विमानानामथो वक्ष्ये ऊर्ध्वाश्मस्थापनं परम् ।
यद्द्रव्येणावसानं स्यात्तन्मया चेष्टका मता ॥ ६३।१ ॥
आद्येष्टकोक्तमानाः स्युरष्टांशोनास्तु वा मताः ।
स्थापनं वक्ष्यमाणेन मार्गेणैव समाचरेत् ॥ ६३।२ ॥
अङ्कुरार्पणकार्यं तु प्रागेव विधिना चरेत् ।
मण्डपस्य विमानस्य सौम्यायां पूर्वतो दिशि ॥ ६३।३ ॥
पञ्चैककुण्डयुक्तो वा तत्सङ्ख्यस्थण्डिलान्वितः ।
मध्यमे वेदिकायुक्तो दर्भमालादिशोभितः ॥ ६३।४ ॥
पश्चाच्छिल्पिनमुद्वास्य गोमयेनोपलेपयेत् ।
भोजनं भूसुराणां च पुण्याहं प्रोक्षणं तथा ॥ ६३।५ ॥
वास्तुहोमं पुरा कृत्वा स्थण्डिलं कारयेत्ततः ।
अष्टद्रोणैस्तदर्धैर्वा शालिभिश्च तदर्धकैः ॥ ६३।६ ॥
तण्डुलैश्च तिलैर्लाजैर्दर्भैः पुष्पैर्हृदा गुरुः ।
शय्यां च कल्पयित्वाथ पञ्चमृत्पञ्चगव्यकैः ॥ ६३।७ ॥
प्रक्षाल्य चेष्टकां स्थूपिं यजेद्गन्धादिभिर्हृदा ।
स्वराद्यं वेदवर्णं तु पूर्वादिक्रमशो लिखेत् ॥ ६३।८ ॥
(पृ० १६४)
इष्टकासु हृदा मन्त्री श्वेतचन्दनचर्चितैः ।
शय्यायां स्थापयित्वा तु तद्वामे स्थूपिकां न्यसेत् ॥ ६३।९ ॥
कौतुकं बन्धयित्वा तु वस्त्रेणाछाद्य देशिकः ।
परितोऽष्टौ घटान् न्यस्त्वा लोकेशाशासु तान्हृदा ॥ ६३।१० ॥
सम्पूज्य गन्धपुष्पाद्यैर्मूर्त्तिमूर्त्यधिपान् न्यसेत् ।
नन्दां भद्रां जयां रिक्तां पूर्णां चैवेष्टकासु च ॥ ६३।११ ॥
न्यसेत्स्थूप्यां सदेशं च होमकर्म समाचरेत् ।
कृत्वा कुण्डादिसंस्कारमग्निकार्योक्तमार्गतः ॥ ६३।१२ ॥
समिदाज्यान्नलाजैश्च तिलाद्यैश्च क्रमाद्धुनेत् ।
पलाशोदुम्बराश्वत्थवटाः पूर्वादिदिक्षु च ॥ ६३।१३ ॥
प्रधानेऽपि पलाशः स्यात्स च सर्वत्र वा मतः ।
शिवब्रह्माङ्गमन्त्रैश्च शतसङ्ख्यां तु होमयेत् ॥ ६३।१४ ॥
प्रभाते तु गुरुः स्नातः कृतमन्त्रादिविग्रहः ।
इष्ट्वेष्टकाभिः स्थूपिं च कुम्भान्कुण्डं च पालकान् ॥ ६३।१५ ॥
कृत्वा च निष्कृतिं पूर्णां पूजां सन्तुष्टमानसः ।
पञ्चनिष्कादिसम्प्राप्तदक्षिणैर्मूर्तिन्धारकैः ॥ ६३।१६ ॥
दैवज्ञाद्यैस्त्रिभिः सार्धं शिल्पिना च गुरूत्तमः ।
गृहीत्वा चेष्टकां स्थूपिं कृतधामप्रदक्षिणः ॥ ६३।१७ ॥
आरुह्य शिखरं मूर्ध्नि विन्यसेदिष्टकाः क्रमात् ।
आद्येष्टकोक्तरीत्यैव मध्ये रत्नादि विन्यसेत् ॥ ६३।१८ ॥
तदूर्ध्वे स्थापयेत्स्थूपिं मूलमन्त्रेण देशिकः ।
तन्मूलं कुम्भतोयैश्च प्रोक्षयेत्स्वस्वमन्त्रतः ॥ ६३।१९ ॥
स्थूपिकांशं विहायाधो बन्धयेदिष्टकादिभिः ।
एवं यः कारयेन्मर्त्यः स पुण्यां गतिमाप्नुयात् ॥ ६३।२० ॥
॥ इति कामिकाख्ये महातन्त्रे मूर्धेष्टकास्थापनविधिर्नाम
एकषष्टितमः पटलः ॥