विमानस्थापनं वक्ष्ये वाञ्छितार्थफलप्रदम् ।
धिष्ण्यावसाने पूर्वोक्ते काले च त्वङ्कुरार्पणम् ॥ ७१।१ ॥
प्रासादस्याग्रतः कुर्यान्मण्डपं वेदिकान्वितम् ।
नवकुण्डसमायुक्तं पञ्चकुण्डयुतं तु वा ॥ ७१।२ ॥
मण्डपं मण्डयित्वा तु कुर्याच्छिल्पिविसर्जनम् ।
ब्राह्मणान् भोजयेत्तत्र तद्दिनात्प्राग्दिनत्रये ॥ ७१।३ ॥
तदा प्रासाददेहस्थबेराणां दृष्टिमोचनम् ।
मध्वाज्यधान्यगोविप्रकन्यानां दर्शनं द्विजाः ॥ ७१।४ ॥
तत्तद्धृदयमन्त्रेण कृत्वा सम्प्रोक्ष्य गव्यतः ।
सम्पूज्य गन्धपुष्पाद्यैः प्रासादं प्रोक्षयेत्ततः ॥ ७१।५ ॥
जङ्घायुगलचूडान्तं तत्त्वतत्त्वेश्वरान् न्यसेत् ।
मूर्तिमूर्तीश्वरान् न्यस्त्वा बेरेष्वपि तथाचरेत् ॥ ७१।६ ॥
वस्त्रैराच्छाद्य सर्वं तु पुष्पैर्दर्भैः परिस्तरेत् ।
मण्डपं सम्प्रविश्याथ पुण्याहं वाचयेत्ततः ॥ ७१।७ ॥
स्थण्डिले वेदिकायां तु वसुद्रोणैश्च शालिभिः ।
तदर्धतण्डुलैः शुद्धैः तिलैर्लाजैः तदर्धकैः ॥ ७१।८ ॥
मध्यमे शिवकुम्भं तु वर्धनीसहितं न्यसेत् ।
दिङ्मूर्तिसङ्ख्यया कुम्भांस्तद्बहिः परितो न्यसेत् ॥ ७१।९ ॥
ससूत्रान् सापिधानांश्च सवस्त्रान् हेमसंयुतान् ।
चन्दनोदकसम्पूर्णान् सकूर्चान् पल्लवान्वितान् ॥ ७१।१० ॥
गन्धादिभ्ः समभ्यर्च्य नैवेद्यान्तैः समन्ततः ।
कृत्वा तथाग्निसंस्कारमग्निकार्योक्तमार्गतः ॥ ७१।११ ॥
प्रधानकुण्डे हर्म्यस्य शिवाङ्गब्रह्मशम्बरैः ।
पूर्वस्मिन् पूर्वदिग्देवमन्त्रैर्दक्षे तु विन्यसेत् ॥ ७१।१२ ॥
पश्चिमे वरुणस्थैश्च सोमे सोमदिशि स्थितैः ।
विदिक्षु हृदयाद्यैश्च जुहुयाच्छतसङ्ख्यया ॥ ७१।१३ ॥
पञ्चहोमेऽङ्गहीनैश्च मन्त्रैर्होमं समाचरेत् ।
समिदाज्यचरू लाजतिलसस्येन्द्रवैणवाः ॥ ७१।१४ ॥
(पृ० १९४)
उदुम्बरवटाश्वत्थन्यग्रोधा दिक्षु संस्थिताः ।
शम्यपामार्गखदिरबिल्वाः कोणेषु संस्थिताः ॥ ७१।१५ ॥
प्रधानस्य पलाशः स्यादेवं ज्ञात्वा समाचरेत् ।
तत्त्वतत्त्वेश्वराद्यैश्च हुत्वा पूर्णां समाचरेत् ॥ ७१।१६ ॥
प्रभाते तु गुरुः स्नात्वा विशुद्धो मूर्तिपैः सह ।
नववस्त्रस्रगुष्णीषः सोत्तरीयः समालकः ॥ ७१।१७ ॥
पञ्चाङ्गभूषणोपेतो दशनिष्कादिदक्षिणः ।
नववस्त्रादिसंयुक्तमूर्तिपैश्च समन्वितः ॥ ७१।१८ ॥
प्रासादान्तः स्थितान् देवानिष्ट्वा कुम्भांश्च पावकान् ।
प्रायश्चितं च पूर्णां च हुत्वा मूर्तिधरैः सह ॥ ७१।१९ ॥
कुम्भान् सङ्गृह्य हर्म्यस्य प्रदक्षिणमथाचरेत् ।
प्रासाददक्षिणे देशे स्थण्डिले विन्यसेद्।घतान् ॥ ७१।२० ॥
प्रासादं पूजयित्वा तु वस्त्वाधारे शिवासनम् ।
मूर्तिविद्यातनुं देहे अष्टत्रिंशत्कलान्वितम् ॥ ७१।२१ ॥
विन्यस्य सावधानः सन् कुम्भादादाय शम्बरम् ।
न्यसेत्प्रासाददेहे तु वस्त्वाधारे मनोन्मनीम् ॥ ७१।२२ ॥
तत्तज्जलेन सम्प्रोक्ष्य ततो दिङ्मूर्तिषु न्यसेत् ।
अर्चयेदथ गन्धाद्यैर्नैवेद्यान्तं पृथक्पृथक् ॥ ७१।२३ ॥
एवं यः कुरुते मर्त्यो भुक्त्वा भोगान् शिवं व्रजेत् ॥
॥ इति कामिकाख्ये महातन्त्रे विमानस्थापनविधिः एकोनसप्ततितमः
पटलः ॥