परिवारार्चनं वक्ष्ये श्रूयतां मुनिपुङ्गवाः ।
आदौ प्रणवयुक्रवस्ववर्णो विष्णुसमन्वितः ॥ ७५।१ ॥
बिन्दुनादसमायुक्तश्चतुर्थ्यन्तः सनामकः ।
नमस्कारादिसंयुक्तः परिवारार्चने मनुः ॥ ७५।२ ॥
पूर्वाह्णे वाथ मध्याह्ने रात्रावभ्यर्चयेत्तु तान् ।
अथवा एककालं वा अन्यत्सर्वं समर्चयेत् ॥ ७५।३ ॥
बलिं त्रिद्व्येककालं वा दापयेत्तु क्रमेण तु ।
तेषां पूजा नमोन्तेन स्वाहान्तमनुना बलिः ॥ ७५।४ ॥
गन्धपुष्पान्नधूपैश्च दीपवाद्यादिसंयुतम् ।
द्वारादिबलिपीठान्तं बलिं दद्याद्विशेषतः ॥ ७५।५ ॥
पूर्वोत्तरमुखो भूत्वा धृतवस्त्रोत्तरीयकः ।
कुक्कुटाण्डप्रमाणेन तदर्धेन तदर्धतः ॥ ७५।६ ॥
नन्दिने प्रथमं दद्यान्महाकालाय पूर्वतः ।
चतुर्द्वारसमोपेते भृङ्गिणे च विनायके ॥ ७५।७ ॥
दक्षिणे पश्चिमे देशे वृषस्कन्दबलिं न्यसेत् ।
देव्यै चण्डाय सोमे तु पश्चादुक्षबलिं ददेत् ॥ ७५।८ ॥
ततोऽष्टपरिवारादिबलिं दद्यात्क्रमेण तु ।
दत्वोदकं पुनर्गन्धं पुष्पं धूपं सदीपकम् ॥ ७५।९ ॥
दद्याद्धविष्यं पानीयसहितं बलिकर्मणि ।
देवदक्षिणदेशस्थः तस्माद्गच्छेत् प्रदक्षिणम् ॥ ७५।१० ॥
बलिपीठं ततो गत्वा बलिं दद्यात्तु तत्र वै ।
कर्णिकायामविघ्नस्य आमोदे पूर्वदिग्दले ॥ ७५।११ ॥
प्रमोदे प्रमुखे चैव दुर्मुखे विघ्नकर्तरि ।
दक्षिणाप्योत्तरेशेषु बलिं दद्यात्स्वनामभिः ॥ ७५।१२ ॥
सति पैशाचिके पीठे तत्रापि बलिमाचरेत् ।
एकत्र वा बलिं दद्यात्पैशाचे वाथ भौतिके ॥ ७५।१३ ॥
कर्णिकामध्यमे नीलरुद्राय बलिरीरितः ।
पूर्वदक्षाप्यसौम्येषु ऋक्षादिभ्यो बलिं क्षिपेत् ॥ ७५।१४ ॥
रुद्रेभ्यः पूर्वतो दद्यान्मातृभ्यो दक्षिणे तथा ।
गणेभ्यः पश्चिमे भागे यक्षेभ्यः सोमदिग्दले
गृहेभ्यश्च तथैशान्यामसुरेभ्योऽग्निगोचरे ॥ ७५।१५ ॥
पालाश्यां पलभक्षेभ्यो नागेभ्यो वायुदिग्दले ।
दलबाह्ये बलिं दद्याद्दिक्पालानां स्वनामतः ॥ ७५।१६ ॥
॥ इति कामिकाख्ये महातन्त्रे परिवारार्चनविधिः त्रिसप्ततितमः पटलः ॥