६४ लिङ्गप्रतिष्ठाविधिपटलः

अथेदानीं प्रतिष्ठां तु लिङ्गस्य शृणुत द्विजाः ।
पूर्वोक्तविधिना कालं कल्पयेत्स्थापनादिके ॥ ६६।१ ॥
यमाश्लेषाग्निशूर्पाणि श्रविष्ठां चैव वारुणम् ।
ज्येष्ठां च त्रीणि पूर्वाणि वर्जयेत्स्थापनादिके ॥ ६६।२ ॥
चतुर्थी चाष्टमी भूतपञ्चदश्यशुभा मता ।
नेष्टौ कुजशनी ज्ञेयौ शुभयुक्तौ शुभप्रदौ ॥ ६६।३ ॥
राशयश्चरवर्ज्याः स्युः शेषं पूर्ववदीरितम् ।
अङ्कुरार्पणकार्यं तु प्रागेव विधिना चरेत् ॥ ६६।४ ॥
हर्म्यादौ मण्टपं कुर्याद्यागार्थं वाग्रपार्श्वयोः ।
उत्तरे चैव हस्तादित्रयस्याष्टाङ्गदिक्करैः ॥ ६६।५ ॥
यववृद्ध्या तदन्येषां तस्मादर्कादितोऽपि वा ।
त्रिभागेन तथैव स्यादुत्तरे स्नानमण्डपम् ॥ ६६।६ ॥
वेदिकासममानं वा स्नानयोग्यं यथा भवेत् ।
तथा मेखलया युक्तं श्वभ्रयुक्शोभितं भवेत् ॥ ६६।७ ॥
अष्टाङ्गुलोच्छ्रिता वेदी मध्यभागे चतुष्करा ।
हस्तादिके हस्तवृद्ध्या तदन्येषां प्रकल्पयेत् ॥ ६६।८ ॥
हस्तद्वयविशाला वा वेदिका हस्तनिर्मिता ।
वेदिमानेन कूटं स्यात्प्रपा वा तस्य बाह्यतः ॥ ६६।९ ॥
अथवा सर्वदेशे तु प्रपा स्यादतिविस्तरा ।
सर्वतो वाथ कूटं स्यादल्पे शोभाबलं यथा ॥ ६६।१० ॥
योग्या हस्तमिता वेदी लिङ्गे स्यात्कन्यसत्रये ।
द्वादशस्तम्भसंयुक्ता स्याल्लिङ्गे मध्यमत्रये ॥ ६६।११ ॥
गात्रैर्विंशतिभिर्युक्ता वेदी स्यादुत्तमत्रये ।
तत्तद्भक्तिप्रमाणेन बाह्यपङ्क्तीः प्रकल्पयेत् ॥ ६६।१२ ॥
एवं पङ्क्तियुता चाद्ये ततः कुण्डाष्टकं भवेत् ।
द्विभक्तिर्मध्यमे ज्ञेया चतुर्विंशतिकुण्डके ॥ ६६।१३ ॥
त्रिभक्तिसंयुताप्यष्टचत्वारिंशच्च कुण्डकम् ।
ज्येष्ठलिङ्गत्रयं वा स्यात् द्वात्रिंशत्कुण्डसंयुतम् ॥ ६६।१४ ॥
भ्रमन्ति बाह्यतः कुर्याद्यथाशोभांशमानतः ।
प्राधानिकं तदन्यत्स्याच्चक्रे चानन्तरे मतम् ॥ ६६।१५ ॥
सर्वत्र नवकुण्डं वा लिङ्गे कन्यसकन्यसे ।
पञ्चकुण्डमथैकं वा चललिङ्गेऽपि कथ्यते ॥ ६६।१६ ॥
वेदिभागशशाङ्कार्धत्र्यश्रवृत्तानि पञ्चसु ।
षडश्राष्टाब्जकोणानि दिक्ष्वन्यासु निवेशयेत् ॥ ६६।१७ ॥
वृत्तं प्रधानमेवं स्याच्चतुरश्रं तु वा भवेत् ।
अन्तरावरणे त्वेवं बाह्ये तु चतुरश्रकम् ॥ ६६।१८ ॥

(पृ० १७१)

वृत्तं वापि प्रकर्तव्यं सर्वत्रैकमथापि वा ।
प्रागुक्तविधिना सर्वमत्रानुक्तं समाचरेत् ॥ ६६।१९ ॥
चतुर्द्वारसमायुक्तश्चतुस्तोरणभूषितः ।
मङ्गलाष्टकसंयुक्तो मङ्गलाङ्कुरशोभितः ॥ ६६।२० ॥
नवध्वजसमायुक्तो दर्भमालादिभूषितः ।
अयं तु मण्टपो लिङ्गे प्रतिमायां विशेषतः ॥ ६६।२१ ॥
सर्वकर्मसु शस्तं स्यादुत्सवादौ विशेषतः ।
अस्य प्रागुक्तदेशे तु लक्षणोद्धारमण्टपम् ॥ ६६।२२ ॥
कृत्वा तत्र नयेल्लक्ष्म शुद्धदेशेऽथवा भवेत् ।
शिलावालुकतोयाद्यैर्धर्षयेल्लिङ्गपिण्डिके ॥ ६६।२३ ॥
तथा चाकारशुद्धिं च कुर्याल्लिङ्गस्य देशिकः ।
मृद्भिः कषायवर्गेण गोमूत्रेणोदकैस्तथा ॥ ६६।२४ ॥
गोमयेन ततोऽम्भोभिर्गन्धवद्भिः सुपावनैः ।
प्रणवेनास्त्रमन्त्रेण हुम्फट्प्रणतियोगिना ॥ ६६।२५ ॥
ततः सामान्यमन्त्रेण पूजयेत्स्थाणुनापि वा ।
लिङ्गपिण्डिं समावेष्ट्य कुशवस्त्रस्रगादिभिः ॥ ६६।२६ ॥
मण्टपे स्थण्डिलं कुर्यादष्टद्रोणेन शालिना ।
तिलतण्डुललाजैश्च दर्भैः पुष्पैः परिस्तरेत् ॥ ६६।२७ ॥
स्थण्डिले शाययेल्लिङ्गं सपीठं पूर्वमस्तकम् ।
रक्तवस्त्रेण सञ्छाद्य यजेद्गन्धादिभिर्हृदा ॥ ६६।२८ ॥
रुद्रभागसमायामं चतुः षष्ट्यंशकं भजेत् ।
एकांशसूत्रविस्तारस्तथा गम्भीर इष्यते ॥ ६६।२९ ॥
तदर्धेनाधमो ज्ञेयस्तत्तारेऽष्टांशके कृते ।
नवधा सूत्रविस्तारः सर्वलिङ्गेषु कीर्तितः ॥ ६६।३० ॥
कुड्कुमाक्तेन सूत्रेण नवधा च विभज्य च ।
षड्भिस्तु लक्षणोधारः त्वधोभागे यथा भवेत् ॥ ६६।३१ ॥
मुखनासाललाटानां भेदो ग्रीवोर्ध्वतो भवेत् ।
तत्र नेष्टस्तु यस्तस्मादधो लक्ष्म विलक्षयेत् ॥ ६६।३२ ॥
लिङ्गायामे दिनांशे तु लक्ष्मविस्तृतिरंशतः ।
पृथ्वी निम्ना च तद्रेखा विस्तृतेर्नवमांशतः ॥ ६६।३३ ॥
लक्ष्मसूत्रार्धमानं तु पक्षसूत्रावतारणम् ।
तत्खातसमवैपुल्यं कर्तव्यं शोभनं यथा ॥ ६६।३४ ॥
पक्षक्षेत्रे वसुच्छिन्ने षड्भागपरिवर्तनात् ।
नवभागान्मुनीनां हि दत्वा भागद्वयं त्वधः ॥ ६६।३५ ॥
भागद्वयेन सार्धेन वह्निभक्तेर्विवर्धनम् ।
विकारभक्तेऽधस्ताद्वा त्यक्त्वा भागद्वयं तथा ॥ ६६।३६ ॥
नवभिर्भानुभिर्भक्ते पक्षं वाग्निक्रमेण वा ।
अथवान्यल्लक्ष्म तस्यां नवभागकृतं समम् ॥ ६६।३७ ॥
भागं षष्ठं गुणीकृत्य भागत्यागे त्रिधा त्वयम् ।
यवार्धकं द्विभागे तु वर्तयेल्लक्ष्म शोभनम् ॥ ६६।३८ ॥
कर्णकूटादधश्चैकां ब्रह्मरेखां नयेत्क्रमात् ।
यावत्तु वैष्णवो भागः सूत्रमूले गजाक्षके ॥ ६६।३९ ॥
अधो द्वितीयभागो वा यवार्धाकारलक्षणम् ।
पक्षसूत्रविनिर्मुक्तमुभयं त्विह कीर्तितम् ॥ ६६।४० ॥
रेखात्रयं तु कर्तव्यं सर्वासामनुकूतलः ।
षोडशांशे चतुर्भागं त्यक्त्वोर्ध्वे द्वादशांशकम् ॥ ६६।४१ ॥
सपद्मकुड्मलं नालमधोभागद्वयं विना ।
रुद्रांशोच्चं त्रिधा कृत्वा चोर्ध्वभागं त्यजेत् क्रमात् ॥ ६६।४२ ॥
पक्षांशं दशधा कृत्वा व्योमांशं मुकुलं भवेत् ।
विस्तारः तत्समो ज्ञेयो नालं तु वसुभागिकम् ॥ ६६।४३ ॥
मुकुलात्तु समारभ्य पक्षरेखे विवर्तयेत् ।
मणिरेखे तु विज्ञेये तयोःपृष्ठे तु सङ्गतिः ॥ ६६।४४ ॥
रुद्रांशे रुद्रभागे तु गुणांशमुपरि न्यसेत् ।
एकेन मुकुलीनालं सप्तांशमितिकीर्तितम् ॥ ६६।४५ ॥
रुद्रांशं नवधा कृत्वा चोर्ध्वे भागत्रयं त्यजेत् ।
मुकुलं चैकभागेन नालं पञ्चांशतो भवेत् ॥ ६६।४६ ॥

(पृ० १७२)

षोडशांशे पुनः तस्मिन्स्त्यजेदूर्ध्वं चतुष्टयम् ।
मुकुलं चैकभागेन दशांशं नालमिष्यते ॥ ६६।४७ ॥
द्वादशांशे तु पूजांशं त्यक्त्वोर्ध्वेऽशद्वयं ततः ।
एकांशं मुकुलं ज्ञेयं वस्वंशं नालमिष्यते ॥ ६६।४८ ॥
नालायाममधस्तिर्यक्कृत्वा मुकुलमूलतः ।
पार्श्वयोरुभयोः सूत्रं यथा ऋजु *?भवेद्द्विजाः ॥ ६६।४९ ॥
अधश्चोर्ध्वद्वयोः पार्श्वे चतुरश्रद्वयं तथा ।
निष्पाद्य बहिरूर्ध्वस्थं कोणे हस्तं विधाय च ॥ ६६।५० ॥
पद्मकुड्मलमारभ्य नालान्तं भ्रामयेद्बहिः ।
नालायामं तु नवधा कृत्वा चैकैकवर्धनम् ॥ ६६।५१ ॥
तस्मान्नवप्रमाणेन नवधा वर्धनं भवेत् ।
नालान्तरेऽष्टधा भक्ते भागार्धादर्धवर्धितम् ॥ ६६।५२ ॥
चतुर्मानं भवेल्लक्ष्म पक्षसूत्रान्तरे द्विजाः ।
पक्षसूत्रं च कर्तव्यं सूत्रं मुकुलमूलतः ॥ ६६।५३ ॥
कुड्मलं वा गजाक्षं वा लिङ्गाग्रं पद्मसन्निभम् ।
कदलीमुकुलाकारं शूलाग्राश्वत्थपत्रकम् ॥ ६६।५४ ॥
लोकपालायुधास्त्राग्रं शिवास्त्राग्रं तु वा भवेत् ।
सार्वदेशिकलिङ्गस्य लक्ष्मेत्थं कीर्तितं द्विजाः ॥ ६६।५५ ॥
नैतद्रत्नमये लिङ्गे न लोहेऽपि च लोहितम् ।
न बाणलिङ्गे लौहे वा नदीप्रस्रवणोद्भवे ॥ ६६।५६ ॥
स्वाकारलक्ष्मातीतेषु तेजोरत्नेषु भास्वरम् ।
रत्नजे लोहजे लक्ष्म विधेयं वा न वा भवेत् ॥ ६६।५७ ॥
रन्ध्रमध्ये भगाकारमूर्ध्वाग्रं लक्ष्मपीठकम् ।
एवं लक्ष्मलिखेद्विद्वान्गुरुर्हेमशलाकया ॥ ६६।५८ ॥
अक्षिलोहसमोपेतमस्त्रमन्त्रमनुस्मरम् ।
शिल्पशास्त्रान्तराभ्यां तु ताभ्यां वा लक्ष्म वा लिखेत् ॥ ६६।५९ ॥
तत्तस्मादेव शास्त्रेण सममेव विवर्तयेत् ।
रेखा हीनाधिका हन्याद्यजमानं सशिल्पिनम् ॥ ६६।६० ॥
राजानं राष्ट्रसहितं समं तस्माद्विवर्तयेत् ।
आचार्यो मन्त्रयोग्यस्तु स्थपतिः कर्म कारयेत् ॥ ६६।६१ ॥
शिल्पिनं तु विसृज्याथ नयेत्तत्स्थण्डिलान्तरम् ।
ताम्रके कांस्यपात्रे वा मध्वाज्याभ्यां समन्विते ॥ ६६।६२ ॥
सहेमं स्पर्शयेद्विद्वान्नेत्रमन्त्रमनुस्मरन् ।
धान्यराशिं ततो गां च सवत्सां ब्रह्मणांस्तथा ॥ ६६।६३ ॥
कन्या दानक्रमेणैव ब्रह्मभिर्दर्शयेद्गुरुः ।
प्रच्छन्नपटमानीय स्थाने स्थाने नयेच्छिवम् ॥ ६६।६४ ॥
दारुपीठे कुशोर्ध्वे वा पूर्ववत्स्थापनं भवेत् ।
तस्योत्तरे भवान्यास्तु स्थापनं तत्र वा पुनः ॥ ६६।६५ ॥
सम्पूज्य गन्धपुष्पाद्यैरलङ्कृस्य विशेषतः ।
देवं देवीं समारोप्य रथादावप्रमादतः ॥ ६६।६६ ॥
नानाविधैरलङ्कारैर्नयेद्वास्तुप्रदक्षिणम् ।
प्रासादं वा महाभागा विशेषः कश्चिदुच्यते ॥ ६६।६७ ॥
अर्वाक् सप्तदिनाल्लिङ्गे पिण्डिकां च विधाय च ।
प्रतिष्ठादिवसाल्लिङ्गं सन्धाप्य च शिलान्वितम् ॥ ६६।६८ ॥
पीठं संयोज्य कृत्वाष्टबन्धं सर्वां क्रियां ततः ।
कुर्यात्स्नपनमादो तु सहस्रादिषु सम्भवैः ॥ ६६।६९ ॥
सम्पूज्य गन्धपुष्पाद्यैः कृत्वा ग्रामप्रदक्षिणम् ।
जलाधिवासनार्थं तु स्नापयेत्पञ्चगव्यतः ॥ ६६।७० ॥ ६६।
परीक्ष्य लिङ्गं पीठं च वस्त्राद्यैः पूजयेत्ततः ।
कौतुकं बन्धयित्वा तु लिङ्गपीठे क्रमेण तु ॥ ६६।७१ ॥
लम्बकूर्चसमायुक्तं वस्त्रैराच्छाद्य सर्वतः ।
स्थण्डिलं मण्डले कृत्वा शयनं तत्र कल्पयेत् ॥ ६६।७२ ॥
तन्मध्ये विन्यसेत्कुम्भं शिवाख्यं वर्धनीयुतम् ।
अन्यत्सर्वं समानं स्याद्गर्भाग्रे स्थण्डिलं मतम् ॥ ६६।७३ ॥
अतः प्रसङ्गमुत्सृज्य प्रकृतं वच्मि साम्प्रतम् ।
जलेऽधिवासयेद्देवं द्वित्रिरात्रं सपीठकम् ॥ ६६।७४ ॥

(पृ० १७३)

एकरात्रं दिवारात्रं याममात्रमथापि वा ।
नाभिमात्रोदके कृत्वा प्रपामण्डपमण्डिताम् ॥ ६६।७५ ॥
जलतीरे विधायैवं स्थण्डिलद्वितयं क्रमात् ।
भद्रपीठे समारोप्य देवं देवीं क्रमेण तु ॥ ६६।७६ ॥
आछाद्य नववस्त्रेण लम्बकूर्चसमन्वितम् ।
अभितोऽष्ट घटान् न्यस्त्वा शम्भोर्देव्याः समाहितः ॥ ६६।७७ ॥
प्रधानकूर्चवस्त्राढ्यान् हेमयुक्तान् सलोकपान् ।
जलमध्ये न्यसेत्पश्चाद्देवं देवीं घटांश्च तान् ॥ ६६।७८ ॥
शाययेत्फलकादौ तु प्राक् शिरः कोर्ध्ववक्त्रकम् ।
विसृज्य शिल्पिनं पश्चात्प्रोक्षिते यागमण्टपे ॥ ६६।७९ ॥
ब्राह्मणान् भोजयित्वा तु गोमयेनोपलेपयेत् ।
पुण्याहं वाचयित्वा तु वास्तुहोमं समाचरेत् ॥ ६६।८० ॥
पण्टपालङ्कृतिं कुर्यात्प्रागुक्तविधिना सह ।
कृतस्नानः शिवाचार्यः शुद्धवस्त्रोत्तरीयकः ॥ ६६।८१ ॥
सोष्णीषो धृतपञ्चाङ्गभूषणः समलङ्कृतः ।
मूर्तिपा भूषितास्तद्वत्किन्तूष्णीषविवर्जिताः ॥ ६६।८२ ॥
सम्प्राप्य यागस्थानं तु सामान्यार्घ्यकरो गुरुः ।
द्वाराण्यभ्यर्च्य पूर्वादिद्वारपालयुतानि च ॥ ६६।८३ ॥
पूर्वे नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ ।
वारुणे वृषभस्कन्दौ देवीचण्डौ तु साउम्यके ॥ ६६।८४ ॥
भद्रो विजयसञ्ज्ञस्तु विजृम्भो लोहितः क्रमात् ।
तोरणे पूर्वमारभ्य द्वारे शान्त्यादिकाः कलाः ॥ ६६।८५ ॥
अभ्यर्च्य गन्धपुष्पाद्यैः सद्यद्वारेण संविशेत् ।
विशुद्धकायो मन्त्रात्मा कृतान्तर्यजनो गुरुः ॥ ६६।८६ ॥
कृतार्घ्यद्रव्यसंशुद्धिकर्महस्तात्मपूजनः ।
कृतपञ्चाङ्गभूषस्तु वास्तुपूजासमन्वितः ॥ ६६।८७ ॥
कुम्भसंस्कारयुक् क्षिप्तविकिरश्रीसपर्ययः ।
शिवकुम्भास्त्रयजनो लोकपालार्चनान्वितः ॥ ६६।८८ ॥
स्वाज्ञापनसमायुक्तः कुम्भास्त्रभ्रमणान्वितः ।
कृतकुम्भास्त्रसम्पूजः तदध्येषणसंयुतः ॥ ६६।८९ ॥
कुण्डसंस्कारसंयुक्तः शिवाग्निजननान्वितः ।
जलाधिवासनस्थानादानीय परमेश्वरम् ॥ ६६।९० ॥
मण्टपे स्नपनाख्ये तु प्राग्वत्स्नपनमारभेत् ।
मृद्भिः कषायवर्गेण पञ्चगव्यफलोदकैः ॥ ६६।९१ ॥
पोष्पोदैः पत्रतोयैश्च गन्धोदैर्धातुतोयकैः ।
पञ्चामृतैः कुशोदैर्वा स्नापयेद्वृषभध्वजम् ॥ ६६।९२ ॥
एवमेव भवान्याश्च कुर्यात्स्नपनमुत्तमम् ।
आच्छाद्य वस्त्रयुग्मेन गन्धाद्यैरर्चयेत्क्रमात् ॥ ६६।९३ ॥
कृत्वा कौतुकसूत्रं तु शम्भोर्देव्याः क्रमेण तु ।
शय्यां च कल्पयेद्विद्वान् शालितण्डुलकादिभिः ॥ ६६।९४ ॥
अष्टद्रोणैः सशालीभिस्तदर्धैस्तण्डुलैरपि ।
तिलैः तदर्धैर्लाजैश्च दर्भैः पुष्पैः परिस्तरेत् ॥ ६६।९५ ॥
चर्मजं रोमजं तूर्ध्वं मुण्डजं चाण्डजं तथा ।
कार्पासजं क्रमेणैव कल्पयेदुपधानकम् ॥ ६६।९६ ॥
अलाभे पञ्चवस्त्रैस्तु मिश्रैः शय्यां प्रकल्पयेत् ।
सम्पूज्यासनमन्त्रैश्च शक्तिं शय्याधिपां न्यसेत् ॥ ६६।९७ ॥
शिबिकादौ समारोप्य भवान्यानुगतं नयेत् ।
द्वारदेशे तु सम्प्राप्ते दद्यादर्घ्यं क्रमेण तु ॥ ६६।९८ ॥
आरोप्य शयने देवं प्राङ्मस्तकसमन्वितम् ।
लिङ्गस्योत्तरतो देवीं क्रियाख्यां पीठविग्रहाम् ॥ ६६।९९ ॥
लिङ्गमूले न्यसेद्देवीं नवगर्तसमन्विताम् ।
मूर्तिमूर्तीश्वरन्यासं तत्वतत्वेश्वरान्वितम् ॥ ६६।१०० ॥
ब्रह्मविष्णुहरा एव लिङ्गे तत्वत्रयाधिपाः ।
आत्मविद्याशिवाख्यं तु तत्वत्रयमितीरितम् ॥ ६६।१०१ ॥
क्ष्मावह्नियजमानार्कजलवायुनिशाकराः ।
व्योमान्ता मूर्तयश्चाष्टौ न्यस्तव्याः प्रतिखण्डकम् ॥ ६६।१०२ ॥

(पृ० १७४)

शर्वः पशुपतिश्चोग्रो रुद्रश्चैव भवस्तथा ।
ईशानश्च महादेवो भीमश्चेत्यष्टमूर्तिपाः ॥ ६६।१०३ ॥
पञ्चमूर्त्यात्मके न्यासे क्ष्मावारिदहनानिलाः ।
खञ्चेति मूर्तयो लिङ्गे ब्रह्माद्या मूर्तिपा मताः ॥ ६६।१०४ ॥
लिङ्गपीठे शिलानां च व्याप्तिस्तु आदितः क्रमात् ।
शिवशक्तिमनीषान्तं त्रिखण्डकल्पनं पुनः ॥ ६६।१०५ ॥
विद्याशक्तिशिवप्रान्तं मायासादेशशक्तिगम् ।
शब्दचित्तमनीषान्तं लिङ्गे पीठेऽश्मनि क्रमात् ॥ ६६।१०६ ॥
क्रिया ज्ञानं तथेच्छा च त्रितत्वाधीश्वरा मताः ।
धारिका दीप्तिमुत्युग्रा ज्योत्स्ना चेता बलोत्कटा ॥ ६६।१०७ ॥
धात्री बिभ्यतिदेव्यश्च मूर्तिपाः परिकीर्तिन्ताः ।
पञ्चमूर्त्यात्मके न्यासे वामाद्या मूर्तिपा मताः ॥ ६६।१०८ ॥
वामा ज्येष्ठा क्रिया ज्ञानी चेच्छा चेति प्रकीर्तिताः ।
सम्पूज्य गन्धपुष्पाद्यैर्देवानध्वपतीन् क्रमात् ॥ ६६।१०९ ॥
अव्यक्तमूर्तिं ब्रह्माणि विद्यादेहं शिवं ततः ।
शिवाङ्गानि च सम्पूज्य गन्धपुष्पादिभिः क्रमात् ॥ ६६।११० ॥
आच्छाद्य नववस्त्रेण प्रतिभागं च पूजयेत् ।
वेद्यूर्ध्वे परितः कुम्भान्न्यसेद्विश्वेश्वरात्मकान् ॥ ६६।१११ ॥
निद्राकुम्भं शिरोदेशे वर्धनीमुत्तरे न्यसेत् ।
कुम्भान् वस्त्रैः समावेष्ट्य हेमपद्मसमन्वितान् ॥ ६६।११२ ॥
पिधानकूर्चसंयुक्तान् पल्लवैरुपशोभितान् ।
निवेद्य भूरिनैवेद्यं ताम्बूलाच्चं च मन्त्रवत् ॥ ६६।११३ ॥
गुरुमूर्तिधरैः सार्धं होमकर्म समारभेत् ।
मूर्तिपाः शिवशास्त्रज्ञाः पञ्चगोचरसम्भवाः ॥ ६६।११४ ॥
आचार्यारब्धतन्त्रोक्तकर्मक्रमविशारदाः ।
प्रतिष्ठामन्त्रतन्त्रज्ञाः पुत्रपौत्रादयो गुरोः ॥ ६६।११५ ॥
स्वमूर्तिरूपसामर्थ्यव्याप्तिसन्धानयोगिनः ।
चतुर्वेदद्रि?दो विप्राश्चतुर्दिक्षु व्यवस्थिताः ॥ ६६।११६ ॥
पठन्तो देवतालिङ्गमन्त्रान् सन्निधिहेतवे ।
भवन्ति मूर्तिपा नाम संस्कृताः शिवशम्बरैः ॥ ६६।११७ ॥
विदिक्षु चान्नलाजांश्च तिलान् मधुलवास्तिथा ।
यागान्तरायविध्वंसं कुर्वन्त्यमिततेजसः ॥ ६६।११८ ॥
गुरुणा चोदिता मूर्तिधारकाः शिवसंस्कृताः ।
प्रधानाग्नेः समानीय स्वानंशान् स्वायते न्यसेत् ॥ ६६।११९ ॥
समिदाज्यान्नलाजांश्च तिलान् मधुलवांस्तथा ।
पालाशोदुम्बराश्वत्थवटाः पूर्वादिदिक्षु च ॥ ६६।१२० ॥
शमीखदिरपालाशश्रीवृक्षास्त्वग्निकोणतः ।
प्रधानस्य पलाशस्तु सर्वं पालाशमेव वा ॥ ६६।१२१ ॥
समिदाज्यं च कुण्डानां स्वस्वदिक्षु यथाक्रमम् ।
सहस्रं वा तदर्द्धं वा तदर्द्धार्धमथापि वा ॥ ६६।१२२ ॥
शतमष्टोत्तरं वापि मूलेन जुहृयात्ततः ।
मूलाद्दशांशतोऽङ्गानां समं वाथ तदर्धकम् ॥ ६६।१२३ ॥
मूर्तिपाहुतिरुद्दिष्टा ब्रह्माङ्गैरष्टदिक्षु च ।
आग्नेयैशाननैरृयवायुदिक्षु यथाक्रमम् ॥ ६६।१२४ ॥
ईशानं तु प्रधाने वा नेत्रास्त्रे मध्यकुण्डके ।
सन्तर्प्य मन्त्रान् कुम्भान्ते साधयेयुरथो परम् ॥ ६६।१२५ ॥
शान्तिकुम्भस्य स्रग्वारि शान्तिसान्निध्यकारणम् ।
प्रतिभागमधस्तेन प्रोक्षणं वै हि सत्तमाः ॥ ६६।२६ ॥
संशोध्य सर्वे संहृत्य जपेयुर्निजशम्बरान् ।
दर्भस्पर्शस्ततो भागं शुद्धं सञ्जायतेश्वरम् ॥ ६६।२७ ॥
परतत्वमुपस्थाप्यं शोधयेयुस्ततः परम् ।
मूलाणुसंहितामन्त्रैराचार्यस्य जपादिकम् ॥ ६६।२८ ॥
शतमर्धं तदर्धं वा दशसङ्ख्यमथापि वा ।
मूर्तिमूर्तीशहोमं च तत्वतत्वेश्वरैः सह ॥ ६६।२९ ॥
केवलेन घृतेनाथ सर्वद्रव्यैः तिलैरथ ।
स्वमूर्तिरूपसामर्थ्याद्व्याप्तिसन्धानयोगिनः ॥ ६६।१३० ॥

(पृ० १७५)

मूर्तिपाः सर्वसन्धानयोगकृद्देशिकोत्तमाः ।
एवं संशोध्य ब्रह्मांशं विष्ण्वंशादिविशुद्धये ॥ ६६।१३१ ॥
विधाय पूर्ववत्सर्वं होमसङ्ख्याजपादिकम् ।
कुशमूलान्तराग्रैस्तु ब्रह्मभागादिकान् क्रमात् ॥ ६६।१३२ ॥
स्पृशेयुर्मूर्तिपाः स्वीयदिक्स्थिता निजशम्बरैः ।
एवं पीठे शिलायां च होमाद्यं परिकल्पयेत् ॥ ६६।१३३ ॥
क्रियाधाराख्यशक्तिभ्यां मूर्तिम्मूर्त्यधिपादिभिः ।
मनोन्मनीमनन्तं च क्रमेण परिकल्पयेत् ॥ ६६।१३४ ॥
पीठोक्तमूलमूर्तीशशिलायां परिकल्पयेत् ।
प्रायश्चित्तमघोरेण कृत्वा चाष्टोत्तरं शतम् ॥ ६६।१३५ ॥
भूतिदर्भतिलैः कृत्वा रक्षामस्त्रेण मन्त्रतः ।
बहिरन्तर्बलिं क्षिप्त्वा क्षेत्रपालबलिं क्षिपेत् ॥ ६६।१३६ ॥
अदीक्षितस्तु यः कर्ता दीक्षयेत्तमिहान्तरे ।
ततः प्रभाते विमले देशिको मूर्तिपैः सह ॥ ६६।१३७ ॥
स्नानादिनित्यं निर्वृत्य सामान्यार्ध्यकरो गुरुः ।
सम्पूज्य द्वारपालादीन् समुत्थाप्य महेश्वरम् ॥ ६६।१३८ ॥
देवीमुत्थाप्य मन्त्रज्ञः यजेद्गन्धादिभिः सह ।
दत्वा पूर्णाहुतिं पश्चात्प्रविशेद्भवनं प्रभोः ॥ ६६।१३९ ॥
पञ्चगव्येन सम्प्रोक्ष्य शिलां मध्ये तु विन्यसेत् ।
एकविंशतिभागे तु द्वारतारे तु मध्यमे ॥ ६६।१४० ॥
भागे षोढाकृते ब्रह्मसूत्रमध्यमसूत्रकम् ।
ब्रह्मवामैकभागार्धं शिवसूत्रमिति स्मृतम् ॥ ६६।१४१ ॥
शिवस्य ब्रह्मणो मध्ये हरेरिन्द्रस्य मध्यमम् ।
शिवसूत्रप्रमाणं तु सौम्यसूत्रस्य पूर्वतः ॥ ६६।१४२ ॥
न्यस्त्वा तत्सन्धिमध्ये तु विन्यसेत्कशिलां गुरुः ।
प्रणवं प्रणतिं चोक्त्वा व्यापिनीति स्थिरेति च ॥ ६६।१४३ ॥
अचलेति ध्रुवेत्युच्चैर्मायागर्भं धराक्षरम् ।
स्वाहेत्यन्तं पदं चोक्त्वा स्थैर्यं सर्वगतं स्मरन् ॥ ६६।१४४ ॥
पद्मासनं तदारूढं सावष्टम्भं निरुध्य च ।
न्यसेद्रत्नौषधी लोहधातुबीजानि पूर्ववत् ॥ ६६।१४५ ॥
कूर्मं वा वृषभं वाथ हैमं तत्र विनिक्षिपेत् ।
विलिख्य चायसेनाथ श्वभ्रं कृत्वा पटावृतम् ॥ ६६।१४६ ॥
वर्मणास्त्रेण संरक्ष्य दिगीशेभ्यो बलिं क्षिपेत् ।
समाचम्य कृतन्यासो जुहुयादसिना शतम् ॥ ६६।१४७ ॥
देवं देवीं च सम्पूज्य समारोप्य रथादिके ।
द्वारप्रदेशे दत्वार्घ्यं स्पृष्ट्वा चाथोर्ध्वशाखकम् ॥ ६६।१४८ ॥
द्वारश्वभ्रान्तरावस्थे भद्रपीठे निवेशयेत् ।
स्थिरं भवेद्यथोत्पाद्यं श्वभ्रमस्त्रेण शोधयेत् ॥ ६६।१४९ ॥
यन्त्रेण विधृतं सम्यक् लम्बेन प्रगुणीकृतम् ।
समूर्तिभृद्गुरुश्वभ्रे ततः तदवतारयेत् ॥ ६६।१५० ॥
शक्तिशक्तिमतोर्ध्यायेन्न भेदो धर्मधर्मिणोः ।
लयान्तं मन्त्रमुच्चार्य सृष्टिमार्गेण विन्यसेत् ॥ ६६।१५१ ॥
नन्द्यावर्तशिलाः पश्चाच्चतस्रो बह्निकोणतः ।
धर्मादिमन्त्रैः संयोज्य देवीमुत्सेधयेत्क्रियाम् ॥ ६६।१५२ ॥
आदौ प्रणवमुच्चार्य ह्रीङ्कारः तदनन्तरम् ।
क्रियाशक्तिपदं पश्चाच्चतुर्थ्यन्तं मनोन्मनी ॥ ६६।१५३ ॥
पिण्डिकां च समायोज्य बन्धयेदष्टबन्धनैः ।
लाक्षागुलमधूच्छिष्टगुग्गुलूनां समांशतः ॥ ६६।१५४ ॥
एतेषामपि सर्वेषां सङ्ग्राह्यं सर्जरं समम् ।
इष्टकाचूर्णभागे वा पूर्वभागसमन्विते ॥ ६६।१५५ ॥
सर्वेषां पादतः तैलं पाकश्चिक्कणवद्भवेत् ।
सिकताभिः समापूर्य चान्तरं लिङ्गपीठयोः ॥ ६६।१५६ ॥
तदूर्ध्वे विन्यसेद्बन्धं विष्णुभागावसानकम् ।
शर्करा सर्जरांशं तु समं कृत्वा तु चूर्णयेत् ॥ ६६।१५७ ॥
माहिषं नवनीतं च मर्दयेद्देशिकोत्तमः ।
वजबन्धमिति श्लाघ्यं विवरे तं प्रयोजयेत् ॥ ६६।१५८ ॥

(पृ० १७६)

अष्टबन्धं ततः कृत्वा जतुगुग्गुलुसर्जयुक् ।
सद्मं च स्फटिकं चैव शर्करा गुरुविन्दकम् ॥ ६६।१५९ ॥
तैलं वा चाष्टमिश्रं वा दधि वा चिक्कणं बुधः ।
एवं पीठे समायोज्य तत्र न्यासं समारभेत् ॥ ६६।१६० ॥
पुण्याहं वाचयित्वा तु लिङ्गपीठे तु शोधयेत् ।
शान्तिकुम्भस्थतोयैश्च देवेशमभिषेचयेत् ॥ ६६।१६१ ॥
शिल्प्यादिस्पर्शशान्त्यर्थं भवेदेतद्द्विजोत्तमाः ।
ईश्वरान्तानि तत्वानि तुर्यश्रे विन्यसेद्गुरुः ॥ ६६।१६२ ॥
शक्त्यन्तानि च विष्ण्वंशे शिवतत्त्वं शिवात्मके ।
त्रिषष्टिपदविन्यासं ब्राह्मे नव नव द्वयोः ॥ ६६।१६३ ॥
क्षादिकान्तानधोभागे सृष्ट्याद्यन्तांश्च मध्यमे ।
वृत्तभागे सदाकारमेवं वर्णप्रकल्पना ॥ ६६।१६४ ॥
कालाग्न्यादीश्वरान्तानि भुवनानि न्यसेद्गुरुः ।
सूक्ष्मादीन्यथ मध्ये तु विन्यसेदष्टसङ्ख्यया ॥ ६६।१६५ ॥
निवृत्यादीनि वृत्ते स्युरेवं भुवनकल्पना ।
शक्तयादिपुरुषान्ताश्च हृदादिकवचानिमान् ॥ ६६।१६६ ॥
मन्त्रान्ब्राह्मे हरावीशशस्त्रे वृत्ते शिवं न्यसेत् ।
लोकेशास्त्रगणेशानान् ब्राह्मे विद्येश्वरान् हरौ ॥ ६६।१६७ ॥
गर्भाण्युद्वृत्तभागे तु न्यसेन्मन्त्रान्न्यसेत्क्रमात् ।
शान्त्यन्तं ब्रह्मणो भागे शान्त्यतीतं तु मध्यमे ॥ ६६।१६८ ॥
परमं निष्कलं बिन्दुं विन्यसेद्वृत्तभागके ।
आसनाणून्न्यसेत्पीठे लिङ्गमूर्तिगतान्न्यसेत् ॥ ६६।१६९ ॥
ज्ञानशक्तिं न्यसेल्लिङ्गे क्रियाख्यं पीठविग्रहे ।
मन्त्रानेतांस्तु पूर्वेद्युरधिवासे तु विन्यसेत् ॥ ६६।१७० ॥
एवं मन्त्रांस्तु विन्यस्य कुम्भन्यासं समाचरेत् ।
कुम्भान् सर्वान् समानीय वेदिकोपरि संस्थितान् ॥ ६६।१७१ ॥
सर्वमङ्गलसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् ।
स्थण्डिले त्वग्रकॢप्ते तु पूर्ववद्विनिवेशयेत् ॥ ६६।१७२ ॥
कुम्भाद्बीजं समादाय लिङ्गमूर्धनि विन्यसेत् ।
गुरूपदिष्टकन्दादेर्मन्त्रमुच्चारयेच्छैनः ॥ ६६।१७३ ॥
नादशक्तिमयं सूक्ष्मं घण्टानादविसर्पिणम् ।
कारणत्यागयोगेन ब्रह्मरन्ध्राद्विनिर्गतम् ॥ ६६।१७४ ॥
दिवाकरसहस्राभं विद्युत्सङ्घसमप्रभम् ।
स्फुरद्रत्नवितानेन प्रदीपितदिगम्बरम् ॥ ६६।१७५ ॥
मन्त्रेण मनसा भिन्नं प्राप्तानन्दरसोदयम् ।
सृष्टिमार्गप्रवृत्यन्तमिन्दुसन्ततिसन्निभम् ॥ ६६।१७६ ॥
तेजोबिम्बं ललाटस्थं घण्टिकाद्वारमानयेत् ।
सुषुम्नानिर्गतं ध्यात्वा स्फुरत्तारकसर्पिणम् ॥ ६६।१७७ ॥
विशन्तं ब्रह्मरन्ध्रेण सकलौ व्यापकौ न्यसेत् ।
एवं सर्वत्र सान्निध्यं जीवन्यासेन कारयेत् ॥ ६६।१७८ ॥
अनैनेव प्रकारेण पीठे शक्तिं च विन्यसेत् ।
जलेन कुम्भवर्धन्योः स्नापयेल्लिङ्गपिण्डिके ॥ ६६।१७९ ॥
विद्येश्वरघटस्थाणून् पीठे पूर्वादितो न्यसेत् ।
तत्तत्कुम्भस्थतोयेन स्नापयेत्परमेश्वरम् ॥ ६६।१८० ॥
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
तावदत्र त्वया देव स्थातव्यमिह सन्निधौ ॥ ६६।१८१ ॥
सम्प्राप्तप्रार्थनोऽत्रैव देव्याश्चैवं समाचरेत् ।
प्रतिष्ठादिवसे ब्रह्मशिलासंस्थापनं तु वा ॥ ६६।१८२ ॥
तां पूर्वं स्थापयित्वा तु धाम्नि कृत्वा स्थलान्वितम् ।
लिङ्गस्थानं च कल्पोक्तं सर्वं वापि समाचरेत् ॥ ६६।१८३ ॥
धाम्नः संस्थापनात्पूर्वं लिङ्गस्य स्थापनं नयेत् ।
विधानमेतत्सामान्यं बाणादौ तु शिलामये ॥ ६६।१८४ ॥
आचार्यो मूर्तिपैः सार्धं निःसृत्य भवनात् प्रभोः ।
यजमानेन सङ्कॢप्तां गृह्णीयाद्दक्षिणां गुरुः ॥ ६६।१८५ ॥
स्याच्चतुर्विधा शास्त्रे श्रेष्ठा मध्याधमापरा ।
षष्टिनिष्कं समारभ्य पञ्चनिष्काः क्रमेण तु ॥ ६६।१८६ ॥

(पृ० १७७)

काञ्चनस्य गुरोः पञ्चनिष्कान्ता दक्षिणा मताः ।
गोभूहिरण्यसद्वेश्मवाहनाच्छादनादिकम् ॥ ६६।१८७ ॥
दासीदासादिकं सर्वं गुरवे सन्निवेदयेत् ।
लम्बस्थानोक्तमार्गेण चान्येषां दक्षिणा भवेत् ॥ ६६।१८८ ॥
गृहीतदक्षिणस्तुष्टः प्रतिष्ठापुण्यमर्थिने ।
यजमानाय सन्दद्यात्सोदकं पुष्पसंयुतम् ॥ ६६।१८९ ॥
चन्दनाक्षतसंयुक्तं सकुशं दक्षिणे करे ।
तेजोबिम्बनिभं ध्यात्वा कर्तुर्दक्षकरे गुरुः ॥ ६६।१९० ॥
एककालं द्विकालं वा त्रिकालं त्रिदिनं गुरुः ।
दिनद्वयमथैकं वा जुहुयान्मूर्तिपैः सह ॥ ६६।१९१ ॥
केवलो वा गुरुः कुर्याच्छिवब्रह्माङ्गशम्बरैः ।
शतं सहस्रमर्धं वा तथा स्याच्छक्तिमन्त्रतः ॥ ६६।१९२ ॥
संसाध्य स्नापयेत्तेन चतुर्थे दिवसे पुनः ।
संस्नाप्य देवं देवीं च स्नपनोक्तक्रमेण तु ॥ ६६।१९३ ॥
प्रभूतहविषं दत्वा नानासूपादिसंयुतम् ।
समिदाज्यान्नसंयुक्तं पूर्ववद्धोममाचरेत् ॥ ६६।१९४ ॥
शिवलिङ्गप्रतिष्ठैषा प्रोक्ता सामान्यरूपिणी ।
अस्या विकृतिरूपा तु प्रैष्ठान्या समीरिता ॥ ६६।१९५ ॥
एवं यः कारयेन्मर्त्यः कुरुते वा नरोत्तमः ।
भुक्त्वा तु विपुलान् भोगान् देहान्ते मोक्षमाप्नुयात् ॥ ६६।१९६ ॥

॥ इति कामिकाख्ये महातन्त्रे लिङ्गस्थापनविधिर्नाम चतुः षष्टितमः
पटलः ॥