अथ वक्ष्ये विशेषेण प्राकाराणां तु लक्षणम् ।
प्रासादस्य विशालार्धं दण्डमित्यभिधीयते ॥ ७३।१ ॥
एकद्वित्रिचतुष्पञ्चदण्डैर्मध्यात्समन्ततः ।
एकप्राकारकॢप्तिस्तु पञ्चधा परिकीर्तिता ॥ ७३।२ ॥
मूलालयविशाले तु त्रिधा भक्ते पदं भवेत् ।
तेन भागेन तद्बाह्ये द्विगुणं त्रिगुणं तु वा ॥ ७३।३ ॥
त्रिचतुर्गुणकं चापि चतुष्पञ्चगुणं तु वा ।
पञ्चषड्गुणमिष्टं च प्राकारद्वयकल्पनम् ॥ ७३।४ ॥
(पृ० १९७)
एवं चतुर्विधं प्रोक्तं त्रिप्राकारस्तु कथ्यते ।
प्रासादस्य चतुर्भागे यस्तु दण्डमिहोच्यते ॥ ७३।५ ॥
तस्य द्वित्रिचतुर्भागैस्त्रिचतुष्पञ्चभिः तथा ।
चतुष्पञ्चषडंशैस्तु पञ्चषट्सप्तभिस्तथा ॥ ७३।६ ॥
षट्सप्ताष्टभिरुद्दिष्टं त्रिप्राकारप्रमाणकम् ।
पञ्चधा कथितं वेदप्राकारं शृणुत द्विजाः ॥ ७३।७ ॥
त्रिप्राकारस्य बाह्ये तु एकैकाङ्गुलवर्धनात् ।
नवभागावसानं तु समन्तात्परिवर्धयेत् ॥ ७३।८ ॥
एवं पञ्चविधं प्रोक्तं चतुष्प्राकारमानकम् ।
एवं चतुष्प्राकारेऽपि प्रासादस्य विशालकम् ॥ ७३।९ ॥
समस्तं चार्धमानं च त्रिचतुर्भागमानकम् ।
दण्डार्धं योजयेद्धीमान् हस्तमानेन चोच्यते ॥ ७३।१० ॥
द्विहस्तादेकवृद्ध्या तु नवहस्तावसानकम् ।
एषु प्राकारमानं तु क्षुद्राणामष्टधा मतम् ॥ ७३।११ ॥
द्विहस्तं च त्रिहस्तं च त्रिचतुर्हस्तमेव च ।
चतुष्पञ्चकरं चैव पञ्चषट्करमेव च ॥ ७३।१२ ॥
षट्सप्ताष्टकरं चैव अष्टनन्दं तथैव च ।
नन्ददीर्घाष्टकं चैव द्विप्राकारप्रमाणकम् ॥ ७३।१३ ॥
अस्मादेककरर्द्ध्या तु रुद्रहस्तान्तमेव च ।
त्रिप्रकारप्रमाणं तु वेदप्राकारकं तथा ॥ ७३।१४ ॥
एकैकहस्तवृद्ध्या तु रविहस्तावसानकम् ।
चतुष्प्राकारमानं तु क्षुद्रादीनां प्रकीर्तितम् ॥ ७३।१५ ॥
जातिच्छन्दविकल्पाभासादीनां तु समीरितम् ।
नियमो विद्यते नैव प्रासादे सार्वदेशिके ॥ ७३।१६ ॥
जातौ जातिकराणां तु अन्यस्यापि च सद्मनः ।
अर्धत्र्यंशचतुर्भागैर्द्विभागैश्च क्रमेण तु ॥ ७३।१७ ॥
सममार्गानुमार्गाभ्यां नागरादौ नियुज्यते ।
प्रासादस्य विशालेन सपादेन समेन च ॥ ७३।१८ ॥
पादोनेन विशालेन महामार्गार्हकं तु वा ।
कल्पयेद्धस्तमानेऽपि प्रागुक्तविधिना सह ॥ ७३।१९ ॥
अयं विभागो नास्त्येव प्रासादे सार्वदेशिके ।
पञ्चषण्मुनिसालेऽपि चाष्टनन्दवृतौ तथा ॥ ७३।२० ॥
हस्तैः पादैः समन्तात्तु वर्धयेत्पूर्वमानतः ।
समं तु चतुरश्रं तत्पूर्वं कृत्वा ततः परम् ॥ ७३।२१ ॥
कल्पयेत्तु मुखायामं देवस्याभिमुखं यथा ।
पृष्ठे वा कल्पयेत्पार्श्वे पुरातनविमानके ॥ ७३।२२ ॥
नूतने वा प्रकर्तव्यं स्थानसङ्कटसंयुते ।
एकहस्तं समारभ्य हस्तैकैकविवृद्धितः ॥ ७३।२३ ॥
एकादशकरान्तं तु प्रागुक्तात्तु विशालकात् ।
वर्धयेद्ध्रासयेद्वापि यावदिष्टप्रपूरणम् ॥ ७३।२४ ॥
पृष्ठे वापि मुखे वापि पार्श्वयोरुभयोस्तु वा ।
एकपार्श्वेऽथवा कुर्यान्मुखायामे प्रकल्पयेत् ॥ ७३।२५ ॥
पादाधिकमथाध्यर्धं पादोनद्विगुणं तु वा ।
द्विगुणं द्विगुणार्धं वा त्रिगुणं च चतुर्गुणम् ॥ ७३।२६ ॥
द्विहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात् ।
यावत्पञ्चगुणं तारं मुखायामं प्रकल्पयेत् ॥ ७३।२७ ॥
भित्त्यन्तरालमानं वा भित्तिबाह्यमथापि वा ।
भित्तिमध्यं तु वा कुर्यात्प्राकाराणां प्रमाणकम् ॥ ७३।२८ ॥
आयादिषट्कसिद्ध्यर्थं वृद्धिं हानिं च हस्तकैः ।
कल्पयेत्पादमार्गेण प्राकारस्य प्रकल्पने ॥ ७३।२९ ॥
सच्छिन्नहस्तप्रासादे छिन्नहस्तस्य लोपनम् ।
पूरणं वा प्रकर्तव्यं हस्तमानवशेऽपि च ॥ ७३।३० ॥
देवानाभेतदुक्तं तु नराणां स्यात्खलूरिका ।
तदुक्तमात्रं सङ्ग्राह्य मात्रोक्तं तत्र योजयेत् ॥ ७३।३१ ॥
आयं वसुगुणं कृत्वा सप्तविंशतिभिर्हरेत् ।
शेषम् ऋक्षं तु विस्तारात्सकलाद्वाथ कल्पयेत् ॥ ७३।३२ ॥
(पृ० १९८)
उक्तादेकमथवाष्टगुणितं भानुभिर्भजेत् ।
आयं त्रिगुणितं दिग्भिर्मनुभिर्विभजेत्ततः ॥ ७३।३३ ॥
व्ययस्तु कथितः शास्त्रैर्द्विगुणं वसुभिर्हरेत् ।
ध्वजादियोनयः प्रोक्ताः पर्यन्तत्रिंशतो भवेत् ॥ ७३।३४ ॥
तिथिश्च कथिता वारो मुनिभिर्भाजितो भवेत् ।
मूलप्रासादहस्तैर्वा चान्यैर्वाथ निरीक्षयेत् ॥ ७३।३५ ॥
एकहस्तं समारभ्य चैकाङ्गुलविवर्धनात् ।
द्विहस्तान्तः समुद्दिष्टः सालानां चैव विस्तरः ॥ ७३।३६ ॥
तद्विस्तारप्रमाणेन यावत्त्रिंशद्गुणं भवेत् ।
त्रिगुणं तु समारभ्य क्षुद्रे महति मन्दिरे ॥ ७३।३७ ॥
प्राकारोत्सेध उद्दिष्टो मूलादूनं तदग्रतः ।
षडंशं तु समारभ्य यावत्षोडशभागिकम् ॥ ७३।३८ ॥
तावत्कृत्वा समूलं तु चैकांशेन तदग्रकम् ।
अधिष्ठानादिवर्गाढ्यं खण्डहर्म्यादिमण्डितम् ॥ ७३।३९ ॥
ऋजुभक्तियुतं वापि प्राकारं तु प्रकल्पयेत् ।
छत्रादिशिखरोपेतमूर्ध्वस्थवृषभान्वितम् ॥ ७३।४० ॥
तस्य दण्डप्रमाणेन चार्धेनाथ त्रिपादतः ।
सपादेनाथ सार्धेन पादोनद्विगुणेन वा ॥ ७३।४१ ॥
द्विगुणेन च मूले तु भित्तेश्चैव विनिर्गमः ।
उपानं कथितं तस्योपरिष्टात्तेन मानतः ॥ ७३।४२ ॥
अर्धादिपादवृद्ध्यादिद्विगुणान्तं हि पादकम् ।
तस्योपरिष्टात्कम्पं तु तच्चतुर्थांशमानतः ॥ ७३।४३ ॥
तस्यार्धेन त्रिपादेन सपादेन च सार्धतः ।
पादोनद्विगुणं वापि द्विगुणान्तं प्रकल्पयेत् ॥ ७३।४४ ॥
कम्पमेकं द्वयं वापि ऊर्ध्वोपानं तु वा भवेत् ।
अन्तः सालाङ्कणं निम्नं बाह्यसालाङ्कणं भवेत् ॥ ७३।४५
सालानामन्तरे व्यासं बाह्ये सालाङ्कणं भवेत् ।
अङ्गुलद्वयमारभ्य चैकैकाङ्गुलवर्धनात् ॥ ७३।४६ ॥
नवमात्रान्तकं यावत्प्रतिसालं तु निम्नकम् ।
षट्पञ्चवेदरुद्राक्षद्व्यङ्गुलैः परिकल्पयेत् ॥ ७३।४७ ॥
जातिच्छन्दविकल्पाभासानां क्षुद्रस्य चैव हि ।
सार्वदेशिकहर्म्ये तु ना चायं विधिरिष्यते ॥ ७३।४८ ॥
स्वायम्भुवादिलिङ्गानामन्तर्निम्नसमं तु वा ।
बाह्यनिम्नं तु वा कार्यं सालानामङ्कणं बुधैः ॥ ७३।४९ ॥
सालानामन्तरेऽपि स्यान्मालिकामण्डपाकृतिः ।
सभाकृतिर्वा कर्तव्या चैकद्वित्रिकभित्तिभिः ॥ ७३।५० ॥
चतुर्भिन्त्तियुता वापि एकानेकतलान्विता ।
उपानात्तु समारभ्य मूलप्रासादतुङ्गकम् ॥ ७३।५१ ॥
उत्तरान्तं विभज्याथ सप्तधा तु मसूरकम् ।
द्विपादं पाददैर्घ्यं तु शेषेण परिकल्पयेत् ॥ ७३।५२ ॥
मूलधाम्नस्तु पादं तु भजेद्वा नवसङ्ख्यया ।
अधिष्ठानद्विभागेन पादं शेषेण कल्पयेत् ॥ ७३।५३ ॥
द्विहस्तं तु समारभ्य चैकैकाङ्गुलवर्धनात् ।
सप्तहस्तान्त उत्सेधः स्तम्भानां परिकीर्तितः ॥ ७३।५४ ॥
भित्तिमानं तथैव स्यात्क्षुद्रे क्षुद्रविमानके ।
पक्षाङ्गुलं समारभ्य चार्धाङ्गुलविवर्धनात् ॥ ७३।५५ ॥
चतुर्विंशतिमात्रान्तं स्तम्भविस्तार इष्यते ।
पादोच्चार्धमधिष्ठानसप्तमाष्टनवांशकम् ॥ ७३।५६ ॥
हीनं वाप्यधिकं वापि पादोच्चेऽप्येवमेव हि ।
पादोच्चे त्रिचतुर्भागेनाथवापि मसूरकम् ॥ ७३।५७ ॥
पादबन्धं सजातीयमधिष्ठानं नियोजयेत् ।
प्रस्तरादिप्रमाणं च प्रासादोक्तवदाचरेत् ॥ ७३।५८ ॥
आग्नेये नैरृते कोणे वायव्ये चाथ वैशके ।
चतुष्कोणेऽपि वा कुर्याद्गर्भं च प्रथमेष्टकाम् ॥ ७३।५९ ॥
अभ्यन्तरमुखाश्चैव प्राकाराः परिकीर्तिताः ।
स्वस्य दक्षिणकेऽंशे तु द्वारकोणान्तरेऽपि वा ॥ ७३।६० ॥
(पृ० १९९)
गृहक्षते महेन्द्रे वा भल्लाटे पुष्पदन्तके ।
स्थानं गर्भस्य निर्दिष्टं तत्रस्था प्रथमेष्टका ॥ ७३।६१ ॥
मूर्धेष्टकोर्ध्वकीलाढ्यं मूलात्तत्परिकल्पयेत् ।
भित्त्यूर्ध्वस्थचतुष्कोणेष्वेकस्मिन्निष्टकां न्यसेत् ॥ ७३।६२ ॥
अन्तर्मण्डलमाद्यं स्यादन्तर्हारा द्वितीयका ।
तृतीया मध्यहारा स्यान्मर्यादाख्या चतुर्थका ॥ ७३।६३ ॥
महामर्यादिकाख्या च पञ्चमी परिकीर्तिता ।
परिवारामरान् सर्वांस्तत्र संस्थापयेद्गुरुः ॥ ७३।६४ ॥
परिवारविधानाय तच्च लेशान्निगद्यते ।
परिवारविमानानां मानं गर्भार्धमेव वा ॥ ७३।६५ ॥
मूलवास्तुत्रिभागैकमर्धं वा पादबाह्यकम् ।
एकहस्तं समारभ्य रुद्रहस्तान्तमेव हि ॥ ७३।६६ ॥
प्रासादस्य तु विस्तारो ह्युत्सेधः प्राग्वदेव हि ।
अङ्गलिङ्गालयाकाराः परिवारालया मताः ॥ ७३।६७ ॥
भित्त्याश्रिता विशिष्टा वा परिवारालया मताः ।
सन्त्यक्तपादरूपांशमूलदेशमुखान्विताः ॥ ७३।६८ ॥
पूर्वस्थाः पश्चिमास्याः स्युः पूर्वास्याः पश्चिमस्थिताः ।
दक्षस्थाः सौम्यवक्त्राः स्युर्दक्षास्याः सौम्यदिग्गताः ॥ ७३।६९ ॥
क्षेत्रेशो दक्षवक्त्रो वा चण्डेशश्च तथैव च ।
नागराडीशदेशे स्यादगस्त्यश्च तथैव च ॥ ७३।७० ॥
धनदोऽपि तथा प्रोक्तस्तथा चण्डेश्वरो मतः ।
वसवो ऋषयश्चार्का रुद्रा एकादशैव हि ॥ ७३।७१ ॥
अश्विनौ वास्तुदेवाश्च बहिर्वान्तर्व्यवस्थिताः ।
सर्वेषु परिवारेषु सामान्योऽयं प्रकीर्तितः ॥ ७३।७२ ॥
देवाग्रे स्थापयेदुक्षं देवस्याभिमुखं तु वा ।
मण्डपं तु चतुर्द्वारं कारयेद्वृषभस्य तु ॥ ७३।७३ ॥
आदितः परिवारोऽयं त्रिशूलेन समाहितः ।
द्वितीयः परिवारः स्यात्सचण्डेशः तृतीयकः ॥ ७३।७४ ॥
विघ्नेश्वरसमायुक्तश्चतुर्थः परिकीर्तितः ।
ततः सप्तार्चिषा युक्तः पञ्चमोऽद्य समीरितः ॥ ७३।७५ ॥
स्कन्दज्येष्ठासमायुक्तौ वीरौ द्वौ षष्ठसप्तमे ।
अष्टमः परिवारः स्यात् संयुक्तः सप्तमातृभिः ॥ ७३।७६ ॥
सकलादिपदे देवान् स्थापयेद्युक्तितो बहिः ।
परिवाराष्टकैर्हीनं विमाने परिकल्पयेत् ॥ ७३।७७ ॥
वृषोऽग्निमातरौ विघ्नस्कन्दौ ज्येष्ठा च चण्डिका ।
आदित्यश्च क्रमेण स्याद्गणविद्येश्वरास्तु वा ॥ ७३।७८ ॥
मातॄणामुत्तरे दक्षे चण्डिकां वा मुनीश्वराः ।
पद्मजं स्थापयेद्विष्णुं तद्विहीनमथापि वा ॥ ७३।७९ ॥
दुर्गां हित्वाथ विष्णुं वा कुबेरं सोममेव वा ।
चण्डेशमीशदिग्भागे क्षेत्रपालं च तत्र वै ॥ ७३।८० ॥
विघ्नेशकन्दयोर्मध्ये वारुणे वा श्रियं न्यसेत् ।
विघ्नसरस्वतीयुक्तां तृतीयां वा पृथङ्न्यसेत् ॥ ७३।८१ ॥
अथवा लोकपालाः स्युर्यमो मातृयुतो न वा ।
अष्टदिक्षु विशालाः स्युः सपीठाः केवलास्तु वा ॥ ७३।८२ ॥
विघ्नेशः सर्वदेशस्थो गौरिस्कन्दौ तथैव च ।
द्वादश स्युर्द्विरष्टौ च चतुर्विंशतिसङ्ख्यका ॥ ७३।८३ ॥
द्वात्रिंशत्परिवाराः स्युरन्तर्मध्यमहारयोः ।
द्विरष्टपरिवारोऽयं तेषु सौम्यं निगद्यते ॥ ७३।८४ ॥
उपपीठपदं कृत्वा स्थापयेद्रविदेशतः ।
आदित्यं सुप्रजं वह्निं किन्नरं मातरं तथा ॥ ७३।८५ ॥
चिबुधं विघ्नराजं च श्रियं च वरुणं तथा ।
स्कन्दं ज्येष्ठां च दुर्गां च विष्णुं चण्डेश्वरं तथा ॥ ७३।८६ ॥
क्षेत्रजं गीतजं पश्चात्स्थाप्यन्तां मुनिपुङ्गवाः ।
अस्मिन्नेव पदे चान्तर्विन्द्येशा द्वारपास्तु वा ॥ ७३।८७ ॥
द्विरस्टपरिवाराः स्युर्द्वात्रिंशदधुनोच्यते ।
स्थण्डिले तु पदे स्थाप्य र्द्वात्रिंशद्रविभागतः ॥ ७३।८८ ॥
(पृ० २००)
आदित्यं चोदकं गङ्गां वह्निं नागमगस्त्यकम् ।
यमं सुशान्तं भूतेशं विघ्नेशं भारतीमपि ॥ ७३।८९ ॥
श्रियं जलेशं स्कन्दं व दुर्गां ज्येष्ठां मनोन्मनीम् ।
ब्रह्माणं विष्णुमन्ते च काश्यपं नन्दिनं तथा ॥ ७३।९० ॥
क्षेत्रजं विमलं चान्ते गजेन्द्रं स्थापयेद्बहिः ।
अन्तर्विषद्येश्वरान् वापि ऋषीन् वा विन्यसेद्वसून् ॥ ७३।९१ ॥
अथाष्टपरिवारान् वा विन्यसेद्देशिकोत्तमः ।
एकसालादिसालेषु युक्त्या सर्वत्र योजयेत् ॥ ७३।९२ ॥
पीठस्था वाथ बिम्बस्थाः परिवारामरा मताः ।
वृषं शूलं च चण्डेशं महापीठं गणाधिपम् ॥ ७३।९३ ॥
नागराजानमित्येतान् सर्वत्र परिकल्पयेत् ।
एषां मध्यादथेष्टान्वा न्यसेत्पञ्चादिसालके ॥ ७३।९४ ॥
चतुर्दिक्षु चतुष्पीठे चाग्रपृष्ठे द्वयं तु वा ।
पृष्ठं विहाय त्रितयमेकमग्रेऽथवा भवेत् ॥ ७३।९५ ॥
कोणाद्वारे भवेत्पीठं कोणस्थं दिग्गतन्तु वा ।
प्रतिसालं तु पीठं वा पैशाचं तु बहिर्भवेत् ॥ ७३।९६ ॥
पञ्चाङ्गुलं समारभ्य चैकाङ्गुलविवर्धनात् ।
पञ्चविंशतिमात्रान्तो विस्तारादग्रपीठके ॥ ७३।९७ ॥
पारमर्धं त्रिपादं वा समं वोच्चविशालतः ।
द्वित्रिवेदेषु षट्सप्तभागान् कृत्वैकभागतः ।
एकद्वित्रिचतस्रः स्युर्मेखलायास्तथोपरि ॥ ७३।९८ ॥
सकर्णिकं तु पद्मं स्यात्केवला कर्णिकापि वा ।
मेखलाद्विगुणं पद्मं त्रिगुणं वा चतुर्गुणम् ॥ ७३।९९ ॥
पद्मोच्चं कीर्तितं वेशो मेखलासदृशो भवेत् ॥
त्रिपादं वा द्विपादं वा परिकल्पयेत् ॥ ७३।१०० ॥
कर्णिका मेखलोच्चा वा पद्मार्धेनाथ पादतः ।
त्रिपादेन विधेया वा यथाशोभबलेन वा ॥ ७३।१०१ ॥
वृत्तं वा चतुरश्रं वा क्षुद्रपीठं तदीरितम् ।
महतां पीठकानां च लक्षणं शृणुतोत्तमाः ॥ ७३।१०२ ॥
धामगर्भसमो वापि तदर्धः पाद एव वा ।
तदन्तरेऽष्टभागे तु नवधा विस्तरो भवेत् ॥ ७३।१०३ ॥
रुद्रमात्रं समारभ्य द्वित्र्यङ्गुलविवर्धनात् ।
नवहस्तप्रमाणान्तो महापीठस्य विस्तरः ॥ ७३।१०४ ॥
विस्तारसम उत्सेधः सपादः सार्ध एव वा ।
त्रिपादो ह्यर्ह्दमानो वा तत्तदन्तरजोऽपि वा ॥ ७३।१०५ ॥
पीठोच्चः षोडशांशो वा एकभागेन कीर्तितः ।
पीठतारसमो वा स्यादेकद्वित्र्यङ्गुलोन्नतः ॥ ७३।१०६ ॥
जगती चतुरंशः स्यात्त्रिपादं कुमुदो भवेत् ।
पादेन कम्पः कर्णस्तु त्रिपादेन प्रकीर्तितः ॥ ७३।१०७ ॥
भागेनोपरि कम्पः स्याद्वाजनं तु द्विभागतः ।
भागेन वाजनं चोर्ध्वे तदूर्ध्वे पद्ममिष्यते ॥ ७३।१०८ ॥
पीठाकारसमो वा स्यादेकद्वित्र्यङ्गुलोन्नतः ।
षोडशाष्टांशहीनो वा पत्रविस्तार इष्यते ॥ ७३।१०९ ॥
तदर्धो वा त्रिपादो वा स्वव्यासादुच्चमिष्यते ।
तयोरन्तरमानं तु नवधोच्चं भवेद्द्विजाः ॥ ७३।११० ॥
पद्मतारत्रिभागैका कर्णिकार्धेन वा मता ।
पादमानान्तराष्टांशे नवमानं प्रकीर्तितम् ॥ ७३।१११ ॥
कर्णिकाविस्तरः प्रोक्तः तत्त्रिपादः समोऽपि वा ।
अर्धमानान्तरोपेतः कर्णिकोच्छ्राय इष्यते ॥ ७३।११२ ॥
पादाष्टांशविहीनः स्यादग्रस्थूलस्य विस्तरः ।
अधिष्ठानोपपीठोक्तकृतिं वोपरि कल्पयेत् ॥ ७३।११३ ॥
धामाकृतिर्वा कर्तव्या पस्तरान्ता गुरुत्तमाः ।
मध्यभद्रयुतं वापि नानाचामरसंयुतम् ॥ ७३।११४ ॥
नानाभूतसमायुक्तं कोणस्थर्क्षसमन्वितम् ।
अनेकनासिकाजालं सोपपीठं तु केवलम् ॥ ७३।११५ ॥
वृत्तं वा चतुरश्रं वा त्र्यक्षं वस्वश्रमेव वा ।
प्रासादपोतमध्यात्तु पादमध्यविवर्जितम् ॥ ७३।११६ ॥
(पृ० २०१)
मूलधाम्नः समारभ्य वह्निदण्डं व्यपोह्य च ।
तत्र संस्थापयेत्पीठं तत आरभ्य वर्धयेत् ॥ ७३।११७ ॥
अर्धदण्डेन पञ्चाशद्दण्डान्तं देशिकोत्तमः ।
पीठायामान्तरा ह्येतद्वृषपृष्ठेऽथवा भवेत् ॥ ७३।११८ ॥
सालानां मध्यदेशे वा ग्राममार्गान्तरेऽपि वा ।
ग्राममध्येऽथवा कुर्याद्धामेशानेऽथवा भवेत् ॥ ७३।११९ ॥
आयाद्यं धामजात्युक्तवर्त्मनैव परीक्षयेत् ।
कुर्यादाद्येष्टकामध्ये पूर्वोक्तविधिना गुरुः ॥ ७३।१२० ॥
दक्षिणे पश्चिमे वास्य सोपानं परिकल्पयेत् ।
संश्लिष्टं वाथ विश्लिष्टं सोपानं तदपीरितम् ॥ ७३।१२१ ॥
पश्चिमद्वारसंयुक्तं वृषभं शूलमेव च ।
महापीठध्वजाद्यं च पश्चिमे परिकल्पयेत् ॥ ७३।१२२ ॥
दक्षद्वारे च कौबेरेऽप्येवमेव समाचरेत् ।
चतुर्द्वारयुते द्वारं प्रत्यक्षं वा सशूलकम् ॥ ७३।१२३ ॥
महापीठमथैकत्र स्थापयेद्वा ध्वजादिकम् ।
प्रतोली पूर्वदेशे स्यात्पश्चिमे वा चतुर्दिशि ॥ ७३।१२४ ॥
आग्नेयां तु धनस्थानं नैऋत्यामायुधालयः ।
वायव्यां शयनस्थानमैशान्यां कूपमिष्यते ॥ ७३।१२५ ॥
सदाशिवाद्याः सर्वत्र स्थापनीयाः समन्ततः ।
इन्द्रपावकयोर्मध्ये धनस्थानं तु वा भवेत् ॥ ७३।१२६ ॥
आग्नेय्यां पचनस्थानं यागशाला च तत्र च ।
अग्निकुण्डं च तत्र स्याद्यमपावकमध्यमे ॥ ७३।१२७ ॥
पुष्पमज्जनशाला स्यात्पानीयस्थामेव च ।
कामिकादिशिवज्ञानस्थानं याम्यदिशि स्थितम् ॥ ७३।१२८ ॥
यमराक्षस मध्ये तु गन्धादिस्थानमिष्यते ।
निरृतौ पुष्पसंस्थानं तद्वामे वाथ कल्पयेत् ॥ ७३।१२९ ॥
धर्मसङ्कीर्तनं वात्र वारुणे वा प्रकल्पयेत् ।
वायव्ये दक्षिणे वाथ ज्ञानकोशं प्रकल्पयेत् ॥ ७३।१३० ॥
तत्र वा शयनस्थानं सोमवाय्वन्तरेऽपि वा ।
कूपस्थानं कुबेरे वा तत्पूर्वे वैशदेशके ॥ ७३।१३१ ॥
यागमण्डपमिष्टं स्यात्तद्दक्षे वाद्यमिष्यते ।
ऐशान्यां शयनस्थानमथवा परिकल्पयेत् ॥ ७३।१३२ ॥
तद्दक्षिणे वा तत्स्थानं सोमे वा परिककल्पयेत् ।
कूपं च शयनस्थानं पुष्पमज्जनमण्डपे ॥ ७३।१३३ ॥
मद्भक्तस्थानकं विद्यास्थानं वस्त्रसुवर्णयोः ।
देवोपकरणस्थानं नोक्तं विस्तारभीरुणा ॥ ७३।१३४ ॥
तत्सर्वं यजमानेच्छावशेन परिकल्पयेत् ।
देवोपजीविनां स्थानं तथैव परिकल्पयेत् ॥ ७३।१३५
देवालयसमीपे तु देशिकस्यालयो भवेत् ।
पूजकानां गृहं तत्र परिचारकसंस्थितिः ॥ ७३।१३६ ॥
पुष्पारामादिकानां तु स्थानं सर्वत्र कल्पयेत् ।
आस्थानमण्डपं सर्वदेशेऽपि विविधं नयेत् ॥ ७३।१३७ ॥
अन्यद्ग्रामोक्तरीत्या तु स्थानं सङ्क्ल्प्यतां बुधाः ।
॥ इति कामिकाख्ये महातन्त्रे प्राकारलक्षणविधिः एकसप्ततितमः पटलः
॥