(पृ० २०७)
स्थापनं गोपुराणां च वक्ष्ये लक्षणपूर्वकम् ।
मूलप्रासादविस्तारे सप्ताष्टनवभागिके ॥ ७७।१ ॥
दशैकादशभागे तु तत्तदेकोनभागतः ।
द्वारशोभादिमानं स्याद्गोपुरान्तं विशालतः ॥ ७७।२ ॥
क्षुद्रेऽल्पे च तदुद्दिष्टं मध्यमानं विधीयते ।
धाम्नि तारे चतुष्पञ्चषड्भागेन विभाजिते ॥ ७७।३ ॥
सप्ताष्टधा कृते तेभ्यो विभागो गोपुरान्तकः ।
द्वारशोभादिविस्तारः पञ्चधा परिकीर्तितः ॥ ७७।४ ॥
त्रिभागैकमथार्धं च त्रिभागे तु द्विभागकम् ।
चतुर्भागे त्रिभागं च पञ्चांशे चतुरंशकम् ॥ ७७।५ ॥
ज्येष्ठधाम्नां विशालं स्याद्गोपुरान्तं क्रमेण तु ।
द्विहस्तादिद्विरष्टान्तं व्योमारत्निविवृद्धितः ॥ ७७।६ ॥
प्रत्येकं त्रित्रिमानं स्याद्गोपुरान्तं विशालतः ।
एकविंशत्करान्तं तु त्रिहस्ताद्द्विकवर्धनात् ॥ ७७।७ ॥
पूर्ववत्तिथिसङ्ख्याता मानशोभादिविस्तरे ।
आरभ्य नन्दहस्तं तु द्विद्विहस्तविवर्धनात् ॥ ७७।८ ॥
सप्तत्रिंशत्करान्तं तु गोपुरान्तविशालता ।
त्रिपञ्चदशसप्तात्तु एकहस्तविवर्धनात् ॥ ७७।९ ॥
पञ्चमानं द्विरष्टाभ्यां पञ्चस्वेकस्य सम्मतम् ।
अन्यथा हस्तमानेन विस्तारः प्रविधीयते ॥ ७७।१० ॥
पञ्चादिविश्वहस्तान्तं चैकैककरवृद्धितः ।
प्रथमावरणे द्वारशोभाविस्तार इष्यते ॥ ७७।११ ॥
तिथिहस्तात्त्रयोविंशत्यन्ताः स्युर्द्वारशालके ।
पञ्चविंशतिहस्तात्तु त्रयस्त्रिंशत्करान्तकः ॥ ७७।१२ ॥
द्वारप्रासादविस्तारः पञ्चमः परिकीर्तितः ।
पञ्चविंशत्समारभ्य त्रिचत्वारिंशदन्ततः ॥ ७७।१३ ॥
द्वारहर्म्यविशालः स्यान्नवपञ्चकरादितः ।
त्रिपञ्चाशत्करान्तं तु विशालो गोपुरस्य तु ॥ ७७।१४ ॥
एकद्वित्रिचतुष्पञ्चहस्तैर्न्यूनं तु वाधिकम् ।
नगरग्रामवेशादौ मानं गोपुरविस्तरे ॥ ७७।१५ ॥
सार्धद्विपादत्रिगुणत्र्यंशैकद्व्यंशमायते ।
कल्पयेद्द्वारशोभादौ सप्तांशदशभागिकम् ॥ ७७।१६ ॥
चतुरंशषडंशं तु सप्तांशे चतुरंशकम् ।
नन्दांशे भूतभागं च द्विगुणम् च प्रकल्पयेत् ॥ ७७।१७ ॥
द्वारायतनतुङ्गार्थं खलूरीगोपुरादिकम् ।
मानमप्यथ सङ्ग्राह्यं निर्गमं चापि तत्समम् ॥ ७७।१८ ॥
गोपुरस्य विशालं तु कृत्वा विंशतिभागिकम् ।
एकाद्यष्टदशांशान्तं गोपुराणां गुरूत्तमाः ॥ ७७।१९ ॥
निर्गमं सालबाह्याद्वा तदन्तर्वा समाचरेत् ।
सार्धहस्तात्तु पादोनद्विहस्ताद्द्विकरात्क्रमात् ॥ ७७।२० ॥
षण्णन्दनवमात्रैस्तु वर्धयेद्देशिकोत्तमः ।
पञ्चसप्तनवान्तस्तु द्वारतारः पृथग्भवेत् ॥ ७७।२१ ॥
तिथिसङ्ख्या च हीने स्यान्मध्ये श्रेष्ठं तु सम्मतम् ।
पञ्चाशे द्वारविस्तारे सप्तांशे मुनिभाजिते ॥ ७७।२२ ॥
दशांशो द्विगुणः पादादधिकः पञ्चधोच्छ्रयः ।
मूलधाम्नि मसूरादितुङ्गाद्वेदांशकादिकः ॥ ७७।२३ ॥
रविभागावसानं तु कृत्वैकांशं विहाय च ।
कृत्वा मसूरपादं च तच्छेषेणैव पीठकम् ॥ ७७।२४ ॥
योजयेद्गोपुरद्वारं तुङ्गवृद्ध्यार्धमेव च ।
अथ प्रागुक्तभागे तु वर्द्धितं सममेव वा ॥ ७७।२५ ॥
धामाङ्गोक्ताखिलं मानं गोपुराङ्गेषु वा मतः ।
छेदयेत्तदधिष्ठानं सोपपीठे तु केवलम् ॥ ७७।२६ ॥
(पृ० २०८)
उत्तरान्तसमुत्सेधं तदर्धं विस्तृतान्वितम् ।
गोपुरद्वारतुङ्गं वा कारयेद्वास्तुशास्त्रवित् ॥ ७७।२७ ॥
एकद्वित्रितलं कुर्याच्छोभायामेकवृद्धितः ।
तलादिकमथो कुर्यात् पञ्चषट्सप्तभूमिकम् ॥ ७७।२८ ॥
गोपुरं तु विधेयं स्यान्मध्यमेऽप्येवमूह्यताम् ।
द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यके ॥ ७७।२९ ॥
गोपुरेणैव पञ्चान्तं मण्डलादिषु संस्थिताः ।
मसूः स्तम्भमानं तु प्रागेव प्रदिपादितम् ॥ ७७।३० ॥
तदूर्ध्वप्रस्तारात्स्थूपिपर्यन्ते मानमुच्यते ।
षोढा विभज्य तत्तुङ्गं प्रस्तरैः साङ्घ्रिभागकैः ॥ ७७।३१ ॥
तद्वत्कण्ठशिरोध्यर्धभागेन स्थूपिकांशकः ।
एवमेकतलं प्रोक्तं द्वितलं च विधीयते ॥ ७७।३२ ॥
तदुच्चं नवधा कृत्वा साङ्घ्र्येकप्रस्तरोदयः ।
एकांशं गलमित्युक्तं सार्धद्व्यंशं शिरो भवेत् ॥ ७७।३३ ॥
शेषः शिरोद्धृतः प्रोक्तः द्वितलं त्वेतदीरितम् ।
द्वादशांशं त्रिभूम्युच्चैः कपोतं साङ्घ्रिभागभाक् ॥ ७७।३४ ॥
सार्धद्व्यंशं च पादोच्चं प्रस्तरो भाग एव हि ।
द्विभागः पाददैर्घ्यं स्यादष्टांशेनांशमानतः ॥ ७७।३५ ॥
तदुच्चं चांशो ग्रीवोच्चं सार्धद्व्यंशः शिरो भवेत् ।
शेषेण स्थूपिकोत्सेधस्त्रितलं चैवमीरितम् ॥ ७७।३६ ॥
उत्तरादिशिखान्तं यन्मानमष्टादशांशकम् ।
त्रिभागसहितं भागमन्तोच्चं प्रविधीयते ॥ ७७।३७ ॥
सार्धद्व्यंशं तु पादोच्चं साङ्घ्र्येकप्रस्तरोदयः ।
भागेन गलमानं स्यात्त्रिभागैः शिखरोदयः ॥ ७७।३८ ॥
शेषेण स्थूपिका प्रोक्ता पञ्चभौममतः परम् ।
उत्तरादिशिखान्तं चाप्येकोनत्रिंशदंशकम् ॥ ७७।३९ ॥
भागार्धं प्रस्तरं कुर्यात्पादोच्चं चतुरंशकम् ।
पादोनद्व्यंशकं मञ्चं सार्धद्व्यंशं तु पादपः ॥ ७७।४० ॥
त्रिपादांशैककं मञ्चं त्रिभागात्पादपायतिः ।
सपादांशकपोतोच्चमूर्ध्वभागाद्द्विभागतः ॥ ७७।४१ ॥
प्रस्तरोच्चं द्विभागेन कन्धरोच्चसमो भवेत् ।
सार्धद्व्यंशः शिरस्तुङ्गः शेषेण स्याच्छिरोदयः ॥ ७७।४२ ॥
एवं तु षट्तलं प्रोक्तं सप्तभौममथोच्यते ।
उत्तरादिशिखान्तं यन्मञ्चं षट्त्रिंशदंशकम् ॥ ७७।४३ ॥
साङ्घ्रिद्व्यंशं कपोतं स्यात्सार्धवेदांशतोऽधिकम् ।
द्विभागः प्रस्तरोत्सेधः पादोच्चं वेदभागतः ॥ ७७।४४ ॥
सत्रिपादांशकं मञ्चं सार्धद्व्यंशस्तु पादपः ।
मञ्चं पादोनभागाभ्यां त्रिपादः पादवैधृतिः ॥ ७७।४५ ॥
सार्धांशं प्रस्तरोच्चं स्यात् द्व्यंशस्त्वन्ततलायतिः ।
सपादभागं मञ्चोच्चं सार्धभागद्विभागिकम् ॥ ७७।४६ ॥
कपोतोच्चं तु भागेन कन्धरं तत्समं भवेत् ।
सद्विपादद्विभागेन शिरः शिष्टाः शिखा मताः ॥ ७७।४७ ॥
सप्तभौममिदं श्रेष्ठं तदूर्ध्वे पूर्वमानभाक् ।
स्तम्भप्रस्तरभागाभ्यां कल्पिताभ्यामधस्तले ॥ ७७।४८ ॥
रविभौमान्तमिष्टं स्याद्गोपुराणामिहागमे ।
उक्तानि गोपुराङ्गानि विभजेच्चतुरंशकम् ॥ ७७।४९ ॥
आरभ्याष्टदशांशं तेष्वेकांशं तु नवांशकम् ।
द्व्यङ्गुलं त्र्यङ्गुलं वापि चतुःपञ्चषडङ्गुलम् ॥ ७७।५० ॥
वर्धयेद्ध्रासयेद्वापि युक्त्या प्रागुक्तमानतः ।
पञ्चभागे विशाले तु त्रिभागे गर्भविस्तरः ॥ ७७।५१ ॥
शेषेण भित्तिरत्रोक्ता व्योमभूमौ मुनीश्वराः ।
व्यासः सप्तांशवेदांशो गर्भकूटस्तु भागभाक् ॥ ७७।५२ ॥
कोष्ठस्यात्मगविस्तारदैर्घ्यं पञ्चांशमिष्यते ।
कूटकोष्ठान्तराले तु पञ्जरादिविभूषितम् ॥ ७७।५३ ॥
एवं द्वितलमाख्यातं त्रितलं चाधुनोच्यते ।
तारे नवांशे गर्भः स्यात्त्रिभागः तद्वहिः क्रमात् ॥ ७७।५४ ॥
(पृ० २०९)
गृहपिण्ड्यलिन्दहारांश्च क्रमेण परिकल्पयेत् ।
कूटकोष्ठादिसर्वाङ्गं पूर्ववत्परिकल्पयेत् ॥ ७७।५५ ॥
विशाले पङ्क्तिभागे तु गर्भगेहे त्रिभागतः ।
सार्धांशो भित्तिविष्कम्भ एकभागमलिन्दकम् ॥ ७७।५६ ॥
खण्डहर्म्यं तु भागेन कूटकोष्ठादि पूर्ववत् ।
मुखे पृष्ठे महाशाला पञ्चांशो वा षडंशकः ॥ ७७।५७ ॥
चतुर्भौममिदं ख्यातं सर्वावयवसुन्दरम् ।
विस्तारे रुद्रभागे तु नालीगेहं त्रिभागतः ॥ ७७।५८ ॥
द्विभागो भित्तिविष्कम्भो व्योमांशः स्यादलिन्दकः ।
एकांशं खण्डहर्म्यं स्यादन्यत्सर्वं समानकम् ॥ ७७।५९ ॥
पञ्चभौमं समाख्यातं षड्भौममधुनोच्यते ।
विस्तारे रविभागे तु नालीगेहं युगांशकम् ॥ ७७।६० ॥
द्विभागो भित्तिविस्तारो द्वारांशेन प्रकीर्तितः ।
भागेन खण्डहर्म्यं स्यादन्यत्सर्वं समानकम् ॥ ७७।६१ ॥
षष्ठभौममिदं प्रोक्तं सप्तमं त्वधुनोच्यते ।
त्रयोदशांशे विस्तारे गर्भः स्यादंशभागभाक् ॥ ७७।६२ ॥
सार्धद्व्यंशं तु भित्तिः स्यादेकेनालिन्दमिष्यते ।
खण्डहर्म्यमिहैकांशं कूटशालादि पूर्ववत् ॥ ७७।६३ ॥
पृष्ठे मुखे महाशाला षड्भागेन प्रकीर्तिता ।
पञ्चांशे हस्तिपृष्ठे च पक्षशालादिभिर्युतः ॥ ७७।६४ ॥
नानामसूरकस्तम्भवेदिकाजालतोरणम् ।
सप्तभौममिदं प्रोक्तं गोपुरं सार्वदेशिकम् ॥ ७७।६५ ॥
मूलभूद्वारविस्तारपञ्चांशेन विशालभाक् ।
चतुरंशोनकं वा स्यादूर्ध्वद्वारं तु विस्तरात् ॥ ७७।६६ ॥
उपर्युपरि द्वारं स्यान्मध्याधमोत्तमान्वितम् ।
सोपानगर्भगेहे तु तलं प्रति समाचरेत् ॥ ७७।६७ ॥
उपपीठे चतुष्कण्ठे सोपानं प्रविधीयते ।
मण्टपाभं भवेद्द्वारं शोभायै पण्डितेश्वराः ॥ ७७।६८ ॥
दण्डशालासमाकारा द्वारशाला प्रकीर्तिता ।
प्रासादाकृतिवद्द्वारप्रासादं परिपठ्यते ॥ ७७।६९ ॥
मालिकाकृतिवद्द्वारहर्म्यं स्यान्मुनिसत्तमाः ।
शालाकारसमं कुर्याद्द्वारगोपुरमन्तिमम् ॥ ७७।७० ॥
सर्वत्र गोपुरं कुर्याद्यथाशक्ति विशेषतः ।
पञ्चभागादिभागं वा चैकत्रिंशत्समावधि ॥ ७७।७१ ॥
भागान्कृत्वा विशालांस्तु गोपुरस्य द्विभागतः ।
वृद्ध्या भागोऽर्धमानेन तिथ्यंशान्तं प्रकल्पयेत् ॥ ७७।७२ ॥
गर्भगेहविशालं स्याच्छोभादीनां मुनीश्वराः ।
तेन विस्तारभागेन व्योमांशन्द्विगुणावधि ॥ ७७।७३ ॥
सायतं वा समं वापि गर्भगेहं प्रकल्पयेत् ।
तस्मादूर्ध्वं तु दैर्घ्यं स्यादधिकं द्वारतारकम् ॥ ७७।७४ ॥
यथा भवेत्तथा कुर्याद्गोपुरं मुनिपुङ्गवाः ।
गर्भगेहात्समन्तात्तु गर्भार्धात्पादवृद्धितः ॥ ७७।७५ ॥
त्रिभागावधि कुड्यं च व्योमादिबहुसङ्ख्यकः ।
तथालिन्दं च हारं च कल्पयेत्कल्पवित्तमः ॥ ७७।७६ ॥
अंशमानेन वा द्वारतारं वा गोपुरं भवेत् ।
त्रिभागं तु समारभ्य अर्धांशात्तिथिसङ्ख्यया ॥ ७७।७७ ॥
यावद्द्वारविशालार्थमंशानत्र प्रयोजयेत् ।
प्रासादालङ्कृतिं चैव शालायालङ्कृतिं तु वा ॥ ७७।७८ ॥
सर्वं वा गोपुरे कुर्यात्सञ्चितादिविभेदतः ।
नानामसूरकोपेतं नानास्तम्भसमन्वितम् ॥ ७७।७९ ॥
नानाप्रस्तरसंयुक्तं वेदाश्रगलसंयुतम् ।
वलभ्यादिशिरोयुक्तं बहुस्थूपिसमन्वितम् ॥ ७७।८० ॥
कूटशालैकतुण्डैश्च पञ्जरैः पक्षशालया ।
आयामांशाधिकैर्वापि समांशैः परिकल्पयेत् ॥ ७७।८१ ॥
नानाद्वारसमायुक्तं वृषस्थलसमन्वितम् ।
धाम्नां समस्तभूषाभिरन्याभिः समलङ्कृतम् ॥ ७७।८२ ॥
(पृ० २१०)
मूलधामोनभौमं वा समभौमं तु वाधिकम् ।
खलूरिकाविधानोक्तरीत्या चैतत्समाचरेत् ॥ ७७।८३ ॥
दिग्विदिक्षु तदिष्टं स्यात्पूर्ववत्प्रथमेष्टकाम् ।
मूर्धेष्टकाविधानं च धामोक्तविधिनाचरेत् ॥ ७७।८४ ॥
किञ्चिन्मध्ये द्वयोर्वापि चैकं स्यात्स्थूपिकासु वा ।
कृत्वोर्ध्वशैलं प्रत्येकं चतुःसङ्ख्यं निवेश्य च ॥ ७७।८५ ॥
तदूर्ध्वं स्थूपिकां स्थाप्य स्थूपिकोक्तविधानतः ।
किञ्चैतदधिदेवांश्च ज्ञानाख्यक्रियया सह ॥ ७७।८६ ॥
त्रिषु चेत्स्युस्त्रितत्त्वानि चतसृषु कलाः स्मृताः ।
विवृत्तिं च विना ब्रह्मरहिताः कारणं तु वा ॥ ७७।८७ ॥
सद्योजातादिका वापि निवृत्त्याद्यास्तु पञ्चसु ।
अण्डान्तर्वर्तिनः षट्सु कलान्यासाः प्रकीर्तिताः ॥ ७७।८८ ॥
कलाद्याः सप्त विज्ञेया विद्येशा वसुकल्पने ।
वामाद्या नवकल्पे स्युर्लोकपाला दशाख्यके ॥ ७७।८९ ॥
रुद्रसङ्ख्ये तु रुद्राः स्युरादित्याश्चार्कसङ्ख्यके ।
विश्वेरुद्राश्विनी प्रोक्ताश्चतुष्पञ्चदशान्विते ॥ ७७।९० ॥
तिथयो भुवनान्युक्ता दक्षादारभ्य पश्चिमे ।
तत्तत्स्वनाममन्त्रेण न्यसेत्तद्धाम्नि निर्मिते ॥ ७७।९१ ॥
गोपुरस्थापनं कुर्यात्तदग्रे मण्टपे कृते ।
पूर्वोक्तविधिनायुक्तकुण्डे वा स्थण्डिलेऽपि वा ॥ ७७।९२ ॥
नवकुण्डैकसङ्ख्ये वा पुण्याहप्रोक्षणान्विते ।
स्थण्डिले वेदिकोर्ध्वे च अष्टौ च स्थापयेद्घटान् ॥ ७७।९३ ॥
मध्यमे च महादिक्षु शान्त्यादीन् तत्र पूजयेत् ।
शतसङ्ख्यैस्तदर्धैर्वा तन्मन्त्रैः समिदादिभिः ॥ ७७।९४ ॥
पूर्णा दत्वेष्टिसन्तुष्टो गुरुः पञ्चघटोदके ।
शान्त्यादीनादितो न्यस्त्वा तन्मनूनभिषेचयेत् ॥ ७७।९५ ॥
क्रियैषा प्रचुरा कार्या प्रधाना देशिकोत्तमाः ।
अन्यत्राप्यनुकल्पं स्यात्प्रचुरा वा प्रकीर्तिता ॥ ७७।९६ ॥
गोपुरं प्रतियोज्याः स्युर्नन्द्याद्याश्च द्विपार्श्वयोः ।
निष्कले पश्चिमद्वारं सकले दक्षिणं हितम् ॥ ७७।९७ ॥
॥ इति कामिकाख्ये महातन्त्रे गोपुरस्थापनविधिः पञ्चसप्ततितमः
पटलः ॥
पूर्वकामिकं समाप्तम् ॥