प्रथमः पटलः पश्चिमद्वारार्चनविधिः
पश्चिमस्यार्चनं वक्ष्ये निष्कले सकलेऽपि वा ।
मिश्रे च गृहिणां योग्यं परार्थयजनार्थकम् ॥ १ ॥
राजराष्ट्र विवृद्ध्यर्थं भुक्तिमुक्तिफलप्रदम् ।
प्रातरावश्यकं शौचं कृत्वा स्नानं विधाय च ॥ २ ॥
सूर्यश्चेत्यादिभिर्मन्त्रैः सन्ध्यासु तिसृषूदकम् ।
पीत्वा सम्मार्जयेत् तद्वत् दधिक्राविण्णेति चादिभिः ॥ ३ ॥
ॐ भूर्भुवस्सुवरादि मन्त्रेण वारत्रयमथाञ्जलिम् ।
पुनस्तेनैव, मन्त्रेण दशवारं जपन्नयेत् ॥ ४ ॥
एतत् प्रतिदिनं कार्यं द्विजत्वापत्ति सिद्धये ।
श्रुति स्मृत्यादि संसिद्धिम् अनुष्ठानन्तु यद्भवेत् ॥ ५ ॥
आवश्यकेतु शौचेवा स्नाने त्वाचमनेऽपिवा ।
सन्ध्यायां वन्दने वापि तर्पणे होमकर्मणि ॥ ६ ॥
गृहबल्यादिके चान्यत् द्विजानां विहितन्तुयत् ।
कर्तव्यं वा न कर्तव्यं शैवमावश्यकं मतम् ॥ ७ ॥
स्वशास्त्र सन्ध्यामन्त्रादि तर्पणं च विधाय च ।
व्रजेद्देवालयाद्यं तु पादशौचं विधाय च ॥ ८ ॥
समाचम्य प्रविश्यान्तः स्वासनस्थ उदङ्मुखः ।
त्रिपुण्ड्रं भस्मना कृत्वा सान्द्रेण धवलेन च ॥ ९ ॥
करन्यासं ततः कृत्वा सुषिरं देहमध्यमे ।
ध्यात्वा ज्वलन्तं हुङ्कारं प्राणान् संयम्य निश्चलम् ॥ १० ॥
फट्कारान्तं तु तेनैव रेचकेन समन्वितम् ।
पञ्चग्रन्थीं स्ततो भित्वा तस्मात्प्रति निवृत्य च ॥ ११ ॥
मूर्तिं मन्त्रेण सङ्गृह्य जीवं हुङ्कार मूर्धनि ।
कुम्भकेन समोपेतं वायुम् ऊर्ध्वगतं नयेत् ॥ १२ ॥
तेनैव द्वादशान्तस्थ शिवेन सह योजयेत् ।
आत्मयोजन मेतत्स्यात् ततो भूतादि शोधयेत् ॥ १३ ॥
निवृत्यादीनि भूतानि तान्यध्वानं समस्तकम् ।
व्याप्य व्यवस्थितानीति मत्वा तानि विशोधयेत् ॥ १४ ॥
दहनं वाथ भूतानां परस्पर विशोधनम् ।
मण्डलादि समायुक्तं भूतशुद्धिरिहोदिता ॥ १५ ॥
शोध्यो परागरहितं कलामात्र व्यवस्थितम् ।
विचिन्त्य दिव्यदेहार्थममृताप्लावनं नयेत् ॥ १६ ॥
ध्यात्वा कुण्डलिनीं शक्तिम् अमृतैक स्वरूपिणीम् ।
तदुद्भूतामृतस्रावैस्सिक्तां दिव्यां कलां स्मरेत् ॥ १७ ॥
ध्यात्वा हृद्यासनं तस्मिन् मूर्त्यात्मानं समानयेत् ।
पुनराप्लावनं कृत्वा करन्यासं समारभेत् ॥ १८ ॥
हस्त पृष्ठतलेऽस्त्रेण शोधयेच्चन्दनान्विते ।
तयोर्ब्रह्माणि विन्यस्य नेत्रं करतले न्यसेत् ॥ १९ ॥
शिवं साङ्गं च विन्यस्य भूयस्तत्र शिवं न्यसेत् ।
कवचेनाव कुण्ठयाथ सर्वकर्मसु योजयेत् ॥ २० ॥
करन्यासः समाख्यातो अङ्गन्यासश्च कथ्यते ।
मूर्धादि पादपर्यन्तम् अङ्गब्रह्माणि विन्यसेत् ॥ २१ ॥
मूलब्रह्माणि वा विद्वान् अष्टत्रिंशत् कलां न्यसेत् ।
शिवं हृदि यथास्थानं (हृ) हृदयाद्यं निवेशयेत् ॥ २२ ॥
नेत्रं नेत्रेषु विन्यस्य हेतिं दिक्षुगतं न्यसेत् ।
महामुद्रां ततः कृत्वा शिवमन्त्रम् अनुस्मरन् ॥ २३ ॥
महामुद्रा तावत् कराभ्यां सम्मुखाभ्यां पाद पङ्कजात्
आमस्तक स्पर्शनरूपा
अन्योन्य ग्रथिताङ्गुष्ठा प्रसारित कराङ्गुली
महामुद्रेय मुदिता परमीकरणे बुधैः
महामुद्रेयमाख्याता न्यूनाधिकं समापनी
प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि ॥
अष्टत्रिंशत्कलान्यासं हित्वा ब्रह्माणि विन्यसेत् ।
लिपिन्यासं ततः कुर्यात् रुद्रशक्ति समन्वितम् ॥ २४ ॥
श्रीकण्ठादि समोपेतम् अक्षरन्यासमेव वा ।
केवलं मातृकान्यासं कुर्यात्तद्रहितं तु वा ॥ २५ ॥
एवं शैवतनुं कृत्वा ततोऽन्तर्यजनं नयेत् ।
पूजा होमसमाधिस्यात् हृदि नाभौ ललाटके ॥ २६ ॥
आत्मशुद्धिरियं ख्याता स्थानशुद्धिस्ततः परम् ।
हस्तास्फालन दिग्बन्धाव कुण्ठैश्च सम्मता ॥ २७ ॥
पात्रत्रयं समादाय यन्त्रिकाकार संस्थितम् ।
पाद्यादित्रितयं तेषु कल्पयेद्विधिनामुना ॥ २८ ॥
चन्दनोशीर सिद्धार्थं दूर्वा काश्मीर तोययुक् ।
उत्तमं पाद्य मुद्दिष्टं मध्यमं गतकुङ्कुमम् ॥ २९ ॥
चन्दनोशीर युक्ताम्भः पाद्यं कन्यसमुच्यते ।
वरालोशीर कर्पूर त्रुटि जाति लवङ्गयुक् ॥ ३० ॥
मुरेणैव समायुक्त श्रेष्ठ माचमनीयकम् ।
एलालवङ्ग कर्पूर मुर जातियुतं समम् ॥ ३१ ॥
एलालवङ्गं कर्पूर जलैस्सार्धन्तु कन्यसम् ।
आपःक्षीर कुशाग्रैस्तु यवाक्षत तिलैर्युतम् ॥ ३२ ॥
शालि सिद्धार्थयुक् श्रेष्ठं यव सर्षप शालियुक् ।
तण्डुलैर्मध्यमं प्रोक्तं शालितण्डुल संयुतम् ॥ ३३ ॥
अर्घ्यं कन्यसमुद्दिष्ट मन्यथा च निगद्यते ।
सिद्धार्थ चन्दनोशीर दूर्वायुक् पाद्यमेव च ॥ ३४ ॥
एलालवङ्ग, कर्पूर वरालफलसंयुतम् ।
एतदाचमनीयं वा यजेत् यजनाङ्गके ॥ ३५ ॥
कथितं चात्र वा ग्राह्यमत्रोक्तं तत्र वा भवेत् ।
यवसर्षप सद् व्रीहि तण्डुलै रक्षतं भवेत् ॥ ३६ ॥
व्रीहि तण्डुलं संयुक्तम् अक्षतं तत्प्रकीर्तितम् ।
पञ्चाङ्ग मथवा त्र्यङ्गं केवं चार्ध्यमेव वा ॥ ३७ ॥
कल्पयेद्धृदयेनैव किञ्चार्घ्ये संहितामनुः ।
द्रव्याण्यस्त्रेण सम्प्रोक्ष्य कवचेनावकुण्ठयेत् ॥ ३८ ॥
हृदाभिमन्त्र्य प्रत्येकं मुद्रयेदमृताख्यया ।
तिलकं चन्दनं कृत्वा पुष्पं शिरसि विन्यसेत् ॥ ३९ ॥
द्रव्यशुद्धिर्भवेदेषा प्रणवादि नमोन्तकम् ।
मन्त्रमुच्चारयेन्मन्त्री मन्त्रशुद्धिर्भवेदियम् ॥ ४० ॥
सामान्यार्घ्यं च सङ्गृह्य द्वाराग्रे वृषभं यजेत् ।
गणपं भारतीर्मूर्ध्वे नन्दिनं जाह्नवीयुतम् ॥ ४१ ॥
महाकालेन यमुनां सव्येऽसव्ये समर्चयेत् ।
विमलं च सुबाहुं च तल्पयोश्च क्रमाद्यजेत् ॥ ४२ ॥
प्रविश्य सव्यपादेन देहल्याम् अस्त्रमर्चयेत् ।
वास्तोष्पतिं ततश्चेष्ट्वा पूजां पर्युषितां यजेत् ॥ ४३ ॥
अपनीय च तां लिङ्गात् चण्डेशाय निवेदयेत् ।
पिण्डिकां शिवलिङ्गं च जलेन क्षालयेत् सुधीः ॥ ४४ ॥
लिङ्गशुद्धि रियङ्ख्याता शुद्धयः पञ्च चोदिताः ।
सम्पूज्य द्वारपान् वाथ पञ्चशुद्धिं समाचरेत् ॥ ४५ ॥
विशुद्ध्यासनं संस्कारोपचार स्कन्ध संयुतम् ।
यजनं देवदेवस्य सर्व कामार्थ साधनम् ॥ ४६ ॥
विशुद्धिः कथिता पूर्वमासनं चाधुनोच्यते ।
गणेशं च गुरुं शक्तिमनन्तं धर्मसम्मुखान् ॥ ४७ ॥
अधर्मप्रमुखानन्ते छदने पद्मकर्णिके ।
वामादि नव सूर्यादि मण्डलं सेश्वरं यजेत् ॥ ४८ ॥
शिवासनं तदन्ते च यजेत् स्वस्वमनुस्मरन् ।
पञ्चासनात्मकं ह्येतदेकासन मुदीरितम् ॥ ४९ ॥
अनन्ताधारशक्तिभ्यां भवेदानन्तमासनम् ।
धर्मा धर्मादिभिर्वर्गैश्छदनाभ्यां समन्वितैः ॥ ५० ॥
सिंहासन मिदं प्रोक्तम्, योगं मायाब्जमुच्यते ।
पद्मं वैघेश्वरं पद्ममण्डलं विमलासनम् ॥ ५१ ॥
स्नानाऽवाहनकालादौ पृथगेतान् प्रकल्पयेत् ।
सङ्कल्प्यासनमेवं तु मूर्तिं तदुपरि न्यसेत् ॥ ५२ ॥
तस्मिन् ब्रह्माणि विन्यस्य चाष्टत्रिंशत्कलां न्यसेत् ।
लिपिन्यासं तु वा कुर्याच्छीकण्ठादि युतं तु वा ॥ ५३ ॥
अष्टत्रिंशत्कलोपेतं पञ्च ब्रह्मणि विन्यसेत् ।
विद्यादेहं ततो न्यस्त्वा शिवमावाहयेत्ततः ॥ ५४ ॥
स्थापनं सन्निधानं च सन्निरोधं [च कुण्ठनम्] समाचरेत् ।
स्वस्व स्थाने हृदादीनि विन्यसेदानुपूर्वकम् ॥ ५५ ॥
शिवं तदुपरि न्यस्य तदेकीकरणं नयेत् ।
प्ररोचनं वा कर्तव्यं महामुद्रा प्रयोगतः ॥ ५६ ॥
पाद्यमाचमनं चार्घ्यं दूर्वाद्यं विनिवेदयेत् ।
संस्कारा दश विख्याताः उपचारैः शिवं यजेत् ॥ ५७ ॥
गन्धं तु चन्दनाद्यं स्यादिष्टमानेन वा नयेत् ।
नानाविधानि पुष्पाणि नूतनानि प्रकल्पयेत् ॥ ५८ ॥
लघुचन्दन निर्यास प्रमुखैः धूपमुच्यते ।
तैलाज्यकल्पितान् दीपान् कर्तुर्वाञ्छावशान्नयेत् ॥ ५९ ॥
अनिर्वाण प्रदीपांश्च तथैव परिकल्पयेत् ।
आमन्त्रण हविः प्रोक्तं मुद्गाद्यं चाढकादिकम् ॥ ६० ॥
भूषणादि ततो दत्वा पुनर्धूपं निवेदयेत् ।
तस्मिन् मङ्गलगानैश्च सर्वातोद्य समन्वितैः ॥ ६१ ॥
नाना नृत्त समायुक्तैस्तोषयेद् वृषभध्वजम् ।
आरात्रिकं ततो दद्यात् धूपदानावसानके ॥ ६२ ॥
भस्मना गन्धमिश्रेण त्वङ्गुष्टानामिकाग्रतः ।
भ्रामयित्वा ततस्त्यक्त्वा तिलकं दापयेच्छिवे ॥ ६३ ॥
दर्पणं दर्शयेच्छत्रं चामरं च निवेदयेत् ।
रात्रौ नीराजनं कुर्यात् दीपदानावसानके ॥ ६४ ॥
महाहविर्निवेद्यान्ते बलिहोमौ समाचरेत् ।
आमन्त्रण हविः काले बलिं वा होममाचरेत् ॥ ६५ ॥
उभयत्रोभयं वापि पृथग्वा परिकल्पयेत् ।
स्नपने मन्त्रगेयं वा वीणा गान मथापि वा ॥ ६६ ॥
वेदाध्ययन मन्यद्वा स्तोत्रपाठादिकं च यत् ।
तदूर्ध्वे गौडभासाद्यैर्गानं धूपान्तमाचरेत् ॥ ६७ ॥
ऊर्ध्वं द्राविडभाषाद्यै र्गानं नृत्तयुत्तं तु वा ।
संस्कृतं तदपभ्रंशं नाना स्वर समन्वितम् ॥ ६८ ॥
यदष्टादश भाषोत्थं गानं वा परिकल्पयेत् ।
नाना देश प्रसूतं च नर्तनं परिकल्पयेत् ॥ ६९ ॥
विशेषादुत्सवादौ च गन्धर्वै र्बहुभिर्युतम् ।
नित्योत्सवं ततः कुर्यान्नाना स्त्रीभिस्समन्वितम् ॥ ७० ॥
रूपयौवनसम्पन्ना योषितः कर्तृवाञ्च्छया ।
मम दास्यस्समाख्याता रुद्रकन्या भवन्ति चेत् ॥ ७१ ॥
तासां सङ्ख्या भवेद् ग्रामविन्यास जन सङ्ख्यया ।
उत्सवस्स्यात्तदन्ते तु नित्योत्सव विधानतः ॥ ७२ ॥
वादकानष्ट सङ्ख्यातान् कल्पयेत् कल्पवित्तमः ।
तदन्ते शुद्धनृत्तं स्यात्तदन्ते चुलुकोदकम् ॥ ७३ ॥
विसर्जनं ततः कुर्यात् लयाङ्गं वाथ विन्यसेत् ।
साधकेन च सिद्ध्यर्थं पूजामाहृत्य लिङ्गतः ॥ ७४ ॥
लिङ्गं संशोध्य भूयोऽपि गन्धाद्यै रर्चयेच्छिवम् ।
नेतत्प्रतिदिनं कुर्यात् किं तु साध्यावसानकम् ॥ ७५ ॥
उत्तमं मध्यमं नीचं त्रिविधं स्यान्मदर्चनम् ।
केवलैश्शुद्ध शैवोक्तै र्मन्त्रैरुत्तम मुच्यते ॥ ७६ ॥
मध्यमं शैववेदोत्थैरधमं वैदिकैर्मतम् ।
नित्ये नैमित्तिकेऽप्येतद्विधानं परिकीर्तितम् ॥ ७७ ॥
शैवमन्त्र समो मन्त्रो नास्त्यत्र भुवनत्रये ।
तत्रापि मूलमन्त्रस्तु बीजात्मा श्रेष्ठमुच्यते ॥ ७८ ॥
प्रणवाद्याश्च ये मन्त्रा नियुताद्यक्षरात्मकाः ।
बीजमन्त्रसमुद्भूता रुद्राध्यायादयोऽपि च ॥ ७९ ॥
तदर्थं बीजमन्त्रं तु तत्स्थाने विनियोजयेत् ।
बीजाणु सदृशो नास्ति मम प्रीतिकरः परः ॥ ८० ॥
एतत्सर्वं तु सामान्यं पूर्वास्ये दक्षिणास्यके ।
कौबेरास्ये च लिङ्गे च सकले मिश्र लिङ्गके ॥ ८१ ॥
विशेषः पश्चिमेद्वारे श्रूयतां पण्डितेश्वराः ।
प्राग्वदन्यत्समुद्दिष्टं विशेषः कश्चिदिष्यते ॥ ८२ ॥
द्वारस्याभिमुखं चोर्ध्व वक्त्रं देवं प्रकल्पयेत् ।
वामे वा दक्षिणे वापि स्थापनीया मनोन्मनी ॥ ८३ ॥
देववन्मुख संयुक्ता द्विहस्तैक मुखान्विता ।
ईशान मीशदेशे वा निऋतौ वा समर्चयेत् ॥ ८४ ॥
पुरुषं पूर्वदेशे वा पश्चिमे वाथ चिन्तयेत् ।
दक्षिणे चोत्तरे वापि बहुरूपं विचिन्तयेत् ॥ ८५ ॥
उत्तरे दक्षिणे वापि वामदेवं स्मरेत् गुरुः ।
पश्चिमे पूर्व देशे वा सद्यवक्त्रं स्मरन् न्यसेत् ॥ ८६ ॥
हृदयं वह्नि दिग्भागे वायव्यां वा प्रकल्पयेत् ।
शिरश्चैशेथ नैऋत्यां शिखां पितरि वैशके ॥ ८७ ॥
कवचं वायुदिग्भागे आग्नेय्यां वा प्रकल्पयेत् ।
पूर्वस्मिन् पश्चिमे वापि चतुर्दिक्ष्वस्त्रमर्चयेत् ॥ ८८ ॥
पूर्वस्मात् पश्चिमाद्वापि विद्येशावरणं यजेत् ।
गणेशावरणं सोमाद्दक्षादारभ्य वार्चयेत् ॥ ८९ ॥
लोकेशाः प्राग्वदेवस्युर्वज्राद्याश्च तथा मताः ।
देवाग्रे वृषभःशूलं ध्वजस्थानं च गोपुरम् ॥ ९० ॥
परिवारार्चनं पूर्वदेशादारभ्य कारयेत् ।
वारुणादि निॠत्यन्तं परिवारार्चनं तु वा ॥ ९१ ॥
नालो वामे प्रकर्तव्यस्सोमस्याभिमुखं यथा ।
चण्डेशस्त्वीश देशे स्यात् विघ्नराट् पितरि स्मृतः ॥ ९२ ॥
९२१।२ अन्यत्सर्वं समानं स्यात्पूर्वद्वारार्चनेन तु ।
इति उत्तरकामाकाख्ये महातन्त्रे पश्चिमद्वारार्चन विधिः प्रथम
पटलः
करस्थं पायसं त्यक्त्वा कूर्परे लेडि दुर्मतिः ।
क्रन्यासः
ॐ हां शिवासनाय नमः ॐ हां शिवमूर्तये नमः
ॐ ह्ॐ ईशानमूर्धाय नमः
ॐ हें तत्पुरुषवक्त्राय नमः
ॐ हुम् अघोरहृदयाय नमः
ॐ हिं वामदेव गुह्याय नमः
ॐ हं सद्योजात मूर्तये नमः
ॐ हां हौं विद्यादेहाय नमः
ॐ हौं नेत्रेभ्यो नमः
ॐ हां हृदयाय नमः
ॐ हीं शिरेसे नमः
ॐ हूं शिखायै नमः
ॐ हैं कवचाय नमः
ॐ हः अस्त्राय नमः
ॐ हां कवचाय नमः
ॐ हां शिवाय वौषट्
अङ्गन्यासः
ॐ हां शिवासनाय नमः
ॐ हां शिवमूर्तये नमः
ॐ ह्ॐ ईशानमूर्धाय नमः
ॐ हें तत्पुरुषवक्त्राय नमः
ॐ हुम् अघोरहृदयाय नमः
ॐ हिं वामदेव गुहचाय नमः
ॐ हं सद्योजातमूर्तये नमः
ॐ हां हौं विद्यादेहाय नमः
ॐ हौं नेत्रेभ्यो नमः
ॐ हां हृदयाय नमः
ॐ हीं शिरेसे स्वाहा
ॐ हूं शिखायै वषट्
ॐ हैं कवचाय हुं
ॐ हः अस्त्राय फट्
ॐ हः अस्त्राय हुम्फट्
ॐ हः अस्त्राय फट्
ॐ हां शिवाय वौषट्
पाद्यं पादाम्बुजद्वन्द्वे वक्त्रे च आचमनीयकम् ।
अर्घ्यं शिरसि देवस्य पुष्प दूर्वाक्षतानि च ॥
सुप्रभेदागमेः
उशीरं चन्दनोपेतं दूर्वा सिद्धार्थ संयुतम् ।
चतुर्द्रव्य समायुक्तं पाद्यमेत दुदाहृतम् ॥
एलालवङ्ग कर्पूर जम्बू जाती फलं मुरम् ।
षट् द्रव्य रस संयुक्तं शिवस्य आचमनीयकम् ॥
आपः क्षीर कुशाग्राणि तण्डुलाः सुमनास्तिलाः ।
अर्घ्योष्टाङ्ग इति प्रोक्तो यवैः सिद्धार्थकैस्सह ॥
बभमयरलसञ्ज्ञैः अक्षरैः कॢप्तपत्रे ।
सुखकरमुपविष्टं पङ्कजे पद्मयोनिम् ॥
अभयवरदहस्तं गण्डिकां चाक्षमाला ।
करयुगलमभयं चिन्तयेद्विश्वयोनिम् ॥
वशषसदलयुक्ते सौम्यमाधारपद्मे
तरुणमरुणगानं वारणास्यं गणेशम् ।
अभयवरदहस्तं चारुपाशाङ्कुशोद्यत्
करयुगलमनन्यं चिन्तयेद्विघ्नराजम् ॥
डाद्यैः फलान्तगतैः प्रकल्पितदलैः पद्मे निविष्टं हरिम् ।
मार्तण्डद्युतिमादिपूरुषमजं नारायणं शार्ङ्गिणम्
हस्ताम्भोजगदारशङ्खममलं पीताम्बरं कौस्तुभम् ।
श्रीवत्साङ्कितमब्धिजासहचरं ध्यायेज्जगन्मोहनम् ॥
काद्यैष्ठान्तगतैः प्रकल्पितदले पङ्केरुह पार्वती
कान्तं कान्तिशशाङ्ककोटिसदृशं प्रख्यं कपर्दोज्वलम्
शान्तं टङ्कमृगाभयेष्टवरदं युक्तं करैः कङ्कणैः
ध्यायेदीश्वरमीप्सितार्थफलदं हृत्पुण्डरीके स्थितम्
मूर्त्यङ्गेषु निविष्टमङ्गरहितं शान्तं तुषारप्रभं
व्याप्तशेषचराचरारैर्गुणगणैः भावेन संवेष्टितम्
मूर्तामूर्तमनेकमूर्तममलं ज्योतिः प्रदीपोपमं
साक्षात् षोडशपत्रयुक्तकमले जीवं परं चिन्तयेत्
हक्षाभ्यां परिवृत्तपत्रकमले दिव्ये जगत्कारणं
विश्वोत्तीर्णमनेकदेहममलं स्वच्छन्दमात्मेच्छया ।
तत्तद्योगतया स्वदेशिकतनुं भावेन दीपाङ्कुरं
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥
महामुद्रा तावत् कराभ्यां सम्मुखाभ्यां
पाद पङ्कजात् आमस्तक स्पर्शन रूपा
अन्योन्य ग्रथिताङ्गुष्टा प्रसारित कराङ्गुली ।
महामुद्रेय मुदिता परमीकरणे बुधैः ।
महामुद्रेय माख्याता न्यूनाधिकं समापनी ।
प्रयोजयेदिमां मुद्रां देवताह्वान कर्मणि