प्रतिमालक्षणं वक्ष्ये श्रूयतां मुनिसत्तमाः ।
लिङ्गतारोच्चनाहैर्वा तैश्च द्वित्रिगुणैस्तु वा ॥ ६७।१ ॥
अङ्गुलैस्त्रिविधैर्वापि मानमात्रतनूद्भवैः ।
प्रासादगर्भद्वाराभ्यां पादाधिष्ठानमानतः ॥ ६७।२ ॥
यवेन हस्तमानेन प्रतिमोच्चं विधीयते ।
अङ्गुलत्रितयं हस्तं यवमानं विहाय च ॥ ६७।३ ॥
शेषमानसमानं वा षोडशांशे कृतेऽथवा ।
तन्मध्ये च विकारांशे त्रिभागादेकवृद्धितः ॥ ६७।४ ॥
रुद्रान्तं वाधिकं हीनं पूर्वमानात्प्रकल्पयेत् ।
पूजांशो लिङ्गशब्देन कथितो द्विजसत्तमाः ॥ ६७।५ ॥
अङ्गुलत्रयमारभ्य मात्राद्वयविवर्धनात् ।
पञ्चविंशतिसंयुक्तशतमात्रान्तमीरितम् ॥ ६७।६ ॥
यवसप्तकमारभ्य यवद्वयविवर्धनात् ।
सहस्रयवपर्यन्तं यवमानं प्रकीर्तितम् ॥ ६७।७ ॥
मत्राङ्गुलैर्गृहाच्चाः स्युर्यवैः क्षुद्रं विधीयते ।
अष्टषष्ट्यर्कपङ्त्यूर्ध्वे वेदद्वियुगषड्विधम् ॥ ६७।८ ॥
भागं कृत्वैकभागेन युक्तं जात्यङ्गकान्वितम् ।
वसुभिर्गुणिते तस्मिन् सप्तविंशतिभिर्हृते ॥ ६७।९ ॥
ब्राह्मणादिदिनं प्रोक्तं तेषामेतच्छुभावहम् ।
त्रिष्वङ्गुलप्रमाणेषु जात्यंशकं न रोपयेत् ॥ ६७।१० ॥
शुभमानं न युक्तं चेद्राजग्रामादिवास्तुषु ।
उत्सेधं पङ्क्तिपङ्त्यादि भजेत्पञ्चषडंशकम् ॥ ६७।११ ॥
व्योमभागः सदा योज्यो यावानस्य शुभोदयः ।
आयांशश्चैव नेष्टः स्त्यात्त्रिविधेष्वङ्गुलेषु च ॥ ६७।१२ ॥
(पृ० १७८)
यवमानेऽपि जात्यंशमायांशं नैव रोपयेत् ।
वसुभिर्गुणितेष्वर्कहृते वायं विनिर्दिशेत् ॥ ६७।१३ ॥
अष्टपञ्चदिनं प्रोक्तं पञ्चविंशतिभिर्हृतम् ।
नवभिर्गुणिते सप्तहृते वारं तु निर्दिशेत् ॥ ६७।१४ ॥
नन्दसङ्गुणिते दिग्भिर्भाजिते व्ययमादिशेत् ।
गुणघ्ने वसुभिन्ने तु योनिरित्यभिधीयते ॥ ६७।१५ ॥
वेदसङ्गुणिते नन्दहृते त्वंशक इष्यते ।
द्वयोरृक्षफलं प्रोक्तं राशिरंशश्च ऋक्षतः ॥ ६७।१६ ॥
त्रिंशद्भिन्ने तिथिः प्रोक्ता योगो वारक्षयो भवेत् ।
जात्यंशयोजिते वैभिर्युक्तं चेत् तत्प्रगृह्यताम् ॥ ६७।१७ ॥
नो चेदायांशयुक्ते तु सशुभं तु समारभेत् ।
गृहीतप्रतिमोत्तुङ्गमानमात्रेण वा भवेत् ॥ ६७।१८ ॥
शैलं वार्क्षं च लोहं च मृण्मयं रत्नजं भवेत् ।
धातुजं दन्तजं बेरमेवं सप्तविधं भवेत् ॥ ६७।१९ ॥
मुहूर्ते समनुप्राप्ते गृहीतायाममानतः ।
प्रतिमां कारयेद्विद्वाञ्च्छिल्पिना हृदयं जपेत् ॥ ६७।२० ॥
बिम्बं सम्पूजयेत्पश्चाद्गन्धपुष्पादिभिर्हृदा ।
आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुलीयकैः ॥ ६७।२१ ॥
तथैव पूजयेत्पश्चाच्छास्त्रज्ञं शिल्पिवित्तमम् ।
सदाशिवाद्यं बेरं तु दशतालोत्तमेन तु ॥ ६७।२२ ॥
आदौ सदाशिवः प्रोक्तः नृत्तमूर्तिंरतः परम् ।
उमोमास्कन्दसहितः स्थितः स्यादिन्दुशेखरः ॥ ६७।२३ ॥
त्रिपुरघ्नः ततः प्रोक्तो लिङ्गोद्भूतस्त्वनन्तरम् ।
ततः स्याद्दक्षिणामूर्तिर्गेयमूर्तिरतः परम् ॥ ६७।२४ ॥
चण्डेशाधिपतिः पश्चात्कालकामादिनाशकः ।
सुखासनः ततः प्रोक्तः ततः कल्याणसुन्दरः ॥ ६७।२५ ॥
उमाविष्ण्वर्धरूपं च ब्रह्मविष्णुसमन्वितः ।
वृषारूढः ततः प्रोक्तः गङ्गायुगपरस्तथा ॥ ६७।२६ ॥
ततः कङ्कालमूर्तिः स्याद्बलिभर्ता त्वनन्तरम् ।
नन्दीश्वरप्रसादश्च ऊर्ध्वपादसमन्वितः ॥ ६७।२७ ॥
एवमादीनि चान्यानि प्रोक्ततालेन कारयेत् ।
मनोन्मनीं च गौरी च विघ्नेशस्कन्दनन्दिनः ॥ ६७।२८ ॥
चण्डेश्वरं तथा मध्यदशतालेन कारयेत् ।
ब्रह्माणं च हरिं लक्ष्मीं मोटीं वागीश्वरीमपि ॥ ६७।२९ ॥
दुर्गार्कसप्तमातृश्च दशतालाधमेन तु ।
ज्येष्ठासवितृ-ऋक्षेन्द्रानश्विनीं च महीम् ऋषीन् ॥ ६७।३० ॥
ज्येष्ठेन नवतालेन कुर्याक्षेत्रेश्वरं त्विति ।
लोकपालान् वसूनष्टौ मूर्तीर्मध्येन कारयेत् ॥ ६७।३१ ॥
यक्षानप्सरसो मध्याञ्छस्त्रमूर्तिमरुद्गणान् ।
विद्याधरान् कनिष्ठेन नवतालेन कारयेत् ॥ ६७।३२ ॥
राक्षसान् यातुधानांश्च गन्धर्वान् सिद्धचारणान् ।
असुरांश्च पितॄंश्चैव तथैव हि समाचरेत् ॥ ६७।३३ ॥
अष्टतालेन मनुजान् पिशाचान् सप्ततालतः ।
कुब्जकान् रसतालेन शरतालोत्तमेन तु ॥ ६७।३४ ॥
विघ्नेशं कारयेत्तस्य मध्यमेनाधमेन वा ।
भूतान्तराणि कार्याणि चतुः तालेन सालकान् ॥ ६७।३५ ॥
किन्नरान् पुरुषानन्यात् त्रितालेन द्वितालतः ।
कबन्धानेकतालेन द्विभागेनैवमाचरेत् ॥ ६७।३६ ॥
सर्वानेतांश्च वा कुर्याच्चतुर्भागाष्टतालतः ।
मानं प्रोक्तोपचाराद्यं लम्बाद्यं केवलं तु तत् ॥ ६७।३७ ॥
आयान्तरप्रदेशाच्च द्व्यन्तनानान्तलम्बनैः ।
भिन्नानि तानि मानानि तेषां लक्षणमुच्यते ॥ ६७।३८ ॥
तेष्वेकांशस्तु मात्रः स्यात्पूर्ववद्भाजितेष्वथ ।
कलाकोलकभागाख्यं स्याद्द्वित्रिचतुरङ्गुलम् ॥ ६७।३९ ॥
मानहीने महाव्याधिरधिके शत्रुवर्धनम् ।
नाहहीने विनाशः स्यादधिके च क्षयाय च ॥ ६७।४० ॥
(पृ० १७९)
प्रमाणहीने दारिद्र्यमधिके दारनाशनम् ।
लम्बमानविहीने तु राजराष्ट्रस्य नाशकृत् ॥ ६७।४१ ॥
उपमानबिहीने तु शिल्पिनं हन्ति देशिकम् ।
सर्वलक्षणसंयुक्तमेतत्सर्वप्रदायकम् ॥ ६७।४२ ॥
उष्णीषमङ्गुलं ज्ञेयं केशान्तं त्र्यङ्गुलं भवेत् ।
सार्धत्रयोदशं मात्रं मुखमात्रं विधीयते ॥ ६७।४३ ॥
केशान्ताअदक्षिसूत्रान्तो भागो वेदयबाधिकः ।
अक्षिसूत्रात्पुटान्तं च तत्समं परिकीर्तितम् ॥ ६७।४४ ॥
तत्पुटार्धात्तु पर्यन्तो भागो वेदयबाधिकः ।
गलमर्धाङ्गुलं ज्ञेयं कर्णो भागसमुच्छ्रयः ॥ ६७।४५ ॥
हिक्कादिहृदयान्तं च सार्धविश्वाङ्गुलं मतम् ।
हृदयान्नाभिपर्यन्तं तत्समं चेति कीर्तितम् ॥ ६७।४६ ॥
नाभ्यादिमेढ्रपर्यन्तं विश्वामित्रमिति स्मृतम् ।
मेढ्रमूलात्तु जान्वन्तं सप्तविंशतिमात्रकम् ॥ ६७।४७ ॥
वेदमात्रं तु जानुः स्याज्जङ्घे चोरुसमे मते ।
तालोत्सेधस्तु भागः स्यात्कायमानमिति स्मृतम् ॥ ६७।४८ ॥
दशतालोत्तमं ह्येतत्तस्या मध्यममुच्यते ।
उष्णीषात्केशपर्यन्तं चतुर्मात्रमिति स्मृतम् ॥ ६७।४९ ॥
केशान्ताद्धनुपर्यन्तं विश्वामित्रमिति स्मृतम् ।
ग्रीवा वेदाङ्गुलाः प्रोक्ता ग्रीवायास्तु स्तनान्तरम् ॥ ६७।५० ॥
विश्वामित्रमिति ज्ञेयं नाभ्यन्तं तत्समं भवेत् ।
नामेस्तु मेढ्रपर्यन्तं विश्वामित्रमिति स्मृतम् ॥ ६७।५१ ॥
तद्द्वयं चोरुमानं स्याज्जानुपर्यन्तमेव हि ।
भागेन जानुमानं स्याज्जङ्घे ऊरुसमे मते ॥ ६७।५२ ॥
तालोत्सेधस्तु भागः स्यान्मध्यमे दशतालके ।
उष्णीषमङ्गुलं प्रोक्तं केशान्तं त्र्यङ्गुलं भवेत् ॥ ६७।५३ ॥
केशान्ताद्धनुपर्यन्तं सार्धद्वादशकं मतम् ।
गलमर्धाङ्गुलं ज्ञेयं भागः कण्ठे समुच्छ्रयः ॥ ६७।५४ ॥
हिक्कासूत्रात् स्तनान्तं तु सार्धद्वादशमात्रकम् ।
स्तनान्तान्नाभिपर्यन्तं तत्समं चेति कीर्तितम् ॥ ६७।५५ ॥
नाभेस्तु मूलमेढ्रान्तमर्धोनद्वादशाङ्गुलम् ।
पञ्चविंशतिमात्रस्तु तस्मात्पूर्वाग्रकावधि ॥ ६७।५६ ॥
जानुमानं तु भागेन जङ्घे चोरुसमे मते ।
भागेन तलदैर्घ्यं स्यान्मानमेवं प्रकीर्तितम् ॥ ६७।५७ ॥
दशतालाधमं प्रोक्तं दशतालं त्रिधोदितम् ।
ज्येष्ठस्य नवतालस्य तालं द्वादशमात्रकम् ॥ ६७।५८ ॥
वेदाङ्गुलेन भागः स्यादन्यत्सर्वं समानकम् ।
वेदभागाष्टतालैश्च कुर्याल्लक्षणमुच्यते ॥ ६७।५९ ॥
मुखाष्टकं चतुर्भागं सर्वतालं प्रयोजयेत् ।
अष्टाविंशतिभागं तु बेरमानं विभाजयेत् ॥ ६७।६० ॥
भाग एकाम्श इत्युक्तस्त्रिभागः ताल उच्यते ।
उष्णीषकर्णजान्वङ्घ्रिगृहीतवदनायतम् ॥ ६७।६१ ॥
द्वादशांशं विभज्यैव तेन मानेन कारयेत् ।
सर्वेषामपि देवानां सनातनमिति स्मृतम् ॥ ६७।६२ ॥
दशतालादितालानां मानमद्योच्यते द्विजाः ।
स्यात्त्रयाङ्गुलमुष्णीषं केशान्तं त्रयङ्गुलं तथा ॥ ६७।६३ ॥
भागः स्यान्नेत्रसूत्रान्तं सांशवेदांशकं पदम् ।
अर्धेन त्रिचतुर्भागं हनुभूतं प्रकीर्तितम् ॥ ६७।६४ ॥
गलमर्धांशकं सार्धं त्रिमात्रं कर्णमीरितम् ।
हृन्नाभिमेढ्रपर्यन्तं द्वादशाङ्गुलमुच्यते ॥ ६७।६५ ॥
मुखजानुक्रमान्तं च जानुमानं च भागभाक् ।
जङ्घे द्विगुणितायामे तालोच्चं भागतो भवेत् ॥ ६७।६६ ॥
शिरोव्यासे दशांशः स्यान्मुखव्यासः तथैव च ।
पुरोगमः स्यादष्टांशः अष्टाम्श कन्धरो भवेत् ॥ ६७।६७ ॥
भ्रुवौ विधेये वेदांशैः स्निग्धश्लक्ष्णाञ्जनप्रभे ।
धन्वाकारे तु तन्मध्ये भ्रूमध्याद्द्व्यंशकं मतम् ॥ ६७।६८ ॥
(पृ० १८०)
श्रोत्रचूल्यन्तमानं तच्छ्रोत्रस्याष्टान्तरामुखे ।
मध्यांशमपि चूल्येका भाग अर्धांशतो भवेत् ॥ ६७।६९ ॥
अर्धपादांशविस्तारघनो नालमुखेषु च ।
चतुर्भागान्वितावेकांशाधिकौ कुण्डलान्वितौ ॥ ६७।७० ॥
श्रोत्रचूल्यर्धभागैकव्यासनिर्गमनानती ।
तावपि श्रोत्रावन्तं च निम्नगं बहिरुन्नतम् ॥ ६७।७१ ॥
द्विभागविस्तृतौ कर्णावर्तिः शुक्त्याकृतिः पुटम् ।
द्विभागायतमेकांशं व्यासमध्यं तु लोचनम् ॥ ६७।७२ ॥
सायामं त्र्यंशकं मध्ये भागैकं कृष्णमण्डलम् ।
तन्मध्ये तस्य पञ्चांशं ज्योतिर्दृष्टिः तदर्धतः ॥ ६७।७३ ॥
तेन तुल्ये विधातव्ये पक्षयोः शुक्लमण्डले ।
मानाधिकेऽष्टभागार्धव्यासायामे कनीनिके ॥ ६७।७४ ॥
नेत्रयोर्लोर्हितश्वेतमण्डलं शफराकृति ।
उर्ध्वान्तः पक्ष्मविस्तारः पादाङ्गुष्ठार्ध एव हि ॥ ६७।७५ ॥
शतानि पक्ष्मरोमाणि षट्पदाञ्जनभानि च ।
सुलोचनमनिद्रं स्यात्कर्मणे सर्वदेहिनाम् ॥ ६७।७६ ॥
प्रशान्तमृदुनेत्रस्य व्यासादष्टार्धहीनके ।
रूक्षेक्षणे विधातव्ये अष्टांशार्धाधिके मते ॥ ६७।७७ ॥
नेत्रान्ताच्छ्रोत्रबन्धान्तं पञ्चांशमिति कीर्तितम् ।
नेत्रयोरन्तरं द्व्यंशं किञ्चिन्न्यूनं तु वा भवेत् ॥ ६७।७८ ॥
भ्रूरष्टांशोन्नता पादविस्तारं मध्यमं मतम् ।
पादेन प्रान्तसंयुक्ता विधेया स्याद्द्विजोत्तमाः ॥ ६७।७९ ॥
अर्धैकविंशविस्तीर्णा मूलमध्याग्रनासिका ।
तावदुच्चस्तदाकारः तिलपुष्पसमो भवेत् ॥ ६७।८० ॥
भागं पुटद्वयायामं व्यासे वंशस्य विस्तरम् ।
पुटवत्पादभागार्धमधिकोन्नतिसंयुता ॥ ६७।८१ ॥
पुटौ निष्पावतुल्यौ स्याच्छ्रोत्रसार्धार्ध एव हि ।
ऋजुतिर्यक्त्रिपादोनमिष्टांशेन विशालयुक् ॥ ६७।८२ ॥
पुष्करं चोर्ध्वनासांशव्यासोऽष्टांशोऽपि च त्रिधा ।
नासान्तांशं नताग्रं स्यात्पुटे तु विपुले तथा ॥ ६७।८३ ॥
पादार्धांशविशालोच्चा गोजिराच्च नतोन्नता ।
चतुरंशायततया नीव्रमंशं समालिकम् ॥ ६७।८४ ॥
त्रिभागोत्तरवाली स्यात्पादाष्टांशेन चोष्ठयोः ।
अधरोष्ठाय तद्द्व्यंशमायामात्तु विशालकम् ॥ ६७।८५ ॥
विशालाच्चतुरंशेन तुङ्गमध्ये नतान्तिकम् ।
हनुचक्रं द्विभागं स्याद्धन्वग्रं किञ्चिदुन्नतम् ॥ ६७।८६ ॥
अधरोष्ठादधो निम्नं तन्मिथ प्रेक्ष्य योजयेत् ।
अष्टांशं कर्णविस्तारं पञ्चपञ्चांशनासियुक् ॥ ६७।८७ ॥
गलं हनुश्च ग्रीवांशस्तथा द्व्यंशः प्रवेशभाक् ।
पृष्ठकेशावधिर्मूर्ध्नो मुखं स्याच्चतुरङ्गुलम् ॥ ६७।८८ ॥
ग्रीवा द्विभागा यत्रैव कर्णवृत्तिः तथाधिका ।
अष्टांशविस्तरः पृष्ठे कर्णवृत्यन्तरे शिरः ॥ ६७।८९ ॥
केशसीमपुरोगान्तात्कर्णचूल्यन्तमानकम् ।
केशान्तं नाहषट्पञ्चभागोऽष्टांशेन नाहकम् ॥ ६७।९० ॥
कपोलशङ्खपर्यन्तं सोत्क्षेपं सम्मतं बुधाः ।
स्कन्धो गलसमोच्चः स्यान्मूलं योर्?मूलसङ्क्षयम् ॥ ६७।९१ ॥
अष्टांशो मूलदोस्तारः पक्षः कक्षान्तरं ततः ।
विंशत्यंशत्रिभागोना स्तनपार्श्वावधेः स्थितिः ॥ ६७।९२ ॥
मध्यं तस्माद्विभागोनः तस्माद्द्व्यंशाधिकानतिः ।
श्रोणी कटी तथा तस्मादेकैकं चतुरंशकम् ॥ ६७।९३ ॥
नाभिरर्धांशविस्तीर्णा गम्भीरोदरतोन्नता ।
सम्पूर्णगोमुखाकारं पादाग्रान्तं मुखे मुखे ॥ ६७।९४ ॥
चतुरंशः ततो ग्रीवा सीम्नोऽथोन्नतिरागलात् ।
हिक्काः तनाग्रकस्तस्थोनान्ताल्पः स(म)खण्डनः ॥ ६७।९५ ॥
द्विभागं स्यात्स्तनान्तं स्यात् चूचुकः पादभागभाक् ।
तिर्यक्कर्णधरः पृष्ठे द्वादशद्विगुणांशकः ॥ ६७।९६ ॥
(पृ० १८१)
पुरस्तनोरः तुल्यं स्यात्सूत्रं तत्क्षयितं नवेत् ।
विंशातिः कटिसन्धौ स्यात्ककुद्दोषोस्त्रिरष्ट च ॥ ६७।९७ ॥
कण्ठो द्वादशभागस्तु पृष्ठस्तु चतुरंशतः ।
श्रोणिः कटिश्च मध्यं च मुखे तिर्यङ्मुखेऽपि च ॥ ६७।९८ ॥
पञ्चद्व्यंशायतव्यासो मेढ्रमुष्के विशालता ।
आनतिश्चतुरंशा तु लिङ्गं वृत्तमृजु स्थिरम् ॥ ६७।९९ ॥
स्फिक्पिण्डं चोरुमूलेऽष्टभागो वृत्तस्त्रिभागकः ।
उत्तुङ्गमूरुमूलं तु मूलमध्याग्रविस्तरः ॥ ६७।१०० ॥
स्याद्द्वादशांशश्चाष्टांशस्तावाञ्जान्वग्रविस्तरः ।
चतुः षट्तारदैर्घ्यं तु जानु स्याद्दैर्घ्यवर्तुलम् ॥ ६७।१०१ ॥
जङ्घा षडंशा नलका चतुरंशविशालभाक् ।
पार्ष्णिर्मध्यग्रतलगा चतुष्पञ्चषडंशकैः ॥ ६७।१०२ ॥
तिथिर्मध्यतलोत्सेधः पञ्चांशः पार्ष्णिरुछ्रयः ।
चतुरंशाक्षगुल्फे च द्व्यंशसार्धांशमण्डले ॥ ६७।१०३ ॥
नलकापार्श्वमध्यं तु मध्यं स्यादक्षगुल्फयोः ।
पार्ष्णिपृष्ठे सुवृत्तान्तं पार्ष्ण्यङ्ङ्गुष्ठाग्रमायतम् ॥ ६७।१०४ ॥
तस्य षोडशकांशं तु द्विसप्तांशमिति स्मृतम् ।
पार्ष्णिसीमात्कनिष्ठान्तं चतुरंशेन विस्तरः ॥ ६७।१०५ ॥
पार्ष्णिरक्षादधस्तुङ्गं चतुरंशान्तरं भवेत् ।
चतुरंशायतोऽङ्गुष्ठस्तत्तारे चेद्द्विभागके ॥ ६७।१०६ ॥
पादाधिकचतुर्भागदीर्घो नाहस्तु त्र्यंशकः ।
द्वितीयस्य तृतीयं स्याद् द्वयवेदोननाहयुक् ॥ ६७।१०७ ॥
पादोनचतुरंशान्तायामा वा स्यादनामिका ।
त्र्यंशायामाष्टभागेन भागोच्चविपुलान्विता ॥ ६७।१०८ ॥
६७।दव्यंशायामा त्रिपादोच्चव्यासोपेता कनीयसी ।
एतासामङ्गुलानां तु नखः स्वाग्रत्रिपादभाक् ॥ ६७।१०९ ॥
आरक्तस्निग्धतुङ्गास्तु अङ्गुल्यस्ताः सुवर्तुलाः ।
अष्टभागाधिकायामस्त्वङ्गुष्ठस्तु द्वितीयकः ॥ ६७।११० ॥
भुजायामो द्विक्दनो मुखार्धं मुखमिष्यते ।
प्रकोष्ठमणिबन्धान्ततलायामः षडंशत।ः ॥ ६७।१११ ॥
मध्याङ्गुलायतं तावत्षट्पञ्चत्र्यंशविस्तरः ।
भागः स्यात्कूर्परः तस्मान्मणिबन्धावसानकम् ॥ ६७।११२ ॥
तलमूलस्य बाहुल्यं द्विभागं भागमग्रतः ।
चतुस्त्रिंशायतव्यासः त्वन्तं निम्नं समीरितम् ॥ ६७।११३ ॥
अङ्गुष्ठाङ्गुलमूलं तु तन्नाम्नोक्तः शुक्रोदरः ।
पञ्चांशः तलविस्तारः तलमानिम्नमध्यगम् ॥ ६७।११४ ॥
सान्तोच्चं सममेवं हि विधातव्यं बहिः तलम् ।
सपादांशश्चतुर्भागः त्वङ्गुष्ठविपुलायतिः ॥ ६७।११५ ॥
अग्रे दशांशहीनं तु पर्वायामो द्विभागभाक् ।
तर्जन्यष्टांशहीनांशव्यासाष्टांशाग्रहीनकाः ॥ ६७।११६ ॥
पञ्चांशार्धायतान्योन्यहीनाः पर्वत्रयान्विताः ।
षडंशैकांशकायामव्यासा मध्याङ्गुली मता ॥ ६७।११७ ॥
तर्जन्यानामिका तुल्या तदेकोना कनिष्ठिका ।
तद्दशांशोनविस्तारा पर्वत्रयसमन्विता ॥ ६७।११८ ॥
अग्रव्यासो दशांशोनः त्वङ्गुलीमूलविस्तरात् ।
त्रित्रिपादद्विभागैस्तु चतुर्भागविभागिका ॥ ६७।११९ ॥
अङ्गुलीनखविस्तारो दैर्घ्यं चैव प्रकीर्तितम् ।
अग्रपर्वाङ्गुलीनां तु द्विगुणं स्यान्नखायतम् ॥ ६७।१२० ॥
बहिरन्तःस्थलं तुङ्गं निम्नं तु बहिरङ्गुली ।
अभ्यन्तरगताङ्गुल्या भागाधिक्यायता मता ॥ ६७।१२१ ॥
रक्तपाणितलं व्यक्ताविच्छिन्नारक्तरेखकम् ।
शङ्खचक्रगदाशूलपद्मवज्रसमन्वितम् ॥ ६७।१२२ ॥
सुवृत्तासीररोमाङ्गौ भुजावाजानुलम्बिनौ ।
आलम्बितभुजच्छायमूरुपाणितलान्तरम् ॥ ६७।१२३ ॥
स्याद्द्वादशदशाष्टांशो बाह्यः स्यात्पार्श्वमध्यतः ।
उष्णीषतपनीगोजीग्रीवोरुनाभिमध्यगम् ॥ ६७।१२४ ॥
(पृ० १८२)
लिङ्गपादतलान्तस्थं ब्रह्मसूत्रं पुरोगतम् ।
यदुष्णीषकक्रुद्वंशखण्डस्फिक्पार्ष्णिमध्यगम् ॥ ६७।१२५ ॥
ऋजु स्थिरं परावृत्तं ब्रह्मसूत्रं विनिर्दिशेत् ।
मूर्ध्नः श्रवणपाल्यन्तं गुल्पग्रीवांसमध्यगम् ॥ ६७।१२६ ॥
पार्श्वस्फिक्यजसूत्रं स्यादन्तर्देहगतं द्विजाः ।
पार्श्वाजसूत्रादधिका चतुष्पञ्चांशका ककुद् ॥ ६७।१२७ ॥
सूत्रत्त्रिभागः पञ्चाशात्स्याद्बाहुश्च बहिर्बहिः ।
दशभागं कटीसूत्रं मुखे पृष्ठषडङ्गकम् ॥ ६७।१२८ ॥
सूत्रात्पूर्वोरुमूलान्ताद्दशान्ताद्द्व्यंशकं बहिः ।
जानुत्रिचतुरंशं तु पार्श्वसूत्रं मुखे मुखे ॥ ६७।१२९ ॥
सूत्रात्तु नलकागुल्फं स्वमित्योभयथा समम् ।
सूत्रात्पञ्चांशकात्पर्ष्णिरेवं पार्श्वं प्रकीर्तितम् ॥ ६७।१३० ॥
मूलोरुजानुजङ्घान्तरेकद्विचतुरंशकम् ।
मुखं स्यान्नलकाबाह्यादन्तरं चतुरंशकम् ॥ ६७।१३१ ॥
एवमृज्वागतं विश्वदृश्यं चित्रमिति स्मृतम् ।
भित्त्याश्लिष्टं ह्यर्धचित्रं दृष्टचित्रमिति स्मृतम् ॥ ६७।१३२ ॥
आभासं भित्तिलेख्यं स्यादेतत्सामान्यमीरितम् ।
स्त्रीमानमधुना वक्ष्ये षण्णवत्यङ्गुलं तु तत् ॥ ६७।१३३ ॥
उष्णीषात्केशपर्यन्तं कोलकं सचतुर्यवम् ।
त्रिमात्राष्टयवं व्यासोत्सेधमुष्णीषमानकम् ॥ ६७।१३४ ॥
तस्माद्दृक्पुटहन्वन्तं चतुस्त्रिद्व्यर्धमात्रकम् ।
ग्रीवा त्रिमात्रा स्याद्वक्षः सार्धषट्पञ्चमात्रकम् ॥ ६७।१३५ ॥
सार्धैर्दशाङ्गुलैर्मध्यं नाभेर्योनिर्दशाङ्गुला ।
स्यादूरुजानुजङ्घाङ्घ्रितलानुच्चैरनुक्रमात् ॥ ६७।१३६ ॥
द्वाविंशतित्रयोविंशमात्राभिः स्थितिरीरिता ।
मूर्ध्नो नवदशाङ्गुल्यं केशसीमा मुखे मुखे ॥ ६७।१३७ ॥
नवविंशतिमात्रेण नाहं केशावसानकम् ।
ललाटं शरमात्रं तु मध्ये ख्यातं पुरोगतम् ॥ ६७।१३८ ॥
दृक्सूत्राच्छ्रोत्रतुङ्गं तु भ्रूमध्ये द्व्यङ्गुलं भवेत् ।
भ्रूमध्यं यवतारोच्चं दैर्घ्यं स्यात् तत्त्रिमात्रकम् ॥ ६७।१३९ ॥
अन्तयोः क्रमशो हीनं भ्रुवोरानतिरन्तरम् ।
अङ्गुलेन समं स्निग्धश्लक्ष्णरोमधनुः समम् ॥ ६७।१४० ॥
यवहीनकलायामे मध्ये षोडशविस्तरे ।
नेत्रे पञ्चयवव्यासं तन्मध्ये कृष्णमण्डलम् ॥ ६७।१४१ ॥
चतुरर्धयवव्यासे तद्द्वयोः श्वेतमण्डले ।
कनीनिके द्वयान्तस्थे यवतारान्वितायते ॥ ६७।१४२ ॥
यवं चार्धयवं ज्योतिर्दृष्टिः कृष्णांशमध्यगा ।
ऊर्ध्वाधःपक्ष्मविस्तारो द्वियवार्धयवोन्नतः ॥ ६७।१४३ ॥
श्रोत्रे नेत्रसमव्यासात्कला पञ्चयवाधिका ।
कर्णबन्धात्तु कर्णाग्रं ततः सप्तयवं स्मृतम् ॥ ६७।१४४ ॥
त्रियवं श्रोत्ररध्रं स्यान्नालौ त्र्यर्धाङ्गुलायतौ ।
कुण्डलेन युतौ तौ हि भवेतां कोलकाधिकौ ॥ ६७।१४५ ॥
नासीनालसमौ नीव्रव्यासार्धद्विचतुर्यवौ ।
अर्धमात्राधिकावष्टमात्रौ वा श्रवणौ स्मृतौ ॥ ६७।१४६ ॥
लकारावर्तवज्ज्ञेया पिञ्चसी सार्धमात्रिका ।
श्रोत्रे कलान्तरं निम्नं नतवृत्ताङ्गवद्बहिः ॥ ६७।१४७ ॥
श्रोत्रचूलिर्यवव्यासा निर्गतावनतक्रिया ।
श्रोत्रपृष्ठं तथा श्रोत्रसममूर्ध्वे दशार्धकम् ॥ ६७।१४८ ॥
ललाटान्ताद्दृगन्तं तु द्विमात्रं षड्यवाधिकम् ।
तस्मात्सप्तयवोऽपाङ्गः तस्मात्त्र्यर्धाङ्गुलं मुखम् ॥ ६७।१४९ ॥
आलेख्यलेखने त्वर्धयवोनं श्रोत्रमङ्गुलम् ।
नेत्रयोरन्तरं नेत्रतारं नासापुटावधि ॥ ६७।१५० ॥
शेषं तु मुखतारं स्यान्नेत्रश्रोत्रान्तरं मतम् ।
नासामूलोन्नतिर्न्नेत्रमध्ये स्यादर्धमात्रिका ॥ ६७।१५१ ॥
द्व्यर्धसप्तयवं सप्तयवयुक्तं कलार्धकम् ।
मूलमध्याग्रं नास्यास्तु विस्तारे कीर्तितं क्रमात् ॥ ६७।१५२ ॥
(पृ० १८३)
पुटौ सप्तयवव्यासायामौ वंशस्य विस्तृतिः ।
मात्रा श्रोत्राङ्गपञ्चार्धाङ्गुलायामा तु मस्तके ॥ ६७।१५३ ॥
पुष्करः षड्यवोत्सेधस्तन्मध्ये यवविस्तरः ।
पुटौ निष्पाववत्प्रोक्तौ नात्युन्नतिसमन्वितौ ॥ ६७।१५४ ॥
पुटत्वग्यवनीव्रा स्यान्नासिकार्धाङ्गुलोन्नतिः ।
गोजीमूलात्पुटान्तं तु तद्व्यासस्य समुच्छ्रयः ॥ ६७।१५५ ॥
नासाग्रं तिलपुष्पाभं यवेनालम्बितं पुटात् ।
नेत्रं वा दिनपद्मोत्थमारक्तं श्वेतमण्डलम् ॥ ६७।१५६ ॥
द्विचतुर्यवतारोच्चा गोजिरास्योर्ध्वमध्यगा ।
आनिम्नार्धत्रिमात्रे तु ऊर्ध्वोष्टविपुलायते ॥ ६७।१५७ ॥
स्यात्त्रिवर्गोत्तरा पालिर्यवेनैवाधरोष्टगा ।
उन्नतायतविस्तारे षड्यवा षड्यवाधिका ॥ ६७।१५८ ॥
मात्रा मात्राधरोष्टस्य समध्योच्चानतावधिः ।
तुण्डीरखण्डसङ्काशं किंशुकप्रसवच्छवि ॥ ६७।१५९ ॥
हनुचक्रमथ श्लिष्टं ग्रीवायास्त्र्यङ्गुलोद्गतम् ।
ग्रीवा पञ्चाङ्गुलव्यासा व्यासत्रिगुणनासिका ॥ ६७।१६० ॥
अंसौ पञ्चाङ्गुलव्यासावध्यर्धोच्चौ हनोरधः ।
हनुचक्रद्विमात्रार्धमास्यरूपं तु पूर्ववत् ॥ ६७।१६१ ॥
ऊर्ध्वे द्व्यर्धयवा दन्ता द्वियवा विपुलोन्नताः ।
तेभ्योऽर्धोनायतव्यासा अधोदन्तास्तु दन्ततः ॥ ६७।१६२ ॥
यवार्धेनाधिका दंष्ट्रा दन्ताः स्निग्धाः समाः स्थिताः ।
सुस्निग्धाञ्जनरोचींषि पक्ष्मरोमाणि योजयेत् ॥ ६७।१६३ ॥
अशीतिर्नवतिर्वापि सङ्ख्यया सम्मतानि च ।
केशास्तु ऋजवः शुद्धाः सूक्ष्माः स्निध्याः समासिताः ॥ ६७।१६४ ॥
सालकं च ससीमन्तं सधम्मिल्लललाटयुक् ।
योषितां वदनं कुर्यात्सुप्रकारं मनोहरम् ॥ ६७।१६५ ॥
बाहुमूलविशालस्तु ग्रीवातारसमो मतः ।
पक्षः कक्षान्तरं तस्य तारःसप्तदशाङ्गुलम् ॥ ६७।१६६ ॥
हिक्काया दशमात्रान्तं विधेयं स्तनचूचुकम् ।
तदन्तरं द्विभागं स्यात्कुक्षेरप्यथ वक्षसि ॥ ६७।१६७ ॥
स्तनौ पञ्चाङ्गुलोत्सेधौ वृत्तौ द्विविधचूचुकौ ।
मूले सप्ताङ्गुलव्यासावश्वत्थदलसम्मुखौ ॥ ६७।१६८ ॥
सुवृत्तावन्तरे ह्युच्चं वक्षोऽन्तर्विहितावधि ।
चतुर्दशाङ्गुलान्तं तु स्तनान्तं हृदयावधि ॥ ६७।१६९ ॥
मूलबाहुद्वयान्तं स्यादेकोनत्रिंशदङ्गुलम् ।
हिक्काधो बाहुदैर्घ्यं तु द्वाविंशत्यङ्गुलं भवेत् ॥ ६७।१७० ॥
कूर्परं स्याच्चतुर्मात्रं प्रकोष्ठो द्वादशाङ्गुलः ।
मणिबन्धस्य विस्तारं त्रियवेनाधिका कला ॥ ६७।१७१ ॥
द्वियवेन कलानीव्रं पाणिमूलतलं मतम् ।
पञ्चाङ्गुलः तलव्यासः तलायामो द्विकोलकः ॥ ६७।१७२ ॥
आयामो मध्यमाङ्गुल्याः तलायामसमो मतः ।
मूलाङ्गुलिविशालस्य तलाग्रबहुलं समम् ॥ ६७।१७३ ॥
चतुष्पञ्चयवस्त्वग्रनखोऽङ्गुष्ठो द्विपर्वभाक् ।
षट्पञ्चयवमूलाग्रा चतुरर्धाङ्गुलायता ॥ ६७।१७४ ॥
अन्योऽन्यैकघनोपेतमूलमध्याग्रपर्वभाक् ।
त्रिचतुर्यवविस्तारश्यामरक्तनखान्विता ॥ ६७।१७५ ॥
प्रादेशिन्यङ्गुलिः तस्या यवमात्राधिकायता ।
एकोनविंशत्त्रिःपञ्चयवमूलाग्रनाहिका ॥ ६७।१७६ ॥
प्राग्वन्नखत्रिपर्वाग्रा सा मता मध्यमाङ्गुलिः ।
अनामिका प्रदेशिन्या समाना मानलक्षणात् ॥ ६७।१७७ ॥
त्रिमात्रद्वियवायामा मूले पञ्चयवा ततः ।
अग्रे चतुर्यवाध्यर्धत्रियवार्धनखान्विता ॥ ६७।१७८ ॥
प्राग्वत्त्रिपर्वसंयुक्ता सुवृत्ता सा कनिष्ठिका ।
मूलाद्यग्राः सुवृत्ताः स्युरङ्गुल्यः सुसमाहिताः ॥ ६७।१७९ ॥
अन्तर्हस्ततले ह्येतन्निम्नतुल्यतलं बहिः ।
बहिःतलस्य मूलं तु मणिबन्धात्ततोऽधिकम् ॥ ६७।१८० ॥
(पृ० १८४)
रेखां सुरक्ता सुस्निग्धा श्रीवत्साद्यङ्कसुच्छविः ।
गोमुखाकारवद्धस्तो युवतीनां विधीयते ॥ ६७।१८१ ॥
हिक्कासूत्रादधो यावदायामोऽन्तः षडष्टभिः ।
त्र्यर्धद्व्यर्धकला तस्य मूलमध्याग्रविस्तरः ॥ ६७।१८२ ॥
आमध्याङ्गुलि योषाणामेष हस्तविधिः स्मृतः ।
अधरोष्ठावधेर्ग्रीवा त्रिमात्रा स्यात्तथा ककुत् ॥ ६७।१८३ ॥
मात्रामात्रोन्नतिः तस्यास्तिर्यक्कक्षे यवार्धकम् ।
पृष्ठे कक्षावधे रेखा दशकोलकसम्मिता ॥ ६७।१८४ ॥
ग्रीवायाः कटिसूत्रैकविंशदङ्गुलदैर्घ्यभाक् ।
कट्यास्तु तुण्डतः तालं पृष्टं षड्यवकोलकम् ॥ ६७।१८५ ॥
पृष्ठे कट्यन्तविस्तारश्चैकविंशतिमात्रकः ।
पृष्ठे नाभिगुहासाम्ये श्रोणिः सप्तदशाङ्गुला ॥ ६७।१८६ ॥
ऊरुमूलात्त्रिमात्रोच्चं स्फिक्पिण्डं चाष्टमात्रकम् ।
स्फिक्ताराङ्गावधेस्तुल्यलेखा लेख्या मुखे मुखे ॥ ६७।१८७ ॥
एकादशाङ्गुलं मध्यव्यासस्त्रिगुणनाहयुक् ।
वलित्रययुतं कार्यं शातोदरसमं शुभम् ॥ ६७।१८८ ॥
अर्धाङ्गुलसुविस्तीर्णं तावद्गम्भीरसंयुतम् ।
प्रदक्षिणक्रमावर्ता नाभिः कार्या मुनीश्वराः ॥ ६७।१८९ ॥
श्रोणिः सप्तदशव्यासा कटिस्त्रिः सप्तमात्रिकः ।
ईषन्निम्नतलं कार्यं नितम्बान्तं त्रिकोलकम् ॥ ६७।१९० ॥
अष्टमात्रसमा योनिः करिणः शिरसा समा ।
अश्वत्थदलवद्बाह्याकृतिर्ग्राह्या मनोहरा ॥ ६७।१९१ ॥
लेख्योदरगता रोमराजिरामदनास्पदम् ।
स्निग्धैषा द्वन्द्वषड्गूढमणिरोमविवर्जितम् ॥ ६७।१९२ ॥
वराङ्गमङ्गनानां तु विधातव्यं विपश्चिता ।
योन्यन्तात्कटिकापार्श्वे रेखे द्वे विधिवन्मते ॥ ६७।१९३ ॥
कटिः कालाङ्गुलान्तस्था मूलोरोरुपरि स्थिता ।
तालं विशालं मूलोरोर्मध्योरोः पञ्चकोलकम् ॥ ६७।१९४ ॥
जान्वन्ते त्रिकलश्चोरुस्त्रिमात्रं जानुमण्डलम् ।
तत्पञ्चाङ्गुलविस्तारं जङ्घाभागः सषड्यवः ॥ ६७।१९५ ॥
नलका त्र्यङ्गुलव्यासा त्रिगुणीकृतनाहका ।
हस्तिहस्तनिभावूरू विरोमं जानुमण्डलम् ॥ ६७।१९६ ॥
बुद्बुदाग्रोपमा जङ्घा नलकांशावधेः समा ।
स्यादङ्गुष्ठकनिष्ठाग्रपार्ष्णिरङ्घ्रितलायता ॥ ६७।१९७ ॥
अङ्गुष्ठस्त्वङ्गुलायामो विस्तारोऽर्धाङ्गुलोऽधिकः ।
व्यासेन षड्यवायामा पादाङ्गुष्ठाद्यवाधिका ॥ ६७।१९८ ॥
प्रदेशिनी यवार्धोना चान्ययोश्च यवक्षयः ।
यवार्धेन विशालः स्यदङ्गुष्ठे षड्यवो नखः ॥ ६७।१९९ ॥
अन्यासामङ्गुलीनां तु नखस्त्रिद्व्यंशकोऽग्रतः ।
सामान्यलक्षणं प्रोक्तं प्रतिमानां द्विजोत्तमाः ॥ ६७।२०० ॥
यवादियववृद्ध्याष्टयवान्तं बेरकर्मणि ।
वृद्ध्या हान्या प्रयोक्तव्यं सर्वेष्वङ्गेषु वा द्विजाः ॥ ६७।२०१ ॥
तिथिमात्रं समारभ्य व्योममात्रविवर्धनात् ।
त्र्यङ्गुलान्तं शिरश्चक्रं सुवृत्तं मकरान्वितम् ॥ ६७।२०२ ॥
निर्गमन्तु तदर्धेन मकुटोच्चं त्रितालकम् ।
आरभ्याङ्गुलहान्यैकतलान्तं परिकल्पयेत् ॥ ६७।२०३ ॥
पञ्चाङ्गुलं समारभ्य व्योममात्रविवर्धनात् ।
त्रिंशदङ्गुलपर्यन्तं धनुर्बाणादियुक्तितः ॥ ६७।२०४ ॥
कल्पयेदायुधं युक्त्या प्रभाद्यं च प्रकल्पयेत् ।
॥ इति कामिकाख्ये महातन्त्रे सामान्यप्रतिमालक्षणविधिः
पञ्चषष्टितमः पटलः ॥