+१

॥ श्रीः ॥
श्री उमामहेश्वराभ्यां नमः ॥

वन्दे महागणपतिं मदनारिसूनुं
वामोरुसुस्थवनिताभुजवेष्टिताङ्गम् ।
वल्लीशपूर्वजमभीष्टदमाश्रितानां
वाणीपतिप्रमुखदेवगणार्चिताङ्घ्रिम् ॥

॥ कामिकागम - पूर्वभागानुक्रमणिका ॥

तन्त्रावतारो मन्त्राणामुद्धारः स्नानमर्चनम् ।
अर्चनाङ्गं च नैवेद्यविधिः कुण्डस्य लक्षणम् ॥ १।१ ॥
अग्निकार्यं कालविधिर्निमित्तस्य परीक्षणम् ।
भूपरीक्षा प्रवेशार्थबलिर्ग्रामादिलक्षणम् ॥ १।२ ॥
शङ्कोस्तु स्थापनं चैव मानोपकरणक्रमम् ।
पदविन्यासभेदश्च सूत्रमर्मादिलक्षणम् ॥ १।३ ॥
वास्तुदेवबलिः पश्चाद् ग्रामादीनां च लक्षणम् ।
विस्तारायाम आयादिलक्ष्यं नक्षत्रचक्रकम् ॥ १।४ ॥
दण्डकादिविधिर्वीथिद्वारादीनां प्रमाणकम् ।
ग्रामादिदेवतास्थानं द्विजसङ्ख्याविधानकम् ॥ १।५ ॥
विन्यासस्य विशेषश्च ब्रह्मदेवपदादि च ।
अङ्गोपजीविनां स्थानं गर्भन्यासस्य लक्षणम् ॥ १।६ ॥
बालस्थानविधानं च ग्रामादिन्यासभेदतः ।
वास्तुशान्तिश्च शालाया विधानं च ततः परम् ॥ १।७ ॥
नन्द्यावर्तं द्विशाला च सर्वतोभद्रसञ्ज्ञकम् ।
वर्धमानं खस्तिकं च रूचकारव्यमतः परम् ॥ १।८ ॥
चतुः शाला पञ्चशाला हस्तिशाला च मालिका ।
लाङ्गलाख्यं मौलिकं च मालिकापद्मकं परम् ॥ १।९ ॥
नागरादिविभेदं च भूमिलम्बविधिस्तथा ।
आद्येष्टकोपपीठं च पादानां मानलक्षणम् ॥ १।१० ॥
प्रस्तरस्य विधिश्चैव प्रासादानां च भूषणम् ।
कण्ठस्य शिखरस्यापि स्थूपिकायाश्च लक्षणम् ॥ १।११ ॥
नालादिस्थापनं पश्चादेकभूम्यादिलक्षणम् ।
मूर्धेष्टकाविधानं च लिङ्गलक्ष्माङ्कुरार्पणम् ॥ १।१२ ॥
शिवलिङ्गप्रतिष्ठा च प्रतिमानां च लक्षणम् ।
शूलसंस्थापनं पश्चाद् देवस्थापनसञ्ज्ञकम् ॥ १।१३ ॥
प्रतिमानां प्रतिष्ठा च विमानस्थापनं परम् ।
लक्षणं मण्टपानां च प्राकाराणां च लक्षणम् ॥ १।१४ ॥
स्थापनं परिवाराणां परिवारार्चनं तथा ।
वृषभस्थापनं चान्ते गोपुरस्थापनं परम् ॥ १।१५ ॥

चतुःसप्ततिः सङ्ख्याताः पटलाः पूर्वकामिके ॥

॥ कामिकागमोत्तरभागानुक्रमणिका ॥

(पृ० २)

पश्चिमद्वारपूजा च दक्षिणद्वारपूजनम् ।
अर्चनं सकलानां च महास्नपनलक्षणम् ॥ २।१ ॥
नित्योत्सवविधिः पश्चान्महोत्सवविधिः परम् ।
नीराजनक्रिया पूर्वा फल्गुनीपूजनं परम् ॥ २।२ ॥
घृताभिषेकं डोलाया रोहणं क्षौद्रपूजनम् ।
दीपावलिविधानं च घृतकम्बलपूजनम् ॥ २।३ ॥
शिवरात्रिरथो गन्धपूजा दमनकार्चनम् ।
वसन्तेज्या शीतकुम्भं फलपूजा पवित्रकम् ॥ २।४ ॥
नवनैवेद्यपूजा च दीक्षा समयसञ्ज्ञिता ।
स्थालीपाकविधिःस्वप्नाध्यायो निर्वाणसंस्कृतिः ॥ २।५ ॥
आचार्यस्याभिषेकश्च गोत्रप्रवरनिर्णयः ।
शताभिषेकश्चान्त्येष्टिः पितृयज्ञविधिस्ततः ॥ २।६ ॥
शैवश्राद्धं ततःसर्वप्रायश्चित्तं ततः परम् ।
नित्यनैमित्तिकप्रायश्चित्तमुत्सवनिष्कृतिः ॥ २।७ ॥
अद्भुतानां च शान्तिः स्यादनुकर्मविधानकम् ।
सम्प्रोक्षणं च पीठस्य स्थापनं च ततः परम् ॥ २।८ ॥
बाणस्य काम्यलिङ्गस्य प्रतिष्ठा चार्षपौरुषयोः ।
प्रासादलक्षणं लिङ्गवशात्प्रासादलक्षणम् ॥ २।९ ॥
व्यक्तलिङ्गप्रतिष्ठा च सार्वदेशिकलिङ्गिनः ।
अङ्गलिङ्गप्रतिष्ठा च सदेशस्थापनं ततः ॥ २।१० ॥
देव्या विघ्नेश्वरस्यापि स्थापनं नृत्तमूर्तिनः ।
सोमास्कन्दस्य चन्द्रार्धमौलेस्त्रिपुरवैरिणः ॥ २।११ ॥
लिङ्गोद्भवप्रतिष्ठा च दक्षिणामूर्तिनस्तथा ।
भिक्षाटनस्य कङ्कालमूर्तेः पाशुपतस्य च ॥ २।१२ ॥
त्रिशूलशरभेशानचण्डेशस्थापनादि च ।
शिवभक्तायुधानां च सिंहासनविधिस्तथा ॥ २।१३ ॥
रथस्य करणानां च लक्षणं सौख्यकर्म च ।
व्याधिनाशो राजरक्षा दुर्गापूजाविधिस्तथा ॥ २।१४ ॥
शान्तिनीराजनं पुष्याभिषेकग्रहयज्ञकम् ।
बन्धः प्रतिसरस्यापि तुलाभारविधानकम् ॥ २।१५ ॥
हिरण्यगर्भदानं च तिलपर्वतदानकम् ।
सुवर्णभूमिदानं च कल्पवृक्षप्रदानकम् ॥ २।१६ ॥
गणेशदानं सौवर्णधेनुलक्ष्मीप्रदानकम् ।
तिलधेनुसहस्रं च गवां दानसहस्रकम् (हेमाश्वदानकम्?) ॥ २।१७ ॥
कन्यादानं हिरण्योक्षदानं च गजदानकम् ।
लोकपालाष्टकं चैव सर्वदानोत्तमं तथा ॥ २।१८ ॥

इत्युक्ताः षण्णवत्यश्च पटलाः कामिकोत्तरे ।

॥ श्रीः ॥

॥ कामिकागमः ॥

पूर्वभागः