६६ त्रिशूलस्थापनविधिपटलः

(पृ० १८५)

त्रिशूलस्थापनं वक्ष्ये तल्लक्ष्म स्यादनेकधा ।
चन्दनश्च मधूकश्च खदिरः सरलः तथा ॥ ६८।१ ॥
शमीतिनिशतापिञ्चः तिलको देवदारुकः ।
क्रमुकः सप्तपर्णश्च वकुलः कुन्दचन्दनौ ॥ ६८।२ ॥
पिण्डिकस्तिमिशो रक्तचन्दनः पनसः तथा ।
श्रीपर्णी खदिरः सालतिन्तृणीसालबिल्वकौ ॥ ६८।३ ॥
कदम्बः शिंशुपाह्वश्च धन्विनःशूलिनः कुजाः ।
पनसो देवादारुश्च पद्मतिन्दुकसञ्ज्ञकौ ॥ ६८।४ ॥
तिलकःसप्तपर्णश्च विष्णोः शूलार्थ ईरिताः ।
वकुलः कुटजाह्वश्च पिण्डितस्तिनिशः पुनः ॥ ६८।५ ॥
धन्विनश्चार्जुनाश्वत्थौ ब्रह्मणः पादपा मताः ।
यस्य देवस्य या देवी तस्याः तद्वृक्ष एव हि ॥ ६८।६ ॥
वैकङ्कतश्च खादिर्यः शमी दुर्गाकुजा मताः ।
ज्येष्ठायाः पाटली प्रोक्ता शिवाख्यः सप्तमातृषु ॥ ६८।७ ॥
वकुलश्चण्डवृक्षः स्याद्दिक्पाले राजवृक्षकः ।
खादिरः सर्वदेवानां क्षीरिणी खादिरः तथा ॥ ६८।८ ॥
सर्वासां देवतानां च श्रीवृक्षः सम्प्रकीर्तितः ।
गणपस्कन्दशास्तॄणां मातॄणां शिवपादपाः ॥ ६८।९ ॥
सर्वे सर्वत्र वा कर्याः कृत्यनाहानुसारिणः ।
ताम्रारकूटरौप्यैर्वा शातकुम्भेन वा मताः ॥ ६८।१० ॥
एकस्य चैकवृक्षः स्याद्बहुवृक्षस्तु नेष्यते ।
द्रव्यसङ्ग्रहणं कुर्यात्तद्विधनप्रकारतः ॥ ६८।११ ॥
केशाङ्गुल्यादिमानार्थं मानार्धं दारुवन्नयेत् ।
ब्रह्मदण्डस्य विस्तारः पञ्चाङ्गुलमिति स्मृतम् ॥ ६८।१२ ॥
मेढ्रादिनाभिपर्यन्तं चतुरश्राकृतिर्भवेत् ।
नाभेर्हिक्कान्तकं चैव वस्वश्रः परिभाषितः ॥ ६८।१३ ॥
तस्योर्ध्वं वकुलं कुर्यात्पक्षदण्डस्य विस्तरः ।
सप्ताङ्गुल इति ज्ञेया तद्धनेतु कला भवेत् ॥ ६८।१४ ॥
उभयोरग्रयोस्तस्य द्विमात्रे च शिखायतिः ।
व्योममात्रप्रमाणेन शिखाविस्तार इष्यते ॥ ६८।१५ ॥
एकद्वित्रिचतुःसङ्ख्याः शिखान्ताश्च प्रकीर्तिताः ।
रन्ध्रं विष्ण्वंशतारेण वक्षोदण्डस्य मध्यमे ॥ ६८।१६ ॥
हिक्कासूत्रादधस्तात्तु वक्षोदण्डस्य संस्थितिः ।
कटिदण्डस्य विस्तारः सप्ताङ्गुल उदाहृतः ॥ ६८।१७ ॥
कला ज्ञेया घने तस्य पार्श्वयोरुभयोरपि ।
अग्न्यङ्गुलप्रमाणेन शिखा तिर्यङ्मुखा भवेत् ॥ ६८।१८ ॥
ब्रह्मभागस्य तारेण तन्मध्ये सुषिरं नयेत् ।
चतुरश्रस्य तारेण मानार्धं द्व्यङ्गुलं न्यसेत् ॥ ६८।१९ ॥
द्विमात्रं नाभ्यधस्तात्तु हित्वात्र कटिदण्डकम् ।
योजयेद्ब्रह्मदण्डे तु सुस्निग्धं सुदृढं नयेत् ॥ ६८।२० ॥
ऊरुदण्डाग्रविस्तारः कोलकेति च सम्मतम् ।
तस्य मूले तु सुषिरं शिखामानेन कारयेत् ॥ ६८।२१ ॥
तस्याग्रे तु शिखां कुर्यात्पक्षमात्रप्रमाणतः ।
कटिदण्डे शिखायां च ऊरुदण्डं च योजयेत् ॥ ६८।२२ ॥
जङ्घायामेन सङ्ग्राह्यं चतुर्मात्रसमन्वितम् ।
जङ्घामूलस्य विस्तारस्त्र्यङ्गुलः समुदाहृतः ॥ ६८।२३ ॥
तस्य चाग्रे तु विस्तारः सार्धमात्र इति स्मृतः ।
तस्य मूले तु सुषिरं शिखामानेन कारयेत् ॥ ६८।२४ ॥
वक्षोदण्डशिखायां तु बाहुदण्डं तु योजयेत् ।
योजयेत्तूरुदण्डं तु जानुमण्डलकं बुधः ॥ ६८।२५ ॥
जानुमण्डलविस्तारो युगाङ्गुलमुदाहृतः ।
आयामस्तत्समो ज्ञेयो जङ्घा तत्र तदर्धतः ॥ ६८।२६ ॥

(पृ० १८६)

तलदण्डस्य विस्तारश्चतुर्मात्रमुदाहृतः ।
बाहुमूलस्य विस्तारो गुणाङ्गुलमुदाहृतम् ॥ ६८।२७ ॥
तस्याग्रस्य च विस्तारः सार्धपक्षाङ्गुलो मतः ।
सप्तमात्रप्रमाणेन तन्मूले सुषिरं नयेत् ॥ ६८।२८ ॥
वक्षोदण्डशिखायां तु बाहुमूलं तु योजयेत् ।
प्रकोष्ठमूलविस्तारस्त्रिमात्रः समुदाहृतः ॥ ६८।२९ ॥
तस्याग्रस्य च विस्तारः सार्धाङ्गुलमुदाहृतः ।
तन्मूलेन द्विमात्रेण सुषिरं कारयेत्ततः ॥ ६८।३० ॥
बाहुग्रस्तशिखाश्चैव प्रकोष्ठेनैव योजयेत् ।
वक्षोदण्डात्समारभ्य कटिदण्डान्तरक्रमात् ॥ ६८।३१ ॥
पार्श्वदण्डायतं ज्ञेयं तत्तारं कोलकं भवेत् ।
तद्घनं तत्समं ज्ञेयं पार्श्वदण्डस्य चोपरि ॥ ६८।३२ ॥
अधश्च सुषिरं कार्यभेकाङ्गुलप्रमाणतः ।
वक्षोदण्डकटीदण्डे योजयेत्पार्श्वदण्डकम् ॥ ६८।३३ ॥
पार्श्वजं दण्डयोर्मध्ये अग्रे च ऋषिमात्रकम् ।
स्त्रीणां चैव विशेषेण वर्जयेत्पार्श्वदण्डके ॥ ६८।३४ ॥
एतेषां दण्डमाने तु मांसमानं त्यजेद्बुधः ।
पादाङ्गुलं समारभ्य पादाङ्गुलविवर्धनात् ॥ ६८।३५ ॥
द्विमात्रान्तो विधेयः स्याद्धानिर्वृद्धिश्च युक्तितः ।
ब्रह्मदण्डेऽन्त्यदण्डेषु द्वात्रिंशद्गृह्यतां द्विजाः ॥ ६८।३६ ॥
शिरः करतलं कर्णमम्बरं चरणादिकम् ।
स्वमानादर्धमात्रं तु हीनं युक्त्यैव कारयेत् ॥ ६८।३७ ॥
स्थानकस्यैवमाख्यातं विशेषःकश्चिदासने ।
ब्रह्मदण्डस्य मूले तु योजयेत्तु युगाङ्गुलम् ॥ ६८।३८ ॥
जङ्घामूलप्रदेशस्तु अध्यर्धाङ्गुलहीनयुक् ।
शूललक्षणमाख्यातं तत्स्थापनमिहोच्यते ॥ ६८।३९ ॥
कालोऽपि पूर्ववन्नेयस्त्वङ्कुरार्पणमेव च ।
मण्डपः कुण्डकॢप्तिस्तु नवपञ्चैकसङ्ख्यया ॥ ६८।४० ॥
चतुरश्राणि कुण्डानि तद्दिक्कुण्डानि वा तथा ।
शिल्पिनं च विसृज्याथ पुण्याहं वाचयेत्ततः ॥ ६८।४१ ॥
वास्तुहोमं च कृत्वान्ते स्थण्डिलं कारयेद्द्विजाः ।
सङ्क्ल्प्य शयनं तत्र ज्ञात्वा ब्रह्मादिदण्डकान् ॥ ६८।४२ ॥
पञ्चगव्येन सम्प्रोक्ष्य ततः पञ्चामृतादिभिः ।
संस्नाप्य शुद्धतोयेन वस्त्रेणाच्छाद्य पूजयेत् ॥ ६८।४३ ॥
आसनं कल्पयित्वा तु शय्यायामासनाणुभिः ।
मूर्तिभूतं तु तच्छूलं हृदयेन निवेशयेत् ॥ ६८।४४ ॥
कौतुकं बन्धयित्वा तु तत्समन्ताद्घटान् न्यसेत् ।
सकूर्चान् हेमसंयुक्तान् सवस्त्रानुदपूरितान् ॥ ६८।४५ ॥
तत्तन्मूर्तिमनुं मध्ये लोकेशान् परितो यजेत् ।
तत्त्वतत्त्वेश्वरोपेतान् मूर्तिमूर्तीश्वरान्न्यसेत् ॥ ६८।४६ ॥
ब्रह्मभिः सकलीकृत्य मूर्तिं तत्र निवेशयेत् ।
गन्धपुष्पादिनाभ्यर्च्य मूर्तिमन्त्रमनुस्मरन् ॥ ६८।४७ ॥
पायसं सन्निवेद्याथ होमकर्म समारभेत् ।
कृत्वा कुण्डादिसंस्कारं मूर्तिमावाह्य तर्पयेत् ॥ ६८।४८ ॥
समिदन्नाज्यलाजैश्च तिलसर्षपसंयुतम् ।
पालाशोदुम्बराश्वत्थवटाःपूर्वादिदिक्षु च ॥ ६८।४९ ॥
शम्यपामार्गमाधूकश्रीवृक्षाः त्वग्निकोणतः ।
प्रधानस्य पलाशः स्याच्छतसङ्ख्या प्रधानके ॥ ६८।५० ॥
दशांशे ब्रह्मभिर्होमस्तथा नेत्रेण सम्मतः ।
तत्त्वतत्त्वेश्वराद्यैश्च प्रत्येकं त्रितयं क्रमात् ॥ ६८।५१ ॥
ततः पूर्णाहुतिं कृत्वा प्रभाते मूर्तिपैर्गुरुः ।
स्नात्वा देवं घटं मन्त्री सम्पूज्याग्निं समीपतः ॥ ६८।५२ ॥
स्थित्वा छिद्रं निरस्याथ पूर्णां मूर्त्या प्रदापयेत् ।
सुमुहूर्ते सुलग्ने तु प्राप्तपूजो गुरुत्तमः ।
सङ्गृह्य मूलधाम्नस्तु प्रदक्षिणमनुव्रजन् ॥ ६८।५३ ॥
प्रविश्य गर्भगेहं तु ज्ञात्वा ब्रह्मादिभागकान् ।

(पृ० १८७)

स्थानकादिविभागेन कृत्वा स्थानं घटीकृतम् ॥ ६८।५४ ॥
इष्टकांशादिकैस्तत्र न्यसेदाधारसञ्ज्ञकम् । ५५ ॥
स्थानङ्कासनसुप्ताश्च यानगा गमनोन्मुखाः ॥
नाट्योत्सुकाश्च षोढा स्यात्स्थानकाधारसञ्ज्ञतः । ५६ ॥
तथैव नृत्तसक्ता च गमनभिरता हि च ॥ ६८।५७ ॥
स्थानगोक्षादिसंस्था स्यादासनस्थास्तु पीठगाः ।
शय्यासक्ता तु सुप्ता स्यात्सा च प्रायोऽस्य नेष्यते ॥ ६८।५८ ॥
विष्ण्वादिप्रतिभा सा स्यादाधारं त्वधुनोच्यते ।
शूलमूलविशालेनाध्यर्धमाधारमानकम् ॥ ६८।५८ ॥
तद्बेराङ्गुलमानेन एकाङ्गुलविवर्धनात् ।
चतुरङ्गुलमानं स्यात्समं स्याच्चतुरश्रकम् ॥ ६८।५९ ॥
तद्घनं त्रिविधं प्रोक्तं तस्मादेकैकवर्धनात् । ६० ॥
चतुर्मात्रान्तमानं स्यात्क्रियामानानुसारतः ॥ ६८।६१ ॥
सुवर्णतारताम्राद्यैः पादपाद्यैस्तु वा भवेत् ।
पादानि नव तन्मध्ये कृत्वा कूटयुतानि वा ॥ ६८।६२ ॥
रत्नाद्यं विन्यसेत्तत्र प्रागुक्तविधिना गुरुः ।
तत्र संस्थापयेद्वाग्मी तत्र मूर्तिमनुस्मरन् ॥ ६८।६३ ॥
ब्रह्मदण्डेऽन्यदण्डांश्च योजयेदुक्तवर्त्मना ।
अथवा पीठिकोत्सेधं ब्रह्मदण्डस्य मूलतः ॥ ६८।६४ ॥
शूलदैर्घ्यान्वितं कृत्वा इष्टमानान्वितं तु वा ।
कृत्वा तदवधिस्थाने स्थाप्यं वाधारसञ्ज्ञकम् ॥ ६८।६५ ॥
स्थिराद्यं पीठबन्धाद्यैर्बन्धयेत्सुषिरं यथा ।
मूर्तिनिर्गतशूलैश्च सुस्थिरैः सारदारुजैः ॥ ६८।६६ ॥
इष्टनाहसमायुक्तैरिष्टसङ्ख्यासमन्वितैः ।
ब्रह्मदण्डादिदण्डे तु योजयित्वा गुरुत्तमः ॥ ६८।६७ ॥
स्थैर्यं सम्पादयेदत्र क्रियमाणानुसारतः ।
ऋजुभिर्लोहपट्टैश्च लोहकीलैरनेकधा ॥ ६८।६८ ॥
बन्धयित्वा यथाकर्म आर्द्रं वा वस्त्रवेष्टनम् ।
कल्कचिक्कणकाद्यैस्तु सम्पूर्णाङ्गं यथा नसत् ॥ ६८।६९ ॥
वर्णैर्नानाविधैर्श्चित्रं कारयेत् प्रतिमोक्तवत् ।
चतुर्वार्णानुलोमाद्यैः शिल्पिभिश्चित्रवित्तमैः ॥ ६८। ७० ॥
नयनोन्मीलनं कुर्याच्चित्रकर्मावसानके ।
नयनोन्मीलनात्पूर्वं द्रव्यमात्रं तु तद्भवेत् ॥ ६८।७१ ॥
तत्र छेदादिकं चेष्टं तदूर्ध्वं नेष्यते द्विजाः ।
तत्र प्रतिष्ठा कर्तव्या स्थापनोक्तविधानतः ॥ ६८।७२ ॥
स्थानायैव तलव्यासमानेनाधारसञ्ज्ञिकम् ।
जङ्घोरू प्रतिमादण्डान्स्थापयित्वा तदूर्ध्वतः ॥ ६८।७३ ॥
कटिदण्डं च संयोज्य ब्रह्मदण्डे नियोजयेत् ।
सर्वदण्डादिसंयुक्तं कृत्वा च प्रतिमादिकम् ॥ ६८।७४ ॥
पट्टाद्यैर्बन्धयित्वा तु तां शय्यायां निधाय च ।
तत्त्वमूर्त्यादिविन्यासं कृत्वा तां स्थापयेत्तु वा ॥ ६८।७५ ॥
शैली चेत्प्रतिमा शैलं कुर्यादाधारसञ्ज्ञकम् ।
अन्यत्सर्वं समानं स्यात्किन्तु पादशिलादयः ॥ ६८।७६ ॥
कृत्वा कूर्चं क्रमात्क्षीणं बलानुगतमानकम् ।
सुषिरे पीठमध्ये तु यथास्निग्धं नियोजयेत् ॥ ६८।७७ ॥
कृत्वासनं तु तन्मन्त्रैर्बाहुभिः सकलीकृतः ।
मूर्तिमन्त्रान्न्यसेत्कुम्भतोयगान् प्रतिमाहृदि ॥ ६८।७८ ॥
तदम्भसा तु संस्नाप्य लोकपान् परितो न्यसेत् ।
तच्छैलं सुधयालेप्य वस्त्रेणावेष्ट्य चित्रयेत् ॥ ६८।७९ ॥
शूलस्थापनकाले तु मूर्तिमन्त्रमनुन्यसेत् ।

॥ इति कामिकाख्ये महातन्त्रे त्रिशूलस्थापनविधिपटलः षट्षष्टितमः ॥