लिङ्गस्य लक्षणं वक्ष्ये श्रूयतां द्विजसत्तमाः ।
मृद्द्रुमोपललोहोत्थं रत्नबाणादिसम्भवम् ॥ ६४।१ ॥
द्विविधं मृण्मयं लिङ्गं पक्वं चापक्वमेव च ।
आभिचाराय पक्वं तु द्विहस्तादुपरि स्थितम् ॥ ६४।२ ॥
श्वेताद्यां मृदमादाय पयस्तैलादिभिर्वृताम् ।
यवगोधूमचूर्णं तु पयोवृक्षत्वचान्वितम् ॥ ६४।३ ॥
पिच्छिलेन सुगन्धेन चूर्णेनालोड्य सन्मृदम् ।
श्रीवेष्टकं सर्जरसं तथा गुग्गुलुशर्करा ॥ ६४।४ ॥
पञ्चनिर्याससंयुक्तामथ लोकप्रसिद्धितः ।
एतेषां सङ्ख्यया तुल्यां मृदं गृह्णीत देशिकः ॥ ६४।५ ॥
गिरौ गिरिसमीपे वा वनेषूपवनेषु च ।
नदीतीरे द्रुमे शैले लिङ्गार्थं द्रव्यमाहरेत् ॥ ६४।६ ॥
याः सुवर्णा घनाः स्निग्धा निमग्ना नगसन्धिषु ।
सरित्सलिलनिर्धूतपवित्रान्तर्जलोषिताः ॥ ६४।७ ॥
वृक्षच्छायोपगूढाश्च तीर्थाश्रमसमाश्रयाः ।
आयामव्यासनाहाढ्या रक्ताः पीताःसितासिताः ॥ ६४।८ ॥
मनोरमाः शिला ग्राह्या यौवनाः श्रेयसे मताः ।
वातातपानलालीढा मृद्वीक्षारोदकाश्रिताः ॥ ६४।९ ॥
कर्मान्तरगृहीता या अत्यन्तोपहताश्च याः ।
अन्त्यजानीतसेव्या या नदीशैलतटे स्थिताः ॥ ६४।१० ॥
(पृ० १६५)
रूक्षा वृद्धातिबालाश्च वर्जनीयाः शिला द्रुमाः ।
खादिरश्चन्दनः सालो मधूकः सरलोऽसनः ॥ ६४।११ ॥
बिल्वः कदम्बः खदिरो देवदारुश्च शिंशुपा ।
पनसार्जुनावशोकश्च क्षीरिणो रक्तचन्दनः ॥ ६४।१२ ॥
स्निग्धवर्णा महाकायाः शुभदाः शुभदेशजाः ।
द्रव्यसङ्ग्रहणं कुर्याद्वक्ष्यमाणं विशेषतः ॥ ६४।१३ ॥
तच्छैलं नवहस्तान्तं पार्थिवं च तथा मतम् ।
त्र्यंशेन दारुजं लोहमस्यार्धेनोत्तमं मतम् ॥ ६४।१४ ॥
षट्षडङ्गुलहान्यन्तं मध्यमं मानमुच्यते ।
तदलाभे तु तन्मध्ये त्वेकैकाङ्गुलहानितः ॥ ६४।१५ ॥
मानं शतं च नवतिहस्तयुक्तप्रमाणतः ।
धामगर्भप्रमाणेनाधमं लिङ्गमुच्यते ॥ ६४।१६ ॥
गर्भार्धं मध्यमं ज्ञेयं पञ्चत्र्यंशं परं भवेत् ।
मध्यमेऽष्टविभागेन नवलिङ्गोदयानि च ॥ ६४।१७ ॥
ज्येष्ठे ज्येष्ठात्समारभ्य पादह्रासाद्द्विजोत्तमाः ।
मानानि च त्रयस्त्रिंशल्लिङ्गानां कीर्तितानि तु ॥ ६४।१८ ॥
अथवान्यप्रकारेण गर्भमानं विधीयते ।
अधमं गर्भपादं स्यात्त्रिपादं ज्येष्टमानकम् ॥ ६४।१९ ॥
पूर्ववन्मध्यमं कृत्वा त्रयस्त्रिंशत्प्रमाणकम् ।
आयादिशुद्धिसिद्ध्यर्थं भजेन्मानाङ्गुलेन तु ॥ ६४।२० ॥
भागं वा विभजेत्तेषां शध्यर्थं तदिहोच्यते ।
षोडशांशं समारभ्य चतुर्विंशतिसंयुतम् ॥ ६४।२१ ॥
शतांशं विभजेत्तत्र चैकांशं योजयेद्गुरुः ।
आयादिशुभसंयुक्तं सडंशं वा पुरा मया ॥ ६४।२२ ॥
भूमिलम्बे समादिष्टं नोक्तं विस्तरभीरुणा ।
लिङ्गायामे विकारांशे चतुर्भूतरसैः क्रमात् ॥ ६४।२३ ॥
सत्रिभागैस्त्रिरंशैस्तु सुरेड्यानाढ्यके द्विजाः ।
आढ्यं सर्वसमं लिङ्गं विशिष्टं परिकीर्तितम् ॥ ६४।२४ ॥
तेषां तन्मध्यमेऽष्टांशे प्रत्येकं नवधा भजेत् ।
लिङ्गायामे दिनांशे तु सप्ताष्टनवभागतः ॥ ६४।२५ ॥
ब्रह्मविष्ण्वीशभागानाम् उत्सेधाः सम्प्रकीर्तिताः ।
सर्वेषामपि सामान्यं लिङ्गमेतदुदाहृतम् ॥ ६४।२६ ॥
समखण्डं वर्धमानं शैवाधिक्यं त्रिभागिकम् ।
वर्णानां ब्राह्मणादीनां क्रमेण परिकल्पयेत् ॥ ६४।२७ ॥
वर्धमानशिवाधिक्ये सर्वजात्यर्हके मते ।
लिङ्गायामं त्रिधा कृत्वा ब्रह्मांशः त्वेकभागतः ॥ ६४।२८ ॥
विष्ण्वंशस्तद्वदेवं स्याद्रुद्रांशो भाग एव वा ।
एकांशसदृशस्तारः समखण्डोऽयमीर्तितः ॥ ६४।२९ ॥
चतुष्पञ्चषडंशं तु पञ्चषट्सप्तभागिकम् ।
षट्सप्ताष्टांशकं सप्तभागाष्टनवभागिकम् ॥ ६४।३० ॥
वर्धमानमिदं प्रोक्तं विप्रादीनामनुक्रमात् ।
सप्तसप्ताष्टभागं तु पञ्चपञ्चषडंशकम् ॥ ६४।३१ ॥
वेदवेदशरांशं तु गुणानलयुगांशकम् ।
एवं शिवाधिकं प्रोक्तं द्विजातीनामनुक्रमात् ॥ ६४।३२ ॥
कृत्वा नवांशं लिङ्गोच्चं बन्धबन्धगुणांशकम् ।
षट्सप्ताष्टकनाहं तु वृत्तेऽष्टाश्रे युगाश्रके ॥ ६४।३३ ॥
त्रैराशिकमिदं शास्त्रे स्वस्तिकं त्वधुनोच्यते ।
नवधा लिङ्गमानेन द्व्यंशं मध्ये गुणांशकम् ॥ ६४।३४ ॥
वृत्ते युगांशकं दैर्घ्यं शूद्रेऽप्येतच्च शस्यते ।
त्रैराशिकं तु सर्वेषां सर्वकामप्रदं मतम् ॥ ६४।३५ ॥
आढ्यानाढ्यसुरेड्यं च धारालिङ्गं सहस्रकम् ।
सर्वेषां ब्राह्मणादीनामपि सामान्यमीरितम् ॥ ६४।३६ ॥
एकादिधारया वृद्धं शतधारावसानकम् ।
धारालिङ्गं प्रशस्तं स्यात्सहस्रमधुनोच्यते ॥ ६४।३७ ॥
समखण्डे शिवायामे रुद्रभागविनिर्मिते ।
एकाधिकं नवत्यंशे विषमांशनिवेशितम् ॥ ६४।३८ ॥
(पृ० १६६)
सैकसाहस्रलिङ्गानां नवभागोच्चमेव वा ।
मुखलिङ्गमथो वक्ष्ये भुक्तिमुक्तिफलप्रदम् ॥ ६४।३९ ॥
चतुर्मुखं तत्त्रिमुखमेकवक्त्रयुतं भवेत् ।
योच्चतारा द्विभक्ता सा गुणत्यागादधो शिरः ॥ ६४।४० ॥
ललाटं नासिका वक्त्रञ्चिबुकोष्ठं च वर्तयेत् ।
ग्रीवाभुजोपनिष्क्रान्तिरिदानीं प्रोच्यते बुधाः ॥ ६४।४१ ॥
लिङ्गायामे विकारांशे लिङ्गविष्कम्भतो बहिः ।
चतुर्दिक्षु चतुर्वक्त्र निर्गमाय प्रकल्पयेत् ॥ ६४।४२ ॥
शेषं लिङ्गाकृतिः कार्या विष्णुभागानुसारतः ।
जानौ प्रविष्टा ग्रीवा स्याच्चतुरङ्गुलमानतः ॥ ६४।४३ ॥
तद्वद्दीर्घसमायुक्तं शेषं यत्प्रतिमोक्तवत् ।
नन्दमात्रादिकं भक्त्वा षट्तालं तु चतुर्विधम् ॥ ६४।४४ ॥
निर्गमार्थं चतुर्दिक्षु वेष्टनं परिकल्पयेत् ।
पादोनसप्तमात्रं तु विस्तारेण प्रकल्पयेत् ॥ ६४।४५ ॥
त्रिमुखं वा तदुच्चांशम् ऋतुवद्भाजयेत्समम् ।
भागार्धेन भुजस्कन्धौ षडङ्गुलविनिःसृतौ ॥ ६४।४६ ॥
त्रिभागेन भवेद्ग्रीवा मकुटं स्याद्द्विभागतः ।
चतुर्धा विभजेच्छेषं भागमात्रप्रमाणतः ॥ ६४।४७ ॥
शिरोललाटनासाश्च वक्त्रं चिबुकसंयुतम् ।
विष्ण्वंशतारसदृशं मकुटं च विवर्तयेत् ॥ ६४।४८ ॥
निर्गमांशा मुखानां स्युः प्रत्येकं वसुमात्रकैः ।
एकवक्त्रे त्रयोच्चांशे सार्धोनमुखदैर्घ्यकम् ॥ ६४।४९ ॥
मकुटञ्चैकभागं स्यादवशिष्टे द्विधा कृते ।
ग्रीवास्कन्धौ क्रमणैव वर्धयेद्देशिकोत्तमः ॥ ६४।५० ॥
मुखस्य निर्गमं कुर्यान्नवमात्रप्रमाणतः ।
अष्टाधिकशते लिङ्गदैर्घ्ये दैर्घ्याम्श इष्यते ॥ ६४।५१ ॥
शिरोवर्तनमेतेषां वक्ष्ये तद्बहुधा मतम् ।
पुण्डरीकविशालाख्यं श्रीवत्सं शत्रुमर्दनम् ॥ ६४।५२ ॥
काष्टांशके चतुर्भक्ते भागभागविवर्धनात् ।
भवन्ति पुण्डरीकादिभेदा भिन्नफलाप्तये ॥ ६४।५३ ॥
६४।पुण्डरीकाद्यशःप्राप्तिर्विशालाद्विपुलां श्रियम् ।
प्राप्नोति सर्वान् श्रीवत्साद्विजयं शत्रुमर्दनात् ॥ ६४।५४ ॥
कुक्कुटाण्डशिरो मूर्तिचतुर्थांशविवर्धनात् ।
प्रजावृद्धिकरं यस्मात्प्रजालाभः प्रजापतिः ॥ ६४।५५ ॥
त्रिभागवर्धनादर्धचन्द्रं चन्द्रसमो यतः ।
प्राप्तमायुः परं प्राप्तलोकं सौभाग्यमुत्तमम् ॥ ६४।५६ ॥
षड्भागवर्धनाद्भूतिनिमित्तं त्रपुषाकृतिः ।
साध्याः सिद्धाश्च मरुतो यस्माद्भूतिं परां गताः ॥ ६४।५७ ॥
अथवान्यप्रकारेण शिरोवर्तनमुच्यते ।
अष्टधा विभजेत्तारमध्यर्धेन विवर्तनात् ॥ ६४।५८ ॥
छत्रशीर्षमिति प्रोक्तं त्रपुषाभं निगद्यते ।
षडंशैस्त्रपुषं वा स्यात्सार्धद्व्यंशेन वर्तनम् ॥ ६४।५९ ॥
कुक्कुटाण्डशिरः प्रोक्तं विस्तारार्धप्रवर्तितम् ।
चन्द्रखण्डनिभं प्रोक्तं विस्तारात्त्र्यंशवर्तितम् ॥ ६४।६० ॥
बुद्बुदाभं शिरः सार्धत्र्यंशेनाष्टविभाजिते ।
एतानि सर्वलिङ्गानां सनातनशिरांसि हि ॥ ६४।६१ ॥
आयादिशुभसंयुक्तं लिङ्गं सर्वार्थसाधकम् ।
अशुभे त्वशुभं विद्यात्तदर्थमुपरि न्यसेत् ॥ ६४।६२ ॥
एकहस्तेऽङ्गुलं स्याच्च द्वित्रिहस्ते त्रिमात्रकम् ।
चतुष्पञ्चकरे पञ्च षट्सप्तसु च सप्तकम् ॥ ६४।६३ ॥
वसुनन्दकरे नन्दमात्रमानाधिकं मतम् ।
शिरोवर्तनभागे तु चतुर्थे वा षडंशके ॥ ६४।६४ ॥
एकं द्वयं त्रयं दद्याद्ब्रह्मभागात्क्रमेण तु ।
शिरोवर्तनभागस्य त्र्यंशं पूजांशकोपरि ॥ ६४।६५ ॥
लिङ्गायामेऽथवारोप्य षड्भागे तु तदुच्छ्रये ।
एकांशं योजयेद्धीमांलिङ्गे द्व्यंशं तु मध्यमे ॥ ६४।६६ ॥
(पृ० १६७)
त्रिभागमुत्तमे लिङ्गे योजयेद्वा द्विजोत्तमाः ।
केवलं वा शिरोमानमधिरोप्य विवर्तयेत् ॥ ६४।६७ ॥
शिरसा मिश्रितं भागं पार्श्वयोरवलम्ब्य च ।
वृत्तद्वयं तु तन्मानादुभयोः पार्श्वयोर्नयेत् ॥ ६४।६८ ॥
ऊर्ध्वदेशे शिरोमध्ये तृतीयं मण्डलं न्यसेत् ।
मण्डलैश्च त्रिभिर्मत्स्यद्वयमत्रोपजायते ॥ ६४।६९ ॥
तन्मत्स्याननपुच्छस्थसूत्रयोर्यत्र सङ्गतिः ।
तत्र स्थित्वा त्रिभिर्वास्य वर्तनीयं शिरःशुभम् ॥ ६४।७० ॥
जातिलिङ्गविभेदेन शिरश्च द्विविधं मतम् ।
छत्राकारं तु विप्राणां कुक्कुटाण्डनिभं नृपे ॥ ६४।७१ ॥
वैश्यानामर्धचन्द्राभं शूद्राणां त्रपुषं भवेत् ।
अपरं चन्द्रमप्यन्यलिङ्गभेदेन कथ्यते ॥ ६४।७२ ॥
लिङ्गव्यासे विकारांशे व्योमद्वित्र्यब्धिभिः क्रमात् ।
चतुर्विधं स्याच्छत्राभं तत्राद्ये समलिङ्गके ॥ ६४।७३ ॥
शैवधिक्ये तृतीयं स्याच्चतुर्थं वर्धमानके ।
अन्योऽन्यसङ्करः त्वेषामशुभाय प्रकल्पितः ॥ ६४।७४ ॥
स्वायम्भुवादिलिङ्गानां लक्षणं नेष्यते द्विजाः ।
किन्तु तेषां विभागं तु प्रसिद्धोक्त्या समाचरेत् ॥ ६४।७५ ॥
सर्वलक्षणसंयुक्तं लिङ्गं सर्वार्थसाधकम् ।
॥ इति कामिकाख्ये महातन्त्रे लिङ्गलक्षणविधिर्नाम द्विषष्टितमः
पटलः ॥