६७ देवतास्थापनविधिपटलः

(पृ० १८८)

देवतास्थापनं स्थानं वक्ष्येऽथ मुनिपुङ्गवाः ।
ग्रामे वा नगरे वापि पत्तने राजधानिके ॥ ६९।१ ॥
आदौ नद्यास्तटे पुण्ये देवतायतनेषु च ।
समुद्रतीरे सेतौ च पुष्करिण्यास्तटेषु च ॥ ६९।२ ॥
महाजलसमीपे वा महाजनसमीपगे ।
उद्याने पुण्यदेशे वा निष्कलं सकलं तु वा ॥ ६९।३ ॥
शैलं वा लोहजं वार्क्षं रत्नजं मृण्मयं तु वा ।
सौधजं वार्धचित्रं वा आभासं वाथ पीठकम् ॥ ६९।४ ॥
स्थापयेद्देशिको धीमान् ब्रह्मदेवादिभागवित् ।
आरभ्य पञ्चपञ्चांशमेकैकपदवर्धनात् ॥ ६९।५ ॥
द्वात्रिंशत्पदपर्यन्तं कृत्वा गर्भगृहं ततः ।
एकं वापि द्वयं वापि त्रयं वा ब्रह्ममन्दिरे ॥ ६९।६ ॥
तदन्तरं तथा कृत्वा दैविकं वार्षकं तथा ।
पदं पैशाचिकं प्रोक्तं ब्रह्मभागे प्रकल्पयेत् ॥ ६९।७ ॥
इदं ब्रह्मादिकाद्यं तु ग्रामादौ वा वियोजयेत् ।
निष्कलं ब्रह्मभागे तु सकलं दैविकांशके ॥ ६९।८ ॥
ग्रामादीनां निवेशे तु ब्रह्मांशे दैर्घिकांशके ।
स्थापयेन्मानुषं वापि मातुः केचिदिदं भवेत् ॥ ६९।९ ॥
चित्रयुक्तं तु तद्बेरं बाह्ये पैशाचिके अपि ।
रक्षोगन्धर्वयक्षाद्याः पिशाचाद्याश्च मूर्तिपाः ॥ ६९।१० ॥
मानुषे वाथ पैशाचे द्विजानां वास इष्यते ।
ईशानादिचतुष्कोणे सभाद्यं तत्र कल्पयेत् ॥ ६९।११ ॥
ब्रह्मभागं चतुर्भागं कृत्वेशाने सभां नयेत् ।
वापीं चाग्नेयदेशे तु गोवासं कूपसंयुतम् ॥ ६९।१२ ॥
नैरृते वापणस्थानं देवालययुतं तु वा ।
वायौ देवालयं कुर्याद्व्यत्यासे व्यसनं भवेत् ॥ ६९।१३ ॥
क्षुद्रवास्तौ तु तत्सर्वं नेष्यते ब्रह्मभागिके ।
द्विजवासस्तु तत्सर्वं शर्वे वाथ विधीयते ॥ ६९।१४ ॥
वरुणे विष्णुवासः स्यात्केशवं शर्वम् एव च ।
पञ्चपञ्चांशतो न्यूनात्तदूर्ध्वं द्विजसत्तमाः ॥ ६९।१५ ॥
चौः सहस्रपर्यन्तं पदं पैशाचिकं क्रमात् ।
सूर्यः कन्दगणेशानां दुर्गाद्या वास्तुदेवताः ॥ ६९।१६ ॥
वास्तुपैशाचिके मोटी मदनः सप्तमातरः ।
मोटीशास्तृविहीना वा सप्तदेवास्तथा मताः ॥ ६९।१७ ॥
सहस्रविप्रादूर्ध्वे तु सभाद्यं ब्राह्मणादिकम् ।
कल्पना न्यूनविप्रे तु त्यजेत्कोष्ठमथाङ्कणम् ॥ ६९।१८ ॥
तदूर्ध्वं तु सहस्रान्ते गौरी वा कमलालया ।
ब्रह्मावैश्रवणः सौम्यः कन्दर्पोऽन्तर्व्यवस्थिताः ॥ ६९।१९ ॥
बाह्ये क्षेत्राधिपो ज्येष्ठा पूर्वोक्ते स्मृतदेवताः ।
तदूर्ध्वं सर्वदेवाश्च शंसिताः फलदायकाः ॥ ६९।२० ॥
एतेष्वन्यतमार्थं तु शिवो गौरी विनायकः ।
स्कन्दः तत्र विधेयो वा *? ब्रह्मभागादिभागके ॥ ६९।२१ ॥
शास्तावान्तर्बहिस्थाप्यो बाह्ये रौद्राः प्रकीर्तिताः ।
वास्तुविन्यासतुष्टास्तु प्रागत्र स्थापिताः सुराः ॥ ६९।२२ ॥
उक्तदेशेऽन्यदेशे वा न? ते वास्त्वङ्गभाजिनः ।
विना प्रतिष्ठां देवानां वास्तुन्यासं कथं भवेत् ॥ ६९।२३ ॥
तस्मात्सर्वप्रयत्नेन देवानां च प्रकल्पयेत् ।
विन्यसेद्रुद्रदेवांश्च शैवं सम्पादयेद्गुरुः ॥ ६९।२४ ॥
सन्त्यक्तमार्षस्थानाद्यथादेवालयास्त्विह ।
पुरातनात्त्वर्थालोच्य वास्तुन्याससमाचरेत् ॥ ६९।२५ ॥
वास्तुन्यासादिकं सर्वं प्रागेवप्रदिपादितम् ।
तथापि पुनरद्यापि विशेषस्तत्र कथ्यते ॥ ६९।२६ ॥

(पृ० १८९)

पदं पैशाचिकान्तं तु ग्राममानं विधीयते ।
गृहश्रेणिषु वृद्धिर्वा हानिर्बाह्यान्तरेऽपि वा ॥ ६९।२७ ॥
आयामे विस्तरे वापि वैषम्यं तेषु मानतः ।
इष्यते क्षुद्रमार्गो वा क्षुद्रे महति वास्तुनि ॥ ६९।२८ ॥
बाह्यान्तरविधौ चैव वषम्यं वा परस्परम् ।
वास्तुपैशाचवैषम्यमिष्यते वास्तुनिर्भितौ ॥ ६९।२९ ॥
तथैव मार्गो मानेषु यथा देवालयेषु च ।
स्थानादीनां यथा पीडा न स्यात्सर्वं नयेत् ॥ ६९।३० ॥
ब्रह्मदैविकभागादिस्थिता पीडा न दोषदा ।
तस्मादुक्तेषु देशेषु मर्माद्यं परिगृह्य च ॥ ६९।३१ ॥
नागरादिप्रभेदेन दिग्भेदेन विशेषतः ।
प्रतिपादितहर्म्येषु शिवाद्यान् स्थापयेत्ततः ॥ ६९।३२ ॥

॥ इति कामिकाख्ये महातन्त्रे देवतास्थापनविधिपटलः सप्तषष्टितमः ॥