वक्ष्ये दक्षिणवक्त्रार्चां त्रिप्रकारा तु सा स्मृता ।
लिङ्गे वा प्रतिमायां वा मुखलिङ्गे तु वा मता ॥ १ ॥
प्रतिमा दक्षिणास्या चेदुत्तमोत्तम सञ्ज्ञका ।
मिश्रे तु मध्यमा प्रोक्ता लिङ्गेऽर्वा त्वधमा मता ॥ २ ॥
प्रतिमायां तु मध्ये यद् दक्षास्य यजनं द्विजाः ।
नृत्तमूर्ते र्विशेषेण त्वति शोभन मिष्यते ॥ ३ ॥
श्रेष्ठं पश्चान्मुखं लिङ्गं दक्षास्यं बेरमुच्यते ।
अव्यक्तं मोक्षदं लिङ्गं व्यक्तं भूतिप्रदायकम् ॥ ४ ॥
भुक्ति मुक्ति प्रदं मिश्रमेवं ज्ञात्वा समाचरेत् ।
शौचमाचमनं स्नानं सन्ध्योपासन मेव च ॥ ५ ॥
कृत्वा शिवार्घ्य हस्तस्तु दक्षिण द्वारमाश्रयेत् ।
द्वार मस्त्रेण सम्प्रोक्ष्य द्वारपानर्चयेत् क्रमात् ॥ ६ ॥
गणपं भारतीमूर्ध्वे सव्येगङ्गां च नन्दिनम् ।
यमुनां च महाकालं गन्धाद्यैः क्रमशोर्चयेत् ॥ ७ ॥
सम्प्रविश्यान्तरे वास्तु पतिं सम्पूज्य फूजकः ।
पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम् ॥ ८ ॥
लिङ्गार्चनं चेत् प्राग्वत् स्यादीशानं तु स्वगोचरे ।
अघोरं पुरुषं वापि दक्षिणे सम्यगर्चयेत् ॥ ९ ॥
अघोरं वाथ सद्यं वा पश्चिमे तु समर्चयेत् ।
सद्यवक्त्रं तु वामां वा सौम्यदेशे समर्चयेत् ॥ १० ॥
पुरुषं वाथ वामं वा पूर्वस्मिन् सम्प्रपूजयेत् ।
ईशानमग्नि देशे तु न्यसेत् पूर्वे मनोन्मनीम् ॥ ११ ॥
पितृवाय्वग्नि ईशेषु हृदयादि व्यवस्थितम् ।
अथवा प्राग्वदेवं स्याद् विद्येशा दक्षिणादितः ॥ १२ ॥
गणेशःपूर्व देशे वा प्राग्वद्वा सम्प्रकीर्तिताः ।
पूर्व दारभ्य शक्राद्या वज्राद्याश्च तथा मताः ॥ १३ ॥
उक्षं दक्षिण संस्थं च बलिपीठं ध्वजादिकम् ।
प्राग्वदेव विधेयं स्यात् अन्यत्सर्वं समाहिताः ॥ १४ ॥
लिङ्गार्चनं च देवं स्याद् अथबेरार्चनं तु चेत् ।
तदुच्यते समासेन श्रूयतां मुनिसत्तमाः ॥ १५ ॥
लोहजे शैलजे वापि मृज्जे धतुज रत्नजे ।
चित्रहीने शिलाबिम्बे मूललिङ्ग वदाचरेत् ॥ १६ ॥
रत्नजे लोहजे पक्व मृण्मये बेरशोधनम् ।
अभीष्ट दिवसे कुर्याद् यावद्बेरं सधूसरम् ॥ १७ ॥
वस्त्र सम्मार्जनं पुण्यदिवसे स्नपनं मतम् ।
कर्मार्चार्यामथान्येषां मणिलिङ्गेऽथ पीठके ॥ १८ ॥
अथवा बाणलिङ्गे वा दर्पणादौ समर्चयेत् ।
आधाराख्य मनन्तं च धर्माद्यं हि चतुष्टयम् ॥ १९ ॥
गात्रं तुर्यमधश्चोर्ध्वच्छदने पद्मकर्णिके ।
वामादि नवकं सूर्यमण्डलाद्यं च साधिपम् ॥ २० ॥
सम्पूज्य हृत्पुटे नेत्रमन्त्रं विद्यातनुं स्मरेत्
ईशाने सकले मूर्ध्नि पुरुषं वदने स्मरेत् ॥ २१ ॥
अथापरं समानं स्यात् शिवलिङ्गार्चनेन तु ।
कलान्यासस्समाख्यातः प्रतिमानां विशेषतः ॥ २२ ॥
प्रतिमालक्षणं प्रोक्तं ध्यानमत्रोप लक्ष्यताम् ।
हृद्बीजात्पश्चिमे वर्णे षष्ठं बीजं नियोजयेत् ॥ २३ ॥
मात्रात्रय समायुक्तं मूर्ध्नि बिन्दुं नियोजयेत् ।
मन्त्र मेतत्समुच्चार्याऽवाहयेत् प्रतिमाहृदि ॥ २४ ॥
न्यास मार्गेण संस्थाप्य सन्निधान निरोधने ।
विधायैवं हृदा पाद्यं पादयोस्तु निवेदयेत् ॥ २५ ॥
सिद्धार्थ चन्दनोशीर दूर्वा सङ्कल्पितं द्विजाः ।
एलालवङ्ग कर्पूर वराल फल कल्पितम् ॥ २६ ॥
दद्यादाचमनीयं तु वक्त्रे तत्पुरुषाह्वये ।
क्षीर सिद्धार्थ सस्येन्द्र तिलशाल्यक्षातान्वितम् ॥ २७ ॥
कुशपुष्पसमोपेतं दद्यादर्ध्यं तु मूर्धनि ।
यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ॥ २८ ॥
व्रीहि तण्डुल संयुक्त मच्युतं तत्प्रकीर्तितम् ।
पाद्यादि पञ्चकं ह्येतत् सकले निष्कलेऽपि च ॥ २९ ॥
सम्मिश्रेऽपि विधेयं स्यात् अर्चने स्नपने मखे ।
पवित्राहोहणादौ च प्रोक्तं वाथ समाचरेत् ॥ ३० ॥
सर्व द्रव्यसमायुक्तं श्रेष्ठमित्याभिधीयते ।
एकहीनं तु मध्यं स्याद् द्वाभ्यां हीनं तु कन्यसम् ॥ ३१ ॥
त्रिभिहीनम् तु नीचं स्यात् सर्वद्वारेषु योग्यकम् ।
गन्धं पुष्पं च धूपं च दीपं नैवेद्यमेव च ॥ ३२ ॥
ताम्बुलं मूलमन्त्रेण दद्यात्तु परमेश्वरे ।
बलि होमोत्सवं नृत्तं यथाकालं समाचरेत् ॥ ३३ ॥
सन्ध्या तिथ्यर्ध नाडी स्नपन यजन
नैवेद्यबल्यग्निकार्यम्-
नित्योक्तं चोत्सवान्तं भवति विधिरयं
शुद्धनृत्तक्रमेण ।
नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव-
न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मर शरमुनि सङ्ख्यार्ध
नाड्योऽथवास्युः ॥ ३४ ॥
उत्तमोत्तम पूजा चेत् कालोयामद्वयेन तु ।
मध्यमे दशनाड्यस्स्याद्याम मात्रेण कन्यसः ॥ ३५ ॥
अन्तरा त्वष्टधा भक्त्वा नवधा कालमादिशेत् ।
कर्षणादि प्रतिष्ठान्तं कर्म संवत्सरोत्सवम् ॥ ३६ ॥
पवित्रारोहणं मासार्चन मङ्कुर वापनम् ।
नित्यार्चनादिकं सर्वं तन्त्रेस्मिन् प्रतिपादितम् ॥ ३७ ॥
समालोच्य विधेयं स्यात् सकले निष्कले शिवे ।
अनेनैव प्रकारेण न्यायेनान्वीक्ष्य देशिकः ॥ ३८ ॥
सौम्य वक्त्रेश पूजाद्यं कारयेद्देशिकोत्तमः ।
अन्तरालं तु पूर्वस्यां दिशि व्यक्ते विशिष्यते ॥ ३९ ॥
किमत्र बहुनोक्तेन यस्य देवस्य यन्मुखम् ।
तस्य देवस्य सा प्राची निश्चिता द्विजसत्तमाः ॥ ४० ॥
तद्वशादपरा कल्प्या दिशो दिग्वेदिभिस्सदा ॥ ४०१।२ ॥
इति उत्तरकामिकाख्ये महातन्त्रे दक्षिणद्वारार्चन विधिः
द्वितीयः पटलः
सन्ध्या तित्यर्थ नाडी स्नपन यजन नैवेद्यबल्यग्निकार्यम्-
नित्योक्तं चोत्सवान्तं भवति विधिरयं शुद्धनृत्तक्रमेण ।
नाडीनामक्षिपक्षैर्दरदरदलितै र्व्योमचन्द्रैर्यथाव-
न्न्यूनेऽस्मिन्नर्चनाङ्गैस्स्मरशरमुनि सङ्ख्यार्ध नोड्योऽथ-वास्युः
॥
उत्तमोत्तम पूजाचेत् कालोयामद्वयेन तु ।
मध्यमे दशनाड्यस्यात् याम मात्रेण कन्यसः ॥
अन्तरा अष्टधा भक्त्वा नवधा कालमादिशेत् ॥
पूजयेत् पूर्ववक्त्रस्तु शिवं षड्गुण संयुतम्
षड्गुण - १। सर्वज्ञत्वम् २। परितृप्तत्वम् ३। अनादि बोधृत्वम् ४।
स्वतन्त्रत्वम् ५। अलुप्तशक्तित्वम् ६। अनन्तशवक्तिस्वम्