(पृ० २०४)
वृषस्थापनं वक्ष्ये तल्लक्षणपुरः सरम् ।
अन्तर्द्वारस्य पूर्वस्मिन् कल्पयेत्प्रथमं वृषम् ॥ ७६।१ ॥
द्वितीयं मण्डपाग्रे तु पीठात्पूर्वे तृतीयकम् ।
पीठे पीठे विशेषेण पश्चिमे वृषभस्थितिः ॥ ७६।२ ॥
पीठार्धं वा समं तत्र द्विगुणं त्रिगुणं तु वा ।
त्यक्त्वा चतुर्गुणं वापि तस्याग्रे स्थापयेद्वृषम् ॥ ७६।३ ॥
पूजाभागसमं श्रेष्ठं तदर्धं मध्यमं भवेत् ।
तदर्धमधमं ज्ञेयं चतुस्त्रिद्विगुणं तु वा ॥ ७६।४ ॥
तत्तदन्तरमानं वा लोहजे वृषभं मतम् ।
गर्भं कृत्वा नवांशं तु नवधा शैलजे मतम् ॥ ७६।५ ॥
द्वारोच्चमष्टधा कृत्वा चैकैकांशविवर्धनात् ।
चतुर्गुणान्तमानं तु मृण्मये वृषभे मतम् ॥ ७६।६ ॥
लोहजं संयजेद्द्वारे परिवारे तु शैलजम् ।
पीठाग्रे मृण्मयं प्रोक्तं शैलं वा तत्र सम्मतम् ॥ ७६।७ ॥
लोहजं तु प्रकर्तव्यं स्थितं वा शयितं तु वा ।
शैलं सुधामयं कार्यं शयितं तु विशेषतः ॥ ७६।८ ॥
स्थितं वपि प्रकर्तव्यम् ऋषभं देशिकोत्तमाः ।
अथ सामान्यलिङ्गस्य पुरस्ताद्वृषभो मतः ॥ ७६।९ ॥
स्वयम्भुबाणलौहाख्यं रौद्रलोके प्रपूजितम् ।
लोकपालाङ्कितं सिद्धं शतसाहस्रलिङ्गकम् ॥ ७६।१० ॥
मुखलिङ्गं च बेरं च विशिष्टं लिङ्गमीरितम् ।
तदन्यत्रवृषः प्रोक्तस्तत्रापि कथितस्तु वा ॥ ७६।११ ॥
ध्वजयष्टिस्तथा प्रोक्ता तल्लक्षणमिहोच्यते ।
लिङ्गत्र्यंशायसंयुक्तो लम्बसूत्रार्थ दृग्युतः ॥ ७६।१२ ॥
पीठोच्चपृष्ठसंयुक्तो लम्बकूर्चाग्रमस्तकः ।
भक्त्वा चतुरशीत्यन्तं तेन मानं विधीयते ॥ ७६।१३ ॥
शृङ्गप्रदेशविस्तारः षोडशाङ्गुल उच्यते ।
तावदेव च दैर्घ्यं स्याद्वक्त्रतारस्तु षट्कलः ॥ ७६।१४ ॥
सृक्किणीप्रोथयोर्मध्ये दशाङ्गुलविनिर्मिता ।
नेत्रं नेत्रसमं दैर्घ्यात्तदर्धं विस्तरेण च ॥ ७६।१५ ॥
तत्त्रिभागेन तारं स्याज्ज्योतिस्तत्पञ्चमांशतः ।
नेत्रार्धान्तं भ्रुवोः स्थौल्यं तद्दैर्घ्यं स्याद्द्विमात्रकम् ॥ ७६।१६ ॥
नासा स्याद्द्व्यङ्गुला प्रोक्तस्तन्मध्ये वेदमात्रकः ।
नासाप्रदेशविस्तारो वक्त्रं स्याद्द्वादशाङ्गुलम् ॥ ७६।१७ ॥
तदूर्ध्वे दशमात्रं स्यात्तदूर्ध्वेऽष्टादशाङ्गुलम् ।
नेत्रान्तरं चतुर्मात्रं त्रिकोणे तु कपोलके ॥ ७६।१८ ॥
चतुर्नेत्रावुभौ पार्श्वौ वक्त्रसन्ध्योस्तु कर्णकौ ।
कर्णमूलाच्च वक्त्रान्तं पञ्चनेत्रं प्रकीर्तितम् ॥ ७६।१९ ॥
कर्णमूलात्तु कर्णान्तं प्रोक्तं मन्वङ्गुलं भवेत् ।
कर्णमूलौ द्विमात्रौ तु तद्वदुच्चसमन्वितौ ॥ ७६।२० ॥
तत्रैव वर्तुले कार्ये दशाङ्गुलसुनाहके ।
कर्णौ पञ्चाङ्गुलायामौ कलावृत्तसमुद्भवौ ॥ ७६।२१ ॥
पञ्चाङ्गुलपृथूमध्ये परितः परतः कृशौ ।
षडङ्गुलावृतौ मूले ऋजुरेखाविभूषितौ ॥ ७६।२२ ॥
शृङ्गमूलं चतुर्मात्रं षडङ्गुलसमुच्छ्रयम् ।
अर्धाङ्गुलाग्रविस्तारो मनाग्वक्रसमन्वितः ॥ ७६।२३ ॥
शृङ्गमूलस्थितं पिण्डं हित्वा भागान्तरे मतम् ।
पिण्डमङ्गुलमानं स्यादुच्छ्रितं शृङ्गमूलयोः ॥ ७६।२४ ॥
शृङ्गाग्रादवटं यावत्षण्णेत्रं चान्तरं मतम् ।
अष्टनेत्रायता ग्रीवा ककुद्दैर्घ्यं त्रिणेत्रतः ॥ ७६।२५ ॥
त्रिणेत्रमुच्छ्रयादुक्तं मानं वक्त्रं च मूर्धनि ।
ककुदोऽधोष्टनेत्रस्तु जङ्घा पञ्चदृगायता ॥ ७६।२६ ॥
(पृ० २०५)
सन्धिरेकाङ्गुला प्रोक्ता चतुर्नेत्रोपजङ्घिका ।
सार्धनेत्रं ततो गुल्फे द्विनेत्रौ खुरकौ पुनः ॥ ७६।२७ ॥
गुल्फाधः खुरिके कांस्ये नेत्रपादे समे यथा ।
जङ्घामूलावृतिः सप्तदशमात्रा प्रकीर्तिता ॥ ७६।२८ ॥
जङ्घाग्रे तिथिमात्रं स्यान्मनुमात्राङ्गुलक्रमात् ।
मूलाग्रे चोपजङ्घाया वेष्टनं पकीर्तितम् ॥ ७६।२९ ॥
खुरयोरष्टमात्रं स्याद्धित्वा वेष्टनमात्रकम् ।
ककुदः पृष्ठमानं तु षट्त्रिंशन्मानमीरितम् ॥ ७६।३० ॥
तत्र त्रिकटमात्रं तु षडङ्गुलमिति स्मृतम् ।
त्रिकटानतिमानं तु द्वादशाङ्गुलमीरितम् ॥ ७६।३१ ॥
तस्माच्च परतः पुच्छसन्ततिस्तु प्रकीर्तिता ।
पुच्छमूलं चतुर्मात्रमग्रेऽङ्गुलविनिर्मितम् ॥ ७६।३२ ॥
त्रिंशदङ्गुलमानेन पुच्छदैर्घ्यं प्रकीर्तितम् ।
षडङ्गुलप्रमाणेन तस्मात्स्यात्केशसन्ततिः ॥ ७६।३३ ॥
पृष्ठे त्रिकटिदेशे च तारो विंशतिमात्रकः ।
विस्तारदेहमध्ये तु षोडशाङ्गुल उच्यते ॥ ७६।३४ ॥
ककुत्सन्धिप्रदेशे तु विस्तारं मनुमात्रकम् ।
ग्रीवाधस्ताच्चतुर्मात्रं सास्नालम्बः प्रकीर्तितम् ॥ ७६।३५ ॥
सा चाष्टादशमात्रा स्याज्जङ्घान्तायतिसंयुता ।
अशीत्यङ्गुलविस्तारा कुक्षिर्नाभेः प्रकीर्तिता ॥ ७६।३६ ॥
मध्यपाच्चाग्रदेशे तु षष्ट्यङ्गुलमिति स्मृतम् ।
नाभिर्नेत्रद्वयेन स्याद्द्विनेत्रौ वृषणौ मतौ ॥ ७६।३७ ॥
विस्तारायाममानेन परजङ्घा दशाङ्गुला ।
सन्धिर्द्विमात्रः षण्णेत्रा चोपजङ्घा प्रकीर्तिता ॥ ७६।३८ ॥
द्विनेत्रौ गुल्फकौ ज्ञेयौ खुरौ पञ्चाङ्गुलौ मतौ ।
खुरके द्व्यङ्गुले कार्ये द्वाविशत्यङ्गुलेन तु ॥ ७६।३९ ॥
जङ्घा मध्यमनाहः स्यात्सन्धिदेशे पुनस्त्रयः ।
वेष्टनं चोपजङ्घायाः षोडशाङ्गुलमुच्यते ॥ ७६।४० ॥
द्व्यङ्गुलं पृष्ठदैर्घ्यं स्यादधस्त्वष्टाङ्गुलो मतः ।
एषा वृषक्रिया शक्तिपर्यन्तव्याप्तिसंयुता ॥ ७६।४१ ॥
अथवान्यप्रकारेण वृषलक्षणमुच्यते ।
भक्त्वा पञ्चांशमुत्सेधं त्रिमात्रं खुरमुच्यते ॥ ७६।४२ ॥
मूलव्यासश्चतुर्मात्रशृङ्गाग्रं स्यात् द्विमात्रकम् ।
नवमात्रं ललाटः स्यान्मुखव्यासः स्वराङ्गुलः ॥ ७६।४३ ॥
उत्सेधश्च समस्तेन नेत्रायामं द्विमात्रकम् ।
सार्धाङ्गुलं तदुच्चं स्यान्नेत्रमध्या मुखाकृतिः ॥ ७६।४४ ॥
चतुर्नेत्राङ्गुलं पृष्ठं ग्रीवायास्तु षडङ्गुलः ।
पक्षपञ्चांशमुत्सेधं तेन मानं प्रकीर्तितम् ॥ ७६।४५ ॥
पञ्चषाङ्गुलमायामे प्रोक्तं तु मुनिसत्तमाः ।
आरभ्य मूर्ध्नः कण्ठाधो दशाङ्गुल इति स्मृतः ॥ ७६।४६ ॥
ग्रीवोच्चं वमुमात्रं स्यात्तयोर्द्दैर्घ्यं षडङ्गुलम् ।
अनुत्सेधं तु षण्मात्रं जानुमात्रं द्विमात्रकम् ॥ ७६।४७ ॥
जङ्घा द्वित्र्यङ्गुला दैर्घ्यात्त्रिमात्रं खुरमुच्यते ।
शृङ्गान्तरं द्विमात्रं स्यात्तयोर्दैर्घ्यं षडङ्गुलम् ॥ ७६।४८ ॥
मूलव्यासं चतुर्मात्रं ललाटोच्चं मुनीश्वराः ।
नेत्रकर्णान्तरं तद्वत्कर्णायामः शराङ्गुलः ॥ ७६।४९ ॥
त्रिमात्रमुत्तरोष्ठोच्चमधरोष्ठं द्विमात्रकम् ।
मूलायामोच्चविस्तारो द्विमात्रैकत्रिमात्रकैः ॥ ७६।५० ॥
पञ्चनेत्राङ्गुलं कर्णव्यासो मूलोक्तमात्रकम् ।
पञ्चाशद्ग्रीवविस्तारो मूलविस्तार एव च ॥ ७६।५१ ॥
षड्वस्वङ्गुल इत्युक्तः क्रमेण द्विजपुङ्गवाः ।
ककुत्षडङ्गुलव्यास उत्सेधो द्वित्रिमात्रकः ॥ ७६।५२ ॥
कर्णस्याग्रविशालं तु द्विमात्रं युक्तितो न्यसेत् ।
ककुदस्तु शरीरोच्चं प्रोक्तमाष्टदशाङ्गुलम् ॥ ७६।५३ ॥
द्विसप्तमात्रं पृष्ठे स्याद्विस्तारो द्वादशाङ्गुलः ।
अन्योन्यमूलमध्याग्रव्यासो वेदाङ्गुलेन च ॥ ७६।५४ ॥
(पृ० २०६)
अष्टाङ्गुलेन दिङ्मात्रैः क्रमेणैव भवेद्द्विजाः ।
पञ्चाङ्गुलं तथायामो जानुदेशं द्विमात्रकम् ॥ ७६।५५ ॥
जङ्घा पञ्चाङ्गुलोत्सेधा त्र्यङ्गुला स्याद्विशालतः ।
खुरोत्सेधं द्विमात्रं स्यात्तथास्यात्पुच्छमूलकम् ॥ ७६।५६ ॥
सार्धाङ्गुलं तु पुच्छाग्रं जङ्घान्तं तस्य लम्बनम् ।
मुष्कायामविशाले तु द्विमात्रे च यथाक्रमम् ॥ ७६।५७ ॥
जङ्घायामं त्रिमात्रं स्यादुदराङ्गुलमायतम् ।
शेषायामं त्रिमात्रं स्याद्गुदं मायाङ्गुलं भवेत् ॥ ७६।५८ ॥
ऊरुमूलाग्रविस्तारो वेदाङ्गुलमिति स्मृतम् ।
जङ्घाग्रं तु त्रिमात्रं स्याच्छेषं युक्तिबलान्नयेत् ॥ ७६।५९ ॥
घनं वाप्यघनं वापि लोहजं परिकल्पयेत् ।
वेणुवस्त्रादिवेत्रेण सदनं परिकल्पयेत् ॥ ७६।६० ॥
सकलस्य तु यन्मानं तन्मानं वा वृषोदये ।
उक्तेऽध्यर्धयवाद्यष्ट उच्छायस्य यवाङ्गुलम् ॥ ७६।६१ ॥
हीनं वाप्यधिकं कार्यं कर्तुरिच्छावशेन तु ।
नानाभूषणसंयुक्तं घण्टाजालसमन्वितम् ॥ ७६।६२ ॥
प्रतिमोक्ताय जात्यंशं तद्वदायादिशोभनम् ।
एवं लक्षणमाख्यातं स्थापनं श्रूयतां द्विजाः ॥ ७६।६३ ॥
कालोऽपि पूर्ववज्ज्ञेयस्तद्वदेवाङ्कुरार्पणम् ।
मण्टपं परिवारोक्तमार्गेणैव समाचरेत् ॥ ७६।६४ ॥
पञ्चैककुण्डे होमं स्यात्तथैव स्थण्डिलेऽपि वा ।
रत्नन्यासं प्रकर्तव्यं शैलजे लोहजेऽप्यथ ॥ ७६।६५ ॥
रत्नार्थं हेमपद्मं वा मृण्मयादौ विवर्जयेत् ।
ततोऽक्षिमोचनं शुद्धिर्ग्रामादीनां प्रदक्षिणम् ॥ ७६।६६ ॥
तोयाधिवासनं प्राप्य ततो मण्टपसंस्कृतिः ।
द्विजसम्भोजनं पुण्यतोयसेचनमेव वा ॥ ७६।६७ ॥
वास्तुहोमं तथा शय्या स्नपनं कौतुकं तथा ।
वृषस्य दक्षिणे शृङ्गे कौतुकं बन्धयेद्गुरुः ॥ ७६।६८ ॥
शयनारोहणं कुम्भस्थापनं पूर्ववन्नयेत् ।
सप्तवर्गाच्चतुर्थान्तं सप्तस्वरविभूषितम् ॥ ७६।६९ ॥
बिन्दुनादसमायुक्तमादौ प्रणवसंयुतम् ।
वृषभाया नमश्चान्ते तस्मिन् ब्रह्माङ्गकल्पना ॥ ७६।७० ॥
मध्यकुम्भे वृषःप्रोक्तः परितोऽष्टसु लोकपाः ।
अथ विद्येश्वरान्वापि वृषस्य परितो न्यसेत् ॥ ७६।७१ ॥
उक्षा च गोपतिश्चापि शङ्कुकर्णस्तथैव च ।
तीक्ष्णशृङ्गस्तथा नन्दी विषाणी पशुभृत्तथा ॥ ७६।७२ ॥
महोदरोऽष्टमश्चैतान् स्वस्वबीजेन विन्यसेत् ।
सम्पूज्य गन्धपुष्पाद्यैर्मुद्गान्नं तु निवेदयेत् ॥ ७६।७३ ॥
चरुकल्पे तथैव स्यात्तत्त्वमूर्त्यादिकं न्यसेत् ।
अग्निकार्यं ततः कुर्यात्प्रागुक्तविधिना सह ॥ ७६।७४ ॥
समिदाज्यचरून् लाजान् मुद्गमाषान् क्रमाद्धुनेत् ।
प्रभाते देशिकः शुद्धः पूजाहोमं च कारयेत् ॥ ७६।७५ ॥
आचार्यपूजा स्यादन्ते होतृभ्यश्चापि दक्षिणाः ।
सुमूहूर्ते सुलग्ने तु मन्त्रन्यासं समाचरेत् ॥ ७६।७६ ॥
चलं चेद्वृषभस्थानं वेद्यन्ते च स्वदेशके ।
मूलमन्त्रेण संस्थाप्य गन्धपुष्पादिभिर्यजेत् ॥ ७६।७७ ॥
ततः कुम्भान् समाहृत्य वृषाग्रे स्थण्डिले न्यसेत् ।
कुम्भाद्बीजं समादाय वृषस्य हृदये न्यसेत् ॥ ७६।७८ ॥
अन्येभ्यो बीजमादाय तत्पीठे परितो न्यसेत् ।
ततः कुम्भोदकेनैव स्नापयेद्वृषमादरात् ॥ ७६।७९ ॥
ध्वजस्यारोपणेऽप्येवं किन्तु तद्दण्डमूलके ।
कुम्भाभिषेकः कर्तव्यस्तत्र प्रोक्षणमेव च ॥ ७६।८० ॥
॥ इति कामिकाख्ये महातन्त्रे वृषभस्थापनविधिः चतुःसप्ततितमः
पटलः ॥