६८ प्रतिमाप्रतिष्ठाविधिः

प्रतिमानां प्रतिष्ठां तु प्रवक्ष्यामि समासतः ।
द्रव्यसङ्ग्रहणं पूर्वं बिम्बनिर्माणमेव च ॥ ७०।१ ॥
पश्चान्मण्डपनिर्माणं रत्नन्यासमतः परम् ।
नयनोन्मीलनं पश्चाद्बेरशुद्धिरनन्तरम् ॥ ७०।२ ॥
ग्रामप्रदक्षिणं पश्चाज्जलवेशोऽष्टमं भवेत् ।
मण्डपालङ्कतिः पश्चाद्वास्तुहोममतः परम् ॥ ७०।३ ॥
शय्याकॢप्तिस्ततः प्रोक्ता प्रतिमास्थापनं ततः ।
ततः कौतुकबन्धः स्याच्छयनारोहणं पुनः ॥ ७०।४ ॥
कुम्भसंस्थापनं पश्चादर्चनं तदनन्तरम् ।
ततो मुर्त्यादिविन्यासो होमकार्यमनन्तरम् ।
दक्षिणादानमन्ते स्यान्मन्त्रन्यासमतः परम् ॥ ७०।५ ॥
अतः परं च स्नपनमर्च्चनं स्यादतः परम् ।
द्वाविंशतिः क्रियाः प्रोक्तास्तासां लक्षणमुच्यते ॥ ७०।६ ॥
शिलामृल्लोहसद्वृक्षरत्नधातुसुधापटाः ।
दन्तश्च बेरनिर्माणे तस्य सङ्ग्रहमुच्यते ॥ ७०।७ ॥
सुमुहूर्ते सुलग्ने तु नक्षत्रकरणान्विते ।
शिलादिस्थानमासाद्य स्थण्डिले पूजितेश्वरः ॥ ७०।८ ॥
हुताग्निः पूजिताशाभृद् दत्तभूतबलिः शुचिः ।
शिलाद्यं प्रोक्ष्य वस्त्रेण वर्मणावेष्ट्य पूजयेत् ॥ ७०।९ ॥
हृदि वस्त्रेण संवेष्ट्य टङ्काद्यं मधुसर्पिषा ।
आप्लाव्य त्रिःप्रहारेण स्फोटयेदस्त्रमन्त्रतः ॥ ७०।१०
गुरोरनुज्ञया शिल्पी तथैवा स्फोटयेत्पुनः ।
सम्पूज्य वस्त्रहैमाद्यैराचार्यं स्थपतिं तथा ॥ ७०।११ ॥
तस्मात्सङ्गृह्य तद्द्रव्यं नयेत्कर्मकुटीं पुनः ।
आदौ सिक्तं द्रवीभूतमस्त्रेणास्त्राव्य वारिणा ॥ ७०।१२ ॥
मण्डपे स्थण्डिलं कृत्वा सिक्तं तत्रैव निक्षिपेत् ।
सम्पूज्य गन्धपुष्पाद्यैर्हृदा वस्त्रेण वेष्टयेत् ॥ ७०।१३ ॥
तद्द्रव्यं शिल्पिने दत्वा कारयेल्लक्षणान्वितम् ।
तस्य निर्माणकाले तु उत्तराभिमुखो गुरुः ॥ ७०।१४ ॥
प्रतिमामूलमन्त्रं तु जपेदष्टोत्तरं शतम् ।
तस्याश्चोत्तरदिग्भागे शान्तिहोमं तु कारयेत् ॥ ७०।१५ ॥
देशिकं शिल्पिनं चैव पूजयेत्काञ्चनादिभिः ।
वृक्षसङ्ग्रहणे वृक्षं सम्पूज्यैवं वदेद्गुरुः ॥ ७०।१६ ॥

(पृ० १९०)

श्रीनिकेत नमस्तुभ्यं देवजुष्ट वनस्पते ।
सङ्क्रामः स्यादितिस्थानं गुणवद्यन्मनोरमम् ॥ ७०।१७ ॥
विसृज्यानेन मन्त्रेण छदात्मानं निरुच्यते ।
घृताक्तेन कुठारेण छिन्द्यान्मृत्युञ्जयं स्मरन् ॥ ७०।१८ ॥
यक्षेन्द्रशिवकाष्ठासु पतितं सर्वकामदम् ।
तापमृत्युमहारोहगुल्मोच्चाटनमग्नितः ॥ ७०।१९ ॥
द्रव्यसङ्ग्रहणं चैवं निर्माणं पूर्वमेव तु ।
प्रतिमालक्षणं प्रोक्तं मण्डपं त्वधुनोच्यते ॥ ७०।२० ॥
प्रासादस्य चतुर्दिक्षु मण्डपं चाग्रपार्श्वयोः ।
त्रिहस्तं तु समारभ्य चैकैककरवृद्धितः ॥ ७०।२१ ॥
पञ्चादशकरान्तं तु कुर्याल्लक्षणसंयुतम् ।
अत्रानुक्तं तु यत्किञ्चित्तत्सर्वं पूर्ववन्नयेत् ॥ ७०।२२ ॥
नवपञ्चैककुण्डानि पूर्ववत्परिकल्पयेत् ।
चतुरश्राणि वृत्तानि तद्दिगश्राणि वा नयेत् ॥ ७०।२३ ॥
शक्तीनां चैव सर्वासां योन्याकाराणि कल्पयेत् ।
मण्डपं समलङ्कृत्वा पीठं तत्र विनिक्षिपेत् ॥ ७०।२४ ॥
नवपट्टसमायुक्तं पञ्चपट्टयुतं तु वा ।
एकपट्टयुतं वापि पूजयेच्चन्दनादिभिः ॥ ७०।२५ ॥
आधाराख्यमनन्तं च मध्यमे विन्यसेद्गुरुः ।
लोकपालांश्च चतुरः रत्नानि विविधानि च ॥ ७०।२६ ॥
माणिक्यमिन्द्रनीलं च वैडूर्यं च प्रवालकम् ।
मुक्ता वज्रं तथा पुष्परागं गोमेदकं तथा ॥ ७०।२७ ॥
मरकतं चैव रत्नानि नवरत्नादिपञ्चकम् ।
पञ्चरत्नमिति प्रोक्तं माणिक्कं चैकमेव वा ॥ ७०।२८ ॥
वज्रं वा मध्ये प्रोक्तं महावेशमिति स्मृतम् ।
स्वस्वलोकपमन्त्रैश्च मध्यादिक्रमतो न्यसेत् ॥ ७०।२९ ॥
देवं रत्नोपरि न्यस्त्वा सुस्निग्धं कारयेद्दृढम् ।
शैलं चेत्स्थापने काले रत्नाद्यं विधिवन्न्यसेत् ॥ ७०।३० ॥
शूलस्थापनकाले तु न्यसेद्रत्नानि मृण्मये ।
अन्येषां रत्नविन्यासं वर्जयेत्तु विशेषतः ॥ ७०।३१ ॥
नेत्रद्वययुतर्क्षे तु कारयेन्नेत्रमोक्षणम् ।
सुगुप्ते मण्डपे रम्ये गोमयेनानुलेपिते ॥ ७०।३२ ॥
प्रच्छन्नपटसंयुक्ते सर्वालङ्कारसंयुते ।
स्थण्डिलं तत्र कर्तव्यमष्टद्रोणादिब्रीहिभिः ॥ ७०।३३ ॥
तिलतण्डुलसंयुक्तं लाजपुष्पसमन्वितम् ।
तस्य मध्ये न्यसेद्बिम्बं प्राङ्मुखं देशिकोत्तमः ॥ ७०।३४ ॥
हेमसूचीप्रहाराभ्यां नेत्रमन्त्रमनुस्मरन् ।
प्रथमं दक्षिणं नेत्रं द्वितीयं वामनेत्रकम् ॥ ७०।३५ ॥
ललाटस्थं तृतीयं तु लेखयेत्पूजयेद्गुरुः ।
पक्ष्मरेखां पुरा कृत्वा ततो वै दृष्टिमण्डलम् ॥ ७०।३६ ॥
ज्योतिर्मण्डलमालिख्य नेत्रमोचनमाचरेत् ।
तथैवोन्मीलनं शिल्पी वज्रकाञ्चनसूचितः ॥ ७०।३७ ॥
पुष्पायोनिर्मितेनेव टङ्केनैव त्रिलोचने ।
नासिकाकर्णवक्त्राणि लिङ्गं पायुं च मोचयेत् ॥ ७०।३८ ॥
तत्तद्देवाङ्गभूतानां नयनोन्मीलनं नयेत् ।
चित्राभासादिदेवानां तत्तद्वर्णैः समाचरेत् ॥ ७०।३९ ॥
तदाक्षिमोचनं कुर्याद्धेमतूलिकया गुरुः ।
उद्वास्य शिल्पिनं पश्चात्तस्याग्रे स्थण्डिलं नयेत् ॥ ७०।४० ॥
बिम्बं तस्योपरि न्यस्त्वा हृदयेन तु मन्त्रतः ।
ससूत्रान् सापिधानांश्च कलशानष्टदिक्षु च ॥ ७०।४१ ॥
सवस्त्रान् वारिसंयुक्तान् सकूर्चान् पल्लवैर्युतान् ।
स्वमन्त्रैरभितो न्यस्त्वा लोकेशांस्तत्र पूजयेत् ॥ ७०।४२ ॥
क्षूद्रेऽष्टकलशान् हित्वा चान्यत्सर्वं समाचरेत् ।
स्वर्णया दूर्वया नेत्रं मध्वाज्याभ्यां तु तर्पयेत् ॥ ७०।४३ ॥
हृदा वा नेत्रमन्त्रेण मन्त्रिताभ्यां गुरूत्तमः ।
लोहजे शैलजे वार्क्षे रत्नजेप्येवमाचरेत् ॥ ७०।४४ ॥

(पृ० १९१)

अन्येषामपि सर्वेषां भावयेत्तर्पणक्रियाम् ।
तर्जन्यनामिकामध्ये सूर्यसोमाग्निलोचने ॥ ७०।४५ ॥
हिरण्यनखसम्प्रोतैर्न्यसेत्तद्बीजसंयुतम् ।
सौवर्णे राजते ताम्रे कांस्ये वाथ शरावके ॥ ७०।४६ ॥
घृतेन मधुना चैव प्रत्येकं प्रस्थपूरितम् ।
तदर्धेनार्धपादेन पूरितं वा पृथक् पृठक् ॥ ७०।४७ ॥
घृतं प्रदर्शयेन्मन्त्री नेत्रमन्त्रमनुस्मरन् ।
दर्शयेन्मधुपात्रं तु मृत्युजिन्मन्त्रमुच्चरन् ॥ ७०।४८ ॥
हृदयेन तु मन्त्रज्ञः तवत्सां गां प्रदर्शयेत् ।
बीजमुख्येन मन्त्रेण धान्यराशिं प्रदर्शयेत् ॥ ७०।४९ ॥
शिवादिदशभारान्तं तेषां मानं प्रकीर्तितम् ।
ब्राह्मणान् दर्शयेत्पश्चात्पवमानमनुस्मरन् ॥ ७०।५० ॥
तेनैव दर्शयेत्कन्यां भूषितां सर्वभूषणैः ।
प्रच्छन्नपटमावर्ज्य जनसङ्घान् प्रदर्शयेत् ॥ ७०।५१ ॥
मृद्भस्मकुशगोमूत्रगोमयैः पञ्चगव्यकैः ।
त्वक्सारैः प्रतिमाशुद्धिं चित्रादौ दर्पणे नयेत् ॥ ७०।५२ ॥
रजन्यामलपिष्टाद्यैः शुद्धियुक्तं प्रकल्पयेत् ।
वस्त्रैर्गन्धैश्च मालभिर्भूषयेद्भूषणार्हकैः ॥ ७०।५३ ॥
ग्रामप्रदक्षिणं कुर्यात्सर्वालङ्कारसंयुतम् ।
ग्रामप्रदक्षिणं वापि चित्रादौ परिवर्जयेत् ॥ ७०।५४ ॥
महत्तरे वा तत्त्याज्यं प्रापयेत्तु जलं ततः ।
जलमध्ये प्रपां कृत्वा चतुर्गात्रसमन्वितम् ॥ ७०।५५ ॥
मण्डितां दर्भमालाद्यः तीरे समतले पुनः ।
स्थण्डिलं स्थापयित्वा तु गन्धाद्यैरर्चयेद्गुरुः ॥ ७०।५६ ॥
तस्याग्रे स्थण्डिलं कृत्वा कलशानष्ट विन्यसेत् ।
लोकपालाधिपांस्तत्र हेमाढ्यान् पूजयेद्गुरुः ॥ ७०।५७ ॥
व्यपोह्य भूषणार्हं तु वस्त्रेणाच्छाद्य वर्मणा ।
लम्बकूर्चेन संयुक्तं द्वात्रिंशत्सम्मितेन तु ॥ ७०।५८ ॥
पीठे वा फलकादौ वा शाययेज्जलमध्यमे ।
गङ्गादितीर्थमवाह्य परितः कलशान् न्यसेत् ॥ ७०।५९ ॥
एकादिनवरात्रान्तं वेदत्रिद्व्येकयामकम् ।
जलाधिवासनं कुर्याच्चित्रादौ दर्पणे न वा ॥ ७०।६० ॥
मण्डपं भूषयेत्पश्चात्पटेन महतावृतम् ।
ब्राह्मणान् भोजयेत्तत्र सहस्रान्तान् दशाधिकान् ॥ ७०।६१ ॥
पुन्याहं वाचयित्वा तु वास्तुहोमं तु कारयेत् ।
पर्यग्निकरणं कृत्वा प्रोक्षयेत्तु शिवाम्भसा ॥ ७०।६२ ॥
पुण्याहं वाचयेत्पश्चात्स्थण्डिले वेदिकोपरि ।
अष्टद्रोणैः तदर्धैर्वा तदर्धैः शालिभिर्मतम् ॥ ७०।६३ ॥
तिलैर्लाजैश्च दर्भैश्च पुष्पैः सम्यक् प्रकल्पयेत् ।
शयनं कल्पयेदूर्ध्वे चर्मजाद्यैरनुक्रमात् ॥ ७०।६४ ॥
चित्रादौ कल्पयेच्छय्यां तत्तत्पादप्रदेशके ।
प्रोक्षयेत्पुरुषेणैव हृदा गन्धादिभिर्यजेत् ॥ ७०।६५ ॥
जलादुत्तिर्य बेरं तु स्नानश्वभ्रे तु विन्यसेत् ।
व्यपोह्य वस्त्रकूर्चाच्चम्? स्नपनं पूर्ववन्नयेत् ॥ ७०।६६ ॥
वस्त्रेणैव तु संवेष्ट्य पूजयेद्धृदयेन तु ।
कौतुकं बन्धयेत्पश्चाद्धृदा दक्षिणहस्तके ।
शक्तीनां चैव सर्वासां वामे वा दक्षिणेऽपि वा ॥ ७०।६७ ॥
कुम्भान् संस्थापयेत्पश्चात्सर्वलक्षणसंयुतान् ।
ससूत्रान् सहिरण्यांश्च सकूर्चान् वस्त्रसंयुतान् ॥ ७०।६८ ॥
गन्धोदकेन सम्पूर्णान् फलपल्लवशोभितान् ।
विन्यस्य परितः सर्वान् गन्धपुष्पादिभिर्यजेत् ॥ ७०।६९ ॥
मूर्तिन्यासं ततः कुर्याल्लिङ्गस्थापनमार्गतः ।
आत्मविद्यां शिवाख्यं च जानुकर्णशिरोवधि ॥ ७०।७० ॥
होमकर्म तदन्ते स्यात्प्रागुक्तविधिना सह ।
पलाशोदुम्बराश्वत्थवटाः पूर्वादिषु क्रमात् ॥ ७०।७१ ॥

(पृ० १९२)

शम्यपामार्गश्रीवृक्षपिप्पलैश्चाग्निकोणतः ।
प्रधानस्य पलाशः स्यात्समिधः सम्प्रकीर्तिताः ॥ ७०।७२ ॥
समिदाज्यचरू लाजसर्षपाश्चैव वैणवाः ।
यवप्रियङ्गुशाल्यश्च मुद्गमाषकुलुत्थकाः ॥ ७०।७३ ॥
मधु क्षीरगुले सक्तु फलादावुदकाः स्मृताः ।
त्रिपञ्चसप्तनवभिः रुद्रैर्विश्वैश्च पक्षकैः ॥ ७०।७४ ॥
द्रव्यैर्वा सप्तदशभिः समस्तैर्होममाचरेत् ।
ब्रह्मादिदिक्षु ख्यातानि विदिक्षु हृदयादयः ॥ ७०।७५ ॥
प्रधाने मूलमन्त्रः स्यादङ्गब्रह्मसमायुतः ।
पञ्चाग्न्यातनं चेत्तु हृदयादीनि वर्जयेत् ॥ ७०।७६ ॥
एकाग्न्यायतनं चेत्तु द्रव्यैरेकत्र होमयेत् ।
सहस्रमर्धं तस्यार्धं शतं वाष्टशतं तु वा ॥ ७०।७७ ॥
एवमर्धं च दशभिर्मूलमन्त्रेण होमयेत् ।
मूलाद्दशांशतोऽङ्गैस्तु सर्वैर्ब्रह्मादि होमयेत् ॥ ७०।७८ ॥
तत्त्वतत्त्वेश्वराद्यैश्च होमं पूर्ववदाचरेत् ।
द्रव्यान्ते व्याहृतिं कुर्याद्धोमान्ते पूर्णया युतम् ॥ ७०।७९ ॥
स्पर्शनं पूर्ववत्कुर्याच्छान्त्यम्भः प्रोक्षणं ततः ।
अत्रानुक्तं तु यत्सर्वं लिङ्गस्थापनवन्नयेत् ॥ ७०।८० ॥
आगमाध्ययनं दिक्षु कोणे मन्त्रजपं नयेत् ।
आगमाध्ययनं कुर्यादीशाने दीक्षितः त्विह ॥ ७०।८१ ॥
नृत्तगेयसमायुक्तं स्तोत्रमङ्गलवाचकैः ।
रात्रिशेषमपोह्याथ प्रभाते विमले ततः ॥ ७०।८२ ॥
देशिको मूर्तिपैः सार्धं कुर्यात्स्नानं तु पूर्ववत् ।
मन्त्रसन्नद्धकायस्तु प्रविश्यं मखमण्डपम् ॥ ७०।८३ ॥
उद्धृत्य प्रतिमां पूर्वं मुखे मूर्तिपसन्निभः ।
व्यपोह्य वस्त्रकूर्चादीन् यजेद्गन्धादिभिर्हृदा ॥ ७०।८४ ॥
कुम्भान् सम्पूजयेत्पश्चाद्वह्निकुण्डेषु पूजयेत् ।
अघोराष्टशतं हुत्वो प्रायश्चित्तार्थमेव वा ॥ ७०।८५ ॥
वौषडन्तं हरेणैव पूर्णाहुतिमाथचरेत् ।
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ।
पञ्चनिष्कं समारभ्य पञ्चनिष्कविवर्धनात् ॥ ७०।८६ ॥
दक्षिणा नवधा प्रोक्ता प्रतिमानां निवेशने ।
अथवा च दरिद्रस्तु निष्काद्यं पञ्चनिष्ककान् ॥ ७०।८७ ॥
दक्षिणा तु गुरोः प्रोक्ता ततो हीनां विवर्जयेत् ।
अन्येषां चैव सर्वेषां पूर्ववद्दक्षिणा भवेत् ॥ ७०।८८ ॥
मुहूर्तनाडिकापूर्वे स्थापनं तु समाचरेत् ।
शिवकुम्भं समुद्धृत्य वर्धन्या सह देशिकः ।
परिवारघटैर्युक्तं सर्वालङ्कारसंयुतम् ॥ ७०।९० ॥
हर्म्यप्रदक्षिणं कृत्वा प्रतिमाग्रे नयेद्घटान् ॥
कुम्भाद्बीजं समादाय प्रतिमाहृदि विन्यसेत् ॥ ७०।९१ ॥
तत्कुम्भस्थजलेनैव स्नापयेत्परमेश्वरम् ॥
वर्धन्या बीजमादाय तत्पीठे विन्यसेद्गुरुः ॥ ७०।९२ ॥
देवेन सह चेद्देवी तस्यास्तु हृदि विन्यसेत् ॥
विभिन्नपीठां देवी चेत्पृथक्स्थापनमारभेत् ॥ ७०।९३ ॥
मृण्मये त्वर्धचित्रे वा आभासे च पटे तथा ॥
सौधे कश्चिद्विशेषोऽस्ति तेषामेवाथ सन्निधौ ॥ ७०।९४ ॥
दर्पणं स्थापयित्वा तु स्नापनं तत्र कारयेत् ॥
कर्मार्चायास्तु पीठे वा कूर्चे वा स्नापनं स्थले ॥ ७०।९५ ॥
अर्चनोक्तं समभ्यर्च्य वस्त्राभरणपुष्पकैः ॥ ७०।९६ ॥
प्रभूतं तु हविर्दद्यात्ताम्बूलादिसमन्वितम् ।
स्नपनं कल्पयेद्वा चेदुत्सवेन युतं तु वा ॥ ७०।९७ ॥
अत्रानुक्तं तु यत्सर्वं लिङ्गस्थापनवन्नयेत् ।
स्वप्रधाने पराङ्गे च स्थापनं चैवमीरितम् ॥ ७०।९८ ॥
परिवारसमायुक्तं स्वप्रधानमिति स्मृतम् ।
इतरं तद्विहीनं स्यात्तच्च द्विविधमुच्यते ॥ ७०।९९ ॥
अन्तरङ्गं च बाह्याङ्गमाद्यधामान्तरस्थितम् ।

(पृ० १९३)

चलं तदचलं वापि धामगर्भगृहादिके ।
मित्त्याश्लिष्टं चित्रयुक्तं शैलं वा ग्रामसंस्थितम् ॥ ७०।१०० ॥
परिवारालयस्थं यदन्तरङ्गमिति स्मृतम् ।
प्रासादे मण्डपे साले गोपुरे बलिपीठके ॥ ७०।१०१ ॥
तोरणादिषु सुस्थं यद्वहिरङ्गमिति स्मृतम् ।
बहिरङ्गे विशेषोऽस्ति तच्छणुध्वं शिवद्विजाः ॥ ७०।१०२ ॥
जलाधिवासनं रत्नन्यासं धामप्रदक्षिणम् ।
शय्याकॢप्तं विना वापि सर्वं पूर्ववदाचरेत् ॥ ७०।१०३ ॥
एतासामपि सर्वासां कर्षणं प्रथमेष्टकम् ।
धाम्नःकॢप्तिं च नित्येष्टिमुत्सवं स्नपनं तथा ॥ ७०।१०४ ॥
मासपूजाविधानं च प्रायश्चित्तविधिक्रमम् ।
जीर्णोद्धारं बालगृहं तत्र संस्थापनं तथा ॥ ७०।१०५ ॥
अद्भुते शान्तिमन्यच्च प्रकृत्युक्तं समाचरेत् ॥

॥ इति कामिकाख्ये महातन्त्रे प्रतिमाप्रतिष्ठाविधिः अष्टषष्टितमः
पटलः ॥