लक्षणं मण्डपानां तु वक्ष्यते विप्रसत्तमाः ।
उक्तानामपि सर्वेषां धाम्नामग्रेऽग्रमण्डपम् ॥ ७२।१ ॥
तन्मानसममानं तु श्रेष्ठमित्यभिधीयते ।
मण्डपं सममानं चेत्सान्तरालं सवेशकम् ॥ ७२।२ ॥
युग्मस्तम्भसमायुक्तं युक्त्या सर्वाङ्गशोभितम् ।
सार्धहस्तं द्विहस्तं वा प्रासादार्धमथापि वा ॥ ७२।३ ॥
अन्तरालस्य दीर्घं स्यादन्यत्सन्धिगतं तु यत् ।
तन्मध्यममिति प्रोक्तं त्रिगुणं चोत्तमं भवेत् ॥ ७२।४ ॥
एकदण्डं द्विदण्डं वा त्रिदण्डं तस्य वेशनम् ।
सावकाशान्तरालं चेत्तस्माद्द्वित्रिगुणं भवेत् ॥ ७२।५ ॥
पार्श्वसोपानसंयुक्तं मूलसोपानभित्तिकम् ।
तदर्धं भित्तियुक्तं वा तदष्टांशेन भित्तिकम् ॥ ७२।६ ॥
प्रासादमष्टघा कृत्वा ह्रासयेदष्टभागतः ।
यावद्विभागमानं तु भवेद्द्वादशमानकम् ॥ ७२।७ ॥
मूलधाम्नो भवेच्छुद्धिर्मण्डपं चेद्द्विपार्श्वयोः ।
अन्तरालप्रदेशोक्तं वेशयुक्तं प्रकीर्तितम् ॥ ७२।८ ॥
अग्रमण्डपमीदृक्स्यात्प्रासादसमतुङ्गकम् ।
स्वायम्भुवादिलिङ्गे तु न्यूनं वाप्यधिकं तु वा ॥ ७२।९ ॥
तद्वत्तस्य तलं चाथ भित्तिहीनं तु वा मतम् ।
विवृतस्तम्भसंयुक्तं न चेद्द्वारं तदग्रके ॥ ७२।१० ॥
द्वारलक्षणमार्गेण तत्पार्"वे द्वारपौ मतौ ।
विवृतस्तम्भसंयुक्तं चेन्मूलधामप्रवेशगौ ॥ ७२।११ ॥
हित्वा तु मण्डपं तत्र शुकाग्रं वा विधीयते ।
शुद्धनागरधाम्नैतद्गर्भमानार्धनिष्क्रमः ॥ ७२।१२ ॥
(पृ० १९५)
शिखरार्धसमुत्सेधः शुकनासाविभूषितः ।
अन्तरालं तदग्रे स्यात्पार्श्वदेशप्रमाणकम् ॥ ७२।१३ ॥
सनिष्क्रमान्तरालं वा मण्डपं वा विधीयते ।
पार्श्वद्वारसमोपेतं निर्द्वारं वाथ तद्भवेत् ॥ ७२।१४ ॥
तदग्रे मण्डपं कुर्यात्प्रतिमास्थापनार्थकम् ।
स्नपनार्थं तदग्रे स्यात्तदग्रे नृत्तमण्डपम् ॥ ७२।१५ ॥
एतेषामपि सर्वेषामधिष्ठानादिमानकम् ।
मूलधामसमं श्रेष्ठं स्वाष्टांशोनाधिकं तु वा ॥ ७२।१६ ॥
चतुः षोडशभागोनमधिकं वा प्रकीर्तितम् ।
मानवे मानवं ह्येतत्सामान्यं समुदाहृतम् ॥ ७२।१७ ॥
मण्डपं वा सभा वापि कूटमेषां समाकृतिः ।
एतेषामपि सर्वेषां प्रमाणमधुनोच्यते ॥ ७२।१८ ॥
त्रिकरं तु समारभ्य करपादविवृद्धितः ।
शहस्तावसानस्तु भवेन्मण्डपविस्तरः ॥ ७२।१९ ॥
प्रासादोक्तायसंयुक्तमिष्टपार्श्वगभित्तियुक् ।
नानाजालकसंयुक्तं नानाद्वारसमायुतम् ॥ ७२।२० ॥
पृथगाद्येष्टकोपेतमायादिशुभसंयुतम् ।
विस्तारमष्टवह्न्यह्नि वसुघ्नं रविणा भजेत् ॥ ७२।२१ ॥
मन्वष्टघ्नैस्तु यच्छिष्टं भवेद्धनमृणं द्विजाः ।
योनिस्तारा च पर्यन्ते त्रिंशन्मुनिहते सति ॥ ७२।२२ ॥
तिथिवारक्रमेणैव मण्डपायादयो मताः ।
न चायं विहितः त्वग्रमण्डपे चान्तरालके ॥ ७२।२३ ॥
आद्येष्टकादयोऽप्यत्र न विधेयाः पृथग्विधाः ।
अन्येषामपि सर्वेषां मूलोक्तं सर्वमाचरेत् ॥ ७२।२४ ॥
सार्धहस्तं समारभ्य त्रित्र्यङ्गुलविवर्धनात् ।
पञ्चहस्तान्तमानं तु भित्तिमानं च मण्डपे ॥ ७२।२५ ॥
तथैव स्थम्भमानं स्यात्किं तु पङ्क्तिकरान्तकम् ।
पञ्चाङ्गुलं समारभ्य व्योममात्रविवृद्धितः ॥ ७२।२६ ॥
त्रिंशदङ्गुलपर्यन्तं स्तम्भतारं प्रकीर्तितितम् ।
व्योमपङ्क्ति समारभ्य व्योमपङ्क्तिविवृद्धितः ॥ ७२।२७ ॥
पञ्चाशत्पङ्क्तिपर्यन्तं मण्डपे पङ्क्तयो मताः ।
भद्रोपभद्रसंयुक्तं मध्यस्तम्भप्रभासनम् ॥ ७२।२८ ॥
लाङ्गलाकारकुड्याढ्यं नानालङ्कारशोभितम् ॥ ७२।२९ ॥
ब्रह्माङ्कणसमायुक्तमथवा तद्विवर्तितम् ।
द्वारतालतलोपेतं कूटकोष्ठादिशोभितम् ॥ ७२।३० ॥
एतदेव सभामानमिति प्रोक्तं द्विजेश्वराः ।
आस्थानमण्डपं कुर्याद्धाम्नो दिक्षु विदिक्षु च ॥ ७२।३१ ॥
प्रागुक्तेन प्रमाणेन मण्डपं कूटमेव वा ।
सभा वा तत्र कर्तव्या चाष्टदिङ्मुखसंयुतम् ॥ ७२।३२ ॥
समाश्रमायताश्रं वा मुखे भद्रयुतं तु वा ।
एकानेकतलोपेतं पार्श्वसोपानसंयुतम् ॥ ७२।३३ ॥
सम्पाद्यैवं तदग्रे तु सभाद्यं परिकीर्तितम् ।
पञ्चहस्तं समारभ्य व्योमहस्तविवृद्धितः ॥ ७२।३४ ॥
एकत्रिंशत्करान्तं तु विस्तारः तस्य सम्मतः ।
विस्तारपादवृद्ध्या तु यावद्वेदगुणं भवेत् ॥ ७२।३५ ॥
आयामं कल्पयेत्तस्य विस्तारे भित्तिरुच्यए ।
वह्निभित्तिं समारभ्य व्योमभित्तिविवर्धनात् ॥ ७२।३६ ॥
विश्वभित्त्यवसानं तु विस्तारे भित्तयो मताः ।
विस्तारभित्तिवसुधां कृत्वार्धार्धविवर्धनात् ॥ ७२।३७ ॥
विस्ताराध्यर्धमानान्ताः समानद्वारभित्तयः ।
युग्मभित्तिषु मध्यस्थपादानामोजविस्तरः ॥ ७२।३८ ॥
तन्मानं वर्धयेन्मध्ये पार्श्वभित्तिषु ह्रासयेत् ।
ओजभित्तिषु मध्यस्थपदश्रेणिद्वयं तु वा ॥ ७२।३९ ॥
त्यजेत्तस्य समन्तात्तु द्वारं कुर्याद्यथाविधि ।
मूलभित्तिप्रमाणेन पादं वार्धत्रिपादकम् ॥ ७२।४० ॥
द्वारमानं समाख्यातं तत्पादान् युक्तितो नयेत् ।
मूलपादाच्च द्वारस्थाः पादा ये संस्थिताः त्विह ॥ ७२।४१ ॥
(पृ० १९६)
तत्तत्पादविशालेन बहिरन्तर्निंवेशिताः ।
स्वस्वस्थानगता वापि विधातव्या विचक्षणैः ॥ ७२।४२ ॥
सभादिमध्यगं रङ्गस्थानं देवासनं तु वा ।
एतेषामपि सर्वेषां प्रोक्षणं त्वधुनोच्यते ॥ ७२।४३ ॥
कृत्वाङ्कुरार्पणं पूर्वं पुण्याहप्रोक्षणं तथा ।
ब्राह्मणान् भोजयित्वादौ तदुच्छिष्टं विवर्जयेत् ॥ ७२।४४ ॥
पुण्याहं च पुनः कृत्वा पञ्चगव्येन सेचयेत् ।
वास्तुहोमं ततः कृत्वा पर्यग्निकरणं नयेत् ॥ ७२।४५ ॥
मण्डपं भूषयित्वा तु गन्धाद्यैरर्चयेद्गुरुः ।
निवृत्त्यादिकला न्यस्त्वा मध्यस्तम्भचतुष्टये ॥ ७२।४६ ॥
कौतुकं बन्धयेदग्निकोणभागेऽथ बन्धयेत् ।
वस्त्रैरस्त्रेण चावेष्ट्य मालाद्यैर्भूषयत्ततः ॥ ७२।४७ ॥
गन्धाद्यैः पुनरभ्यर्च्य तत्त्वतत्त्वेश्वरान्वितान् ।
मूर्तिमूर्तीश्वरान्न्यस्त्वा मध्यमे मण्डपस्य तु ॥ ७२।४८ ॥
स्थण्डिलं शालिभिःकृत्वा वसुद्रोणादिमानतः ।
तण्डुलैः तिललाजैश्च दर्भैःपुष्पैः परिस्तरेत् ॥ ७२।४९ ॥
मध्यमे शिवकुम्भं तु निवृत्त्यादिकलान्वितम् ।
तद्वामे वर्धनीं तस्यां देवीमावाह्य भक्तितः ॥ ७२।५० ॥
चतुष्कुम्भं तु संस्थाप्य हेमवस्त्रादिसंयुतम् ।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं तेषु वह्नितः ॥ ७२।५१ ॥
पूजयेद्गन्धपुष्पाद्यैः नैवेद्यान्तैः पृथक्पृथक् ।
ततः शिवाग्निं संस्थाप्य समिदाज्यान्नलाजकैः ॥ ७२।५२ ॥
शतसङ्ख्यं तदर्धं वा शिवाद्यैर्होममाचरेत् ।
प्रधानेन शिवेनाङ्गैः पूर्वदिक्स्थण्डिले मताः ॥ ७२।५३ ॥
धर्माद्यर्हृदयाद्यैर्वा होमः स्यादग्निकोणतः ।
तत्त्वाद्यैश्च ततो हुत्वा पूर्णाहुतिमथाचरेत् ॥ ७२।५४ ॥
प्रभातेऽथ गुरुः स्नात्वा मूर्तिपैश्च समन्वितः ।
नववस्त्रधृगुष्णीषी सोत्तरीयः समालकः ॥ ७२।५५ ॥
सम्प्राप्तदक्षिणो मूर्तिधारदैवज्ञशिल्पिभिः ।
सुमुहूर्ते सुलग्ने तु मन्त्रन्यासं समारभेत् ॥ ७२।५६ ॥
मण्डपं वेदगात्रं च कुम्भानग्निं च योजयेत् ।
प्रायश्चित्तमघोरेण कृत्वा पूर्णां समाचरेत् ॥ ७२।५७ ॥
शिवमण्डपदेहे तु वस्त्वाधारे मनोन्मनीम् ।
न्यस्त्वा तदद्भिः सम्प्रोक्ष्य गन्धपुष्पादिभिर्यजेत् ॥ ७२।५८ ॥
नैवेद्यान्ते गुरुर्मन्त्री हृदयेन तु मन्त्रतः ।
एवमेव सभादीनां विधेयं प्रोक्षणं बुधाः ॥ ७२।५९ ॥
एवं यः कुरुते मर्त्यः सोऽनिष्टैर्विप्रयुज्यते ॥
॥ इति कामिकाख्ये महातन्त्रे मण्डपस्थापनविधिः सप्ततितमः पटलः ॥