७२ परिवारस्थापनविधिः

(पृ० २०२)

स्थापनं परिवाराणां सङ्क्षेपाच्छृणुत द्विजाः ।
त्रिहस्तं तु समारभ्य करस्यैकस्य वर्धनात् ॥ ७४।१ ॥
मण्डपस्यास्य विस्तारो नवहस्तान्तमेव हि ।
तन्मध्ये वेदिकोपेतं षोडशस्तम्भसंयुतम् ॥ ७४।२ ॥
रविस्तम्भयुतं वापि चतुःस्तम्भयुतं तु वा ।
कुण्डं वा स्थण्डिलं वापि शरवेदैकसङ्ख्यया ॥ ७४।३ ॥
वृत्तं वा चतुरश्रं वा कुण्डं कुर्याद्दिगश्रकम् ।
मातॄणां नवकुण्डं वा चैककुण्डमथापि वा ॥ ७४।४ ॥
योग्यानां रत्नविन्यासं नेत्रोन्मीलनमेव च ।
पञ्चगव्यादिभिस्तेषां शुचिं तोयाधिवासनम् ॥ ७४।५ ॥
ततो मण्डपसंस्कारं ततो बिम्बादिशोधनम् ।
कौतुकं शयनारोहं कुम्भविन्यासमेव च ॥ ७४।६ ॥
कृत्वा तु पूर्ववत्सर्वं स्वनामाद्यकक्षरेण तु ।
तत्तद्वर्णादिसंस्थाने यजेत्सम्यक्छिवद्विजाः ॥ ७४।७ ॥
तेषां मूर्त्यादिविन्यासं कृत्वा होमं समाचरेत् ।
पलाशोदुम्बराश्वत्थवटैः पूर्वादिदिक्षु च ॥ ७४।८ ॥
समिदाज्यचरून् लाजान् तिलांश्च जुहुयात्क्रमात् ।
ततः प्रभाते बिम्बाद्यं कुम्भानग्नींश्च पूजयेत् ॥ ७४।९ ॥
दक्षिणां दापयेत्पश्चादाचार्यादेर्विन्धानतः ।
निष्कादिदशनिष्कान्ता गुरावन्येषु पूर्ववत् ॥ ७४।१० ॥
मूहूर्तनाडिकापूर्वं मन्त्रन्यासं समारभेत् ।
कुम्भाद्बीजं समादाय विन्यसेत्स्वस्वदेशके ॥ ७४।११ ॥
प्रासादतारपादं वा तदर्धं वा त्रिपादकम् ।
समं सपादं सार्धं वा सजगत् पादुका बहिः ॥ ७४।१२ ॥
न्यस्त्वा संस्थापयेत्पीठानथवादौ विधाय तान् ।
प्रतिष्ठां कारयेन्मुक्त्वारत्नन्यासं प्रदक्षिणम् ॥ ७४।१३ ॥
जलाधिवासनं कुर्यादन्यत्कर्म समारभेत् ।
महापीठप्रतिष्ठाया विधानमधुनोच्यते ॥ ७४।१४ ॥
पूर्वपश्चिमसोमेषु मण्डपं पूर्ववन्नयेत् ।
वेदैकसङ्ख्यया कुण्डं वेदाश्रं स्थण्डिलं तु वा ॥ ७४।१५ ॥
पञ्चगव्यादिभिः पीठशुद्धिं कृत्वा च कौतुकम् ।
स्थण्डिले वेदिकायां तु कुण्डन्यासं तु कारयेत् ॥ ७४।१६ ॥
मध्यपूर्वयमाप्येन्दुशङ्करस्थघटेष्वथ ।
अविघ्नं च तथामोदं प्रमोदं प्रमुखं तथा ॥ ७४।१७ ॥
दुर्मुखं विघ्नकर्तारं न्यस्त्वा वर्णांस्तु भावयेत् ।
अविघ्नं विद्रुमप्रख्यमामोदं श्यामवर्णकम् ॥ ७४।१८ ॥
प्रमोदं कृष्णवर्णं च प्रमुखं स्फटिकप्रभम् ।
दुर्मुखं कुङ्कुमाभं च ध्यात्वैवं पूजयेद्गुरुः ॥ ७४।१९ ॥
पीठे तत्त्वेशमूर्त्यादिन्यासं होमं समाचरेत् ।
जङ्घागलकपद्मान्तमात्मतत्त्वादिकं न्यसेत् ॥ ७४।२० ॥
समिदाज्यचरून् लाजान् सर्षपं च यवं तिलम् ।
क्रमेण जुहुयाद्धीमान् पलाशोदुम्बरौ वटम् ॥ ७४।२१ ॥
अश्वत्थं प्राग्दिगारभ्य पूर्ववद्धोममाचरेत् ।
सम्पूज्य पीठं कुम्भांश्च प्रभाते पावकं तथा ॥ ७४।२२ ॥
दक्षिणां पूर्ववद्दत्वा मन्त्रन्यासं समारभेत् ।
अविघ्नं कर्णिकामध्ये विन्यसेत्कुम्भमध्यगम् ॥ ७४।२३ ॥
आमोदादीन्न्यसेद्धीमान् चतुर्दिक्ष्वीशकोणके ।
तत्तत्कुम्भोदकेनैव स्नापयेत्पीठमादरात् ॥ ७४।२४ ॥
एवं स्याद्भूतपीठस्य पैशाचेऽप्येवमाचरेत् ।
किन्तु मध्यमकुम्भस्य मध्यमे नीललोहितम् ॥ ७४।२५ ॥
नक्षत्रं पूर्वदिभागे राशिं चैव तु दक्षिणे ।
पश्चिमे क्षेत्रपालं च सोमे विश्वगणान्न्यसेत् ॥ ७४।२६ ॥

(पृ० २०३)

रुद्रांश्च पूर्वदिक्कुम्भे याम्ये मातृगणान्न्यसेत् ।
गणान् पश्चिमदिग्भागे यक्षानुत्तरदिग्गते ॥ ७४।२७ ॥
ग्रहानीशानदिग्भागे वह्नावसुरसञ्ज्ञकान् ।
राक्षसान् पितृदेशे तु वायौ नागगणान्न्यसेत् ॥ ७४।२८ ॥
तद्बाह्ये कलशान् स्थाप्य लोकपालाधिदैवतान् ।
सम्पूज्य गन्धपुष्पाद्यैर्नैवेद्यान्तं हि देशिकः ॥ ७४।२९ ॥
एतदेव विशेषं स्यादन्यत्सर्वं समानकम् ।
कर्णिकायां न्यसेत्पञ्चगणानष्टौ दलेषु च ॥ ७४।३० ॥
दलबाह्ये न्यसेद्धीमान् लोकेशान् स्वस्वदिग्गतान् ।
मन्त्रन्यासविशेषोऽयं पिशाचबलिपीठके ॥ ७४।३१ ॥
अनुक्तं यन्नयेत्सर्वं प्रतिमास्थापनोक्तवत् ।

॥ इति कामिकाख्ये महातन्त्रे परिवारस्थापनविधिः द्विसप्ततितमः
पटलः ॥