर्तितम् ।
गोक्षुरा सहदेवी च विष्णुक्रान्ता कृताञ्जलि ॥ ११०१।२ ॥
शिरीषेन्दीवरं रात्रिरेभिर्मार्जनमुच्यते ।
दूर्वाङ्कुरञ्च कुशाग्रं गौरसर्षपम् ॥ ११११।२ ॥
भद्राकृताञ्जलीयुक्तं परिमाणं तदुच्यते ।
तुलसीबिल्वपत्रञ्च तमालञ्च तपस्विनी ॥ ११२१।२ ॥
अपामार्गसमायुक्तं पत्रतोयमिहेरितम् ।
पद्मं रक्तोत्पलं पश्चात् पाटली चम्पकं तथा ॥ ११३१।२ ॥
पुन्नागकुरवनारङ्गनन्द्यावर्तं च मल्लिका ।
श्वेतार्कवकुलैयुक्तं पुष्पतोयमिहेरितम् ॥ ११४१।२ ॥
कुष्ठं कुटन्नटं लोहञ्चन्दनं कुङ्कुमन्तथा ।
कर्पूरोशीरसम्युक्तं मान्योदकमिहेरितम् ॥ ११५१।२ ॥
शूलं कपालहरिणी पिनाकः परशुस्तथा ।
पाशोक्षमालाःहैमाश्च तैरस्त्रोदकं भवेत् ॥ ११६१।२ ॥
पनसो नालिकेरश्च मातुलङ्गद्वयं ततः ।
नारङ्गद्वयरम्भाद्यैः उक्तमस्मिन् फलोदकम् ॥ ११७१।२ ॥
पलाशोदुम्बराश्वत्थमायूरप्लक्षपाटली ।
जम्बूत्वग्भिस्समायुक्तं कषायोदकमीरितम् ॥ ११८१।२ ॥
अभ्रकत्रितयं पश्चान्माक्षिकत्रितयन्ततः ।
गन्धत्रयसमायुक्तमाढ्यतोयमिति स्मृतम् ॥ ११९१।२ ॥
सूर्यकान्तस्त्वयस्कान्तो भ्रामकश्चन्द्रकान्तकम् ।
निकुन्तः पञ्चभिर्युक्तङ्कान्तोदकमिति स्मृतम् ॥ १२०१।२ ॥
उशीरो हरिबेरञ्च पीवरिः पुष्करन्तथा ।
श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ॥ १२११।२ ॥
गोमूत्रं गोमयं क्षीरन्दधिसर्पिः कुशोदकम् ।
एभिर्द्रव्यैस्समायुक्तं ब्रह्मकूर्चमिति स्मृतम् ॥ १२२१।२ ॥
मयूरशिखिभूर्जत्वग्रोचनाभृङ्गराजकम् ।
कृताञ्जलिश्च पञ्चभिर्युक्तं स्याद्वल्कलोदकम् ॥ १२३१।२ ॥
अग्निकोणात् क्रमात्तैलं क्षीरन्दधिघृतं न्यसेत् ।
चत्वारिंशत्सुमध्यस्थकलशद्रव्यमीरितम् ॥ १२४१।२ ॥
लक्ष्मी भद्रा कुशोदान्तो नीवारं चम्पकम् पुनः ।
विभीता गोक्षुराद्यष्टौ गर्भावरणगा मताः ॥ १२५१।२ ॥
रक्तोत्पलं शमीपश्चात् पद्मं सुरस सञ्ज्ञकम् ।
नद्यावर्तमपामार्गं दूर्वा च करवीरकम् ॥ १२६१।२ ॥
यवाह्वाद्रोणपुष्पञ्च विष्णुक्रान्तिञ्च मल्लिका ।
जाति बिल्वं सितार्कञ्च एकपत्रारविन्दकम् ॥ १२७१।२ ॥
द्रव्याणि षोडशैतानि प्रतिव्यूहन्तृतीयकम् ।
वृत्तक्रममथो वक्ष्ये शिवकुम्भन्तु मध्यतः ॥ १२८१।२ ॥
तद्वामे वर्धनी ज्ञेया रत्नान्यष्टसु विन्यसेत् ।
माणिक्कं शिवकुम्भे तु पञ्चरत्नसमन्वितम् ॥ १२९१।२ ॥
कर्णिका बाह्यदेशे तु दलमध्येष्टदिक्षु वा ।
पाद्यादिकं सहस्रं तु तद्बहिर्विन्यसेत् क्रमात् ॥ १३०१।२ ॥
पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् ।
क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ॥ १३११।२ ॥
द्वितीयावरणे स्वर्णं पदे षोडशसङ्ख्यके ।
चतुर्विंशति सङ्ख्याते नालिकेरफलं बहिः ॥ १३२१।२ ॥
द्वात्रिंशत्सङ्ख्यके प्रोक्तस्त्विक्षुसारश्चतुर्थके ।
षट्पञ्चाशत् घटे प्रोक्तो पञ्चमे मधु कीर्तितम् ॥ १३३१।२ ॥
चतुष्षष्टियुतो बाह्ये नानापुष्पञ्च कीर्तितम् ।
द्विसप्ततिसमायुक्तो सप्तमे सर्वबीजकम् ॥ १३४१।२ ॥
अष्टमे चतुराशीतौ विन्यसेत् कदलिफलम् ।
नवमेषण्णवत्यन्ते भसितन्तदनन्तरम् ॥ १३५१।२ ॥
दशमे शतसंयुक्ते पञ्चगव्यं प्रकीर्तितम् ।
चतुर्युक्ते शतेपञ्चगव्यमेकादशांशके ॥ १३६१।२ ॥
अष्टोत्तरशतं बाह्ये कषायोदकमुच्यते ।
धातु लोहोदकं पश्चात् शतेषोडशसंयुते ॥ १३७१।२ ॥
शते विंशतिसंयुक्ते बाह्ये मृद्वारिकीर्तितम् ।
सर्वगन्धञ्च सर्वेषु कलशेषु विनिक्षिपेत् ॥ १३८१।२ ॥
पञ्चविंशति सङ्ख्ये तु प्रतिव्यूहन्तु मध्यमे ।
घटं वा कलशं वापि चत्वारिंशत्तु सङ्ख्यया ॥ १३९१।२ ॥
वर्धन्यर्थं सुवर्णञ्च वस्त्रकूर्चादिसंयुतम् ।
प्रत्येकं विन्यसेत्सम्यक् द्रव्यं वा विनिवेशयेत् ॥ १४०१।२ ॥
उभयञ्चोत्तमं विद्यात् द्रव्यन्यासे द्विजोत्तमाः ।
उक्तमार्गेषु सर्वञ्चेल्लब्धं श्रेष्ठं प्रकीर्तितम् ॥ १४११।२ ॥
अर्धेन मध्यमं प्रोक्तं पादात्कन्यसमुच्यते ।
विद्येशाः मध्यमे देवास्त्वन्यत्र शिव एव हि ॥ १४२१।२ ॥
स च नाम्नां सहस्रैस्तु पठ्यतेतद्विशेषतः ।
पठन्वापूजयेदीशां शिवनाम्नाथ केवलम् ॥ १४३१।२ ॥
कूटाक्षरादिसंयुक्तञ्चतुर्थ्यन्त समन्वितम् ।
स्वाहान्तं वा नमस्कारप्रान्तं प्रणवपूर्वकम् ॥ १४४१।२ ॥
अष्टोत्तरसहस्रात्तु त्यजेत्बाह्यावृतिं गुरुः ।
तत्राग्नेयादिकोणस्थञ्चतुर्व्यूहं समाचरेत् ॥ १४५१।२ ॥
अन्तः कोणचतुष्केषु शिवव्यूहस्य बाह्यतः ।
स्थापयेद्दिक्षुहोमार्थमेतेषामन्तरालके ॥ १४६१।२ ॥
तत्बाह्ये षोडशव्यूहाः पूर्ववत्संव्यवस्थिताः ।
अन्यत् सर्वं समानं स्यादष्टपञ्चशतं भवेत् ॥ १४७१।२ ॥
अष्टसङ्ख्या समायुक्तो द्विशते मध्यमेष्टकम् ।
तत्बहिः पञ्चविंशच्च दिग्विदिक्षु प्रकल्पयेत् ॥ १४८१।२ ॥
बाह्ये षोडशसङ्ख्यातान् गृहणीयाद्दिग्विदिग्गतम् ।
अष्टव्यूहन्तथात्वेतु उक्त सङ्ख्यान्वितं भवेत् ॥ १४९१।२ ॥
द्रव्याणान्तु प्रमाणं यत् विस्तारात्पुनरुच्यते ।
रत्नानि स्वस्वरूपेण शस्तानि द्विजसत्तमाः ॥ १५०१।२ ॥
दशभाषादितद्वृद्ध्या निष्कान्तं लोहमानकम् ।
लोहवृद्धया तु मानं स्यात्तथा पाषाणमानकम् ॥ १५११।२ ॥
निष्कपादादितद्वृद्ध्या पलान्तं बीजमानकम् ।
तावत्तण्डुलमानं स्यात् सितामानन्तथा मतम् ॥ १५२१।२ ॥
किन्तु नन्दपालान्तं स्यात् द्विगुणं गुलमानकम् ।
गन्धद्रव्यप्रमाणन्तु धातुवत्परिकीर्तितम् ॥ १५३१।२ ॥
फलानि पत्रचूर्णानि तद्वल्लाजाश्च सक्तवः ।
तिलसर्षपहारिद्रगोशकृत्भस्ममानकम् ॥ १५४१।२ ॥
पञ्चगव्यन्दधिक्षीरं मानं भस्मप्रमाणकम् ।
क्षीरवत्घृतमर्धं वा पादं क्षौद्रन्तथापलम् ॥ १५५१।२ ॥

फलाभावे यथालाभं शेषमद्भिः प्रपूरयेत् ॥ १५७ ॥
घृतवत्तैलमानं स्यात् सर्वं वा पात्रमानयेत् ।
अर्धपादन्तदर्धं वा पुष्पं हस्तमितं भवेत् ॥ १५७ ॥
ओषधिस्तत्समं प्रोक्तन्तन्मानञ्च तथा मतम् ।
तथैव पात्रमानं तु मूलमानन्तु गन्धवत् ॥ १५८ ॥
शुष्क पुष्पफलादीनाम्मानं गन्धवदिष्यते ।
मृन्मानं पूर्ववत्प्रोक्तमन्यदप्येवमूह्यताम् ॥ १५९ ॥
वज्रं समस्तरत्नानां लोहानामग्निदैवतम् ।
यवो निखिल बीजानां धातूनां हरितालकम् ॥ १६० ॥
ओषधीनामभावे तु सहदेवी प्रशस्यते ।
फलानां कदलीजातं पत्राणां बिल्वपत्रकम् ॥ १६१ ॥
नीलोत्पलन्तु पुष्पाणामुत्पलं विधीयते ।
चन्दनं सर्वगन्धानां मृदस्युर्दर्भमूलजाः ॥ १६२ ॥
त्वचामाश्वत्थजा प्रोक्ता मूलानान्तु कुटन्नटम् ।
सिताभावे गुलं प्रोक्तमिक्षूगक्षौद्रयोश्च तत् ॥ १६३ ॥
फलपुष्पाद्यभावे तु तत्पत्रादिकमेव वा ।
द्रव्याण्येतानि सर्वाणि मूलमन्त्रेण विन्यसेत् ॥ १६४ ॥
पिधाय बीजमुख्येन शरावैः पल्लवैस्तु वा ।
दत्वा हृदयमन्त्रेण वस्त्राणि विविधानि च ॥ १६५ ॥
वर्जयित्वाति कृष्णानि हीनानि शरहस्ततः ।
गन्धं स्वनाममन्त्रेण पुष्पन्धूपन्तथैव हि ॥ १६६ ॥
दीपेन सहितो मन्त्री लिङ्गमुद्रां प्रदर्शयेत् ।
कवचेनावकुण्ठ्याथ होमकर्म समारभेत् ॥ १६७ ॥
सहस्रकलशे पञ्चशतहोमं समाचरेत् ।
कुण्डे वा स्थण्डिले वापि सर्वलक्षणसंयुते ॥ १६८ ॥
कृत्वा कुण्डादिसंस्कारमग्निकार्योक्तवर्त्मना ।
समिदाज्यान्नलाजांश्च तिलं वै होमयेत्क्रमात् ॥ १६९ ॥
पलाशोदुम्बराश्वत्थ वटाः पूर्वादितः क्रमात् ।
शमीरवादिरमायूरश्रीवृक्षाः पावकादितः ॥ १७० ॥
अष्टपक्षे तु समिधः त्यजेत्कोणचतुष्टयम् ।
पञ्चपक्षे तु समिधः त्यजेच्छम्यादि सम्भवाः ॥ १७१ ॥
चतुर्होमविधाने तु प्रधानेवाथ पूर्वके ।
शतमर्धं तदर्घं वा मूलहोमः प्रकीर्तितः ॥ १७२ ॥
मूलाद्दशांशत्ॐगानान्तथा ब्रह्म सुलोचने ।
कृत्वा होमं प्रविश्यान्तर्द्वारपूजां विधाय च ॥ १७३ ॥
प्रविश्य गर्भगेहे तु लिङ्गं संशोद्धय पूर्ववत् ।
सङ्कल्प्य चासनं पीठे मूर्तिमावाह्य पूजयेत् ॥ १७४ ॥

ब्रह्मभिः सकलीकृत्य विद्यादेहं ततो न्यसेत् ॥ १७४१।२ ॥
पाद्यादित्रितयं दत्वा गन्धपुष्पं सधूपकम् ।
दीपञ्च मूलमन्त्रेण दत्वातोद्यसमन्वितम् ॥ १७५१।२ ॥
नृत्तगेयसमायुक्तं शङ्खध्वनिसमन्वितम् ।
वेदस्तोत्ररवोपेतं घण्टानादसमन्वितम् ॥ १७६१।२ ॥
जयशब्दसमोपेतं शिवं कुम्भञ्च वर्धनीम् ।
उद्धृत्य नीत्वा देवाग्रे त्रिपादोपरि विन्यसेत् ॥ १७७१।२ ॥
दत्वा घटस्थ देवाय देव्याः पाद्यादिकं त्रयम् ।
गन्धपुष्पं सधूपञ्च दीपमर्घ्यं विधाय च ॥ १७८१।२ ॥
अपनीय पिधानं तत् दक्षहस्तेन देशिकः ।
सकूर्चपुष्पतोयाढ्यं शिवमन्त्रं समुच्चरन् ॥ १७९१।२ ॥
सङ्गृह्य तत्वचित्तस्तु लिङ्गमूर्ध्नि मनुं न्यसेत् ।
देवेशीमपि तद्वामे देवस्य विनिवेशयेत् ॥ १८०१।२ ॥
शिवमन्रं स्मरन्कुम्भतोयेन स्नापयेच्छिवम् ।
पिण्डिका रूपिणीं देवीं स्नापयेत्तं मनुस्मरन् ॥ १८११।२ ॥
दत्वा जातेन पाद्यन्तु पादयोस्तन्मुखेषु ।
ईशानाद्यैश्च सद्यान्तैः पञ्चभिर्विनिवेशयेत् ॥ १८२१।२ ॥
आचा * *? स्य चूडान्ते शिरस्यर्घ्यं प्रदापयेत् ।
पञ्चगव्याभिषेकादौ महाघण्टारवान्वितम् ॥ १८३१।२ ॥
उपस्थानसमायुक्तं धूपं वा विनिवेशयेत् ।
अवश्यमावृतान्तेस्यादुपस्थानं सधूपकम् ॥ १८४१।२ ॥
नानाफलानि गव्यानि पञ्चामृतयुतानि च ।
विद्यन्ते चेत् तदातैश्च स्नापयेत् परमेश्वरम् ॥ १८५१।२ ॥
विरुक्ष्य गन्धतोयेन स्नापयेल्लिङ्गमादरात् ।
अर्चनोक्तं समभ्यर्च्य होमोपेतं समापयेत् ॥ १८६१।२ ॥
सकलस्नपनञ्चेत्तु सकलस्थापनोक्तवत् ।
आसनं सम्प्रकल्प्यास्मिन् कुम्भे मूर्तिमनुं स्मरेत् ॥ १८७१।२ ॥

ब्रह्मभिस्सकलीकृत्य तत्कलास्तत्र विन्यसेत् ॥ १८८ ॥
न्यस्त्वा विद्यातनुं तत्तद्रूपं ध्यात्वा सदाशिवम् ।
स्नपनाद्यञ्च पाद्यादि कृत्वा दत्वा हृदा गुरुः ॥ १८९ ॥
गन्धं पुष्पञ्च धूपञ्च दीपमर्घ्यं विधाय च ।
प्रदर्श्य लिङ्गमुद्रान्तु कवचेनावकुण्ठयेत् ॥ १९० ॥
इष्ट्वा गौरीञ्च वर्धन्यां योनिमुद्रां प्रदर्श्य च ।
वर्मणा चावकुण्ठ्याथ रुद्रानावरणस्थितान् ॥ १९१ ॥
पूर्वोक्तविधिनावापि क्रमेणावाह्य पूजयेत् ।
गत्वा सकलसामीप्यमासनं मूर्तिमेव च ॥ १९२ ॥
सङ्कल्प्य सकलिकृत्य विद्यादेहमनुं स्मरन् ।
स्नपनाद्यं ततः कृत्वा दत्वा पाद्यादिकत्रयम् ॥ १९३ ॥
गन्धं पुष्पञ्च धूपञ्च सदीपं विनिवेदयेत् ।
प्राग्वत् घटञ्च करकं नीत्वा हृदि मनुं न्यसेत् ॥ १९४ ॥
तत्तद्देवीमनुं देव्या हृदये विनिवेशयेत् ।
स्नापयित्वा क्रमेणैव पाद्यादिद्वित्रिभागिकम् ॥ १९५ ॥
देवे दत्वाऽवशिष्टन्तु देव्याश्च विनिवेदयेत् ।
पृथग्वा स्थापयित्वा तु देवेशीमभिषेचयेत् ॥ १९६ ॥
पादमूलञ्च देवस्य गन्धाद्यैर्वाभिषेचमेत् ।
चित्राद्यैर्दर्पणाद्यैश्च स्नापयेत् स्नपनोक्तवत् ॥ १९७ ॥
देव्याश्चेत् स्नपनं मध्ये कुम्भं वा करकन्यसेत् ।
द्रव्येषु भेदा नास्त्यत्र देवताभेद इष्यते ॥ १९८ ॥
शान्त्याद्याः पञ्चकॢप्तैस्युर्वामाद्या नवकल्पने ।
धारिकाद्या महादिक्षुस्त्रीपाठवशमागताः ॥ १९९ ॥
अनन्ताद्याविदिक्ष्वष्टपञ्चविंशतिसञ्ज्ञकाः ।
पृथिव्याद्याः प्रधानान्तास्तत्र देवास्तु वामतः ॥ २०० ॥
ऊर्ध्वानुदेवताः प्रोक्तास्त्रीलिङ्गान्तास्समीरिताः ।
अत्रैव स्नपनं वक्ष्ये क्षीराद्यैर्द्विजसत्तमाः ॥ २०१ ॥
पयोदधिघृतक्षौद्रैः पुष्पैर्विशेषान्नालिकेरजैः ।
सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ॥ २०२ ॥
चूर्णैर्हारिद्रकैः पुष्पैर्विशेषान्नालिकेरजैः ।
सलिलैस्सत्फलोपेतैस्सद्घटादिषु संस्थितैः ॥ २०३ ॥
गन्धाद्यैरौषधोपेतैश्शुद्धोदैर्गन्धतैलतः ।
गङ्गादिप्रभवैस्तोयैः पूर्वोक्तेन च वर्त्मना ॥ २०४ ॥
स्नापयेत् परमेशानं सर्वदोषापनुत्तये ।
सर्वाभीष्ट प्रसिद्ध्यर्थं राज्ञां विजयहेतवे ॥ २०५ ॥
सदारोद्यप्रसिध्यर्थमायुष्यार्थं विशेषतः ।
सर्वसम्पत्प्रसिद्ध्यर्थं बलार्थं कान्तिहेतवे ॥ २०६ ॥
राष्ट्रदुर्भिक्षनाशाय तत्स्थदुष्टनिवृत्तये ।
राष्ट्रक्षोभेऽद्भुतप्राप्तौ दुर्निमित्ते विशेषतः ॥ २०७ ॥
वश्यार्थं सर्वलोकानां गजाश्वादि प्रसिद्धये ।
तेषां रोगविनाशार्थं रोगानुत्पत्तिहेतवे ॥ २०८ ॥
युद्धोद्यते स्वसेनाया बलायामृति हेतवे ।
भयार्थं परसेनायाः क्षयार्थं तत्भ्रमार्थकम् ॥ २०९ ॥
नरनारी गवादीनां रोगनाशार्थमेव ।
जन्मर्क्षे दिने राज्ञामभिषेके तथापि वा ॥ २१० ॥
तत्तच्चन्द्राष्टमर्क्षे वा तस्य वैनाशिकोडुके ।
अयने विषुपे वापि ग्रहणस्थापनादिके ॥ २११ ॥
उत्सवे च पवित्रे च दमनारोपणेऽपिच ।
कृत्तिका दीपनक्षत्रे चान्यस्मिन् मासऋक्षके ॥ २१२ ॥
अष्टम्यां वा चतुर्दश्यां पञ्चदश्यां विशेषतः ।
मार्गशीर्षे च मासेथत्वार्द्रायान्तु विशेषतः ॥ २१३ ॥
प्रायश्चित्तेषु तत्कार्यं नवनैवेद्यकर्मणि ।
जनकल्याणकाले च नराणां रक्षणार्थके ॥ २१४ ॥
विशेष पूजाकाले च भक्तानामुत्सवेपि च ।
देवभ्रमणकाले वा मृगयायां विशेषतः ॥ २१५ ॥
कुर्यात्प्रतिदिनं वापि त्रिसन्ध्यायां गुरूत्तमाः ।
सन्ध्याद्वये वा चैकस्यां स्नपनं कारयेच्छिवे ॥ २१६ ॥
प्रागुत्तवर्त्मना कश्चित् विशेषस्तत्र गद्यते ।
कुम्भेनैकेन वा व्योमसङ्ख्येन कलशेन वा ॥ २१७ ॥
प्रागुत्तद्रव्ययुक्तेन वर्धनी सहितेन वा ।
पञ्चब्रह्माधिपैः पञ्चघटैर्वाकलशैस्तु वा ॥ २१८ ॥
एकद्रव्ययुतैर्वापि वर्धनी सहितैस्तु वा ।
इष्टद्रव्यं भवेन्मध्ये तद्वान्यत्करकस्थितम् ॥ २१९ ॥
एकद्रव्यञ्चतुर्दिक्षु भिन्नद्रव्यमथापि वा ।
पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यन्तु वा भवेत् ॥ २२० ॥
नवकुम्भविधानेऽपि विधानं सदृशं मतम् ।
एकद्रव्यन्तु वा हीने दिक्षु पाद्यादिकन्तु वा ॥ २२१ ॥
स्वर्णादि निर्मिते पात्रे विधानं वैतदीरितम् ।
प्रागुक्तत्रितयञ्चैतत् विशेषान्नित्यकर्मणि ॥ २२२ ॥
पञ्चविंशतिसङ्ख्यातमपि नित्ये प्रशंस्थितम् ।
उत्तमोत्तमपूजायामष्टोत्तरशतावधि ॥ २२३ ॥
स्नपनं वा प्रकर्तव्यं नित्याद्ध्याय प्रचोदितम् ।
नैमित्तिकं तदूर्ध्वस्थं पूर्वोक्तमपि संस्थितम् ॥ २२४ ॥
पञ्चविंशतिसङ्ख्यादि साष्टसाहस्रकावधौ ।
अन्तरावरणे कश्चित् विशेषस्त्वभिधीयते ॥ २२५ ॥
हित्वा चतुष्टयं कोणसंस्थितन्तद्युतन्तु वा ।
स्नापयेद्देवदेवेशमुदगैः प्राग्वदेव हि ॥ २२६ ॥
श्रेष्ठ पूजादि संयुक्ते स्थाने स्नपनपूर्वकम् ।
कर्म तद्वद्विधेयं स्यात् श्रेष्ठहीनां क्रियां त्यजेत् ॥ २२७ ॥
हीनकर्मणि न श्रेष्ठाः क्रियाशस्ता द्विजोत्तमाः ।
नित्यं नैमित्तिकं काम्यं स्नपनं त्रिविधं मतम् ॥ २२८ ॥
नित्य नैमित्तिके कार्ये प्रत्यवायजिघांसया ।
काम्यार्थं काम्यकर्मेष्टन्निषिद्धन्न समाचरेत् ॥ २२९ ॥
कर्तव्यं वा न कर्तव्यमितिसन्देहसङ्गतौ ।
करणेभ्युदयो ज्ञेयो करणे दोष इष्यते ॥ २३० ॥
समश्चेल्लोकशास्त्राभ्यां विधेर्न्यायस्समीरितः ।
ताभ्यामेव निषिद्धे तु सन्दिग्धं तत्परित्यजेत् ॥ २३१ ॥
क्रियामन्त्रादिभेदेन शास्त्रभेदेन वा भवेत् ।
क्रियामन्त्रादिभेदेन तन्त्र भेदो यतस्ततः ॥ २३२ ॥
तस्मात्तत्रच शैवोक्तं कर्तव्यन्नान्य शास्त्रतः ।
प्रशस्तन्नोदितन्तत्र शास्त्रान्तरमथाश्रयेत् ॥ २३३ ॥
तद्विधानानुपन्ने तत्राप्येषो विधीयते ।
प्रायश्चित्तादिकेऽनुक्ते स्वशास्त्रे परशास्त्रतः ॥ २३४ ॥
वर्तमाने तु शास्त्रार्थे तदङ्गं सृक्स्रुवादिकम् ।
स्वशास्त्रसिद्धं वाग्राह्यमथ शास्त्रान्तरोदितम् ॥ २३५ ॥
एकमादिकमालोच्य कारयेद्यो नृपोत्तमः ।
सोऽचिरेण तु कालेन सकलाधिपतिर्भवेत् ॥ २३६ ॥
तस्याप्यायुषमारोग्यम्मनस्सङ्कल्पितञ्चयत् ।
सर्वन्तत्रभवेत्तस्य शिवे भक्तिः प्रजायते ॥ २३७ ॥
विपरीतक्रियान्दृष्ट्वाप्यौदासीनं करोति यः ।
स राजा क्षयमाप्नोति नात्रकार्या विचारणा ॥ २३८ ॥
तस्मादाचार्यवर्येण पञ्चगोचरवर्तिना ।
शैवागमपरिज्ञानपारगेण क्रियावता ॥ २३९ ॥
क्रियानिर्वर्तनीयास्यात् स्वस्यराष्ट्राभिवृद्धये ।
गुरो र्गुरूत्तमो ग्राह्यश्शिवशास्त्रविशारदः ॥ २४० ॥
तेनैवस्नपनाद्यन्तु कारयेत् मुनिसत्तमाः ।
विशेषपूजातेनैव वर्तनीयेष्टसिद्धये ॥ २४१ ॥
पयोदधिघृतक्षौद्रप्रमुखैर्देवमीश्वरम् ।
संस्नाप्यामलपिष्टाद्यैर्विरूक्ष्येशं संवेदिकम् ॥ २४२ ॥
गन्धतोयेन संस्नाप्य वाससा परिमार्जयेत् ।
चन्दनाद्यैस्समालिप्य पट्टाद्यैर्भूषयेच्छिवम् ॥ २४३ ॥
गन्धपुष्पसगाद्यैश्च धूपयेत्तदनन्तरम् ।
कर्पूरवर्तिसंयुक्तं दीपमारात्रिकन्नयेत् ॥ २४४ ॥
पञ्चवर्णहविष्यं वा पायसं शुद्धमेव वा ।
नानोपदंशसंयुक्तं नानाफलसमन्वितम् ॥ २४५ ॥
दत्वा तदन्ते ताम्बूलम्मुखवाससमन्वितम् ।
एलालवङ्केकर्पूरजातीतक्कोलचूर्णयुक् ॥ २४६ ॥
मञ्जिष्टाखण्डसम्मिश्रं मुखवासमिदं भवेत् ।
प्रणम्याध्येष्यलब्धाज्ञो होमार्थं कुण्डमाश्रयेत् ॥ २४७ ॥
समिधाज्येन चरुणा तिलेनापि समन्वितम् ।
शतमष्टोत्तरं हुत्वा पूर्णामन्ते समाचरेत् ॥ २४८ ॥
तस्मात् भस्मसमादाय यजमानाय दापयेत् ।
सम्प्रार्थ्य वाञ्छितं कर्म प्रणमेच्च पुनः पुनः ॥ २४९ ॥
दिनमेकं समारभ्य सप्ताहान्तं समाचरेत् ।
द्विगुणं त्रिगुणं चतुष्पञ्चगुणन्तु वा ॥ २५० ॥
षट्सप्तगुणसङ्ख्यातं कर्मसिद्ध्यर्थमेव वा ।
पूजावैशेषिकीख्याता पूर्वोक्तफलदायिनी ॥ २५१ ॥
नैमित्तिकञ्च नित्यान्ते कर्तव्यमविरोधतः ।
नित्येप्रवर्तमाने तु यदा नैमित्तिकं भवेत् ॥ २५२ ॥
समाप्याल्पेन कालेन नित्यनैमित्तिकञ्चरेत् ।
सन्ध्यापरार्द्धकालाचेत् पूर्वार्धे विद्यते यदि ॥ २५३ ॥
नैमित्तिकं स्वकाले तु कर्तव्यमविचारतः ।
सन्ध्यामप्यल्पकालेन चापरार्धे समाचरेत् ॥ २५४ ॥
तन्त्रैणैवाप्यनुष्ठानमुभयत्र समाचरेत् ।
धूपान्तं वाथ नैवेद्यपर्यन्तन्नित्यकर्म च ॥ २५५ ॥
विधाय प्राप्तकाले तु नैमित्तिकमथाचरेत् ।
नैमित्तिकं महच्चेद्धि समारभ्यस्वकालके ॥ २५६ ॥
एकाद्यावरणान्तं तु सन्ध्याशेषं समाप्य च ।
सन्ध्यान्ते सर्वकलशैः स्नापयेदुक्तवर्त्मना ॥ २५७ ॥
नैमित्तिकद्वयप्राप्तौ महदादौ समाचरेत् ।
लघ्वन्ते सदृशन्तश्चेत् कामचारो विधीयताम् ॥ २५८ ॥
नैमित्तिकस्यकालोपि द्विविधः परिकीर्तितः ।
अल्पानल्पविभागेन स्वल्पस्यादयनादिकः ॥ २५९ ॥
ग्रहणादिर्माहाकालस्वल्पकालोऽग्रतो भवेत् ।
ग्रस्यमाने रवौकुर्यान्मुच्यमाने निशाकरे ॥ २६० ॥
भविष्यत्ययने दक्षे त्वतीते चोत्तरायणे ।
विषुवे मध्यकाले च स्नपनाद्यं समाचरेत् ॥ २६१ ॥
कन्यायां मिधुने धनुष्यन्ते समाचरेत् ।
सिह्मे च वृश्चिके कुम्भे वृषेश्चादौ समाचरेत् ॥ २६२ ॥
अर्धमेकं द्वयं वापि यामं वा घटिकामपि ।
आदौ चान्ते च गृह्णीयात् स्नपनादिषु कर्मसु ॥ २६३ ॥
आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुलीयकैः ।
उपयुक्तमिहद्रव्यं यागे स्वर्णाम्बरादिकम् ॥ २६४ ॥
आचार्याय प्रदेयं स्यात् नान्यभोगाय कल्पयेत् ।
यागावशिष्टं यत् द्रव्यं भूषणं मण्डपस्य तु ॥ २६५ ॥
स्थण्डिलञ्चाम्बरं स्वर्णं कुम्भं वा कलशादिकम् ।
तोरणं स्रुक्स्रुवावष्टमङ्गलन्नवरत्नकम् ॥ २६६ ॥
तद्धोमचरुनैवेद्यशेषंयन्मण्डपस्य च ।
वलयन्तत्प्रपादींश्च मदन्यदुपयुक्तकम् ॥ २६७ ॥
आचार्यायैव देयं स्यात् पञ्चगोचरवर्तिने ।
निष्कादिदशनिष्कान्ता देशिके दक्षिणे मता ॥ २६८ ॥
निष्काष्टमांशं हीनस्यादधमांशन्तदर्धकम् ।
नवधा धक्षिणा क्षुद्रक्रमे स्याद्धीन वृत्तिके ॥ २६९ ॥
नित्ये तु कल्पयेद्वृद्धिं मनस्सन्तोषणं तथा ॥ २६९१।२ ॥

इति उत्तरकामिकाख्ये महातन्त्रे स्पनविधिः चतुर्थः पटलः

स्नपनविधि पटलः

पञ्च हस्तादि षट् सप्त हस्तपर्यन्तकेऽपि वा ।
चतुर्गात्रादिकेऽष्टाष्ट गात्र पर्यन्तकेऽपि वा ॥

सूत्रन्यास मधोरेण तालमात्रान्तरं यथा

कषायोदकं

चतुक्षीरकुजोद्भूत त्वक् सारस्यात् कषायकः ।
आम्रजम्बूतरूत्थत्वक् सारो वा परिकीर्तितः ॥

मार्जनोदकं

दूर्वातील कुशाग्रैस्तु मार्जनं त्वभिधीयते ।

रत्नोदकम्

माणिक्कं चेन्द्रनीलस्य मुक्ता वैडूर्य रत्नकम् ।
पुष्परागं प्रवालं च वज्रं स्फटिक खण्डकम् ॥
मरकतञ्च रत्नानि नवरत्नानि पञ्चकम् ॥
पञ्चरत्नमिति ज्ञेयम् आद्यभावे द्वितीयकम् ॥

लोहोदकम्

सुवर्णं रजतं ताम्रम् आयसं त्रपु सीसकम् ।
आरकूटं ततः कांस्य युक्तं लोहोदक मतः परम् ॥

धातूदकम्

सौराष्ट्रं मञ्जनं श्यामा हरितालं मनश्शिला ।
गौरिकं रोचना चान्ते धातूदकमितं मतम् ॥

बीजोदकम्

शालिकोद्रव नीवार प्रियङ्गुतिल सर्षपाः ।
श्यामाष्टकं यवो बीजो बीजोदक मिहोदितम् ॥ १०६ ॥

गन्धोदकम्

नवनीतं च कर्पूरं त्वगेलापत्रसंयुतम् ।
चन्दनं लघुकुष्टं च वरालो शीर मुस्तकाः ॥ १०७ ॥

कुङ्कुमं हरिबेरं च कच्चोलं जातिरेव च ।
एभिस्तु चूर्णितैर्युक्तं गन्धोदक मिति स्मृतम् ॥ १०८ ॥

मृदोदकम्

पर्वते च नदीतीरं वल्मीके कर्कटावटे ।
वृषशृङ्गे च सुक्षेत्रे समुद्रे गजदन्तके ॥
अष्टभिश्च समायुक्तं मृदम्भः परिकीर्तितम् ॥ १०९ ॥

मार्जनोदकम्

गोक्षुरा सहदेवी च विष्णु क्रान्ता कृताञ्जली ।
शिरीषेन्दीवरं रात्रिरेभि र्मार्जन मुच्यते ॥ ११० ॥

परिमाणोदकम्

दूर्वाङ्कुरञ्च पद्मं च कुशाग्रं गौर सर्षपम् ।
भद्रा कृताञ्जलीयुक्तं परिमाणं तदुच्यते ॥

पत्रोदकम्

तुलसी बिल्वपत्रं तमालश्च तपस्विनी ।
अपामार्ग समायुक्तं पत्रतोय मिहेरितम् ॥

पुष्पोदकम्

पद्मं रक्तोत्पलं पश्चात् पटली चम्पकाकृतः ।
पुन्नाग कुरव नारङ्ग नद्यावर्तं च मल्लिका ॥
श्वेतार्क वकुलैर्युक्तं पुष्पतोय मिहेरितम् ॥

कुष्टं कुटन्नटं लोहञ्चन्दनं कुङ्कुमन्तथा ।
कर्पूरोशीर संयुक्त माडयोदक मिहेरितम् ॥

अस्त्रोदकम्

शूलं कपाल हरिणी पिनाकः परशुस्तथा ।
पाशाक्षमाला हैमाश्च तैरस्त्रोदकं भवेत् ॥

फलोदकम्

पनसो नालिकेरश्च मातुलुङ्ग द्वयं ततः ।
नारङ्गद्वयरम्भाद्यैः उक्तमस्मिन् फलोदकम्

कषायोदकम्

पलाशोदुम्बराश्वत्थ मायूरप्लक्ष पाटली ।
जम्बू त्वग्भिस्समायुक्तं कषायोदकमीरितम्

आङ्योदकम्

अभ्रक त्रितयं पश्चात् आक्षिक त्रितयन्ततः ।
गन्धत्रय समायुक्तम् आडयतोय मिति स्मृतम् ॥

कान्तोदकम्

सूर्यकान्तस्त्वयस्कान्तो भ्रामरश्चन्द्रकान्तकम् ।
निकुन्दः पञ्चभिर्युक्त कान्तोदक मितिस्मृतम् ॥

मूलोदकम्

उशीरो हरिबेरश्च पीवरिः पुष्करन्तथा ।
श्रीकण्ठश्चेति पञ्चभिर्युक्तम्मूलोदकं स्मृतम् ॥

वल्कलोदकम्

मयूर शिखि भूर्जत्व ग्रोचना भ्रङ्गराजकम् ।
कृताञ्जलिश्च पञ्चैभिः युक्तं स्याद्वल्कलोदकम् ॥

त्वगोदकम्

लक्ष्मी भद्रा कुशादान्तो नीवारं चम्पकं पुनः ।
विहिता गोक्षुराद्यष्टौ लोघ्रत्वक्वारि निर्मितम् ॥

चतुर्दलं यथा पञ्चकलश स्थापनं दिशि ।
विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम् १२

विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।
पञ्चविंशति सङ्ख्यान्तं तत्समन्तात्समावृतम् ॥ ४९ । १०९ ॥

अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः
मार्गबाह्ये तु कोणे स्यादेकविंशति सङ्ख्यकः
शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते १०८

द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम् ।
त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ॥ १० ॥
अथवोत्तरवीधिस्यात् करकस्य स्थितिर्यथा ।
तथा द्वितालमानेन कर्णिकामानमीरितम् ॥ ११ ॥

चतुर्दलं यथा पञ्चकलशस्थापनं दिशि । १११।२ ।

विधिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।
पञ्चविंशति सङ्ख्यान्तं तत्समन्तात्समावृतम् ॥
एकोनपञ्चाशत्सङ्ख्यामष्टोत्तरशतं द्विजाः

चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः
एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम्
मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम्
स्व स्व सङ्ख्या समव्यूहे होमार्थं परिकल्पयेत्
अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम्
शिवव्यूहस्य परितः षोडशैव परित्यजेत्
सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते

१३ एकोनपञ्चाशत्सङ्ख्यामष्टोत्तरशतं द्विजाः
१४ आवृतिद्वयसंयुक्तं तद्बाह्ये परिकल्पयेत्
पञ्चविंशति सङ्ख्यातान् कलशान् मध्यमस्थितान्
१५ परिहृत्यसमन्तात्तु द्वाभ्यां वैकेन मार्गिकम्
अष्टद्वारसमायुक्तं बहिष्ठादावृतित्रयम्
१६ मध्यमे तिथिसङ्ख्यास्स्युः नवकोणे व्यवस्थिताः
मध्यमे तिथिसङ्ख्ये तु मध्यमं तत्रयं त्यजेत्
१७ अष्टोत्तरशतं ह्येतत् सहस्रं चेन्नवाधिकम्

सूत्रद्वयं न्यासेत्पूर्वापरगं याम्यसौम्यगम्
सार्धहस्तान्तरं हस्तमानान्तरमथापिवा
स्याच्चतुर्दशसङ्ख्याता वीथिबाह्ये क्रमेण च
तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा

१० द्वितालं शिवकुम्भस्य वर्द्धन्यास्तालमात्रकम्य ।
त्रितालं कर्णिकामानं सर्वसामान्यमीरितम् ॥
११ अथवोत्तर वीधिस्यात् करकस्यस्थितिर्यथा ।
तथा द्वितालमानेन कर्णिकामानमीरितम्
१११।२ चतुर्दलं यथा पञ्चकलशस्थापनं दिशि ।

१२ चतुर्दलं यथा पञ्चकलश स्थापनं दिशि ।
विदिक्ष्वपि नवाख्यं स्यात् [समन्तात् एकमावृतम्]

विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।
पञ्चविंशति सङ्ख्यान्तं तत्समन्तात्समावृतम् ॥

विदिक्ष्वपि नवाख्यं स्यात्समन्तादेकमावृतम् ।
पञ्चविंशति सङ्ख्यान्तं तत्समन्तात्समावृतम्
एकोनपञ्चाशत्सङ्ख्यामष्टोत्तरशतं द्विजाः ॥

१३ एकोनपञ्चाशत्सङ्ख्यामष्टोत्तरशतं द्विजाः ।
१४ आवृतिद्वयसंयुक्तं तद्वाह्ये परिकल्पयेत्
पञ्चविंशति सङ्ख्यातान् कलशान् मध्यमस्थितान्
१५ परिहृत्य समन्तात्तु द्वाभ्यां वैकेन मार्गिकम्
अष्टद्वारसमायुक्तं बहिष्ठादाष्टतित्रयम्
१६ मध्यमे तिथि सङ्ख्यास्स्युः नवकोणे व्यवस्थिताः
मध्यमे तिथिसङ्ख्ये तु मध्यमं तत्रयं त्यजेत्
१७ अष्टोत्तरंशतं ह्येतत् सहस्रं चेन्नवाधिकम्

अष्टोत्तरशताख्ये तु मध्यमे पञ्चविंशतिः
मार्गबाह्ये तु कोणे स्यादेकविंशति सङ्ख्यकः
शेषैर्दिक्षु चतुर्द्वारं सहस्रे पुनरुच्यते

१००८ चत्वारिंशच्च व्यूहं स्यात् पृथक् स्यात्पञ्चविंशतिः ।
एकद्वित्रिचतुर्भिस्तु पदैर्व्यूहान्तरं स्मृतम् ॥
मध्य व्यूहस्य परितः चतुष्कुण्डन्तु वाष्टकम् ।
स्व स्व सङ्ख्या समव्यूहे होमार्थं परिकल्पयेत् ॥
अन्तर्मार्गं समावाह्य वीथिश्शास्त्रे समीरितम् ।
शिवव्यूहस्य परितः षोडशैव परित्यजेत् ॥
सूत्रन्यासस्समाख्यातः अन्यथापि निगद्यते ॥

सूत्रद्वयं न्यसेत्पूर्वापरगं याम्य सौम्य सौम्यगम् ।
सार्धहस्तान्तरं हस्तमानान्तरमथापिवा ॥
स्याच्चतुर्दश सङ्ख्याता वीथि बाह्ये क्रमेण च ।
तद्बहिर्होममिष्टं स्यात् चतुर्दिक्षु अष्टदिक्षु वा ॥