अथातः सम्प्रवक्ष्यामि अङ्कुरार्पणलक्षणम् ।
सर्वमङ्गलकार्यादौ कर्तव्यं मङ्गलाङ्कुरम् ॥ ६५।१ ॥
उत्तमो मध्यमो नीचस्त्रिविधः परिकीर्तितः ।
नवाहे वाथ सप्ताहे पञ्चाहे त्रिदिनेऽपि वा ॥ ६५।२ ॥
सद्योऽङ्कुरार्पणं वापि शिवं सम्पूज्य चारभेत् ।
सायादिदिनमारभ्य देवानामङ्कुरार्पणम् ॥ ६५।३ ॥
तद्दिने तु मनुष्याणां देवानामपि सम्मतम् ।
बीजानामधिपः सोमो तस्माद्रात्रौ तु निर्वपेत् ॥ ६५।४ ॥
दिवाकाले न कर्तव्यं कृतं चेत्कर्तृनाशनम् ।
सदनस्याग्रगे देशे वामे वाप्यग्रदक्षिणे ॥ ६५।५ ॥
त्रिहस्तं तु समारभ्य कुर्याद्रुद्रकरान्तकम् ।
मण्डपं तत्र कर्तव्यं पूर्वसङ्कल्पितेऽथवा ॥ ६५।६ ॥
ऐशे वा यागशालायां कुर्यात्तीर्थाङ्कुरार्पणम् ।
वितानध्वजसंयुक्तद्वारतोरणसंयुते ॥ ६५।७ ॥
दर्भमालासमायुक्ते मुक्तादामसमन्विते ।
पुण्याहप्रोक्षणं कुर्यादथवास्त्रेण शोधयेत् ॥ ६५।८ ॥
शरावः पालिकाश्चैव घटिकाश्च त्रिधा स्मृताः ।
सरावाः कृतं यदुत्कृष्टं वर्गाभ्यां मध्यमं भवेत् ॥ ६५।९ ॥
कनिष्ठिकं चैकवर्गैस्तेषां लक्षणमुच्यते ।
सौवर्णं राजतं ताम्रं निर्मितं मृण्मयं स्मृतम् ॥ ६५।१० ॥
पालिकाननविस्तारो मन्वङ्गुलमुदाहृतम् ।
एकैकाङ्गुलहीनं स्यान्मध्यमे कन्यसेक्रमात् ॥ ६५।११ ॥
विस्तारे सममुत्सेधः पादतारः तदर्धतः ।
विस्तारे कौशिकांशेन परितः शेष उच्यते ॥ ६५।१२ ॥
(पृ० १६८)
विस्तारस्य त्रिभागैकवर्तितं बिलमुच्यते ।
विस्तारयुगभागैको दण्डविस्तार इष्यते ॥ ६५।१३ ॥
घटिका कलशाकारा दण्डपादौ तु पूर्ववत् ।
विद्येश्वराङ्गुलः कुम्भविस्तारः पञ्चवक्त्रयुक् ॥ ६५।१४ ॥
पालिकार्धप्रमाणेन त्रिपादो वा शरावकम् ।
यथासम्भवमानं वा पालिकादि प्रकीर्तितम् ॥ ६५।१५ ॥
भिन्नं कृष्णञ्च सुषिरं दुर्गन्धं च पुराणकम् ।
छिन्नलिङ्गादिसंयुक्तं वर्जयेदङ्कुरार्पणे ॥ ६५।१६ ॥
शरावं ब्रह्मदैवत्यं पालिका विष्णुदेवता ।
घटिकैशानसंयुक्ता तेषु तानर्चयेद्गुरुः ॥ ६५।१७ ॥
पृथक् षोडशसङ्ख्यातमुत्तमं परिकीर्तितम् ।
मध्यमं मनुसङ्ख्यातं दशतः कन्यसं भवेत् ॥ ६५।१८ ॥
उत्तमक्रममेवं स्यादष्टषड्वेदसङ्ख्यया ।
मध्यमक्रममुद्दिष्टं त्रिद्व्येकैः कन्यसं भवेत् ॥ ६५।१९ ॥
सर्वेषां स्थापनं वक्ष्ये श्रूयतां द्विजसत्तमाः ।
गोमयालेपनं कृत्वा पिष्टचूर्णैंर्विचित्रयेत् ॥ ६५।२० ॥
पञ्चगव्येन सम्प्रोक्ष्य सूत्रपातमथाचरेत् ।
सूत्रव्याप्तिर्दश प्राच्यां दशोदीच्यां तथैव च ॥ ६५।२१ ॥
नव मध्ये च सङ्गृह्य परितः षोडशं त्यजेत् ।
चतुर्दिक्षु च चत्वारिद्वाराणि द्विपदानि च ॥ ६५।२२ ॥
कोणे द्वादशसङ्ख्यानि तेषु स्युः पालिकादयः ।
मध्ये नवपदे पद्मं पालिकां कोणदेशके ॥ ६५।२३ ॥
घटिका द्वारवामे स्युः शरावा द्वारदक्षिणे ।
एवं द्वारेषु चान्येषु कल्पयेद्देशिकोत्तमः ॥ ६५।२४ ॥
प्राक्सूत्रं वसुसङ्ख्यातमुदक्सूत्रं तथैव च ।
मध्ये व्योमपदं हित्वा परितोऽष्टपदं त्यजेत् ॥ ६५।२५ ॥
मध्यमे सोमकुम्भः स्यात्पूर्वपङ्क्तिद्वये पुनः ।
पालिका मनुसङ्ख्याताः पश्चिमे घटिका मताः ॥ ६५।२६ ॥
तदन्तरालषट्के च दक्षेऽदक्षे शरावकाः ।
कुम्भपार्श्वे द्वयं प्रोक्तं पूर्वस्मिन् पश्चिमे द्विजाः ॥ ६५।२७ ॥
श्रेष्ठमध्यममेवं स्यादुत्तमाधममुच्यते ।
प्राक्सूत्रं मुनिसङ्ख्यातमुदक्सूत्रं तथैव च ॥ ६५।२८ ॥
मध्ये वेदपदं मुक्त्वा तत्र कुम्भं निवेशयेत् ।
ईशानकोणादारभ्य पालिका बाह्यपङ्क्तिके ॥ ६५।२९ ॥
राक्षस्यां दिशि कोणान्तं शरावाः परिकीर्तिताः ।
अन्तर्दिशासु द्वौ द्वौ वा वायावीशे परा मताः ॥ ६५।३० ॥
उत्कृष्टकन्यसं प्रोक्तं मध्यमोत्तममुच्यते ।
पञ्चपञ्चपदं कृत्वा मध्यमे स्थापयेद्घटम् ॥ ६५।३१ ॥
चतुर्दिक्षु च कोणेषु स्थापयेत्पालिका बहिः ।
कुम्भबाह्ये च घटिकाः स्वान्तरेऽष्टौ प्रकीर्तिताः ॥ ६५।३२ ॥
शरावं स्थापयेद्बाह्ये पालिकानामथान्तरे ।
मध्यमे ज्येष्ठमाख्यातं मध्यमध्यमथोच्यते ॥ ६५।३३ ॥
षोढा प्रागग्रसूत्राणि तथैवोत्तरगानि च ।
मध्ये नवपदं कृत्वा ईशानं नैरृतं विना ॥ ६५।३४ ॥
पालिकाः पञ्च पूर्वस्थाः पश्चिमस्थाः शरावकाः ।
दक्षिणे त्रितये वामे घटिकाः षड्व्यवस्थिताः ॥ ६५।३५ ॥
अन्तरीशानदेशे तु पालिकैका व्यवस्थिता ।
तथैव नैरृते देशे शरावः सुव्यवस्थितः ॥ ६५।३६ ॥
षोडशांशं ततः कृत्वा मध्ये वेदैर्व्यवस्थिताः ।
पालिका घटिका चैव शरावश्च यथाक्रमात् ॥ ६५।३७ ॥
ईशानकोणादारभ्य वह्न्यन्ताः समुदीरिताः ।
अनेनैव क्रमेणैव वह्न्याद्विषु च विन्यसेत् ॥ ६५।३८ ॥
कृत्वा नवपदं मध्ये सोमकुम्भो व्यवस्थितः ।
पूर्ववत्पालिकाद्यं तु शर्वमारभ्य विन्यसेत् ॥ ६५।३९ ॥
अवशिष्टं बहिः सोमे कन्यसाद्यं प्रकीर्तितम् ।
प्राग्वन्नवपदं कृत्वा द्वारे पूर्वत्र पश्चिमे ॥ ६५।४० ॥
(पृ० १६९)
ईशानकोणादारभ्य पालिकाद्यं तु विन्यसेत् ।
एतत्कन्यसमध्यं स्यात्ततः कन्यसकन्यसम् ॥ ६५।४१ ॥
कृत्वा नवपदं चापि त्यजेत्कोणचतुष्टयम् ।
मध्ये कुम्भं च पूर्वादिपालिकादींश्च विन्यसेत् ॥ ६५।४२ ॥
एवं न्यासक्रमं प्रोक्तं तत्क्रिया कथ्यतेऽधुना ।
स्थण्डिलं कारयेद्विद्वानष्टद्रोणेन शालिका ॥ ६५।४३ ॥
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत् ।
शिवकुम्भोक्तवत्कुम्भे प्रस्थं वा प्रतिपालिकम् ॥ ६५।४४ ॥
तन्मध्ये विलिखेत्पद्मं साष्टपत्रं सकर्णिकम् ।
तदर्धं तण्डुलोपेतं तिललाजसमन्वितम् ॥ ६५।४५ ॥
दर्भैः पुष्पैः परिस्तीर्य तन्मध्ये स्थापयेद्घटम् ।
द्रोणेनार्धेन वा पूर्णं कुम्भसङ्ख्यासमन्वितम् ॥ ६५।४६ ॥
ससूत्रं सपिधानं च सकूर्चं वारिसंयुतम् ।
सौवर्णं चन्द्रबिम्बं स्यात्सद्वस्त्रवदनान्वितम् ॥ ६५।४७ ॥
तन्मध्ये विन्यसेदिन्दुं तन्मन्त्रेण शिवद्विजाः ।
पायसं दापयेद्विद्वान् ताम्बूलं दापयेत्ततः ॥ ६५।४८ ॥
ईशानेन तु मन्त्रेण पालिकादीनि विन्यसेत् ।
दर्भैः कुशैः पलाशैर्वा निश्छिद्रं सुषिरं नयेत् ॥ ६५।४९ ॥
शुद्धदेशोत्थमृद्भिस्तु पालिकादीनि पूरयेत् ।
द्रव्याणि वापयेत्पश्चात्पयसा भावितानि वै ॥ ६५।५० ॥
तिलसर्षपमुद्गांश्च माषशिम्बाढकानि च ।
कुलुत्थं सप्तबीजानि वापयेदुत्तमस्य तु ॥ ६५।५१ ॥
मुद्गमाषकुलुत्थं च तिलं च सर्षपं तथा ।
एवं तु मध्यमं प्रोक्तं कन्यसं तिलसर्षपम् ॥ ६५।५२ ॥
अधमं त्वेवमाख्यातमथवान्यमिहोच्यते ।
तिलसर्षपमुद्गांश्च माषशिम्बकुलुत्थकान् ॥ ६५।५३ ॥
शालिप्रियङ्ग्वपामार्गयवश्याममिहोच्यते ।
अथवान्यप्रकारेण द्रव्यलक्षणमुच्यते ॥ ६५।५४ ॥
तिलसर्षपमुद्गांश्च ततो माषकुलुत्थकम् ।
निष्पावशाल्यपामार्गशिम्बाव्रीह्याढकाः स्मृताः ॥ ६५।५५ ॥
श्यामगोधूमसस्येन्द्रवैणवाः परिकीर्तिताः ।
पयसा भावितान्यत्र निर्वपेद्धृदयेन तु ॥ ६५।५६ ॥
अङ्कुरा वर्धनीयाः स्युर्यथा शोभावहा द्विजाः ।
वापयेद्बीजमुख्येन प्राङ्मुखो वाप्युदङ्मुखः ॥ ६५।५७ ॥
तत्कुम्भस्थजलेनैव पालिकादीनि विन्यसेत् ।
कुम्भाम्भःशोषणात्पूर्वं गन्धतोयेन पूरयेत् ॥ ६५।५८ ॥
नित्यं सम्पूज्य हविषा दापयेत्तद्दिनान्तकम् ।
निर्दिष्टदिवसे प्राप्ते सोममुद्वासयेत्सुधीः ॥ ६५।५९ ॥
निर्वापान्ते पिधायैव स्मृत्या गुप्तं निधापयेत् ।
अङ्कुरास्तु सिताः शस्ताः कोमला ऊर्ध्वगामिनः ॥ ६५।६० ॥
कृष्णं च धूम्रवर्णं च पिङ्गलं श्यामलं तथा ।
तिर्यग्गतं च कुब्जं च वर्जयेच्छुद्धकर्मणि ॥ ६५।६१ ॥
शान्तिहोमं ततः कुर्यात्तन्निवृत्यर्थमेव च ।
तीर्थाङ्कुरस्य कर्तव्यं ग्रामादीनां प्रदक्षिणम् ॥ ६५।६२ ॥
गृहीतमृत्समोपेतं पालिकादिसमन्वितम् ।
त्रिशूलेन समोपेतं कुन्दाल्या च समन्वितम् ॥ ६५।६३ ॥
चण्डेश्वरसमोपेतं सर्वालङ्कारसंयुतम् ।
अन्येषामपि सर्वेषां वर्जयेद्वा प्रदक्षिणम् ॥ ६५।६४ ॥
मृत्सङ्ग्रहादौ कुर्याद्वा न कुर्याद्भ्रमणक्रियाम् ।
नदीतीरे तटाके वा वने पुष्पवनेऽपि वा ॥ ६५।६५ ॥
दीर्धिकासेतुबन्धादौ विधिना मृदमाहरेत् ।
प्रोक्षयेद्भूतलं सम्यक् शिवतोयेन बुद्धिमान् ॥ ६५।६६ ॥
आवाहयेत्ततो भूमिं गन्धाद्यैरर्चयेद्धृदा ।
परितो लोकपानिष्टवा शस्त्रमन्त्रेण पूजयेत् ॥ ६५।६७ ॥
शस्त्रेण निखनेद्भूमिं त्रिः खात्वा चोत्तरामुखः ।
मृदं सङ्गृह्य वामेन पूरयेत्स्थलिकान्तरम् ॥ ६५।६८ ॥
(पृ० १७०)
गन्धादिभिः समभ्यर्च्य परिवारजनैस्तु वा ।
वाहयित्वा मृदं पश्चात्प्रासादाद्यम्? प्रवेशयेत् ॥ ६५।६९ ॥
पालिकाद्यैस्त्रिभिः श्रेष्ठं द्वाभ्यां मध्यममुच्यते ।
अधमं चैकवर्गेण कर्तव्या चाङ्कुरक्रिया ॥ ६५।७० ॥
उक्तालाभे तदासन्ने काले सद्योऽङ्कुरार्पणम् ।
प्रसूनं नालिकेरस्य दूर्वापुष्पाक्षतान्वितम् ॥ ६५।७१ ॥
प्रक्षिपेत्पालिकामध्ये बीजमन्त्रमनुस्मरन् ।
घटिकासु शरावेषु त्रिषु वा चाङ्कुरार्पणम् ॥ ६५।७२ ॥
॥ इति कामिकाख्ये महातन्त्रे अङ्कुरार्पणविधिर्नाम त्रिषष्टितमः
पटलः ॥