लक्षणं चैकभूम्यादेर्विशेषेण निगद्यते ।
हर्म्यतारत्रिभागैकभूतांशेषु गुणांशकम् ॥ ६२।१ ॥
धातुभागे युगांशं तु बाणांशं नवभागके ।
रुद्रांशे रसभागं तु विश्वांशे सप्तभागकम् ॥ ६२।२ ॥
तिथ्यंशे वसुभागं तु सप्तादशनवांशकम् ।
विस्तारार्धं तु तत्सर्वं नालीगृहमिति स्मृतम् ॥ ६२।३ ॥
एकद्वित्रिचतुष्पञ्चषडंशस्त्वेकभूमिकम् ।
त्रिचतुष्पञ्चमात्रं तु पादविष्कम्भ इष्यते ॥ ६२।४ ॥
एकभागमधिष्ठानं पाददैर्घ्यं द्विभागतः ।
प्रस्तरश्चैकभागः स्यात्कण्ठस्त्वेकेन कीर्तितः ॥ ६२।५ ॥
शिखरस्य द्विभागेन स्थूपिरेकेन कीर्तितः ।
वृत्तकण्ठशिरोयुक्तं विजयं नामतो भवेत् ॥ ६२।६ ॥
कर्णकूटयुतं तत्तु श्रीभोगमिति कीर्तितम् ।
मध्ये भद्रयुतं चेत् तु श्रीविशालं प्रकीर्तितम् ॥ ६२।७ ॥
वस्वश्रशिखरग्रीवं स्वस्तिबन्धनमिष्यते ।
वेदाश्रशिखरग्रीवं श्रीकरं स्याद्द्विजोत्तमाः ॥ ६२।८ ॥
द्व्यश्रवृत्तशिरोग्रीवं हस्तिपृष्ठमिति स्मृतम् ।
षडश्रशिखरग्रीवं स्कन्दकान्तमिति स्मृतम् ।
मध्ये भद्रयुतं कर्णकूटयुक्तं तु मस्तके ॥ ६२।९ ॥
कोष्ठकं भद्रनास्यङ्गं वृत्तं वा गलमस्तकम् ।
केसरं नामतः प्रोक्तं युगाश्रं वा गलं शिरः ॥ ६२।१० ॥
पञ्चसप्तर्तुभागे तु त्रिद्व्यंशे मध्यभद्रकम् ।
एकभौममिदं प्रोक्तं द्वितलं तु विधीयते ॥ ६२।११ ॥
तारे सप्त त्रिभागे तु सौष्ठिकं विस्तरं स्मृतम् ।
द्विभागं कोष्ठकायामं शेषं हारं सपञ्जरम् ॥ ६२।१२ ॥
विमानोच्चं तु विभजेदष्टाविंशतिसङ्ख्यया ।
अधिष्ठानं त्रिभागः स्यात्पादः षड्भाग ईरितः ॥ ६२।१३ ॥
त्रिभागः प्रस्तरः पञ्चभागः स्यादूर्ध्वभागतः ।
द्विभागः प्रस्तरः कर्णस्त्रिभागः परिकीर्तितः ॥ ६२।१४ ॥
सार्धवेदैः शिरस्थूपिरध्यर्धेन विनिर्मितः ।
चतुरश्रमधिष्ठानं तद्वत्कन्धरमस्तकम् ॥ ६२।१५ ॥
चतुष्कूटसमायुक्तं चतुष्कोष्ठसमन्वितम् ।
क्षुद्रनीडमुपर्यष्टौ नाम्नैतत्स्वस्तिकं भवेत् ॥ ६२।१६ ॥
तदेव सौष्ठिकं निम्नमुन्नतं कोष्ठकं यदि ।
अन्तरप्रस्तरोपेतमेतद्विपुलसुन्दरम् ॥ ६२।१७ ॥
अंशमंशत्रयं सत्रिपादांशं साङ्घ्रिभागिकम् ।
भागत्रयवितस्त्यङ्घ्रिप्रस्तरं ग्रीवमस्तकम् ॥ ६२।१८ ॥
(पृ० १५८)
पादोदये दशांशे तु द्वितलादिविमानके ।
अन्तरप्रस्तरोपेतं कूटशालान्तमीरितम् ॥ ६२।१९ ॥
तदेव कोष्ठकं निम्नमुन्नतं सौष्ठिकं यदि ।
अन्तरप्रस्तरोपेतमेतत्कैलासमुच्यते ॥ ६२।२० ॥
तदेव वर्तुलं वेदिकन्धरं शिखरं घटम् ।
वसुकूटं चतुः शालोपेतं पञ्जरभूषितम् ॥ ६२।२१ ॥
कोष्ठकं निर्गमं मध्ये द्वित्रिदण्डेन सौष्ठिकम् ।
समग्रीवशिरोयुक्तं कूटकोष्ठकसंयुतम् ॥ ६२।२२ ॥
नानाधिष्ठानसंयुक्तं नाम्नैतत्पर्वतो भवेत् ।
तदेव शिखरं दिक्षु चार्धकोष्ठकसंयुतम् ॥ ६२।२३ ॥
चतुरश्रशिरोयुक्तं चतुष्कूटसमन्वितम् ।
नानाधिष्ठानसंयुक्तं नाम्नैतत्स्वस्तिकं भवेत् ॥ ६२।२४ ॥
तदेव सौष्ठिकं कोष्ठमन्तरप्रस्तरान्वितम् ।
हारपञ्जरसंयुक्तं नाम्ना कल्याणमिष्यते ॥ ६२।२५ ॥
तदेव शिखरं चार्धकोष्ठकं रहितं यदि ।
चतुर्णासिसमायुक्तमेतत्पाञ्चालमिष्यते ॥ ६२।२६ ॥
तदेवाष्टाश्रकं वेदिकन्धरं शिखरं घटम् ।
शिखराष्टमहानासियुक्तं स्याद्विष्णुकान्तकम् ॥ ६२।२७ ॥
तदेव कूटशालानामन्तरप्रस्तरं विना ।
तच्चतुर्भागमानेन चायतं चतुरश्रकम् ॥ ६२।२८ ॥
आयतं च तथा वेदिकन्धरं शिखरं भवेत् ।
स्थूपित्रयसमायुक्तं तन्नाम्नैतत्सुमङ्गलम् ॥ ६२।२९ ॥
तदेवायतवृत्तं चेद्वेदिकाकन्धरं शिरः ।
सर्वावयवसंयुक्तमेतद्गान्धारमिष्यते ॥ ६२।३० ॥
तारादर्धाधिकायामसंयुक्तं चतुरश्रकम् ।
द्व्यश्रवृत्तशिरोयुक्तं नेत्रशालामुखान्वितम् ॥ ६२।३१ ॥
हस्तिपृष्ठमिदं द्व्यश्रं वृत्तं वापि मसूरकम् ।
चतुरश्रमधिष्ठानं वृत्तं स्याद्गर्भगेहकम् ॥ ६२।३२ ॥
सर्वालङ्कारसंयुक्तं नाम्नैतत्स्यान्मनोहरम् ।
तदेव जन्माद्याकुम्भाद्वृत्तं चेत्तु बहिर्बहिः ॥ ६२।३३ ॥
शेषं पूर्ववदुद्दिष्टं प्रोक्तमीश्वरकान्तकम् ।
द्विभूमिरेवमाख्याता त्रिभूमिरधुनोच्यते ॥ ६२।३४ ॥
प्रासादस्य तु विस्तारे सप्ताष्टांशैर्विभाजिते ।
भागेन कूटविस्तारं कोष्ठाद्द्वित्रिगुणायतम् ॥ ६२।३५ ॥
लम्बपञ्जरमर्धांशं हारभागं तु तत्समम् ।
ऊर्ध्वक्ष्मतारे षड्भागे भागः कूटस्य विस्तरः ॥ ६२।३६ ॥
कोष्ठकं द्विगुणायामं हारं भागेन कल्पयेत् ।
ऊर्ध्वभूमेर्द्विभागेन मध्यभद्रं विधीयते ॥ ६२।३७ ॥
दण्डः सार्धद्विदण्डो वा हर्म्यनिर्गम इष्यते ।
विमानोच्चं तु विभजेच्चतुर्विशतिसङ्ख्यया ॥ ६२।३८ ॥
धरातलं द्विभागेन चतुर्भिःपाद ईरितः ।
द्विभागः प्रस्तरः पादः सत्रिपादगुणांशकैः ॥ ६२।३९ ॥
प्रस्तरः सार्धभागः स्याद्भागः सार्धत्रिभागकः ।
सपादभागो मञ्चः स्यात्सार्धकं कण्ठमीरितम् ॥ ६२।४० ॥
शिखरं सार्धबन्धं स्यादेकेन स्थूपिका भवेत् ।
कूटं कोष्ठं च नीडं च वसुसङ्ख्यासमीरितम् ॥ ६२।४१ ॥
जन्मादिस्थूपिकान्तं तु वेदाश्रकमिति स्मृतम् ।
द्वितीये च तृतीये च चक्रनीडास्तु षोडश ॥ ६२।४२ ॥
यथाशोभं तथा नास्यः सर्वत्र परिकीर्तिताः ।
शिखरे तु महानास्यश्चतस्रः परिकीर्तिताः ॥ ६२।४३ ॥
कोष्ठकं चोन्नतं कूटं निम्नमन्तरपञ्चकम् ।
विमानाकृतिकं नाम्ना सर्वालङ्कारसंयुतम् ॥ ६२।४४ ॥
चतुर्भागाधिकायामं विस्तारं परिकल्पयेत् ।
विस्तारे वसुभागाः स्युरायामे द्वादशांशकम् ॥ ६२।४५ ॥
तद्विस्तारोर्ध्वमानेन वर्तुलं वर्तनीयकम् ।
मसूरकाच्छिरोऽन्तं तु द्व्यंशवृत्तं तु कारयेत् ॥ ६२।४६ ॥
(पृ० १५९)
अथवा शिखरं खण्डं द्व्यश्रवृत्तं नयेद्द्विजाः ।
तदधश्चतुरश्रं स्यान्मूलतो द्व्यश्रवृत्तके ॥ ६२।४७ ॥
अग्रात् पार्श्वद्वयोः पृष्ठे कुर्याद्वृत्तद्वयांशकम् ।
कूटकोष्ठकनीडानां विस्तारो भाग इष्यते ॥ ६२।४८ ॥
कोष्ठकं द्विगुणायामं हारा भागेन कीर्तिताः ।
शिखरे तु महानास्यश्चतस्रः परिकीर्तिताः ॥ ६२।४९ ॥
कोष्ठतश्चोन्नतं कूटं निम्नमन्तरमञ्चकम् ।
स्वस्तिकं तत्त्रिभौमं स्याच्छिवप्रीतिकरं भवेत् ॥ ६२।५० ॥
तारे सप्तनवांशे तु भागः सौष्ठिकविस्तरः ।
शालायामस्तथा द्व्यंशो हारं भागेन कल्पयेत् ॥ ६२।५१ ॥
अष्टकूटं तु तत्कोष्ठं द्वादशैव विधीयते ।
अष्टनीडानि नाड्यः स्युर्नीडं शोभावशेन तु ॥ ६२।५२ ॥
अष्टाश्रमस्तकं वेदिकन्धरं चाष्टनासिकम् ।
विमलाकृतिकं नाम्ना सर्वालङ्कारसंयुतम् ॥ ६२।५३ ॥
चतुर्भागाधिकायामं विस्तारात्परिकल्पयेत् ।
विस्तारे वसुभागाः स्युरायामे द्वादशांशकः ॥ ६२।५४ ॥
तद्विस्तारार्धमानेन वर्तुलं वर्तनीयकम् ।
मसूरकाच्छिरोऽन्तं तु द्व्यश्रं वृत्तं तु कारयेत् ॥ ६२।५५ ॥
अथवा शिखरं कण्ठं द्व्यश्रवृत्तं नयेद्द्विजाः ।
तदधश्चतुरश्रं स्यान्मूलतो द्व्यश्रवृत्तके ॥ ६२।५६ ॥
अग्रात्पार्श्वद्वयोः पृष्ठे कुर्यादर्कद्वयांशकम् ।
कूटकोष्ठकनीडांशविस्तारो भाग इष्यते ॥ ६२।५७ ॥
कोष्ठकं द्विगुणायामं हारं भागेन कीर्तितम् ।
षड्भागाः स्युस्तदूर्ध्वे तु पृष्ठतस्तस्य पार्श्वयोः ॥ ६२।५८ ॥
कृत्वार्कद्विगुणांशं तु कूटकोष्ठादि पूर्ववत् ।
ऊर्ध्वभौमं चतुर्भागं यथायुक्तिवशान्नयेत् ॥ ६२।५९ ॥
मस्तके पुरतो नेत्रं शालावक्त्रसमन्वितम् ।
गर्भकूटोपसंयुक्तं क्षुद्रनासीविभूषितम् ॥ ६२।६० ॥
कूटकोष्ठयुतं वाथ तद्विहीनं तु वा नयेत् ।
शिखरे दभ्रनास्यः स्युस्तिस्रः पादसमन्विताः ॥ ६२।६१ ॥
अष्टकूटं तु तत्कोष्ठं नीडं द्वादश एव हि ।
हरायां क्षुद्रनीडं स्यादर्कद्विगुणसङ्ख्यया ॥ ६२।६२ ॥
एकादिरविभूम्यन्तं वर्तनायुक्तमेव वा ।
हस्तिपृष्ठमिदं नाम्ना सर्वालङ्कारसंयुतम् ।
विस्तारास्त्वष्टभागाः स्युरायामो दशभागिकः ॥ ६२।६३ ॥
कूटं कोष्ठं च नीडं च भागेन परिकल्पयेत् ।
हारभागं तु भागेन षडंशञ्चोर्ध्वभूमिके ॥ ६२।६४ ॥
तदूर्ध्वे तु चतुर्भाग आयामोऽष्टाम्श आधिकः ।
सायतं द्व्यश्रवृत्तं स्याद्वेदिकागलमस्तकम् ॥ ६२।६५ ॥
कूटकोष्ठादिसर्वाङ्गं पूर्ववत्परिकल्पयेत् ।
एतद्धस्त्यादिकं सौधं गजपृष्ठं पुरातनम् ॥ ६२।६६ ॥
नवधा भाजिते तारे गर्भगेहं त्रिभागतः ।
भागतो गृहपिण्डी स्यात्कन्धरं वांशतो भवेत् ॥ ६२।६७ ॥
अंशेनान्धारिका ज्ञेया सौष्ठिकं चांशतो भवेत् ।
त्रिभागः कोष्ठकायामः सार्धतो नीडविस्तरः ॥ ६२।६८ ॥
कोष्ठमध्ये त्रिदण्डेन नाडीनिर्गमनान्वितः ।
ऊर्ध्वक्ष्मेऽपि षडंशांशं कूटं तद्द्विगुणायतम् ॥ ६२।६९ ॥
कोष्ठभागगतो हारः पञ्जरैरञ्जितो भवेत् ।
ऊर्ध्वभूमौ त्रिभागेन मध्ये दण्डेन निर्गतः ॥ ६२।७० ॥
आदौ तलं चतुष्कर्णे कूटं वेदाश्रमस्तके ।
अष्टाश्र ऊर्ध्वभूमौ तु सौष्ठिकानां तु मस्तकम् ॥ ६२।७१ ॥
चतुरश्रमधिष्ठानं वस्वश्रगलमस्तकम् ।
अष्टकूटं तथा कोष्ठं नीडकं च तथा भवेत् ॥ ६२।७२ ॥
क्षुद्रनीडं तथाप्यष्टौ चाष्टौस्युर्गलनासिकाः ।
भद्रकोष्ठमिदं नाम्ना सर्वालङ्कारसंयुतम् ॥ ६२।७३ ॥
तदेव वर्तुलं कर्णकूटमूर्ध्वोर्ध्वभूमिके ।
मस्तकं तस्य वृत्तं स्याच्चतुर्णासिसमन्वितम् ॥ ६२।७४ ॥
(पृ० १६०)
वृत्तकूटमिदं नाम्ना सर्वावयवसंयुतम् ।
तदेवाष्टांशदैर्घ्येण सायतं चतुरश्रकम् ॥ ६२।७५ ॥
कर्णकूटं च वेदाश्रं सायतं वृत्तमस्तकम् ।
कोष्ठभद्रविहीनं वा शेषं पूर्ववदाचरेत् ॥ ६२।७६ ॥
स्थूपित्रयसमायुक्तं नाम्नैतत्स्यात्सुमङ्गलम् ।
पञ्चादशकरं व्यासं दशभागेन योजयेम् ॥ ६२।७७ ॥
गर्भगेहं चतुर्भागं गान्धार्यंशेन कीर्तिता ।
अलीन्द्रमंशमंशेन खण्डहर्म्यं बहिष्क्रमात् ॥ ६२।७८ ॥
कर्णमध्येऽन्तरं कुर्यात्कूटकोष्ठकपञ्जरान् ।
भागेन कोष्ठकायामं द्विगुणं सम्मतं बुधाः ॥ ६२।७९ ॥
ऊर्ध्वभूमौ रसांशे तु भागः सौष्ठिकविस्तरः ।
कोष्ठकं द्विगुणायामं हारं भागेन योजयेत् ॥ ६२।८० ॥
तदूर्ध्वे च चतुर्भागे भागो मध्येन निर्गमः ।
दण्डेनाध्यर्धदण्डेन द्विदण्डेनाथवा भवेत् ॥ ६२।८१ ॥
चतुरश्रमधिष्ठानं तद्वत्कन्धरमस्तकम् ।
वसुकूटं तथा नीडं कोष्ठकं च तथैव हि ॥ ६२।८२ ॥
ऊर्ध्वेऽष्टौ लम्बनीडाः स्युर्जलस्थलसमन्वितम् ।
नासिकाद्यङ्गसंयुक्तं सर्वावयवसंयुतम् ॥ ६२।८३ ॥
उन्नतौ कूटकोष्ठौ चेदन्तरप्रस्तरान्वितौ ।
एवं गान्धारमत्रोक्तम् अष्टाश्रं वा गलं शिरः ॥ ६२।८४ ॥
तदेव वर्तुलं वेदिकन्धरं शिखरं यदि ।
शेषं पूर्ववदुद्दिष्टं नाम्ना श्रीभोगमिष्यते ॥ ६२।८५ ॥
वृत्तं वृत्तायतं द्व्यश्रं वृत्तमष्टषडश्रकम् ।
वृत्तं वृत्तायतं द्व्यश्रं वृत्तमष्टषडश्रकम् ॥ ६२।८६ ॥
कूटकोष्ठकनीडैश्च मण्डितं हर्म्यखण्डके ।
ऋजुभागविशालात्तु द्व्यश्रवृत्तेऽथ वर्तुले ॥ ६२।८७ ॥
भागः कश्चिद्भवेन्न्यूनो भागः सर्वसमस्तु वा ।
अष्टांशेन दशांशेन चोर्ध्वांशस्योदयांशकान् ॥ ६२।८८ ॥
यथाशोभम्बलव्याप्तिस्तथा युञ्जीत बुद्धिमान् ।
वक्ष्येऽथ मुनयः श्रेष्ठाश्चतुर्भौमनिकेतनम् ॥ ६२।८९ ॥
त्रिचतुष्पञ्चहस्तादिर्द्विद्व्यङ्गुलविवर्धनात् ।
एकविंशतिहस्तान्तो व्यासतुङ्गस्तु पूर्ववत् ॥ ६२।९० ॥
त्रयोदशकरव्यासमष्टधा विभजेत्ततः ।
एकांशः कूटविस्तारः शालायामो द्विभागतः ॥ ६२।९१ ॥
भागः पञ्जरविस्तारो भवेदूर्ध्वमथोऽष्टधा ।
प्राग्वदेव सभाशालापञ्जराणां तु कल्पनम् ॥ ६२।९२ ॥
ऊर्ध्वे षडंशभागेन कूटविस्तार ईरितः ।
द्विभागः कोष्ठकायामो नीडं भागोर्ध्वमिष्यते ॥ ६२।९३ ॥
ऊर्ध्वे गुणांशभागेन भद्रो दण्डेन मध्यमे ।
उच्चं यद्विभजेद्धाम्नो नवत्रिंशतिसङ्ख्यया ॥ ६२।९४ ॥
सार्धन्द्व्यंशमधिष्ठानं पञ्चांशः पाददैर्घ्यतः ।
तस्यार्धप्रस्तरोत्सेधः सत्रिपादयुगांशकैः ॥ ६२।९५ ॥
ऊर्ध्वभूम्यङ्घ्रिकोत्सेधः सपादद्व्यंशमंशकम् ।
जङ्घा च द्विगुणं चोर्ध्वे द्व्यंशेन प्रस्तरोदयः ॥ ६२।९६ ॥
भागाधिकचतुर्भाग उपरिष्टात्स्वतुङ्गता ।
स्यात् सत्रिपादभागेन प्रस्तरो वेदिकांशतः ॥ ६२।९७ ॥
गलोच्चमश्विनीभागं सार्धवेदैः शिरो भवेत् ।
शेषभागैः शिखामानं हर्म्यान्तं चतुरश्रकम् ॥ ६२।९८ ॥
रविसङ्ख्या भवेत्सौष्ठिकोष्ठं तद्वत्सपञ्जरम् ।
शिखरे वेदनासाः स्युरल्पनास्यस्तथैव च ॥ ६२।९९ ॥
सर्वालङ्कारसंयुक्तमेतद्धर्म्यं सुभद्रकम् ।
तदेव कूटकोष्ठादि मध्येमध्ये द्विजोत्तमाः ॥ ६२।१०० ॥
मस्तकं मण्डलाभं स्याद्वृत्ताभं स्यात्तथा शिरः ।
विस्तारार्धप्रमाणेन गर्भगेहसमन्वितम् ॥ ६२।१०१ ॥
शेषं द्व्यंशावृता पिण्डी तद्वदन्धारहारकौ ।
नानामसूरकाद्यङ्गं नाम्नेदं श्रीविशालकम् ॥ ६२।१०२ ॥
(पृ० १६१)
पञ्चादशकरव्यासे नवधा भाजिते सति ।
गर्भगेहं त्रिभिर्भागैर्गृहपिण्डस्तदंशतः ॥ ६२।१०३ ॥
अलिन्दं परित्ॐऽशेन खण्डहर्म्यमथांशतः ।
कूटकोष्ठकनीडानां भागेनैकेन विस्तरः ॥ ६२।१०४ ॥
विस्तारत्रिगुणायामः स्वव्याससमनिर्गमः ।
शालामध्ये महानासी भागमध्यविनिर्गमः ॥ ६२।१०५ ॥
भद्रकोष्ठकनीडानामन्तरार्धेन भारकम् ।
तदूर्ध्वे वसुभागे तु भागमट्टस्य विस्तरम् ॥ ६२।१०६ ॥
कोष्ठकस्य तु विस्तारस्तथैव परिकीर्तितः ।
आयामस्तु द्विभागेन तन्मध्ये नीडमंशतः ॥ ६२।१०७ ॥
तदूर्ध्वे रसभागे तु कूटमंशेन कोष्ठकम् ।
विस्तारद्विगुणायामस्तन्मध्येऽर्धेन पञ्जरम् ॥ ६२।१०८ ॥
ऊर्ध्वभूमिश्चतुर्भागो मध्ये दण्डेन निर्गतः ।
अष्टाश्रं कर्णकूटं स्यात्कोष्ठकं कर्करीकृतम् ॥ ६२।१०९ ॥
महाशिखरमष्टाश्रमष्टनास्या विभूषितम् ।
कूटकोष्ठकनीडानां सङ्ख्या पूर्ववदीरिता ॥ ६२।११० ॥
अस्याप्युत्सेधभागं तु पूर्ववत्परिकल्पयेत् ।
भद्रकोष्ठमिदं नाम्ना वेदभौमं दिवौकसाम् ॥ ६२।१११ ॥
सप्तादशकरव्यासं दशभागैर्विभाजयेत् ।
नालिभेदं चतुर्भागं भागेनान्धारिकां नयेत् ॥ ६२।११२ ॥
परितोऽलिन्द्रमंशेन परितः खण्डहर्म्यकम् ।
कूटकोष्ठकनीडञ्च भागेन परिकल्पयेत् ॥ ६२।११३ ॥
शालायामो द्विभागः स्याद्धारः शेषेण कीर्तिता ।
जलं विहाय चोर्ध्वे च वसुभागैर्विभाजिते ॥ ६२।११४ ॥
भागेन सौष्ठि भागाभ्यां शाला भागेन पञ्जरम् ।
तदूर्ध्वे रसभागे तु भागः सौष्ठिकविस्तरः ॥ ६२।११५ ॥
द्विगुणः कोष्ठकायामो हारायां क्षुद्रपञ्जरम् ।
तदूर्ध्वं तु त्रिभागे तु मध्याद्दण्डेन निर्गमः ॥ ६२।११६ ॥
चतुरश्रमधिष्ठानमष्टाश्रं मस्तकं गलम् ।
रविकोष्ठं तथा शालापञ्जराणामथाष्टकम् ॥ ६२।११७ ॥
लम्बपञ्जरमष्टौ हि क्षुद्रनीडं द्विरष्टकम् ।
गलनासाष्टसंयुक्तं कोष्ठकं किञ्चिदुन्नतम् ॥ ६२।११८ ॥
नानामसूरकस्तम्भवेदिजालादिमण्डितम् ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ ६२।११९ ॥
स्वस्तिकाकारसंयुक्तं नासिकाभिश्च संयुतम् ।
पूर्ववत्तुङ्गभागं स्यादेतन्नाम्ना जलावहम् ॥ ६२।१२० ॥
नवपङ्क्तिकरव्यासे दशभागविभाजिते ।
गर्भवासश्चतुर्भागो भागेन गृहपिण्डिका ॥ ६२।१२१ ॥
कन्धरं परित्ॐऽशेन परितः खण्डहर्म्यकम् ।
कूटकोष्ठकनीडानां विस्तारो भाग एव हि ॥ ६२।१२२ ॥
द्व्यंशेन कोष्ठकायामो हारा भागेन सम्मतम् ।
कूटकोष्ठं च नीडं चावान्तरप्रस्तरान्वितम् ॥ ६२।१२३ ॥
जलस्थलं विहायोर्ध्वे चाष्टांशं सौष्ठिकं भवेत् ।
तथा द्विगुणशाला स्यात्तयोर्मध्ये तु पञ्जरम् ॥ ६२।१२४ ॥
तदूर्ध्वे रसभागे तु कूण्टकोष्ठादि पूर्ववत् ।
विजयस्य तथा प्रोक्तं शेषमूर्ध्वे तु योजयेत् ॥ ६२।१२५ ॥
कूटकोष्ठादि सर्वाङ्गं पूर्ववत्सङ्ख्यया विदुः ।
महानीडं द्विरष्ट स्युर्नाम्नैतद्भद्रकूटकम् ॥ ६२।१२६ ॥
तदेवान्यदलङ्कारं कोष्ठमध्ये तु भद्रकम् ।
प्रतिग्रीवशिरोयुक्तमेतन्नाम्ना मनोहरम् ॥ ६२।१२७ ॥ ६२।
तदेवान्यदलङ्कारं वेदाश्रं कन्धरं शिरः ।
नाम्नावन्तिकमित्युक्तं शम्भोर्मन्दिरमुत्तमम् ॥ ६२।१२८ ॥
त्रिसप्तहस्तविस्तारे दशभागविभाजिते ।
वेदांशो गर्भगेहं स्यादंशेन गृहपिण्डिका ॥ ६२।१२९ ॥
अन्धारांशेन भागेन मङ्गलाङ्गं प्रकल्पयेत् ।
कूटकोष्ठकनीडम् च पूर्ववत्परिकल्पयेत् ॥ ६२।१३० ॥
(पृ० १६२)
मण्डितं वेदिकाशालतोरणप्रमुखैरपि ।
जलस्थलं विहायोर्ध्वे वसुभागैर्विभाजिते ॥ ६२।१३१ ॥
शालासौष्ठिकनीडाद्यं पूर्ववत्परिकल्पयेत् ।
ऊर्ध्वभूमिः षडंशा स्याद्भागः सौष्ठिकविस्तरः ॥ ६२।१३२ ॥
शालायामो द्विभागेन नीडतारोर्ध्वभागतः ।
ऊर्ध्वभूमिद्विभागेन मध्यभद्रो विधीयते ॥ ६२।१३३ ॥
दण्डेन निर्गमस्तस्य सार्धदण्डद्वयेन तु ।
ग्रीवानाडी विशाला स्याद्वृत्तवेदिसमन्वितम् ॥ ६२।१३४ ॥
वृत्ताभशिखरग्रीवमहानासीचतुष्टयम् ॥
अल्पाष्टनालिकोपेतमस्य मूलतले द्विजाः ॥ ६२।१३५ ॥
समं चोत्तुङ्गशिखरं कूटकोष्ठकनीडकम् ।
उत्तङ्गशालाद्वितलं मूले त्वधिककूटकम् ॥ ६२।१३६ ॥
चतुरश्राष्टवृत्ताभाः कर्णकूटास्तु मूलतः ।
नानामसूरकस्तम्भवेदिकाजालतोरणम् ॥ ६२।१३७ ॥
नानासुखावहं प्रोक्तं देवानामास्पदं मतम् ।
पञ्चभौममहं वक्ष्ये श्रूयतां मुनिपुङ्गवाः ॥ ६२।१३८ ॥
तुङ्गे षष्ठाष्टभागे तु सत्रिभागं द्विभागिकः ।
मसूरकोच्चमाख्यातं पादः सार्धशरैर्भवेत् ॥ ६२।१३९ ॥
सार्धद्विभागैर्बिम्बः स्यात्साङ्घ्रिभूतैश्च पादकः ।
भागद्वयेन सार्धेन प्रस्तरः परिकीर्तितः ॥ ६२।१४० ॥
पञ्चभागेन पादः स्यान्मञ्चस्याङ्घ्रिर्द्विपादभाक् ।
त्रिपादवेदैस्तलिपो द्विभागः प्रस्तरो भवेत् ॥ ६२।१४१ ॥
सार्धवेदैः पुनः पादः सत्रिपादांशकेन च ।
प्रस्तरोदय इष्टः स्याद्वितर्दिश्चैकभागतः ॥ ६२।१४२ ॥
द्विभागः कन्धरः प्रोक्तः साङ्घ्रिवेदैः शिरो भवेत् ।
विभागः कुम्भ इत्युक्तो भागाश्चैवं प्रकीर्तिताः ॥ ६२।१४३ ॥
रसादिरुद्रभागेन पञ्चभौमं प्रकल्पयेत् ।
षट्तलाद्यं क्रमाद्वक्ष्ये पञ्चभूम्यंशकैः सह ॥ ६२।१४४ ॥
पञ्चभौमस्य धाम्नः स्यान्मूलधामोर्ध्वतः क्रमात् ।
प्रस्तरस्तदधिष्ठानं मानेनैव प्रकीर्तितम् ॥ ६२।१४५ ॥
रसभागेन पादः स्यादधिष्ठानत्रिभागतः ।
षड्भौममेवमाख्यातं प्रायो विस्तारभागयुक् ॥ ६२।१४६ ॥
तदधः सार्धसप्तांशैः सपादगुणभागकैः ।
स्तम्भं मसूरकं कुर्यात्तारे रुद्रार्कभाजिते ॥ ६२।१४७ ॥
सप्तभौममिदं ख्यातं विमानं सार्वदेशिकम् ।
तदधो मुनिमिः सार्धं गुणांशैः पादकुट्टिमौ ॥ ६२।१४८ ॥
धर्मरुद्रार्कभागैस्तु त्रयोदशविभागकैः ।
अष्टभौममिदं प्रोक्तमेवं प्राज्ञैर्मुनीश्वराः ॥ ६२।१४९ ॥
तदधः सार्धसप्तांशैः सत्रिभागाग्निभागिके ।
स्तम्भं च तलिपं कुर्यात्तारेऽंशाः प्रागुदीरिताः ॥ ६२।१५० ॥
एवं नवतलं प्रोक्तं दशभौममिहोच्यते ।
तदधोऽष्टयुगांशैस्तु पादोऽधिष्ठानमिष्यते ॥ ६२।१५१ ॥
तारे पूर्वोक्तभागाः स्युर्मनुभागं तु वा मतम् ।
तदधः सार्धवस्वंशैः सपादयुगभागिके ॥ ६२।१५२ ॥
पादं मसूरकं कुर्याद्भागानष्टादशान्तकान् ।
पूर्वोक्तं कल्पयेदेवमेकादशतलं मतम् ॥ ६२।१५३ ॥
तदधो गृहनन्दांशैः पादांशतलकं भवेत् ।
तारे षोडशभागादि यावदर्कद्वयांशकम् ॥ ६२।१५४ ॥
सङ्कल्प्य तत्र कूटादीन् योजयेद्देशिकोत्तमः ।
द्वित्रिवेदेषु षड्भागैः प्रागुक्तांशैस्तु वा गृहम् ॥ ६२।१५५ ॥
गृहपिण्ड्यलिन्द्रतारांश्च गर्भभागाद्बहिर्नयेत् ।
प्रासादस्य तु विस्तारं कृत्वा षोडशभागिकम् ॥ ६२।१५६ ॥
वेदभागैर्गृहं प्रोक्तं पिण्डीभागेन निर्मितम् ।
पञ्चालिन्द्रं च षट्कुड्यं प्रत्येकं चार्धभागतः ॥ ६२।१५७ ॥
अथवायामविस्तारे चतुर्विंशतिभाजिते ।
गर्भगेहो द्विभागेन गृहपिण्डस्तु भागतः ॥ ६२।१५८ ॥
(पृ० १६३)
पञ्चालिन्द्रं तथा कुड्यं योजयेद्भागतो बहिः ।
कूटकोष्ठादिसर्वाङ्गं पूर्ववत्परिकल्पयेत् ॥ ६२।१५९ ॥
प्रासादस्य तु विस्तारं कृत्वा त्रिनवभागिकम् ।
पञ्चभिर्गर्भगेहं स्याच्छेषं पूर्ववदीरितम् ॥ ६२।१६० ॥
अन्येष्वपि च भागेषु समूह्यैवं प्रकल्पयेत् ।
एवं द्वादशभौमं स्यात्तदूर्ध्वमधुनोच्यते ॥ ६२।१६१ ॥
पूर्वमानादधिष्ठाने पादमानमथार्धकम् ।
स्तम्भमाने तु युक्त्यैव योजयेदधिकं गुरुः ॥ ६२।१६२ ॥
आषोडशतलं सम्यगारभ्य द्वादशक्ष्मकम् ।
अंशाद्विंशति भागादीनेकत्रिंशांशकावधि ॥ ६२।१६३ ॥
कल्पयेद्यजमानेच्छावशेनैव विशेषतः ।
भागार्धेनाथवालिन्दं शेषं कुड्येषु योजयेत् ॥ ६२।१६४ ॥
युग्मायुग्मकरैर्वाथ कारयेदेवमेव तु ।
युग्मांशे तु विभागे वा कूटव्यासा द्विरायता ॥ ६२।१६५ ॥
शाला तु चतुरंशैर्वा युग्मायुग्मांशकैस्तथा ।
तलमेकं भवेद्ग्रासं खण्डहर्म्यञ्चतुस्तले ॥ ६२।१६६ ॥
द्विचतुःपञ्चषट्सप्तभूमौ ग्रासं भवेद्द्विजाः ।
त्रितलं चाष्टभौमे तु नवपङ्क्तितले तथा ॥ ६२।१६७ ॥
चतुष्पञ्चतलव्यासो रुद्रादित्यतले भवेत् ।
षट्तलं वसुभौमे च चतुर्दशतले तथा ॥ ६२।१६८ ॥
सप्तभौमं समाख्यातं षोडशाष्टैकभूमिकम् ।
मूलतः कूटकोष्ठादि कर्तुं सम्यङ्महीतले ॥ ६२।१६९ ॥
तले गृहे तु कूटादीन् यथायुक्त्या प्रयोजयेत् ।
कूटशालादिभिर्भेदैः पूर्वमाख्या यथोदिता ॥ ६२।१७० ॥
धामस्थैर्भेदकैर्युक्ता व्याख्या पूर्ववदीरिता ।
॥ इति कामिकाख्ये महातन्त्रे एकभूम्यादिलक्षणविधिर्नाम षष्टिः
पटलः ॥