वक्ष्येहं सकलार्च्चान्तु सर्वाभीष्टफलप्रदाम् ।
शौचमाचमनं स्नानं सन्ध्यावन्दनतर्पणम् ॥ १ ॥
कृत्वा प्रविश्य हर्म्यन्तु पादशौचं विधाय च ।
सम्यगाचभ्य सङ्गृह्य भसितं वारिणा सह ॥ २ ॥
त्रिपुण्ड्रं विधिना कृत्वा करन्यासं विधाय च ।
तत्करेण च संयोज्य शिवेह्यात्मानमादरात् ॥ ३ ॥
भूतशुद्धिं सुधाप्लावम् आत्मावाहनमेव च ।
करन्यासं च विन्यासं ब्रह्मणामीश पूर्वकम् ॥ ४ ॥
स्वविग्रहे कलान्यासमीशानं मूर्ध्नि विन्यसेत् ।
पुरुषं वदने सर्वं मलामन्त्रमनुस्मरन् ॥ ५ ॥
अन्यत्पूर्वसमानं स्यादेकत्रिंशत्कलां न्यसेत् ।
अन्तर्यागमतः कृत्वा स्थानशुध्दिन्ततो नयेत् ॥ ६ ॥
विशेषार्घ्यञ्च सङ्कल्प्य गन्धपुष्पाक्षतैर्युतम् । ६१।२ ।
ईक्षणाद्यैर्चतुर्भिस्तु द्रव्यशुध्दिन्तु पूर्ववत् ।
कृत्वात्मानं समभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ॥ ७१।२ ॥
द्वारं सम्प्रोक्ष्य चास्त्रेण वृषमग्रे समर्चयेत् ।
द्वारपार्श्वोभयंवापि गणपञ्चसरस्वतीम् ॥ ८१।२ ॥
नन्दिनञ्च महाकालं गङ्गाह्वां यमुनामपि ।
सम्पूज्योदुम्बरे शस्त्रं प्रविश्यान्तः पुरं पुनः ॥ ९९।२ ॥
दत्वा पुष्पश्च वास्त्वीशे दत्वार्घ्योदं शिरस्यथ ।
शिवस्येशानमन्त्रेण मालाद्यमपनीय च ॥ १०१।२ ॥
शुद्धिं कृत्वा विधानेन पटाद्यैर्वोदकेन वा ।
आधारारव्यमनन्तञ्च धर्माधर्माद्यमेव च ॥ १११।२ ॥
अधश्चोर्ध्वश्चदेपझकर्णिकेशक्तिपुञ्जकम् ।
वामाद्यं हृदयोपेतं शिवासनमनुस्मरन् ॥ १२१।२ ॥
तस्मिन्मूर्तिं समावाह्य विद्यादेहं प्रकल्पयेत् ।
सदाशिवो महेशश्च रुद्रश्चेचि त्रिधामतः ॥ १३१।२ ॥
शिवदेह-इति प्रोक्तः विद्यादेहस्स उच्यते ।
या तस्य विमलाशक्तिश्शिवस्य समवायिनी ॥ १४१।२ ॥
तद्देहत्रयसिद्ध्यर्थं मूर्तिमादौ प्रकल्पयेत् ।
हृत्सम्पुटेन संयोज्य तस्यां ब्रह्माणि विन्यसेत् ॥ २०१।२ ॥
कलान्यासन्ततः कुर्यात्तद्विधानमिहोच्यते ।
सदेशे देह सिद्ध्यर्थमष्टत्रिंशत्कला मता ॥ २११।२ ॥
रुद्रेशयोश्शरीरार्थमेकत्रिंशत्कला मता ।
अष्टत्रिंशत्कलान्यासं प्रागेव प्रतिपादितम् ॥ २२१।२ ॥
एकत्रिंशत्कलान्यासे विशेषः कश्चिदिष्यते ।
एकमेव शिरोवक्त्रं महेशे रुद्रविग्रहे ॥ २३१।२ ॥
तत्रेशानेन वक्त्रेण ममुना सकलेन च ।
मलात्मना विशिष्टन्तु पूर्ववत्परिकल्पयेत् ॥ २४१।२ ॥
ध्यात्वा सदाशिवरूपन्तच्चतुर्दशसंयुतम् ।
षष्ठस्वरसमोपेतं बिन्दुनादविभूषितम् ॥ २५१।२ ॥
सान्तं हृत्सम्पुटं कृत्वा विद्यादेहं प्रकल्पयेत् ।
बेरे सदाशिवेवापि लिङ्गेप्येवं समाचरेत् ॥ २६१।२ ॥
महेशनृत्तमूर्त्यादि ध्यानं शान्तमनुस्मरन् ।
प्रतिमालक्षणोक्तञ्च महेशमनुनायुतम् ॥ २७१।२ ॥
कलान्तकगजघ्नादि रूपं रौद्रमनुस्मन्रन् ।
तन्मन्त्रेण समोपेतं विद्यादेहं प्रकल्पयेत् ॥ २८१।२ ॥
महेशरुद्रमूर्तौ च मन्त्रस्सादाशिवो यथा ।
विद्यादेहार्थमुद्दिष्टस्सर्वतश्शिव एव च ॥ २९१।२ ॥
आवाह्य समनुर्मन्त्रोद्धारे प्रागेवकीर्तिताः ।
तेनावाह्य शिवन्देहत्रितये पूर्ववर्त्मना ॥ ३०१।२ ॥
स्थापनाद्यन्ततः कुर्यात् पाद्यञ्च परमेश्वरे ।
गन्धं पुष्पश्च धूपश्च दीपन्नैवेद्यमप्य च ॥ ३११।२ ॥
ताम्बूलसहितं सर्वन्निष्कलार्चनवन्नयेत् ।
पञ्चावरणसंयुक्तञ्चतुस्त्रिद्वयेकसंवृतौ ॥ ३२१।२ ॥
इष्टावरणसंयुक्तं प्रागुक्तविधिना गुरुः ।
परिवारयुतञ्चेत्तु बलिन्तस्मिन्समाचरेत् ॥ ३३१।२ ॥
होमं नित्योत्सवं वापि स्वप्रधाने समाचरेत् ।
शुद्धनृत्तञ्चयन्नोक्तं सर्वं प्रकृतिवन्नयेत् ॥ ३४१।२ ॥
द्वारपालार्चनोपेतं बलिहोमसमन्वितम् ।
शुद्धनृत्तञ्च हित्वा वा कर्म सर्वं समाचरेत् ॥ ३५१।२ ॥
प्रदोषादौ नटेशस्य कुर्यान्नीराजनक्रियाम् ।
उत्सवं स्नपनञ्चैव दमनारोहणक्रियाम् ॥ ३६१।२ ॥
पवित्रारोहणं सम्म्यक् कृत्तिकादीपमेव च ।
संवत्सरादि लेखाञ्च वसन्ताख्यं तदुत्सवम् ॥ ३७१।२ ॥
मासोत्सवं तथा मासेनवनैवेद्यकर्म च ।
प्रायश्चित्तञ्च जीर्णानाम् उद्धारञ्च गुरूत्तमाः ॥ ३८१।२ ॥
देवोक्तमखिलं सर्वं देव्याश्चापि समाचरेत् ।
किञ्चाषाढेऽश्विनी मासे पूर्वफल्गुनिसङ्गमे ॥ ३९१।२ ॥
पूरकर्मापिकर्तव्यमादिशक्तेर्द्विजोत्तमाः ।
गौरीमहेश्वरीमूर्तीसदेशे तु मनोन्मनी ॥ ४०१।२ ॥
मनोन्मन्यणुना मूर्तिं मनोन्मन्यां प्रकल्पयेत् ।
गौरी मन्त्रेण गौर्यास्तु षड्विंशतिकलान्विताम् ॥ ४११।२ ॥
आदिशक्त्यणुना तस्यामादिशक्तिं प्रपूजयेत् ॥ ४२ ॥
इति उत्तरकामिकाख्ये महातन्त्रे सकलार्चनाविधिः
तृतीयः पटलः
इन्दु निभ पञ्च मुख हस्त दश युक्तम् ।
शूल वर टङ्क मसि वज्र मभयं स्यात् ॥
पाश वरदाङ्कुश मणिर्दहन वामे ।
श्वेत कमलासन सदाशिव स्वरूपम् ॥